शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

ब्राह्मण १ वैष्वानराग्न्युपासनं ब्राह्मणम्

१ वैश्वानराग्न्युपासनं ब्राह्मणम्--तत्र मुखावबोधार्थया विद्यासम्प्रदायप्रदर्शनार्थया चाख्यायिकया वैश्वानरविद्यायाः सविस्तरं निरूपणं, तस्यां च विशेषतोऽरुणसहितानां सत्ययज्ञप्रभृतीनां पञ्चानामप्यृषीणां कैकेयमश्वपति राजानं प्रति शिष्यभावेनोपसदनस्य प्रतिपादनं, ततस्तेषां प्रश्नोत्तराभ्यामरुणसत्ययज्ञादीनामृषीणां क्रमेण वैश्वानरस्य पृथिव्युदकाकाशवाय्वादित्यद्यौरूपं तदेकदेशमात्रपरिज्ञानं वर्तत इति प्रदर्शनं प्रतिपर्यायं तत्तदेकदेशमात्रपरिज्ञानस्य फलप्रदर्शनं च, परं चैतेषां वैश्वानरस्य तत्तदेकदेशमात्रपरिज्ञानं न युक्तमिति मत्वा तेभ्योऽरुणसत्ययज्ञादिभ्योऽश्वपतिकर्तृकस्य पादादिमूर्द्धान्तावयवसम्पूर्णस्य वैश्वानरपुरुषस्योपदेशप्रदानस्य प्रतिपादनं, यथोक्तं वैश्वानराग्निं विदुषः फलाभिधानं चेत्यादि.

ब्राह्मण २ पुरुषस्याग्न्यर्कोक्थविधत्वोपासनं ब्राह्मणम्

२ पुरुषस्याग्न्यर्कोक्थविधत्वोपासनं ब्राह्मणम्--तत्रादावग्निविधोपासनं, तत्र जगतोऽद्यरूपं द्वितयं प्रतिपाद्य तत्र " योऽत्ता सोऽग्निरेव" तस्मिन्नग्नौ " यत्किंच वस्त्वभ्यादधति " तदद्यमर्थादाहुतिरित्यभिधाय च तयोरनाहुत्यो. रघिदेवस्याध्यात्मस्य चार्थस्य निरूपणं, प्रसङ्गादाहुतिशब्दस्य निरुक्तिकथनम्, एव. मग्निशब्दोपजीवनेनाग्निविधः पुरुष उक्तो भवतीति प्रदर्शनम्।
अर्कविधोपासनम्--तत्रार्कशब्दोपजीवनेन प्रतिज्ञापूर्वकं पूर्ववदग्न्याहुत्योरर्थद्वयं प्रदर्श्य पुनरप्येतयोरर्कवाच्ययोरग्न्याहुत्योरधिदैवाध्यात्मपरत्वेन अर्थद्वयस्य प्रदर्शनम् एवमर्कशब्दोपजीवननार्कविधः पुरुष उक्तो भवतीति निगमनम् .
उक्थविधोपासनम्-तत्रोक्थशब्दोपजीवनेन प्रतिज्ञापूर्वकं पूर्ववदग्न्याहुत्योरर्थद्वयं प्रदर्श्य पुनरप्येतयोरुक्थवाच्ययोरग्न्याहुत्योरधिदैवाध्यात्मपरत्वेनार्थद्वयस्य प्रतिपादनम्, एवमुक्थशन्दोपजीवनेनोक्थविधः पुरुष उक्तो भवतीति निगमनं, पर्यायत्रयेणोक्ताया अग्निविधादिपुरुषसम्पत्तेर्निगमनं, यथोक्तं पुरुषं विदुषः फलाभिधानं, प्रसङ्गात्प्राणाग्न्यादित्यचन्द्रमोज्योतीरूपोपासनस्य तत्फलस्य चाभिधानं चेत्यादि.


