शतपथब्राह्मणम्/काण्डम् १/अध्यायः ७/ब्रह्मणः प्राशित्रहरणम्

विकिस्रोतः तः


१.७.४ ब्रह्मणः प्राशित्रहरणम्

प्रजापतिर्ह वै स्वां दुहितरमभिदध्यौ । दिवं वा उषसं वा मिथुन्येनया स्यामिति तां सम्बभूव - १.७.४.१

तद्वै देवानामाग आस । य इत्थं स्वां दुहितरमस्माकं स्वसारं करोतीति - १.७.४.२

ते ह देवा ऊचुः । योऽयं देवः पशूनामीष्टेऽतिसंधं वा अयं चरति य इत्थं स्वां दुहितरमस्माकं स्वसारं करोति विध्येममिति तं रुद्रोऽभ्यायत्य विव्याध तस्य सामि रेतः प्रचस्कन्द तथेन्नूनं तदास - १.७.४.३

तस्मादेतदृषिणाभ्यनूक्तम् । पिता यत्स्वां दुहितरमधिष्कन् क्ष्मया रेतः संजग्मानो निषिञ्चदिति तदाग्निमारुतमित्युक्थं तस्मिंस्तद्व्याख्यायते यथा तद्देवा रेतः प्राजनयंस्तेषां यदा देवानां क्रोधो व्यैदथ प्रजापतिमभिषज्यंस्तस्य तं शल्यं निरकृन्तन्त्स वै यज्ञ एव प्रजापतिः - १.७.४.४

ते होचुः । उपजानीत यथेदं नामुयासत्कनीयो हाहुतेर्यथेदं स्यादिति - १.७.४.५

ते होचुः । भगायैनद्दक्षिणत आसीनाय परिहरत तद्भगः प्राशिष्यति तद्यथाहुतमेवं भविष्यतीति तद्भगाय दक्षिणत आसीनाय पर्याजह्रुस्तद्भगोऽवेक्षां चक्रे तस्याक्षिणी निर्ददाह तथेन्नूनं तदास तस्मादाहुरन्धो भग इति - १.७.४.६

ते होचुः । नो न्वेवात्राशमत्पूष्ण एनत्परिहरतेति तत्पूष्णे पर्याजह्रुस्तत्पूषा प्राश तस्य दतो निर्जघान तथेन्नूनं तदास तस्मादाहुरदन्तकः पूषेति तस्माद्यम्पूष्णे चरुं कुर्वन्ति प्रपिष्टानामेव कुर्वन्ति यथादन्तकायैवम् - १.७.४.७

ते होचुः । नो न्वेवात्राशमद्बृहस्पतय एनत्परिहरतेति तद्बृहस्पतये पर्याजह्रुः स बृहस्पतिः सवितारमेव प्रसवायोपाधावत्सविता वै देवानां प्रसवितेदं मे प्रसुवेति तदस्मै सविता प्रसविता प्रासुवत्तदेनं सवितृप्रसूतं नाहिनत्ततोऽर्वाचीनं शान्तं तदेतन्निदानेन यत्प्राशित्रम् - १.७.४.८

स यत्प्राशित्रमवद्यति । यदेवात्राविद्धं यज्ञस्य यद्रुद्रियं तदेवैतन्निर्मिमीतेऽथाप उपस्पृशति शान्तिरापस्तदद्भिः शमयत्यथेडाम्पशून्त्समवद्यति - १.७.४.९


इडापात्रम्

इडाकर्म

अथेडां पशून् समवद्यति। - १.७.४.(९)

स वै यावन्मात्रमिवैवावद्येत् । तथा शल्यः प्रच्यवते तस्माद्यावन्मात्रमिवैवावद्येदन्यतरत आज्यं कुर्यादधस्ताद्वोपरिष्टाद्वा तथा खदन्निःसरणवद्भवति तथा निस्रवति तस्मादन्यतरत आज्यं कुर्यादधस्ताद्वोपरिष्टाद्वा - १.७.४.१०

स आज्यस्योपस्तीर्य । द्विर्हविषोऽवदायाथोपरिष्टादाज्यस्याभिघारयति तद्यथैव यज्ञस्यावदानमेवमेतत् - १.७.४.११

