शतपथब्राह्मणम्/काण्डम् २/अध्यायः ५/ब्राह्मण २

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


वरुणप्रघासपर्व
२.५.२.

वैश्वदेवेन वै प्रजापतिः । प्रजाः ससृजे ता अस्य प्रजाः सृष्टा वरुणस्य यवाञ्जक्षुर्वरुण्यो ह वा अग्रे यवस्तद्यन्न्वेव वरुणस्य यवान्प्रादस्तस्माद्वरुणप्रघासा नाम - २.५.२.१

ता वरुणो जग्राह । ता वरुणगृहीताः परिदीर्णा अनत्यश्च प्राणत्यश्च शिश्यिरे च निषेदुश्च प्राणोदानौ हैवाभ्यो नापचक्रमतुरथान्याः सर्वा देवता अपचक्रमुस्तयोर्हैवास्य हेतोः प्रजा न पराबभूवुः - २.५.२.२

ता एतेन हविषा प्रजापतिरभिषज्यत् । तद्याश्चैवास्य प्रजा जाता आसन्याश्चाजातास्ता उभयीर्वरुणपाशात्प्रामुञ्चत्ता अस्यानमीवा अकिल्बिषाः प्रजाः प्राजायत - २.५.२.३

अथ यदेष एतैश्चतुर्थे मासि यजते । तन्नाह न्वेवैतस्य तथा प्रजा वरुणो गृह्णातीति देवा अकुर्वन्निति न्वेवैष एतत्करोति याश्च न्वेवास्य प्रजा जाता याश्चाजातास्ता उभयीर्वरुणपाशात्प्रमुञ्चति ता अस्यानमीवा अकिल्विषाः प्रजाः प्रजायते तस्माद्वा एष एतैश्चतुर्थे मासि यजते - २.५.२.४

तद्वै द्वे वेदी द्वावग्नी भवतः । तद्यद्द्वे वेदी द्वावग्नी भवतस्तदुभयत एवैतद्वरुणपाशात्प्रजाः प्रमुञ्चतीतश्चोर्ध्वा इतश्चावाचीस्तस्माद्द्वे वेदी द्वावग्नी भवतः - २.५.२.५

स उत्तरस्यामेव वेदौ । उत्तरवेदिमुपकिरति न दक्षिणस्यां क्षत्रं वै वरुणो विशो मरुतः क्षत्रमेवैतद्विश उत्तरे करोति तस्मादुपर्यासीनं क्षत्रियमधस्तादिमाः प्रजा उपासते तस्मादुत्तरस्यामेव वेदा उत्तरवेदिमुपकिरति न दक्षिणस्याम् - २.५.२.६

अथैतान्येव पञ्च हवींषि भवन्ति । एतैर्वै हविर्भिः प्रजापतिः प्रजा असृजतैतैरुभयतो वरुणपाशात्प्रजाः प्रामुञ्चदितश्चोर्ध्वा इतश्चावाचीस्तस्माद्वा एतानि पञ्च हवींषि भवन्ति - २.५.२.७

अथैन्द्राग्नो द्वादशकपालः पुरोडाशो भवति । प्राणोदानौ वा इन्द्राग्नी तद्यथा पुण्यं चक्रुषे पुण्यं कुर्यादेवं तत्तयोर्हैवास्य हेतोः प्रजा न पराबभूवुस्तत्प्राणोदानाभ्यामेवैतत्प्रजा भिषज्यति प्राणोदानौ प्रजासु दधाति तस्मादैन्द्राग्नौ द्वादशकपालः पुरोडाशो भवति - २.५.२.८

उभयत्र पयस्ये भवतः । पयसो वै प्रजाः सम्भवन्ति पयसः सम्भूतास्तद्यत एव सम्भूता यतः सम्भवन्ति तत एवैतदुभयतो वरुणपाशात्प्रजाः प्रमुञ्चतीतश्चोर्ध्वा इतश्चावाचीस्तस्मादुभयत्र पयस्ये भवतः - २.५.२.९

वारुण्युत्तरा भवति । वरुणो ह वा अस्य प्रजा अगृह्णात्तत्प्रत्यक्षं वरुणपाशात्प्रजाः प्रमुञ्चति मारुती दक्षिणाजामितायै न्वेव मारुती भवति जामि ह कुर्याद्यदुभे वारुण्यौ स्यातामतो ह वा अस्य दक्षिणतो मरुतः प्रजा अजिघांसंस्तानेतेन भागेनाशमयत्तस्मान्मारुती दक्षिणा - २.५.२.१०

