शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ६
ब्राह्मणं १
१ समिदाधानादीनां वनस्पत्यादिरूपफलप्राप्तिसाधनत्वस्य विवक्षयाऽऽख्यायिकाकथनं, तस्यां च वरुणस्य पुत्रस्याहंकारं खण्डयितुं प्रागादिदिक्षु अवान्तरदेशेषु च गत्वा तत्रतत्रत्यं दृष्टं ममाचक्ष्वेति पुत्रस्य नियोजनम्, इत्थं वरुणेन नियुक्तः स भृगुस्तत: प्रागादिदिक्षु अवान्तरदेशेषु च पर्यटनं कृत्वा किं कृतवानित्यपेक्षायां तत्कृतस्याभिधानं, तत्र चतसृषु दिक्षु उग्रकर्माणि दृष्टवाऽन्ते चावान्तरदेशे शोभनाशोभनयोः स्त्रियोर्मध्ये स्थितं भयंकरं पुरुषविशेषं च दृष्ट्वा भीतो भृगुर्गृहमेत्य संविवेशेत्यर्थस्याभिधानम् , एवं वरुणेन पित्रा पुत्रस्य भृगोरहङ्कारमपनीय तस्मै स्वाध्यायमधीष्वेत्युपदिष्टे ममाध्येतव्यं किमपि नास्तीति भृगुरुक्तवांस्तत एव वरुणस्तदभिप्रायं ज्ञातवानित्यर्थस्य प्रतिपादनं, तेन भृगुणा प्रागादिदिक्षु यद्यत्पूर्वं दृष्टं तत्सर्वं तस्योपदिशति श्रुतिरित्यभिधानं, तथा ये अवान्तरदिशि स्त्रियौ दृष्टे तयोः स्वरूपस्य तयोर्मध्ये स्थितस्य पुरुषस्य स्वरूपस्य च प्रदर्शनम् , एवमाख्यायिकया पितापुत्रसंवादेनोक्ता अग्निहोत्रसम्बन्धिनां समिदाधानादीनां वनस्पत्यादिलोकजयप्राप्तिर्विदुषोऽप्यस्त्येवेत्यभिधानं चेत्यादि.
ब्राह्मणं २
२ तथाऽग्निहोत्रहोमे पूर्वोक्तयोराहुत्योरूर्ध्वगत्यादिविषयां विद्यां वक्तुमाख्यायिकायाः कथनं, तस्यां च देशान्तरादागतैः श्वेतकेतुसोमशुष्मयाज्ञवल्क्यैस्त्रिभिः संगतो जनकोऽग्निहोत्रविषयं विचारं कृतवानित्यभिधानं, तत्र प्रथमं श्वेतकेतुनोक्तस्य प्रतिवचनस्य प्रदर्शनम् , एतत्प्रतिवचनोक्तमर्थं विदुषो जुह्वतः फलाभिधानं, तत उक्तार्थविषये सोमशुष्मस्य याज्ञवल्क्यस्य च क्रमेण मतप्रदर्शनं, तत्र याज्ञवल्क्योक्तं मतं जनकस्य सम्मतमभवदिति तन्निदर्शकपारितोषिकप्रदानरूपादिप्रकारसहितमभिधानम् , एवं त्रिषु ब्राह्मणेषु स्वाभिमतमग्निहोत्ररूपमुक्तवत्सु जनकः स्वावगतमुत्क्रान्तिगत्यादिकं याज्ञवल्क्योऽपि न जानातीत्यभिधानं, ततो जनकस्य प्रवृत्तिनिरूपणम् , एवमुक्त्वा यानमारुह्य निर्गते राजनि क्रुद्धा ब्राह्मणाः किं कृत. वन्त इति तन्निरूपणं, तत्र याज्ञवल्क्यस्याभिप्रायप्रदर्शनम्, ततो जनकः प्रागज्ञातत्वेनात्मनोपन्यस्तमुत्क्रान्त्यादिकं तस्मै याज्ञवल्क्यायाकथयदित्यभिधानम्, एतद्वेदनस्यावान्तरफलनिरूपणं ते स्त्रियमाविशतः इत्यत्राप्याहवनीयादीनां सम्पादनम् , एतद्वेदनस्यापि फलप्रतिपादनम् , इत्थं जनकेन स्वाभिमत. मग्निहोत्राहुत्योरुत्क्रान्त्यादिकं प्रतिपाद्य तस्योपसंहरणं, जनकस्य याज्ञवल्क्यं प्रति स्वाभिमतस्य वरस्य प्रार्थनाकरणकथनं चेति.
ब्राह्मणं ३
३ अग्निहोत्रदर्शपूर्णमासादियागदेवतानां तत्त्वतः प्राणशब्दाभिधेयपरमात्मरूपताया विवक्षया विजिगीषुकथामुखेनाख्यायिकायाः कथनं, तस्यां चादौ ब्राह्मणपरीक्षार्थं जनकेन गावो निहिता इत्यभिधानम् , एवं राज्ञो वाक्यमाकर्ण्य याज्ञवल्क्यस्य मदीयं गृहं प्रत्येता गावः प्रस्थापनीया इत्यभिधानम् , एतद्याज्ञवल्क्यवाक्यं श्रुत्वा क्रुद्धानामन्येषां ब्राह्मणानां वचनप्रदर्शनम्, एवं ब्राह्मणैरधिक्षिप्ते सति याज्ञवल्क्येन यदुक्तं तस्य प्रदर्शनम् , एवमुपहसिते सत्यन्यैर्ब्राह्मणैर्यत्कृतं तस्य प्रदर्शनं, तत्र याज्ञवल्क्यवाक्यमनादृत्यैव शाकल्यः प्रष्टुमुपचक्रमे इत्यभिधानं, तत्र पुनर्विशेषजिज्ञासायाः प्रदर्शनं, तत्रापि शाकल्ययाज्ञवल्क्ययोः प्रश्नप्रतिवचनाभ्यां पर्यवसितं देवताया एकत्वं प्रदर्श्य पुनः शाकल्यस्योक्ताक्षेपपरस्य प्रश्नस्योद्भावनाकथनम् , उक्तप्रश्नस्योत्तरत्वेनाभिहितानां त्रयस्त्रिंशत्संख्याकानां देवानां विभागपुरःसरं परिगणनं, तत्र प्रश्नपूर्वकं क्रमेण वसूनां रुद्राणामादित्यानां स्वरूपकथनं तत्तन्नामनिर्वचनं च, ततः प्रश्नपूर्वकमिन्द्रप्रजापत्योः स्तनयित्नुयज्ञयोश्च स्वरूपकथनं, “ कतमे ते त्रयो देवाः" इति प्रागुक्तस्य सविशेषं विवरणं, एवं याज्ञवल्क्यस्य शाकल्येन पृष्टस्य देवतास्वरूपस्याविष्करणद्वारा शाकल्यस्याधिक्षेपकरणप्रदर्शनं, प्रसङ्गात्तत्त्वनिष्ठमुपेत्य वादी न भवेत्किन्तु तमेवंविदं विद्वांसमुपेत्य तात्पर्येण सेवायुक्तो भवेदिति नियमप्रदर्शनं चेत्यादि.