शतपथब्राह्मणम्/काण्डम् १/अध्यायः ५/ब्राह्मण २

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

१.५.२ पञ्चप्रयाजयागाः। तत्र स्रुगादापननिगदः

अग्निर्होता वेत्त्वग्नेर्होत्रमिति अग्निरिदं होता वेत्त्वित्येवैतदाहाग्नेर्होत्रमिति तस्यो हि होत्रं वेत्तु प्रावित्रमिति यज्ञो वै प्रावित्रं वेत्तु यज्ञमित्येवैतदाह साधु ते यजमान देवतेति साधु ते यजमान देवता यस्य तेऽग्निर्होतेत्येवैतदाह घृतवतीमध्वर्यो स्रुचमास्यस्वेति तदध्वर्यु प्रसौति स यदेकामिवाह - १.५.२.[१]

यजमान एव जुहूमनु । योऽस्मा अरातीयति स उपभृतमनु स यद्द्वे इव ब्रूयाद्यजमानाय द्विषन्तं भ्रातृव्यं प्रत्युद्यामिनं कुर्यादत्तैव जुहूमन्वाद्य उपभृतमनु स यद्द्वे इव ब्रूयादत्त्र आद्यं प्रत्युद्यामिनं कुर्यात्तस्मादेकामिवैवाह - १.५.२.[२]

देवयुवं विश्ववारामिति । उपस्तौत्येवैनामेतन्महयत्येव यदाह देवयुवं विश्ववारामितीडामहै देवां ईडेन्यान्नमस्याम नमस्यान्यजाम यज्ञियानितीडामहै तान्देवान्य ईडेन्या नमस्याम तान्ये नमस्या यजाम यज्ञियानिति मनुष्या वा ईडेन्याः पितरो नमस्या देवा यज्ञियाः - १.५.२.[३]

या वै प्रजा यज्ञेऽनन्वाभक्ताः । पराभूता वै ता एवमेवैतद्या इमाः प्रजा अपराभूतास्ता यज्ञ आभजति मनुष्याननु पशवो देवाननु वयांस्योषधयो वनस्पतयो यदिदं किञ्चैवमु तत्सर्वं यज्ञ आभक्तम् - १.५.२.[४]

ता वा एताः । नव व्याहृतयो भवन्ति नवेमे पुरुषे प्राणा एतानेवास्मिन्नेतद्दधाति तस्मान्नव व्याहृतयो भवन्ति - १.५.२.[५]

यज्ञो ह देवेभ्योऽपचक्राम । तं देवा अन्वमन्त्रयन्ता नः शृणूप न आवर्तस्वेति सोऽस्तु तथेत्येव देवानुपाववर्त तेनोपावृत्तेन देवा अयजन्त तेनेष्ट्वैतदभवन्यदिदं देवाः - १.५.२.[६]

स यदाश्रावयति । यज्ञमेवैतदनुमन्त्रयत आ नः शृणूप न आवर्तस्वेत्यथ यत्प्रत्याश्रावयति यज्ञ एवैतदुपावर्ततेऽस्तु तथेति तेनोपावृत्तेन रेतसाभूतेनर्त्विजः सम्प्रदायं चरन्ति यजमानेन परोऽक्षं यथा पूर्णपात्रेण सम्प्रदायं चरेयुरेवमनेनर्त्विजः सम्प्रदायं चरन्ति तद्वाचैवैतत्सम्प्रदायं चरन्ति वाग्घि यज्ञो वागु हि रेतस्तदेतेनैवैतत्सम्प्रदायं चरन्ति - १.५.२.[७]

सोऽनुब्रूहीत्येवोक्त्वाध्वर्युः । नापव्याहरेन्नो एव होतापव्याहरेदाश्रावयत्यध्वर्युस्तदग्नीधं यज्ञ उपावर्तते - १.५.२.[८]