तयोरुभयोरेव करीराण्यावपति । कं वै प्रजापतिः प्रजाभ्यः करीरैरकुरुत कम्वेवैष एतत्प्रजाभ्यः कुरुते - २.५.२.११

तयोरुभयोरेव शमीपलाशान्यावपति । शं वै प्रजापतिः प्रजाभ्यः शमीपलाशैरकुरुत शम्वेवैष एतत्प्रजाभ्यः कुरुते - २.५.२.१२

अथ काय एककपालः पुरोडाशो भवति । कं वै प्रजापतिः प्रजाभ्यः कायेनैककपालेन पुरोडाशेनाकुरुत कम्वेवैष एतत्प्रजाभ्यः कायेनैककपालेन पुरोडाशेन कुरुते तस्मात्काय एककपालः पुरोडाशो भवति - २.५.२.१३

अथ पूर्वेद्युः । अन्वाहार्यपचनेऽतुषानिव यवान् कृत्वा तानीषदिवोपतप्य तेषां करम्भपात्राणि कुर्वन्ति यावन्तो गृह्याः स्युस्तावन्त्येकेनातिरिक्तानि - २.५.२.१४

तत्रापि मेषं च मेषीं च कुर्वन्ति । तयोर्मेषे च मेष्यां च यद्यनैडकीरूर्णा विन्देत्ताः प्रणिज्य निश्लेषयेद्यद्यु अनैडकीर्न विन्देदथो अपि कुशोर्णा एव स्युः - २.५.२.१५

तद्यन्मेषश्च मेषी च भवतः । एष वै प्रत्यक्षं वरुणस्य पशुर्यन्मेषस्तत्प्रत्यक्षं वरुणपाशात्प्रजाः प्रमुञ्चति यवमयौ भवतो यवान्हि जक्षुषीर्वरुणोऽगृह्णान्मिथुनौ भवतो मिथुनादेवैतद्वरुणपाशात्प्रजाः प्रमुञ्चति - २.५.२.१६

स उत्तरस्यामेव पयस्यायां मेषीमवदधाति । दक्षिणस्यां मेषमेवमिव हि मिथुनं कॢप्तमुत्तरतो हि स्त्री पुमांसमुपशेते - २.५.२.१७

स सर्वाण्येव हवींष्यध्वर्युः । उत्तरस्यां वेदावासादयत्यथैतामेव पयस्याम्प्रतिप्रस्थाता दक्षिणस्यां वेदावासादयति - २.५.२.१८

आसाद्य हवींष्यग्निं मन्थति । अग्निम्मन्थित्वानुप्रहृत्याभिजुहोत्यथाध्वर्युरेवाहाग्नये समिध्यमानायानुब्रूहीति ता उभावेवेध्मावभ्याधत्त उभौ समिधौ परिशिंष्ट उभौ पूर्वावाघारावाघारयतोऽथाध्वर्युरेवाहाग्निमग्नीत्सम्मृड्ढीत्यसम्मृष्टमेव भवति सम्प्रेषितम् - २.५.२.१९

अथ प्रतिप्रस्थाता प्रतिपरैति । स पत्नीमुदानेष्यन्पृच्छति केन चरसीति वरुण्यं वा एतत्स्त्री करोति यदन्यस्य सत्यन्येन चरत्यथो नेन्मेऽन्तःशल्या जुहवदिति तस्मात्पृच्छति निरुक्तं वा एनः कनीयो भवति सत्यं हि भवति तस्माद्वेव पृच्छति सा यन्न प्रतिजानीत ज्ञातिभ्यो हास्यै तदहितं स्यात् - २.५.२.२०

तां वाचयति । [१]प्रघासिनो हवामहे मरुतश्च रिशादसः करम्भेण सजोषस इति यथा पुरोऽनुवाक्यैवमेषैतयैवैनानेतेभ्यः पात्रेभ्यो ह्वयति - २.५.२.२१

तानि वै प्रतिपुरुषम् । यावन्तो गृह्याः स्युतावन्त्येकेनातिरिक्तानि भवन्ति तत्प्रतिपुरुषमेवैतदेकैकेन या अस्य प्रजा जातास्ता वरुणपाशात्प्रमुञ्चत्येकेनातिरिक्तानि भवन्ति तद्या एवास्य प्रजा अजातास्ता वरुणपाशात्प्रमुञ्चति तस्मादेकेनातिरिक्तानि भवन्ति - २.५.२.२२

