शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ५/ब्राह्मणं ९

विकिस्रोतः तः
Jump to navigation Jump to search
अदाभ्यग्रहः
अंशुग्रहः.

११.५.९.[१]
प्रजापतिर्ह वा एष यदंशुः। सोऽस्यैष आत्मैवात्मा ह्ययं प्रजापतिर्वागेवादाभ्यः स यदंशुः गृहीत्वादाभ्यं गृह्णात्यात्मानमेवास्यैतत्संस्कृत्य तस्मिन्नेतां वाचम्प्रतिष्ठापयति - ११.५.९.[१]

अथ मनो ह वा अंशुः। वागदाभ्यः प्राण एवांशुरुदानोऽदाभ्यश्चक्षुरेवांशुः श्रोत्रमदाभ्यस्तद्यदेतौ ग्रहौ गृह्णन्ति सर्वत्वायैव कृत्स्नतायै - ११.५.९.[२]

अथ देवाश्च ह वा असुराश्च उभये प्राजापत्या अस्पर्धन्त त एतस्मिन्नेव यज्ञे प्रजापतावस्पर्धन्तास्माकमयं स्यादस्माकमयं स्यादिति - ११.५.९.[३]

ततो देवाः अर्चन्तः श्राम्यन्तश्चेरुस्त एतं ग्रहं ददृशुरेतमदाभ्यं तमगृह्णत ते सवनानि प्रावृहन्त ते सर्वं यज्ञं समवृञ्जतान्तरायन्नसुरान्यज्ञात् - ११.५.९.[४]

ते होचुः अदभाम वा एनानिति तस्माददाभ्यो न वै नोऽदभन्निति तस्माददाभ्यो वाग्वा अदाभ्यः सेयमदब्धा वाक्तस्माद्वेवादाभ्य एवं ह वै द्विषतो भ्रातृव्यस्य सर्वं यज्ञं संवृङ्क्त एवं द्विषन्तं भ्रातृव्यं सर्वस्माद्यज्ञान्निर्भजति बहिर्द्धा करोति य उ एवमेतद्वेद - ११.५.९.[५]

स येनैव पात्रेणांशुं गृह्णाति। तस्मिन्नेव पात्रे निग्राभ्याभ्योऽप आनीय तस्मिन्नेतानंशून्गृह्णाति - ११.५.९.[६]

उपयामगृहीतोऽसि। अग्नये त्वा गायत्रच्छन्दसं गृह्णामीति गायत्रं प्रातःसवनं तत्प्रातःसवनं प्रवृहतीन्द्राय त्वा त्रिष्टुप्छन्दसं गृह्णामीति त्रैष्टुभम्माध्यन्दिनं सवनं तन्माध्यन्दिनं सवनं प्रवृहति विश्वेभ्यस्त्वा देवेभ्यो जगच्छन्दसं गृह्णामीति जागतं तृतीयसवनं तत्तृतीयसवन प्रवृहत्यनुष्टुप्तेऽभिगर इति यद्वा ऊर्ध्वं सवनेभ्यस्तदानुष्टुभं तदेवैतत्प्रवृहति तन्नाभिषुणोति वज्रो वै ग्रावा वागदाभ्यो नेद्वज्रेण वाचं हिनसानीति - ११.५.९.[७]

अंशूनेवाधूनोति। व्रेशीनां त्वा पत्मन्नाधूनोमि कुकूननानां त्वा पत्मन्नाधूनोमि भन्दनानां त्वा पत्मन्नाधूनोमि मदिन्तमानां त्वापत्मन्नाधूनोमि मधुन्तमानां त्वा पत्मन्नाधूनोमीत्येता वै दैवीरापस्तद्याश्चैव दैवीरापो याश्चेमा मानुष्यस्ताभिरेवास्मिन्नेतदुभयीभी रसं दधाति - ११.५.९.[८]

शुक्रं त्वा शुक्र आधूनोमीति शुक्रं ह्येतच्छुक्र आधूनोत्यह्नो रूपे सूर्यस्य रश्मिष्विति तदह्नश्चैवैनमेतद्रूपे सूर्यस्य च रश्मिष्वाधूनोति - ११.५.९.[९]

ककुभं रूपं वृषभस्य रोचते बृहदिति। एतद्वै ककुभं रूपं वृषभस्य रोचते बृहद्य एष तपति शुक्रः शुक्रस्य पुरोगाः सोमः सोमस्य पुरोगा इति तच्छुक्रमेवैतच्छुक्रस्य पुरोगां करोति सोमं सोमस्य पुरोगां यत्ते सोमादाभ्यन्नाम जागृवि तस्मै त्वा गृह्णामीत्येतद्ध वा अस्यादाभ्यं नाम जागृवि यद्वाक्तद्वाचमेवैतद्वाचे गृह्णाति - ११.५.९.[१०]

अथोपनिष्क्रम्य जुहोति। तस्मै ते सोम सोमाय स्वाहेति तत्सोममेवैतत्सोमाय जुहोति तथो वाचमग्नौ न प्रवृणक्त्यथ हिरण्यमभिव्यनित्यसावेव बन्धुस्तस्य तावतीरेव दक्षिणा यावतीरंशोः - ११.५.९.[११]

