शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ४/ब्राह्मणम् १

विकिस्रोतः तः
Jump to navigation Jump to search

उद्गीथ ब्राह्मणं वैराजब्राह्मणं वा

द्वया ह प्राजापत्याः। देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुरास्त एषु लोकेष्वस्पर्धन्त - १४.४.१.१

ते ह देवा ऊचुः। हन्तासुरान्यज्ञ उद्गीथेनात्ययामेति - १४.४.१.२

ते ह वाचमूचुः। त्वं न उद्गायेति तथेति तेभ्यो वागुदगायद्यो वाचि भोगस्तं
देवेभ्य आगायद्यत्कल्याणं वदति तदात्मने तेऽविदुरनेन वै न उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्त्स यः स पाप्मा यदेवेदमप्रतिरूपं वदति स एव स पाप्मा - १४.४.१.३

अथ ह प्राणमूचुः। त्वं न उद्गायेति तथेति तेभ्यः प्राण उदगायद्यः प्राणे भोगस्तं देवेभ्य आगायद्यत्कल्याणं जिघ्रति तदात्मने तेऽविदुरनेन वै नऽउद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्त्स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति स एव स पाप्मा - १४.४.१.४

अथ ह चक्षुरूचुः। त्वं न उद्गायेति तथेति तेभ्यश्चक्षुरुदगायद्यश्चक्षुषि भोगस्तं देवेभ्य आगायद्यत्कल्याणं पश्यति तदात्मने तेऽविदुरनेन वै नऽउद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्त्स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति स एव स पाप्मा - १४.४.१.५

अथ ह श्रोत्रमूचुः। त्वं न उद्गायेति तथेति तेभ्यः श्रोत्रमुदगायद्यः श्रोत्रे भोगस्तं देवेभ्य आगायद्यत्कल्याणं शृणोति तदात्मने तेऽविदुरनेन वै नऽउद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्त्स यः स पाप्मा यदेवेदमप्रतिरूपं शृणोति स एव स पाप्मा- १४.४.१.६

अथ ह मन ऊचुः। त्वं न उद्गायेति तथेति तेभ्यो मन उदगायद्यो मनसि भोगस्तं देवेभ्य आगायद्यत्कल्याणं सङ्कल्पयति तदात्मने तेऽविदुरनेन वै नऽउद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्त्स यः स पाप्मा यदेवेदमप्रतिरूपं सङ्कल्पयति स एव स पाप्मैवमु खल्वेता देवताः पाप्मभिरुपासृजन्नेवमेनाः पाप्मनाऽविध्यन् - १४.४.१.७

अथ हेममासन्यं प्राणमूचुः। त्वं न उद्गायेति तथेति तेभ्य एष प्राणऽउदगायत्तेऽविदुरनेन वै न उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविव्यत्सन्त्स यथाऽश्मानमृत्वा लोष्टो विध्वंसेतैवं हैव विध्वंसमाना विष्वञ्चो विनेशुस्ततो देवा अभवन्पराऽसुरा भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद - १४.४.१.८

ते होचुः। क्व नु सोऽभूद्यो न इत्थमसक्तेत्ययमास्येऽन्तरिति सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः - १४.४.१.९

सा वा एषा देवता दूः नाम। दूरं ह्यस्या मृत्युर्दूरं ह वा अस्मान्मृत्युर्भवति य एवं वेद - १४.४.१.१०

सा वा एषा देवता। एतासां देवतानां पाप्मानं मृत्युमपहत्य यत्रासां दिशामन्तस्तद्गमयाञ्चकार तदासां पाप्मनो विन्यदधात्तस्मान्न जनमियान्नान्तमियान्नेत्पाप्मानं मृत्युमन्ववायानीति - १४.४.१.११

सा वा एषा देवता। एतासां देवतानां पाप्मानं मृत्युमपहत्याथैना मृत्युमत्यवहत् - १४.४.१.१२

स वै वाचमेव प्रथमामत्यवहत्। सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत्सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते - १४.४.१.१३

अथ प्राणमत्यवहत्। स यदा मृत्युमत्यमुच्यत स वायुरभवत्सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते - १४.४.१.१४

अथ चक्षुरत्यवहत्। तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत्सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति - १४.४.१.१५

अथ श्रोत्रमत्यवहत्। तद्यदा मृत्युमत्यमुच्यत ता दिशोऽभवंस्ता इमा दिशः परेण मृत्युमतिक्रान्ताः - १४.४.१.१६