पात्राणि भवन्ति पात्रेषु ह्यशनमश्यते यवमयानि भवन्ति यवान्हि जक्षुषीर्वरुणोऽगृह्णाच्छूर्पेण जुहोति शूर्पेण ह्यशनं क्रियते पत्नी जुहोति मिथुनादेवैतद्वरुणपाशात्प्रजाः प्रमुञ्चति - २.५.२.२३

पुरा यज्ञात्पुराहुतिभ्यो जुहोति । अहुतादो वै विशो विशो वै मरुतो यत्र वै प्रजापतेः प्रजा वरुणगृहीताः परिदीर्णा अनत्यश्च प्राणत्यश्च शिश्यिरे च निषेदुश्च तद्धासां मरुतः पाप्मानं विमेथिरे तथो एवैतस्य प्रजानां मरुतः पाप्मानं विमथ्नते तस्मात्पुरा यज्ञात्पुराहुतिभ्यो जुहोति - २.५.२.२४

स वै दक्षिणेऽग्नौ जुहोति । यद्ग्रामे यदरण्य इति ग्रामे वा ह्यरण्ये वैनः क्रियते यत्सभायां यदिन्द्रिय इति यत्सभायामिति यन्मानुष इति तदाह यदिन्द्रिय इति यद्देवत्रेति तदाह यदेनश्चकृमा वयमिदं तदवयजामहे स्वाहेति यत्किं च वयमेनश्चकृमेदं वयं तस्मात्सर्वस्मात्प्रमुच्यामह इत्येवैतदाह - २.५.२.२५

अथैन्द्रीं मरुत्वतीं जपति । यत्र वै प्रजापतेः प्रजानां मरुतः पाप्मानं विमेथिरे तद्धेक्षां चक्र इमे ह मे प्रजा न विमथ्नीरन्निति - २.५.२.२६

स एतामैन्द्रीं मरुत्वतीमजपत् । क्षत्रं वा इन्द्रो विशो मरुतः क्षत्रं वै विशो निषेद्धा निषिद्धा असन्निति तस्मादैन्द्री - २.५.२.२७

मो षू णः । इन्द्रात्र पृत्सु देवैरस्ति हि ष्मा ते शुष्मिन्नवयाः महश्चिद्यस्य मीढुषो यव्या हविष्मतो मरुतो वन्दते गीरिति - २.५.२.२८

अथैनां वाचयति । अक्रन् कर्म कर्मकृत इत्यक्रन्हि कर्म कर्मकृतः सह वाचा मयोभुवेति सह हि वाचाक्रन्देवेभ्यः कर्म कृत्वेति देवेभ्यो हि कर्म कृत्वास्तम्प्रेत सचाभुव इत्यन्यतो ह्योढया सह भवन्ति तस्मादाह सचाभुव इत्यस्तम्प्रेतेति जघनार्धो वा एष यज्ञस्य यत्पत्नी तामेतत्प्राचीं यज्ञं प्रासीषदद्गृहा वा अस्तं गृहाः प्रतिष्ठा तद्गृहेष्वेवैनामेतत्प्रतिष्ठायां प्रतिष्ठापयति - २.५.२.२९

प्रतिपराणीयोदैति प्रतिप्रस्थाता । सम्मृजन्त्यग्निं सम्मृष्टेऽग्नौ ता उभावेवोत्तरावाघारावाघारयतोऽथाध्वर्युरेवाश्राव्य होतारं प्रवृणीते प्रवृतो होतोत्तरस्यै वेदेर्होतृषदन उपविशत्युपविश्य प्रसौति ता उभावेव प्रसूतौ स्रुच आदायातिक्रामतोऽतिक्रम्याश्राव्याध्वर्युरेवाह समिधो यजेति यज यजेति चतुर्थेचतुर्थे प्रयाजे समानयमानौ नवभिः प्रयाजैश्चरतः - २.५.२.३०

अथाध्वर्युरेवाहाग्नयेऽनुब्रूहीति । आग्नेयमाज्यभागं ता उभावेव चतुराज्यस्यावदायातिक्रामतोऽतिक्रम्याश्राव्याध्वर्युरेवाहाग्निं यजेति ता उभावेव वषट्कृते जुहुतः - २.५.२.३१