अथांशून्पुनरप्यर्जति। उशिक्त्वं देव सोमाग्नेः प्रियं पाथोऽपीहि वशी त्वं देव सोमेन्द्रस्य प्रियं पाथोऽपीह्यस्मत्सखा त्वं देव सोम विश्वेषां देवानाम्प्रियं पाथोऽपीहीति सवनानि वा अदः प्रवृहति तान्येवैतत्पुनराप्याययत्ययातयामानि करोति तैरयातयामैर्यज्ञं तन्वते - ११.५.९.[१२]

[सम्पाद्यताम्]

टिप्पणी

द्र. शतपथब्राह्मणम् ४.६.१

अंशु उपरि टिप्पणी

अदाभ्यग्रहणम्
अग्निष्टोमे प्रातःसवने आधवनीयाऽब्ग्रहणानन्तरमदाभ्यपात्रमधस्तादुपरिष्टाद्रजत-सुवर्णरुक्माभ्यां क्रमेणावेष्ट्य तस्मिन्नंशून् निधाय होतृचमसीया अपो गृह्णाति- ' शुक्रं ते शुक्रेण गृह्णाम्यह्नो रूपेण सूर्यस्य रश्मिभिः । आऽस्मिन्नुग्रा अचुच्यवुर्दिवो धारा असश्चत इति । तदेतददाभ्यग्रहणमुच्यते ।

अदाभ्यग्रहहोमः -- अग्निष्टोमे प्रातःसवने ककुहं रूपं वृषभस्य रोचते बृहत् इति ग्रहमादायोपोत्तिष्ठति । ' सोमः सोमस्य पुरोगाः शुक्रः शुक्रस्य पुरोगाः ' इति आहवनीयसकाशमेति । वषट्कारपथस्य दक्षिणतः प्राङ्मुखस्तिष्ठन् अन्वारब्धे यजमाने सर्वं जुहोति- यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा' इति । सोमायेदमिति यजमानः । अध्वर्युः प्रदक्षिणमावृत्य राजन्यंशून् प्रक्षिपति । ' उशिक् त्वं सोम गायत्रेण छन्दसाऽग्नेः प्रियं पाथो अपीहि ' इति प्रथममंशुं प्रक्षिपति । ' वशी त्वं देव सोम त्रैष्टुभेन छन्दसेन्द्रस्य प्रियं पाथो अपीहि ' इति द्वितीयम् । ' अस्मत्सखा त्वं देव सोम जागतेन छन्दसा विश्वेषां देवानां प्रियं पाथो अपीहि ' इति तृतीयम् । सोऽयमदाभ्यग्रहहोमः उच्यते । - श्रौतयज्ञप्रक्रिया-पदार्थानुक्रमकोशः
पण्डित पीताम्बरदत्त शास्त्री
(राष्ट्रियसंस्कृतसंस्थानम्, नवदेहली)

पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः।
पवस्व धिषणाभ्यः॥ ९.०५९.०२
ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः।
दधाति पुत्रः पित्रोरपीच्यं नाम तृतीयमधि रोचने दिवः॥ ९.०७५.०२
हे सोम त्वम् “अद्भ्यः वसतीवरीभ्यः “अदाभ्यः अंशुभ्यश्च “पवस्व क्षर । अपि च "ओषधीभ्यः “पवस्व क्षर। किंच “धिषणाभ्यः ग्रावभ्यः “पवस्व क्षर ॥- सा.भा.
तं मर्ता अमर्त्यं घृतेनाग्निं सपर्यत।
अदाभ्यं गृहपतिम्॥ १०.११८.०६
अदाभ्येन शोचिषाग्ने रक्षस्त्वं दह।
गोपा ऋतस्य दीदिहि॥ १०.११८.०७

अदाभ्य (ग्रह)
१. तानसुरान् ( देवाः ) आदभ्नुवꣳस्तददाभ्यस्यादाभ्यत्वम् । मै ४, ७, ७
२. तेऽब्रुवन्नदभन्न इति तदस्यादाभ्यत्वमथो यदेनान् दब्धुं नाशक्नुवꣳस्तदस्यादाभ्यत्वम् । काठ ३०, ७॥
३. ते ( देवाः ) होचुः । अदभाम वाऽएनान् (असुरान् ) इति तस्माददाभ्यो न वै ( असुराः) नोऽदभन्निति तस्माददाभ्यो वाग्वाऽअदाभ्यः । माश ११, ५, ९, ५
४. प्राणाय त्वा। यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा। प्रागपागधरागुदगेतास्त्वा दिशा आधावन्तु ,। मै १, ३, ४
५. यद्वै देवा असुरान् अदाभ्येनादभ्नुवन् तदाभ्यस्यादाभ्यत्वम् । तैसं ६, ६, ९,१ । ६. प्रजापतिर्ह वा एष यदंशुः। सोऽस्यैष आत्मैव.... वागेवादाभ्यः । माश ११, ५, ९, १
अथ मनो ह वा अंशुः। वागदाभ्यः प्राण एवांशुरुदानोऽदाभ्यश्चक्षुरेवांशुः श्रोत्रमदाभ्यस्तद्यदेतौ ग्रहौ गृह्णन्ति सर्वत्वायैव कृत्स्नतायै श ११.५.९.२