सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् २/अध्यायः ५/ब्राह्मण १

विकिस्रोतः तः


२.५.१.

प्रजापतिर्ह वा इदमग्र एक एवास । स ऐक्षत कथं नु प्रजायेयेति सोऽश्राम्यत्स तपोऽतप्यत स प्रजा असृजत ता अस्य प्रजाः सृष्टाः पराबभूवुस्तानीमानि वयांसि पुरुषो वै प्रजापतेर्नेदिष्ठं द्विपाद्वा अयं पुरुषस्तस्माद्द्विपादो वयांसि - २.५.१.१

स ऐक्षत प्रजापतिः । यथा न्वेव पुरैकोऽभूवमेवमु न्वेवाप्येतर्ह्येक एवास्मीति स द्वितीयाः ससृजे ता अस्य परैव बभूवुस्तदिदं क्षुद्रं सरीसृपं यदन्यत्सर्पेभ्यस्तृतीयाः ससृज इत्याहुस्ता अस्य परैव बभूवुस्त इमे सर्पा एता ह न्वेव द्वयीर्याज्ञवल्क्य उवाच त्रयीरु तु पुनर्ऋचा - २.५.१.२

सोऽर्चञ्छ्राम्यन्प्रजापतिरीक्षां चक्रे । कथं नु मे प्रजाः सृष्टाः पराभवन्तीति स हैतदेव ददर्शानशनतया वै मे प्रजाः पराभवन्तीति स आत्मन एवाग्रे स्तनयोः पय आप्याययां चक्रे स प्रजा असृजत ता अस्य प्रजाः सृष्टा स्तनावेवाभिपद्यतास्ततः सम्बभूवुस्ता इमा अपराभूतः - २.५.१.३

तस्मादेतदृषिणाभ्यनूक्तम् । प्रजा ह तिस्रो अत्यायमीयुरिति तद्याः पराभूतास्ता एवैतदभ्यनूक्तं न्यन्या अर्कमभितो विविश्र इत्यग्निर्वा अर्कस्तद्या इमाः प्रजा अपराभूतास्ता अग्निमभितो निविष्टास्ता एवैतदभ्यनूक्तम् - २.५.१.४

महद्ध तस्थौ भुवनेष्वन्तरिति । प्रजापतिमेवैतदभ्यनूक्तं पवमानो हरित आविवेशेति दिशो वै हरितस्ता अयं वायुः पवमान आविष्टस्ता एवैषर्गभ्यनूक्ता ता इमाः प्रजास्तथैव प्रजायन्ते यथैव प्रजापतिः प्रजा असृजतेदं हि यदैव स्त्रियै स्तनावाप्यायेते ऊधः पशूनामथैव यज्जायते तज्जायते तास्ततस्तनावेवाभिपद्य सम्भवन्ति - २.५.१.५

तद्वै पय एवान्नम् । एतद्ध्यग्रे प्रजापतिरन्नमजनयत तद्वा अन्नमेव प्रजा अन्नाद्धि सम्भवन्तीदं हि यासां पयो भवति स्तनावेवाभिपद्य तास्ततः सम्भवन्त्यथ यासां पयो न भवति जातमेव ता अप्यादयन्ति तदु ता अन्नादेव सम्भवन्ति तस्माद्वन्नमेव प्रजाः - २.५.१.६

स यः प्रजाकामः । एतेन हविषा यजत आत्मानमेवैतद्यज्ञं विधत्ते प्रजापतिम्भूतम् - २.५.१.७

अङ्गुलयः
पुराणेषु अङ्गुलिविन्यासः
सामवेदे अङ्गुलिविन्यासः


स वा आग्नेयोऽष्टाकपालः पुरोडाशो भवति । अग्निर्वै देवतानां मुखम्प्रजनयिता स प्रजापतिस्तस्मादाग्नेयो भवति - २.५.१.८

[]अथ सौम्यश्चरुर्भवति । रेतो वै सोमस्तदग्नौ प्रजनयितरि सोमं रेतः सिञ्चति तत्पुरस्तान्मिथुनं प्रजननम् - २.५.१.९

अथ सावित्रः । द्वादशकपालो वाष्टाकपालो वा पुरोडाशो भवति सविता वै देवानाम्प्रसविता प्रजापतिर्मध्यतः प्रजनयिता तस्मात्सावित्रो भवति - २.५.१.१०

अथ सारस्वतश्चरुर्भवति । पौष्णश्चरुर्योषा वै सरस्वती वृषा पूषा तत्पुनर्मिथुनं प्रजननमेतस्माद्वा उभयतो मिथुनात्प्रजननात्प्रजापतिः प्रजाः ससृज इतश्चोर्ध्वा इतश्चावाचीस्तथो एवैष एतस्मादुभयत एव मिथुनात्प्रजननात्प्रजाः सृजत इतश्चोर्ध्वा इतश्चावाचीस्तस्माद्वा एतानि पञ्च हवींषि भवन्ति - २.५.१.११

अथातः पयस्याया एवायतनम् । मारुतस्तु सप्तकपालो विशो वै मरुतो देवविशस्ता हेदमनिषेद्ध्रा इव चेरुस्ताः प्रजापतिं यजमानमुपेत्योचुर्वि वै ते मथिष्यामह इमाः प्रजा या एतेन हविषा स्रक्ष्यस इति - २.५.१.१२

