शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ६/ब्राह्मण १

विकिस्रोतः तः
Jump to navigation Jump to search



१२.६.१.

अथ ज्योतिष्टोमप्रायश्चित्तब्राह्मणम्

सोमो वै राजा यज्ञः प्रजापतिः। तस्यैतास्तन्वः। या एता देवताः। या एता आहुतीर्जुहोति॥१२.६.१.१॥

स यद्यज्ञस्यार्छेत्। यां तत्प्रति देवतां मन्येत। तामनुसमीक्ष्य जुहुयात्। यदि दीक्षोपसत्स्वाहवनीये। यदि प्रसुत आग्नीध्रे। वि वाऽएतत् यज्ञस्य पर्व स्रंसते – यत् ह्वलति। सा यैव तर्हि तत्र देवता भवति। तयैवैतत् देवतया यज्ञम्भिषज्यति। तया देवतया यज्ञं प्रतिसंदधाति॥१२.६.१.२॥

स यद्येनं मनसाऽभिध्यातो यज्ञो नोपनमेत्। परमेष्ठिने स्वाहा इति जुहुयात् परमेष्ठी हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.३॥

अथ यद्येनं वाचाऽभिव्याहृतो यज्ञो नोपनमेत्। प्रजापतये स्वाहा इति जुहुयात्। प्रजापतिर्हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.४॥

अथ यस्य राजानमच्छेत्त्वा नाहरन्त एयुः। अन्धसे स्वाहा इति जुहुयात्। अन्धो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.५॥

अथ यदि सातः किंचिदापद्येत। सवित्रे स्वाहा इति जुहुयात्। सविता हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.६॥

अथ यदि दीक्षासु किंचिदापद्येत। विश्वकर्मणे स्वाहा इति जुहुयात्। विश्वकर्मा हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.७॥

अथ यदि सोमक्रयण्यां किंचिदापद्येत। पूष्णे स्वाहा इति जुहुयात्। पूषा हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.८॥

अथ यदि क्रयायोपोत्थितः किंचिदापद्येत। इन्द्राय च मरुद्भ्यश्च स्वाहा इति जुहुयात्। इन्द्रश्च ह स तर्हि मरुतश्च भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.९॥

अथ यदि पण्यमानः किंचिदापद्येत। असुराय स्वाहा इति जुहुयात्। असुरो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.१०॥

अथ यदि क्रीतः किंचिदापद्येत। मित्राय स्वाहा इति जुहुयात्। मित्रो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.११॥

अथ यद्यूरावासन्नः किंचिदापद्येत। विष्णवे शिपिविष्टाय स्वाहा इति जुहुयात्। विष्णुर्हि स तर्हि शिपिविष्टो भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.१२॥

अथ यदि पर्युह्यमाणः किंचिदापद्येत। विष्णवे नरंधिषाय स्वाहा इति जुहुयात्। विष्णुर्हि स तर्हि नरन्धिषो भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.१३॥

अथ यद्यागतः किंचिदापद्येत। सोमाय स्वाहा इति जुहुयात्। सोमो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.१४॥

अथ यद्यासंद्यामासन्नः किंचिदापद्येत। वरुणाय स्वाहा इति जुहुयात्। वरुणो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.१५॥

अथ यद्याग्नीध्रगतः किंचिदापद्येत। अग्नये स्वाहा इति जुहुयात्। अग्निर्हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.१६॥

अथ यदि हविर्द्धानगतः किंचिदापद्येत। इन्द्राय स्वाहा इति जुहुयात्। इन्द्रो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.१७॥

अथ यदुपावह्रियमाणः किंचिदापद्येत। अथर्वणे स्वाहा इति जुहुयात्। अथर्वा हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.१८॥

अथ यद्यंशुषु न्युप्तः किंचिदापद्येत। विश्वेभ्यो देवेभ्यः स्वाहा इति जुहुयात्। विश्वे हि स तर्हि देवा भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.१९॥

अथ यद्याप्याय्यमानः किंचिदापद्येत। विष्णव आप्रीतपाय स्वाहा इति जुहुयात्। विष्णुर्हि स तर्ह्याप्रीतपा भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.२०॥

अथ यद्यभिषूयमाणः किंचिदापद्येत। यमाय स्वाहा इति जुहुयात्। यमो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.२१॥

अथ यदि संभ्रियमाणः किञ्चिदापद्येत। विष्णवे स्वाहा इति जुहुयात्। विष्णुर्हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.२२॥

अथ यदि पूयमानः किंचिदापद्येत। वायवे स्वाहा इति जुहुयात्। वायुर्हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.२३॥

अथ यदि पूतः किंचिदापद्येत। शुक्राय स्वाहा इति जुहुयात्। शुक्रो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.२४॥