ब्राह्मण ३ शाण्डिल्याग्न्युपासनं ब्राह्मणम्

३ शाण्डिल्याग्न्युपासनं ब्राह्मणम् -- तत्र ब्रह्मात्मविषयः क्रतुः कर्तव्य इत्यभिप्रायप्रदर्शनद्वारा सत्यं ब्रह्म मनोमयत्वादिगुणविशिष्टमात्मानमुपासीत--एतदेव च क्रतुकरणमित्याद्यर्थनिरूपणेन शाण्डिल्यविद्यायाः सविस्तरं प्रतिपादनं चेति.

ब्राह्मण ४ अश्वावयवेषु विराडवयवोपासनं ब्राह्मणम्

४ अश्वावयवेषु विराडवयवोपासनं ब्राह्मणम्--तत्र चाश्वमेधकर्मसम्बन्धिनोऽश्वस्यावयवेषु विराडवयवानि यथायथं सम्पाद्य तद्रूपेणोपासनस्य प्रदर्शनं चेति.

ब्राह्मण ५ उपास्यस्य हिरण्यगर्भस्य स्वरूपप्रतिपादकं ब्राह्मणम्

५ उपास्यस्य हिरण्यगर्भस्य स्वरूप प्रतिपादकं ब्राह्मणम्--तत्राश्वमेधक्रतूपयोगिकाग्निविषयं दर्शनं वक्तुं तत्स्तुत्यर्थतया तदुत्पत्तिप्रस्तावस्याभिधानं, तत्रापि सृष्टेः प्रारम्भे नैव किञ्चनासीत्सर्वमशनायारूपमृत्युनाऽऽवृतमासीत्तस्मान्मृत्योः सकाशात्स्वकीयार्चनत एवापामुत्पत्तिरित्याद्यर्थनिरूपणं, प्रसङ्गात्तत्रार्कस्यार्कत्वं प्रतिपाद्य तद्वेदितुः फल. निरूपणं, अद्भ्यः सकाशात्पृथिवीद्वाराऽग्न्युत्पत्तेरभिधानम्, एवमुत्पन्नो विराट् स्वस्वरूपानुपमर्दनेनाग्न्यादित्यवाय्वात्मनाऽऽत्मानं त्रेधा विभक्तवानित्यभिधायास्य विराजोऽग्नेरर्कनाम्नोऽश्वस्येव संस्काराय दर्शनस्यामिधानम् , एतद् गुणोपासनफलनिरूपणं, यो मृत्युरबादिप्रतिपाद्येमं विराजमसृजत स केन व्यापारणेत्याकांक्षायां तद्व्यापारस्य निरूपणं, पीठिकापूर्वकमृगादिसृष्टेरभिधानम्, प्रसङ्गान्मृत्योरदितित्वप्रसिद्धेरभिधानम्, एतद्गुणोपासनफलनिरूपणं, उपोद्घातपूर्वकमश्वाश्वमेधयोर्निर्वचनं, स तस्मिन्नेव शरीरे गतमनाः सन्किमकरोदित्यपेक्षायां तद्व्यापरस्य निरूपणम्, " उषा वा-नैवेह " इत्यादिनाऽश्वाग्न्योरुपासनं विहितम्--इदानीं तदुभयात्मकमेकमेवेति विशिष्टोपासनं विधातुं प्रधानविधेरुन्नयनं, पशुविषयकदर्शनस्याभिधानं, फलावस्थः प्रजापतिरित्थमश्वमेधोपासनमकरोदित्यत्राधुनिकानामाचारस्य प्रमाणीकरणं, कल्पि. तबाह्यपशुहेतुकोभयविधस्यापि क्रतो: फलरूपेण प्रत्यक्षत्वस्याभिधानं, कोऽसौ क्रतुफलात्मकः सविता मण्डलं देवता वेति संदेहे तत्स्वरूपस्य प्रतिपादनम्, एवं क्रतोरादित्यत्वमुक्त्वा तदङ्गस्याग्नेरादित्यत्वस्य भूरादिलोकानां तच्छरीरावयवत्वस्य चाभिधानम् , उभयोरेकत्वमनूद्य मृत्य्वात्मना सूत्रेण सहैकत्वस्य प्रदर्शनम्, एवंभूताश्वमेधोपासकस्य फलनिरूपणम्, अग्निरहस्यविद्यासम्प्रदायप्रवर्तकमुनिवंशकथनं चेत्यादि.