स ऐक्षत प्रजापतिः । परा मे पूर्वाः प्रजा अभूवन्निमा उ चेदिमे विमथ्नते न ततः किं चन परिशेक्ष्यत इति तेभ्य एतं भागमकल्पयदेतं मारुतं सप्तकपालं पुरोडाशं स एष मारुतः सप्तकपालस्तद्यत्सप्तकपालो भवति सप्त सप्त हि मारुतो गणस्तस्मान्मारुतः सप्तकपालः पुरोडाशो भवति - २.५.१.१३

तं वै स्वतवोभ्य इति कुर्यात् । स्वयं हि त एतं भागमकुर्वतोतो स्वतवोभ्यो याज्यानुवाक्ये न विन्दन्ति स उ खलु मारुत एव स्यात्स वा एष प्रजाभ्य एवाहिंसायै क्रियते तस्मान्मारुतः - २.५.१.१४

अथातः पयस्यैव । पयसो वै प्रजाः सम्भवन्ति पयसः सम्भूतास्तद्यत एव सम्भूता यतः सम्भवन्ति तदेवाभ्य एतत्करोति तद्याः पूर्वैर्हविर्भिः प्रजाः सृजते ता एतस्मात्पयस एतस्यै पयस्यायै सम्भवन्ति - २.५.१.१५

तस्यां मिथुनमस्ति । योषा पयस्या रेतो वाजिनं तस्मान्मिथुनाद्विश्वमसम्मितमनु प्राजायत तद्यदेतस्मान्मिथुनाद्विश्वमसम्मितमनु प्राजायत तस्माद्वैश्वदेवी भवति - २.५.१.१६

अथ द्यावापृथिव्य एककपालः पुरोडाशो भवति । एतैर्वै हविर्भिः प्रजापतिः प्रजाः सृष्ट्वा ता द्यावापृथिवीभ्यां पर्यगृह्णात्ता इमा द्यावापृथिवीभ्यां परिगृहीतास्तथो एवैष एतद्य एतैर्हविर्भिः प्रजाः सृजते ता द्यावापृथिवीभ्यां परिगृह्णाति तस्माद्द्यावापृथिव्य एककपालः पुरोडाशो भवति - २.५.१.१७

अथात आवृदेव । नोपकिरन्त्युत्तरवेदिं विसृष्टमसत्सर्वमसद्वैश्वदेवमसदिति त्रेधा बर्हिः संनद्धं भवति तत्पुनरेकधैतद्धि प्रजननस्य रूपम्प्रजननमु हीदं पिता माता यज्जायते तत्तृतीयं तस्मात्त्रेधा सत्पुनरेकधा प्रस्व उपसंनद्धा भवन्ति तं प्रस्तरं गृह्णाति प्रजननमु हीदम्प्रजननमु हि प्रस्वस्तस्मात्प्रसूः प्रस्तरं गृह्णाति - २.५.१.१८

आसाद्य हवींष्यग्निं मन्थन्ति । अग्निं ह वै जायमानमनु प्रजापतेः प्रजा जज्ञिरे तथो एवैतस्याग्निमेव जायमानमनु प्रजा जायन्ते तस्मादासाद्य हवींष्यग्निं मन्थन्ति - २.५.१.१९

नवप्रयाजं भवति । नवानुयाजं दशाक्षरा वै विराडथैतामुभयतो न्यूनां विराजं करोति प्रजननायैतस्माद्वा उभयतो न्यूनात्प्रजननात्प्रजापतिः प्रजाः ससृज इतश्चोर्ध्वा इतश्चावाचीस्तथो एवैष एतस्मादुभयत एव न्यूनात्प्रजननात्प्रजाः सृजत इतश्चोर्ध्वा इतश्चावाचीस्तस्मान्नवप्रयाजं भवति नवानुयाजम् - २.५.१.२०

त्रीणि समिष्टयजूंषि भवन्ति । ज्याय इव हीदं हविर्यज्ञाद्यत्र नवप्रयाजं नवानुयाजमथो अप्येकमेव स्याद्धविर्यज्ञो हि तस्य प्रथमजो गौर्दक्षिणा - २.५.१.२१

एतेन वै प्रजापतिः यज्ञेनेष्ट्वा । येयं प्रजापतेः प्रजापतिर्या श्रीरेतद्बभूवैतां ह वै प्रजातिं प्रजायत एतां श्रियं गच्छति य एवं विद्वानेतेन यज्ञेन यजते तस्माद्वा एतेन यजेत - २.५.१.२२

  1. तु. प्रजापतिर्ह चातुर्मास्यैरात्मानं विदधे। स इममेव दक्षिणं बाहुं वैश्वदेवं हविरकुरुत तस्यायमेवाङ्गुष्ठ आग्नेयं हविरिदं सौम्यमिदं सावित्रं। स वै वर्षिष्ठः पुरोडाशो भवति। तस्मादियमासां वर्षिष्ठेदं सारस्वतमिदम्पौष्णमथ य एष उपरिष्टाद्धस्तस्य संधिस्तन्मारुतमिदं वैश्वदेवं दोर्द्यावापृथिवीयं तद्वा अनिरुक्तं भवति तस्मात्तदनिरुक्तम् -माश ११.५.२.२