अथाध्वर्युरेवाह सोमायानुब्रूहीति । सौम्यमाज्यभागं ता उभावेव चतुराज्यस्यावदायातिक्रामतोऽतिक्रम्याश्राव्याध्वर्युरेवाह सोमं यजेति ता उभावेव वषट्कृते जुहुतः - २.५.२.३२

तद्यत्किं च वाचा कर्तव्यम् । अध्वर्युरेव तत्करोति न प्रतिप्रस्थाता तद्यदध्वर्युरेवाश्रावयतीहैव यत्र वषट्क्रियते - २.५.२.३३

कृतानुकर एव प्रतिप्रस्थाता । क्षत्रं वै वरुणो विशो मरुतस्तत्क्षत्रायैवैतद्विशं कृतानुकरामनुवर्त्मानं करोति प्रत्युद्यामिनीं ह क्षत्राय विशं कुर्याद्यदपि प्रतिप्रस्थाताऽऽश्रावयेत्तस्मान्न प्रतिप्रस्थाताऽऽश्रावयति - २.५.२.३४

प्राणावेव प्रतिप्रस्थाता । स्रुचौ कृत्वोपास्तेऽथाध्वर्युरेवैतैर्हविर्भिः प्रचरत्याग्नेयेनाष्टाकपालेन पुरोडाशेन सौम्येन चरुणा सावित्रेण द्वादशकपालेन वाष्टाकपालेन वा पुरोडाशेन सारस्वतेन चरुणा पौष्णेन चरुणैन्द्राग्नेन द्वादशकपालेन पुरोडाशेन - २.५.२.३५

अथैताभ्यां पयस्याभ्यां प्रचरिष्यन्तौ विपरिहरतः । स यो मेषो भवति मारुत्यां तं वारुण्यामवदधाति या मेषी भवति वारुण्यां ताम्मारुत्यामवदधाति तद्यदेवं विपरिहरतः क्षत्रं वै वरुणो वीर्यम्पुमान्वीर्यमेवैतत्क्षत्रे धत्तोऽवीर्या वै स्त्री विशो मरुतस्तदवीर्यामेवैतद्विशं कुरुतस्तस्मादेवं विपरिहरतः - २.५.२.३६

अथाध्वर्युरेवाह वरुणायानुब्रूहीति । स उपस्तृणीत आज्यमथास्यै वारुण्यै पयस्यायै द्विरवद्यति सोऽन्यतरेणावदानेन सह मेषमवदधात्यथोपरिष्टादाज्यस्याभिघारयति प्रत्यनक्त्यवदाने अतिक्रामत्यतिक्रम्याश्राव्याह वरुणं यजेति वषट्कृते जुहोति - २.५.२.३७

सव्ये पाणावध्वर्युः । स्रुचौ कृत्वा दक्षिणेन प्रतिप्रस्थातुर्वा सोऽन्वारभ्याह मरुद्भ्योऽनुब्रूहीत्युपस्तृणीत आज्यं प्रतिप्रस्थाताथास्यै मारुत्यै पयस्यायै द्विरवद्यति सोऽन्यतरेणावदानेन सह मेषीमवदधात्यथोपरिष्टादाज्यस्याभिघारयति प्रत्यनक्त्यवदाने अतिक्रामत्यथाध्वर्युरेवाश्राव्याह मरुतो यजेति वषट्कृते जुहोति - २.५.२.३८

अथाध्वर्युरेव कायेन । एककपालेन पुरोडाशेन प्रचरति कायेनैककपालेन पुरोडाशेन प्रचर्याध्वर्युरेवाहाग्नये स्विष्टकृतेऽनुब्रूहीति स सर्वेषामेव हविषामध्वर्युः सकृत्सकृदवद्यत्यथैतस्या एव पयस्यायै प्रतिप्रस्थाता सकृदवद्यत्यथोपरिष्टाद्द्विराज्यस्याभिघारयतस्ता उभावेवातिक्रामतोऽतिक्रम्याश्राव्याध्वर्युरेवाहाग्निं स्विष्टकृतं यजेति ता उभावेव वषट्कृते जुहुतः - २.५.२.३९