अथ यदि क्षीरश्रीः किंचिदापद्येत। शुक्राय स्वाहा इति जुहुयात्। शुक्रो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.२५॥

अथ यदि सक्तुश्रीः किंचिदापद्येत। मंथिने स्वाहा इति जुहुयात्। मंथी हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.२६॥

अथ यदि चमसेषून्नीतः किंचिदापद्येत। विश्वेभ्यो देवेभ्यः स्वाहा इति जुहुयात्। विश्वे हि स तर्हि देवा भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.२७॥

अथ यदि होमायोद्यतःकिंचिदापद्येत। असवे स्वाहा इति जुहुयात्। असुर्हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.२८॥

अथ यदि हूयमानः किंचिदापद्येत। रुद्राय स्वाहा इति जुहुयात्। रुद्रो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.२९॥

अथ यद्यभ्यावृत्तः किंचिदापद्येत। वाताय स्वाहा इति जुहुयात्। वातो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.३०॥

अथ यदि प्रतिख्यातः किंचिदापद्येत। नृचक्षसे स्वाहा इति जुहुयात्। नृचक्षा हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.३१॥

अथ यदि भक्ष्यमाणः किंचिदापद्येत। भक्षाय स्वाहा इति जुहुयात्। भक्षो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.३२॥

अथ यदि नाराशंसेषु सन्नः किंचिदापद्येत। पितृभ्यो नाराशंसेभ्यः स्वाहा इति जुहुयात्। पितरो हि स तर्हि नाराशंसा भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.३३॥

अथ यद्यवभृथायोद्यतः किंचिदापद्येत। सिंधवे स्वाहा इति जुहुयात्। सिंधुर्हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.३४॥

अथ यद्यभ्यवह्रियमाणः किंचिदापद्येत। समुद्राय स्वाहा इति जुहुयात्। समुद्रो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.३५॥

अथ यदि प्रप्लुतः किंचिदापद्येत। सलिलाय स्वाहा इति जुहुयात्। सलिलो हि स तर्हि भवति। अप पाप्मानं हते। उपैनं यज्ञो नमति॥१२.६.१.३६॥

ता वा एताश्चतुस्त्रिंशतमाज्याहुतीर्जुहोति। त्रयस्त्रिंशद्वै देवाः। प्रजापतिश्चतुस्त्रिंशः। एतदु सर्वैर्देवैर्यज्ञं भिषज्यति। सर्वैर्देवैर्यज्ञं प्रतिसंदधाति॥१२.६.१.३७॥

ता ब्रह्मैव जुहुयात्। नाब्रह्मा। ब्रह्मा वै यज्ञस्य दक्षिणत आस्ते। ब्रह्मा यज्ञं दक्षिणतो गोपायति। यदि तु ब्रह्मा न विद्यात्। अपि य एव कश्च विद्यात्। स जुहुयात्। ब्रह्माणं त्वामंत्र्य। ब्रह्मणाऽतिसृष्टः। तासां वा एतासां व्याहृतीनां बन्धुता। वसिष्ठो ह विराजं विदांचकार। तां हेन्द्रोऽभिदध्यौ॥१२.६.१.३८॥

स होवाच – ऋषे विराजं ह वै वेत्थ। तां मे ब्रूहीति। स होवाच – किं मम ततः स्यादिति। सर्वस्य च ते यज्ञस्य प्रायश्चित्तिं ब्रूयाम्। रूपं च त्वा दर्शयेय इति। स होवाच – यन्नु मे सर्वस्य यज्ञस्य प्रायश्चित्तिं ब्रूयाः। किमु न स्यात्। यं त्वं रूपं दर्शयेथा इति। जीवस्वर्ग एवास्माल्लोकात्प्रेयादिति॥१२.६.१.३९॥

ततो हैतामृषिरिन्द्राय विराजमुवाच। इयं वै विराडिति। तस्माद्योऽस्यै भूयिष्ठं लभते। स एव श्रेष्ठो भवति॥१२.६.१.४०॥

अथ हैतामिंद्र ऋषये प्रायश्चित्तिमुवाच। अग्निहोत्रादग्र आ महत उक्थात्। ता ह स्मैताः पुरा व्याहृतीर्वसिष्ठा एव विदुः। तस्माद्ध स्म पुरा वासिष्ठ एव ब्रह्मा भवति। यतस्त्वेना अप्येतर्हि य एव कश्चाधीते। ततोऽप्येतर्हि य एव कश्च ब्रह्मा भवति। स ह वै ब्रह्मा भवितुमर्हति। स वा ब्रह्मन्नित्यामन्त्रितः प्रतिशृणुयात्। य एवमेता व्याहृतीर्वेद॥१२.६.१.४१॥
इति तृतीयप्रपाठके प्रथमं ब्राह्मणम्॥

समाप्तानि प्रायश्चित्तानि॥