सोऽग्नीन्नापव्याहरेत् । आ प्रत्याश्रावणात्प्रत्याश्रावयत्यग्नीत्तत्पुनरध्वर्युं यज्ञ उपावर्तते - १.५.२.[९]

सोऽध्वर्युर्नापव्याहरेत् । आ यजेति वक्तोर्यजेत्येवाध्वर्युर्होत्रे यज्ञं सम्प्रयच्छति - १.५.२.[१०]

स होता नापव्याहरेत् । आ वषट्कारात्तं वषट्कारेणाग्नावेव योनौ रेतो भूतं सिञ्चत्यग्निर्वै योनिर्यज्ञस्य स ततः प्रजायत इति नु हविर्यज्ञेऽथ सौम्येऽध्वरे - १.५.२.[११]

स वै ग्रहं गृहीत्वाध्वर्युः । नापव्याहरेदोपाकरणादुपावर्तध्वमित्येवाध्वर्युरुद्गातृभ्यो यज्ञं सम्प्रयच्छति - १.५.२.[१२]

त उद्गातारो नापव्याहरेयुः । ओत्तमाया एषोत्तमेत्येवोद्गातारो होत्रे यज्ञं सम्प्रयच्छन्ति - १.५.२.[१३]

स होता नापव्याहरेत् । आ वषट्कारात्तं वषट्कारेणाग्नावेव योनौ रेतो भूतं सिञ्चत्यग्निर्वै योनिर्यज्ञस्य स ततः प्रजायते - १.५.२.[१४]

स यद्ध सोऽपव्याहरेत् । यं यज्ञ उपावर्तते यथा पूर्णपात्रं परासिञ्चेदेवं ह स यजमानं परासिञ्चेत्स यत्र हैवमृत्विजः संविदाना यज्ञेन चरन्ति सर्वमेव तत्र कल्पते न मुह्यति तस्मादेवमेव यज्ञो भर्तव्यः - १.५.२.[१५]

ता वा एताः । पञ्च व्याहृतयो भवन्त्यो श्रावयास्तु श्रौषड्यज ये यजामहे वौषडिति पाङ्क्तो यज्ञः पाङ्क्तः पशुः पञ्चर्तवः संवत्सरस्यैषैका यज्ञस्य मात्रैषा सम्पत् - १.५.२.[१६]

तासां सप्तदशाक्षराणि । सप्तदशो वै प्रजापतिः प्रजापतिर्यज्ञ एषैका यज्ञस्य मात्रैषा सम्पत् - १.५.२.[१७]

ओ श्रावयेति वै देवाः । पुरोवातं ससृजिरेऽस्तु श्रौषडित्यभ्राणि समप्लावयन्यजेति विद्युतं ये यजामह इति स्तनयित्नुं वषट्कारेणैव प्रावर्षयन् - १.५.२.[१८]

स यदि वृष्टिकामः स्यात् । यदीष्ट्या वा यजेत दर्शपूर्णमासयोर्वैव ब्रूयाद्वृष्टिकामो वा अस्मीति तत्रो अध्वर्युं ब्रूयात्पुरोवातं च विद्युतं च मनसा ध्यायेत्यभ्राणि मनसा ध्यायेत्यग्नीधं स्तनयित्नुं च वर्षं च मनसा ध्यायेति होतारं सर्वाण्येतानि मनसा ध्यायेति ब्रह्माणं वर्षति हैव तत्र यत्रैवमृत्विजः संविदाना यज्ञेन चरन्ति - १.५.२.[१९]

ओ श्रावयेति वै देवाः । विराजमभ्याजुहुवुरस्तु श्रौषडिति वत्समुपावासृजन्यजेत्युदजयन्ये यजामह इत्युपासीदन्वषट्कारेणैव विराजमदुहतेयं वै विराडस्यै वा एष दोह एवं ह वा अस्मा इयं विराट्सर्वान्कामान्दुहे य एवमेतं विराजो दोहं वेद - १.५.२.[२०]