अथाध्वर्युरेव प्राशित्रमवद्यति । इडां समवदाय प्रतिप्रस्थात्रेऽतिप्रजिहीते तत्रापि प्रतिप्रस्थाता मारुत्यै पयस्यायै द्विरभ्यवद्यत्यथोपरिष्टाद्द्विराज्यस्याभिघारयत्युपहूय मार्जयन्ते - २.५.२.४०

अथाध्वर्युरेवाह ब्रह्मन्प्रस्थास्यामि । समिधमाधायाग्निमग्नीत्सम्मृड्ढीति स स्रुचोरेवाध्वर्युः पृषदाज्यं व्यानयतेऽथ यदि प्रतिप्रस्थातुः पृषदाज्यम्भवति तत्स द्वेधा व्यानयत उतो तत्र पृषदाज्यं न भवति स यदेवोपभृत्याज्यं तत्स द्वेधा व्यानयते ता उभावेवातिक्रामतोऽतिक्रम्याश्राव्याध्वर्युरेवाह देवान्यजेति यज यजेति चतुर्थेचतुर्थेऽनुयाजे समानयमानौ नवभिरनुयाजैश्चरतस्तद्यन्नव प्रयाजं भवति नवानुयाजं तदुभयत एवैतद्वरुणपाशात्प्रजाः प्रमुञ्चतीतश्चोर्ध्वा इतश्चावाचीस्तस्मान्नवप्रयाजं भवति नवानुयाजम् - २.५.२.४१

ता उभावेव सादयित्वा स्रुचो व्यूहतः । स्रुचो व्युह्य परिधीन्त्समज्य परिधिमभिपद्याश्राव्याध्वर्युरेवाहेषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकायेति सूक्तवाकं होता प्रतिपद्यतेऽथैता उभावेव प्रस्तरौ समुल्लुम्पत उभावनुप्रहरत उभौ तृणे अपगृह्योपासाते यदा होता सूक्तवाकमाह - २.५.२.४२

अथाग्नीदाहानुप्रहरेति । ता उभावेवानुप्रहरत उभावात्माना उपस्पृशेते - २.५.२.४३

अथाह संवदस्वेति । अगानग्नीदगञ्छ्रावय श्रौषट् स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शं योर्ब्रूहीत्यध्वर्युरेवैतदाह ता उभावेव परिधीननुप्रहरत उभौ स्रुचः सम्प्रगृह्य स्फ्ये सादयतः - २.५.२.४४

अथाध्वर्युरेव प्रतिपरेत्य । पत्नीः संयाजयत्युपास्त एव प्रतिप्रस्थाता पत्नीः संयाज्योदैत्यध्वर्युः - २.५.२.४५

त्रीणि समिष्टयजूंषि जुहोति । तूष्णीमेव प्रतिप्रस्थाता स्रुचं प्रगृह्णाति तद्ये वैश्वदेवेन यजमानयोर्वाससी परिहिते स्यातां ते एवात्रापि स्यातामथास्यै वारुण्यै पयस्यायै क्षामकर्षमिश्रमादायावभृथं यन्ति वरुण्यं वा एतन्निर्वरुणतायै तत्र न साम गीयते न ह्यत्र साम्ना किं चन क्रियते तूष्णीमेवेत्याभ्यवेत्योपमारयति - २.५.२.४६

अवभृथ निचुम्पुण । निचेरुरसि निचुम्पुणः अव देवैर्देवकृतमेनोऽयासिषमव मर्त्यैर्मर्त्यकृतं पुरुराव्णो देव रिषस्पाहीति कामं हैते यस्मै कामयेत तस्मै दद्यान्न हि दीक्षितवसने भवतः स यथाहिस्त्वचो निर्मुच्येतैवं सर्वस्मात्पाप्मनो निर्मुच्यते - २.५.२.४७

अथ केशश्मश्रूप्त्वा । समारोह्याग्नी उदवसायेव ह्येतेन यजते न हि तदवकल्पते यदुत्तरवेदावग्निहोत्रं जुहुयात्तस्मादुदवस्यति गृहानित्वा निर्मथ्याग्नी पौर्णमासेन यजत उत्सन्नयज्ञ इव वा एष यच्चातुर्मास्यान्यथैष कॢप्तः प्रतिष्ठितो यज्ञो यत्पौर्णमासं तत्कॢप्तेनैवैतद्यज्ञेनान्ततः प्रतितिष्ठति तस्मादुदवस्यति - २.५.२.४८

  1. वासं ३.४४