अथ मनोऽत्यवहत्। तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत्सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भात्येवं ह वा एनमेषा देवता मृत्युमतिवहति य एवम्वेद - १४.४.१.१७

अथात्मनेऽन्नाद्यमागायत्। यद्धि किं चान्नमद्यतेऽनेनैव तदद्यत इह प्रतितिष्ठति - १४.४.१.१८

ते देवा अब्रुवन्। एतावद्वा इदं सर्वं यदन्नं तदात्मन आगासीरनु नोऽस्मिन्नन्नऽआभजस्वेति ते वै माऽभिसम्विशतेति तथेति तं समन्तं परिण्यविशन्त तस्माद्यदनेनान्नमत्ति तेनैतास्तृप्यन्त्येवं ह वा एनं स्वा अभिसम्विशन्ति भर्ता स्वानां श्रेष्ठः पुरऽएता भवत्यन्नादोऽधिपतिर्य एवं वेद - १४.४.१.१९

य उ हैवम्विदम् स्वेषु प्रति प्रतिर्बुभूषति। न हैवालं भार्येभ्यो भवत्यथ य एवैतमनु भवति यो वैतमनु भार्यान्बुभूर्षति स हैवालं भार्येभ्यो भवति - १४.४.१.२०

सोऽयास्य आङ्गिरसो अङ्गानां हि रसः प्राणो वा अङ्गानां रसः प्राणो हि वा अङ्गानां रसस्तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यत्येष हि वा अङ्गानां रसः - १४.४.१.२१

एष उ एव बृहस्पतिः। वाग्वै बृहती तस्या एष पतिस्तस्मादु बृहस्पतिः - १४.४.१.२२

एष उ एव ब्रह्मणस्पतिः। वाग्वै ब्रह्म तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः - १४.४.१.२३

एष उ एव साम। वाग्वै साऽमैष सा चामश्चेति तत्साम्नः सामत्वं यद्वेव समः प्लुषिणा समो मशकेन समो नागेन समऽ एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण तस्माद्वेव सामाश्नुते साम्नः सायुज्यं सलोकतां य एवमेतत्साम वेद - १४.४.१.२४

एष उ वा उद्गीथः। प्राणो वा उत्प्राणेन हीदं सर्वमुत्तब्धं वागेव गीथोच्च गीथा चेति स उद्गीथः - १४.४.१.२५

तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाचायं त्यस्य राजा मूर्द्धानं विपातयताद्यदितोऽयास्य आङ्गिरसोऽन्येनोदगायदिति वाचा च ह्येव स प्राणेन चोदगायदिति - १४.४.१.२६

तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वं तस्य वै स्वर एव स्वं तस्मादार्त्विज्यं करिष्यन्वाचि स्वरमिच्छेत तया वाचा स्वरसम्पन्नयाऽऽर्त्विज्यं कुर्यात्तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एवाथो यस्य स्वं भवति भवति हास्य स्वं य एवमेतत्साम्नः स्वं वेद - १४.४.१.२७

तस्य हैतस्य साम्नो यः सुवर्णं वेद। भवति हास्य सुवर्णं तस्य वै स्वर एव सुवर्णं भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं वेद - १४.४.१.२८

तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद। प्रति ह तिष्ठति तस्य वै वागेव प्रतिष्ठा वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयतेऽन्न इत्यु हैक आहुः - १४.४.१.२९

अथातः पवमानानामेवाभ्यारोहः। स वै खलु प्रस्तोता साम प्रस्तौति स यत्र प्रस्तुयात्तदेतानि जपेदसतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्माऽमृतं गमयेति - १४.४.१.३०

स यदाहासतो मा सद्गमयेति। मृत्युर्वा असत्सदमृतं मृत्योर्माऽमृतं गमयामृतं मा कुर्वित्येवैतदाह - १४.४.१.३१

तमसो मा ज्योतिर्गमयेति। मृत्युर्वै तमो ज्योतिरमृतं मृत्योर्माऽमृतं गमयामृतं मा कुर्वित्येवैतदाह मृत्योर्माऽमृतं गमयेति नात्र तिरोहितमिवास्ति - १४.४.१.३२

अथ यानीतराणि स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेत्तस्मादु तेषु वरं वृणीत यम्
कामं कामयेत तं स एष एवम्विदुद्गाताऽत्मने वा यजमानाय वा यं कामं कामयते तमागायति तद्धैतल्लोकजिदेव न हैवालोक्यताया आशाऽस्ति य एवमेतत्साम वेद - १४.४.१.३३