सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ५/ब्राह्मणं १

विकिस्रोतः तः

११.५.१

उर्वशी हाप्सराः। पुरूरवसमैडं चकमे तं ह विन्दमानोवाच त्रिः स्म माऽह्नो वैतसेन दण्डेन हतादकामां स्म मा निपद्यासै मो स्म त्वा नग्नं दर्शमेष वै न स्त्रीणामुपचार इति - ११.५.१.१

सा हास्मिञ्ज्योगुवास। अपि हास्माद्गर्भिण्यास तावज्ज्योग्घास्मिन्नुवास ततो ह गन्धर्वाः समूदिरे ज्योग्वा इयमुर्वशी मनुष्येष्ववात्सीदुपजानीत यथेयं पुनरागच्छेदिति तस्यै हाविर्द्व्युरणा शयन उपबद्धास ततो ह गन्धर्वा अन्यतरमुरणं प्रमेथुः - ११.५.१.२

सा होवाच। अवीर इव बत मेऽजन इव पुत्रं हरन्तीति द्वितीयं प्रमेथुः सा ह तथैवोवाच - ११.५.१.३

अथ हायमीक्षां चक्रे। कथं नु तदवीरं कथमजनं स्याद्यत्राहं स्यामिति स नग्न एवानूत्पपात चिरं तन्मेने यद्वासः पर्यधास्यत ततो ह गन्धर्वा विद्युतं जनयाञ्चक्रुस्तं यथा दिवैवं नग्नं ददर्श ततो हैवेयं तिरोबभूव पुनरैमीत्येत्तिरोभूतां स आध्या जल्पन्कुरुक्षेत्रं समया चचारान्यतः प्लक्षेति बिसवती तस्यै हाध्यन्तेन वव्राज तद्ध ता अप्सरस आतयो भूत्वा परिपुप्लुविरे - ११.५.१.४

तं हेयं ज्ञात्वोवाच। अयं वै स मनुष्यो यस्मिन्नहमवात्समिति ता होचुस्तस्मै वा आविरसामेति तथेति तस्मै हाविरासुः - ११.५.१.५

तां हायं ज्ञात्वाभिपरोवाद। हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवावहै नु। न नौ मन्त्रा अनुदितास एते मयस्करन्परतरे च नाहन्नित्युप नु रम सं नु वदावहा इति हैवैनां तदुवाच - ११.५.१.६

तं हेतरा प्रत्युवाच। किमेता वाचा कृणवा तवाहं प्राक्रमिषमुषसामग्रियेव। पुरूरवः पुनरस्तं परेहि दुरापना वात इवाहमस्मीति न वै त्वं तदकरोर्यदहमब्रवं दुरापा वा अहं त्वयैतर्ह्यस्मि पुनर्गृहानिहीति हैवैनं तदुवाच - ११.५.१.७

अथ हायं परिद्यून उवाच। सुदेवो अद्य प्रपतेदनावृत्परावतं परमां गन्तवा उ। अधा शयीत निर्ऋतेरुपस्थेऽधैनं वृका रभसासो अद्युरिति सुदेवोऽद्योद्वा बध्नीत प्र वा पतेत्तदेनं वृका वा श्वानो वाऽद्युरिति हैव तदुवाच - ११.५.१.८

तं हेतरा प्रत्युवाच। पुरूरवो मा मृथा मा प्रपप्तो मा त्वा वृकासो अशिवास उ क्षन्। न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्येतेति मैतदादृथा न वै स्त्रैणं सख्यमस्ति पुनर्गृहानिहीति हैवैनं तदुवाच - ११.५.१.९

यद्विरूपाचरम्। मर्त्येष्ववसं रात्रीः शरदश्चतस्रः। घृतस्य स्तोकं सकृदह्न आश्नां ता देवेदं तातृपाणा चरामीति तदेतदुक्तप्रत्युक्तं पञ्चदशर्चं बह्वृचाः प्राहुस्तस्यै ह हृदयमाव्ययाञ्चकार - ११.५.१.१०

सा होवाच। संवत्सरतमीं रात्रिमागच्छतात्तन्म एकां रात्रिमन्ते शयितासे जात उ तेऽयं तर्हि पुत्रो भवितेति स ह संवत्सरतमीं रात्रिमाजगामेद्धिरण्यविमितानि ततो हैनमेकमूचुरेतत्प्रपद्यस्वेति तद्धास्मै तामुपप्रजिघ्युः - ११.५.१.११

सा होवाच। गन्धर्वा वै ते प्रातर्वरं दातारस्तं वृणासा इति तं वै मे त्वमेव वृणीष्वेति युष्माकमेवैकोऽसानीति ब्रूतादिति तस्मै ह प्रातर्गन्धर्वा वरं ददुः स होवाच युष्माकमेवैकोऽसानीति - ११.५.१.१२

ते होचुः। न वै सा मनुष्येष्वग्नेर्यज्ञिया तनूरस्ति ययेष्ट्वास्माकमेकः स्यादिति तस्मै ह स्थाल्यामोप्याग्निं प्रददुरनेनेष्ट्वाऽस्माकमेको भविष्यसीति तं च ह कुमारं चादायावव्राज सोऽरण्य एवाग्निं निधाय कुमारेणैव ग्राममेयाय पुनरैमीत्येत्तिरोभूतं योऽग्निरश्वत्थं तं या स्थाली शमीं तां स ह पुनर्गन्धर्वानेयाय - ११.५.१.१३

ते होचुः। संवत्सरं चातुष्प्राश्यमोदनं पच स एतस्यैवाश्वत्थस्य तिस्रस्तिस्रः समिधो घृतेनान्वज्य समिद्वतीभिर्घृतवतीभिर्ऋग्भिरभ्याधत्तात्स यस्ततोऽग्निर्जनिता स एव स भवितेति - ११.५.१.१४

ते होचुः। परोऽक्षमिव वा एतदाश्वत्थीमेवोत्तरारणिं कुरुष्व शमीमयीमधरारणिं स यस्ततोऽग्निर्जनिता स एव स भवितेति - ११.५.१.१५

ते होचुः। परोऽक्षमिव वा एतदाश्वत्थीमेवोत्तरारणिं कुरुष्वाश्वत्थीमधरारणिं स यस्ततोऽग्निर्जनिता स एव स भवितेति - ११.५.१.१६

स आश्वत्थीमेवोत्तरारणिं चक्रे। आश्वत्थीमधरारणिं स यस्ततोऽग्निर्जज्ञे स एव स आस तेनेष्ट्वा गन्धर्वाणामेक आस तस्मादाश्वत्थीमेवोत्तरारणिं कुर्वीताश्वत्थीमधरारणिं स यस्ततोऽग्निर्जायते स एव स भवति तेनेष्ट्वा गन्धर्वाणामेको भवति - ११.५.१.१७