शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ५

विकिस्रोतः तः
Jump to navigation Jump to search

ब्राह्मण १

१-प्रोषितस्याग्निहोत्रिणो मरणे श्रुते तन्मृतदेहस्यास्थ्नामागमनं यावत्तावद्गृहे सायम्प्रातर्होमयोर्विशेषेतिकर्तव्यताया अभिधानं, तत्रैकेषां मतेन यावदस्थ्नामागमनं तावदग्निहोत्रं होतव्यमितिपुनरेकेषां मतेन होमवेलायां समुपस्थितायां केवलमग्नयः सन्दीपनीया न तु होतव्याः किञ्चास्थ्नामागमनकालं प्रतीक्ष्य स्थातव्यमिति-पुनरेकेषां मतेनारण्योरग्नी समारोह्याग्निहोत्रं स्थगितव्यमाहृते चास्थनि पुनर्निर्मन्थेदिति-एवं विभिन्नैकदेशीयं पक्षत्रयं प्रतिपाद्य तत्पक्षत्रयमपि सकारणं प्रत्याख्याय नीवान्यां दुग्ध्वा तेन पयसा यावदस्थ्नामागमनं तावत्प्रत्यहं सायम्प्रातर्होमौ होतव्याविति स्वमतस्य सकारणं सार्थवादं सोपमं निरूपणं, प्राचीनावीतिना दोहो न तु यज्ञोपवीतिना-नाङ्गारेष्वधिश्रयणं किन्तुगार्हपत्यादुष्णं भस्म दक्षिणतो निरुह्य तस्मिन्नधिश्रयणं-सकृदुद्वासनं न त्रिःनोपरिष्टात्समिधं धारयित्वा स्रुचो हरणं किन्त्वधस्तात्समिधं धारयित्वा स्रुचो हरणम्-आहरणं च गार्हपत्यमुत्तरेण न किन्तु गार्हपत्यं दक्षिणेन-परिस्तरणार्थानि कुशतृणान्युदीचीनाग्राणि न किन्तु दक्षिणाग्राणि-आहवनीये समिधमभ्याधाय सव्यं जान्वाच्य सकृदेव तूष्णीं न्यक्पर्यसनं-इत्यादिमृतकाग्निहोत्रोपचाराणां प्रदर्शनम् , अवज्योतनापःप्रत्यानयनोन्नयनप्रैषचतुरुन्नयनादि उदिङ्गनोपमार्जनप्रासनोदुक्षणसमिदाधानादि च जीवदग्निहोत्रोपचाराश्च न कर्तव्या इति निषेधकथनं, प्रोषितस्य मृतस्याग्निहोत्रिणोऽदग्ध्वाऽऽहरणमाहृतस्य चाग्निभिः सङ्घ्रापणमित्येकीयं मतं सकारणं प्रत्याख्याय स्वमतेन तं प्रोषितं मृतमग्निहोत्रिणं लौकिकाग्निना दग्ध्वा तदीयास्थीन्याहृत्य कृष्णाजिने न्युप्य पुरुषविधिं विधायोर्णाभिः प्रच्छाद्याज्येनाभिघार्य ततस्तं स्वाग्निभिर्दहेदिति दाहकल्पविधानं, तत्र दाहे केषाञ्चन मतेन ग्रामाग्निना दाहः-केषाञ्चन मतेन प्रदव्येनाग्निना दाहः-केषाञ्चन मतेनोल्मुक्येनाग्निना दाहः - केषाञ्चन मतेनान्तरेणाग्नींश्चितिं च चित्वा तमग्निभिः सन्दहेदिति विभिन्नैकदेशीयमतचतुष्टयस्य किमपि किमप्यनिष्टफलं प्रदर्श्य तेन तेन कारणेन निराकरणप्रदर्शनं चेत्यादि.


ब्राह्मण २ अप्रोषितस्य प्रेतस्याग्निहोत्रिणोऽन्त्यकर्म

२-अप्रोषितस्य प्रेतस्याग्निहोत्रिणोऽन्त्यकर्म - तत्रादौ प्रेतोऽग्निहोत्री समारूढनिर्मथितैरग्निभिर्दग्धव्य इत्यमुं नाकर्षिसम्मतं पक्षं सप्रकारकमुपन्यस्य तस्य कारणनिर्देशपुरःसरं निरसनं, सप्रकारकं सन्तापजाग्नीनामुत्पादनं प्रतिपाद्य तैरेव सन्तापजाग्निभिरेनं प्रेतमग्निहोत्रिणं सन्दहेदिति स्वसम्मतपक्षस्य निरूपणम्, उक्तेऽर्थे मन्त्रब्राह्मणयोरुभयोः सम्मतिरस्तीति प्रदर्शनं, तत एनं मृतमग्निहोत्रिणं विपुरीषं कुर्यादितीमं पक्षं सार्थवादं सकारणमुपन्यस्य तं सकारणमेव निरस्य च तं मृतं यजमानमन्तरतः प्रक्षाल्याज्येनाक्त्वा मेध्यं कुर्यादिति स्वकीयपक्षस्य प्रतिष्ठापनम्, अस्य मृतस्याग्निहोत्रिणः सप्तसु प्राणायतनेषु सप्त हिरण्यशकलान्प्रत्यस्येदिति सार्थवादं विधानम्, अस्य मृतस्याग्निहोत्रिणः प्रत्यङ्गेषु पात्रविशेषप्रतिपत्तेः सप्रकारकमभिधानम् ,उक्तायाः पात्रप्रतिपत्तेः फलकथनं, सन्तापजैरग्निभिर्दाहे च फलकथनं, तत्र यदि गार्हपत्यः पूर्वः प्राप्नुयात्तदा यत्फलं लब्धं भवति तस्याभिधानं, यदा चाहवनीयः पूर्वः प्राप्नुयात्तदा यत्फलं भवेत्तस्य निरूपणं, यदि चान्वाहार्यपचनः पूर्वः प्राप्नुयात्तदा यत्फलं लभ्येत तस्य प्रतिपादनं, यदि च सर्वे सकृत्प्राप्नुयुस्तदा यत्फलमुत्पद्यते तस्याभिधानं, चितौ हुयमाने यजमानशरीरे आहुतित्वमारोप्य तयाऽऽहुत्याऽस्य स्वर्गो लोको जितो भवत्यमृतमयश्च सम्भवतीति फलोपवर्णनं, यान्यश्ममयानि मृन्मयानि च पात्राणि तानि ब्राह्मणाय दद्यादितीमं पक्षमभिधायास्मिंश्च पक्षे प्रतिग्रहीतारं शवोद्वहं जना वदिष्यन्तीत्यनिष्टत्वं दर्शयित्वा ऽप्सु तेषां सर्वेषां पात्राणामवहरणं विधेयमिति पक्षान्तरनिरूपणं, ततः पुत्रेण भ्रात्राऽन्येन केनचिद्ब्राह्मणेन वा एकाssज्याहुतिः “ अस्मात्त्वमधि जातोऽसि" इत्यनेन मन्त्रेण होतव्येति निरूपणम्, अनपेक्षमेत्याप उपस्पृशेयुरित्येतन्निरूपणं चेत्यादि,