तन्न पूर्वेण परिहरेत् । पूर्वेण हैके परिहरन्ति पुरस्ताद्वै प्रत्यञ्चो यजमानम्पशव उपतिष्ठन्ते रुद्रियेण ह पशून्प्रसजेद्यत्पूर्वेण परिहरेत्तेऽस्य गृहाः पशव उपमूर्यमाणा ईयुस्तस्मादित्येव तिर्यक्प्रजिहीत तथा ह रुद्रियेण पशून्न प्रसजति तिर्यगेवैनं निर्मिमीते - १.७.४.१२

तत्प्रतिगृह्णाति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् प्रतिगृह्णामीति - १.७.४.१३

तद्यथैवादो बृहस्पतिः सवितारम् । प्रसवायोपाधावत्सविता वै देवानाम्प्रसवितेदं मे प्रसुवेति तदस्मै सविता प्रसविता प्रासुवत्तदेनं सवितृप्रसूतं नाहिनदेवमेवैष एतत्सवितारमेव प्रसवायोपधावति सविता वै देवानाम्प्रसवितेदं मे प्रसुवेति तदस्मै सविता प्रसविता प्रसौति तदेनं सवितृप्रसूतं न हिनस्ति - १.७.४.१४

तत्प्राश्नाति । अग्नेष्ट्वास्येन प्राश्नामीति न वा अग्निं किं चन हिनस्ति तथो हैनमेतन्न हिनस्ति - १.७.४.१५

तन्न दद्भिः खादेत् । नेन्म इदं रुद्रियं दतो हिनसदिति तस्मान्न दद्भिः खादेत् - १.७.४.१६

अथाप आचामति । शान्तिरापस्तदद्भिः शान्त्या शमयतेऽथ परिक्षाल्य पात्रं - १.७.४.१७

अथास्मै ब्रह्मभागं पर्याहरन्ति । ब्रह्मा वै यज्ञस्य दक्षिणत आस्तेऽभिगोप्ता स एतं भागं प्रतिविदान आस्ते यत्प्राशित्रं तदस्मै पर्याहार्षुस्तत्प्राशीदथयमस्मै ब्रह्मभागं पर्याहरन्ति तेन भागी स यदत ऊर्ध्वमसंस्थितं यज्ञस्य तदभिगोपायति तस्माद्वा अस्मै ब्रह्मभागं पर्याहरन्ति - १.७.४.१८

स वै वाचंयम एव स्यात् । ब्रह्मन्प्रस्थास्यामीत्यैतस्माद्वचसो विवृहन्ति वा एते यज्ञं क्षण्वन्ति ये मध्ये यज्ञस्य पाकयज्ञिययेडया चरन्ति ब्रह्मा वा ऋत्विजाम्भिषक्तमस्तद्ब्रह्मा संदधाति न ह संदध्याद्यद्वावद्यमान आसीत तस्माद्वाचंयम एव स्यात्- १.७.४.१९

स यदि पुरा मानुषीं वाचं व्याहरेत् । तत्रो वैष्णवीमृचं वा यजुर्वा जपेद्यज्ञो वै विष्णुस्तद्यज्ञं पुनरारभते तस्यो हैषा प्रायश्चित्तिः - १.७.४.२०

स यत्राह ब्रह्मन्प्रस्थास्यामीति तद्ब्रह्मा जपत्येतं ते देवा सवितर्यज्ञम्प्राहुरिति तत्सवितारं प्रसवायोपधावति स हि देवानां प्रसविता बृहस्पतये ब्रह्मण इति बृहस्पतिर्वै देवानां ब्रह्मा तद्य एव देवानां ब्रह्मा तस्मा एवैतत्प्राह तस्मादाह बृहस्पतये ब्रह्मण इति तेन यज्ञमव तेन यज्ञपतिं तेन मामवेति नात्र तिरोहितमिवास्ति - १.७.४.२१

मनो जूतिर्जुषतामाज्यस्येति । मनसा वा इदं सर्वमाप्तं तन्मनसैवैतत्सर्वामाप्नोति बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञं समिमं दधात्विति यद्विवृढं तत्संदधाति विश्वे देवास इह मादयन्तामिति सर्वं वै विश्वे देवाः सर्वेणैवैतत्संदधाति स यदि कामयेत ब्रूयात्प्रतिष्ठेति यद्यु कामयेतापि नाद्रियेत - १.७.४.२२