शतपथब्राह्मणम्/काण्डम् १०/अध्यायः १/ब्राह्मण ४
← ब्राह्मण ३ | शतपथब्राह्मणम्/काण्डम् १०/अध्यायः १/ब्राह्मण ४ [[लेखकः :|]] |
ब्राह्मण ५ → |
१०.१.४
उभयं हैतदग्रे प्रजापतिरास मर्त्यं चैवामृतं च तस्य प्राणा एवामृता आसुः शरीरं मर्त्यं स एतेन कर्मणैतयावृतैकधाजरममृतमात्मानमकुरुत तथैवैतद्यजमान उभयमेव भवति मर्त्यं चैवामृतं च तस्य प्राणा एवामृता भवन्ति शरीरं मर्त्यं स एतेन कर्मणैतयावृतैकधाजरममृतमात्मानं कुरुते - १०.१.४.१
स प्रथमां चितिं चिनोति सा हास्यैषा प्राण एव तद्वै तदमृतमृतं हि प्राणः सैषामृतचितिरथ पुरीषं निवपति तद्धास्यैतन्मज्जैव तद्वै तन्मर्त्यम्मर्त्यो हि मज्जा तदेतस्मिन्नमृते प्रतिष्ठापयति तेनास्यैतदमृतं भवति - १०.१.४.२
द्वितीयां चितिं चिनोति सा हास्यैषापान एव तद्वै तदमृतममृतं ह्यपानः सैषाऽमृतचितिस्तदेतन्मर्त्यमुभयतोऽमृतेन परिगृह्णाति तेनास्यैतदमृतम्भवत्यथ पुरीषं निवपति तद्धास्यैतदस्थ्येव तद्वै तन्मर्त्यं मर्त्यं ह्यस्थि तदेतस्मिन्नमृते प्रतिष्ठापयति तेनास्यैतदमृतं भवति - १०.१.४.३
तृतीयां चितिं चिनोति सा हास्यैषा व्यान एव तद्वै तदमृतममृतं हि व्यानः सैषामृतचितिस्तदेतन्मर्त्यमुभयतोऽमृतेन परिगृह्णाति तेनास्यैतदमृतम्भवत्यथ पुरीषं निवपति तद्धास्यैतत्स्नावैव तद्वै तन्मर्त्यं मर्त्यं हि स्नाव तदेतस्मिन्नमृते प्रतिष्ठापयति तेनास्यैतदमृतं भवति - १०.१.४.४
चतुर्थीं चितिं चिनोति सा हास्यैषोदान एव तद्वै तदमृतममृतं ह्युदानः सैषामृतचितिस्तदेतन्मर्त्यमुभयतोऽमृतेन परिगृह्णाति तेनास्यैतदमृतम्भवत्यथ पुरीषं निवपति तद्धास्यैतन्मांसमेव तद्वै तन्मर्त्यं मर्त्यं हि मांसं तदेतस्मिन्नमृते प्रतिष्ठापयति तेनास्यैतदमृतं भवति - १०.१.४.५
पञ्चमीं चितिं चिनोति सा हास्यैषा समान एव तद्वै तदमृतममृतं हि समानः सैषामृतचितिस्तदेतन्मर्त्यमुभयतोऽमृतेन परिगृह्णाति तेनास्यैतदमृतम्भवत्यथ पुरीषं निवपति तद्धास्यैतन्मेद एव तद्वै तन्मर्त्यं मर्त्यं हि मेदस्तदेतस्मिन्नमृते प्रतिष्ठापयति तेनास्यैतदमृतं भवति - १०.१.४.६
षष्ठीं चितिं चिनोति सा हास्यैषा वागेव तद्वै तदमृतममृतं हि वाक् सैषामृतचितिस्तदेतन्मर्त्यमुभयतोऽमृतेन परिगृह्णाति तेनास्यैतदमृतम्भवत्यथ पुरीषं निवपति तद्धास्यैतदसृगेव त्वगेव तद्वै तन्मर्त्यम्मर्त्यं ह्यसृङ्मर्त्या त्वक्तदेतस्मिन्नमृते प्रतिष्ठापयति तेनास्यैतदमृतम्भवति - १०.१.४.७
ता वा एताः षडिष्टकाचितयः षट्पुरीषचितयस्तद्द्वादश द्वादश मासाः संवत्सरःसंवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैव तत्प्रजापतिरेकधाजरममृतमात्मानमकुरुत तथैवैतद्यजमान एकधाजरममृतमात्मानं कुरुते - १०.१.४.८
अथ विकर्णीं च स्वयमातृणां चोपधाय हिरण्यशकलैःप्रोक्षत्यग्निमभ्यादधाति रूपमेव तत्प्रजापतिर्हिरण्मयमन्तत आत्मनोऽकुरुत तद्यदन्ततस्तस्मादिदमन्त्यमात्मनो रूपं तस्मादाहुर्हिरण्मयः प्रजापतिरिति तथैवैतद्यजमानो रूपमेव हिरण्मयमन्तत आत्मनः कुरुते तद्यदन्ततस्तस्मादिदमन्त्यमात्मनो रूपं तस्माद्ये चैतद्विदुर्ये च न हिरण्मयोऽग्निचिदमुष्मिंलोके सम्भवतीत्येवाहुः - १०.१.४.९
तद्धैतच्छाण्डिल्यश्च साप्तरथवाहनिश्च आचार्यान्तेवासिनौ व्यूदाते रूपमेवास्यैतदिति ह स्माह शाण्डिल्यो लोमानीति साप्तरथवाहनिः - १०.१.४.१०
स होवाच शाण्डिल्यः रूपं वाव लोमवद्रूपमलोमकं रूपमेवास्यैतदिति तद्वैतत्तथा यथा तच्छाण्डिल्य उवाच संचितेऽग्निः प्रणीयते प्रणीतादूर्ध्वं समिध आहुतय इति हूयन्ते - १०.१.४.११
प्राणेन वै देवा अन्नमदन्ति अग्निरु देवानां प्राणस्तस्मात्प्राग्देवेभ्यो जुह्वति प्राणेन हि देवा अन्नमदन्त्यपानेन मनुष्या अन्नमदन्ति तस्मात्प्रत्यङ्मनुष्येष्वन्नं धीयतेऽपानेन हि मनुष्या अन्नमदन्ति - १०.१.४.१२
तदाहुः न वयसोऽग्निचिदश्नीयाद्वयो वा एष रूपं भवति योऽग्निं चिनुत ईश्वरआर्तिमातोस्तस्मान्न वयसोऽग्निचिदश्नीयादिति तद्वै काममेवैवंविदश्नीयादग्नेर्वा एष रूपं भवति योऽग्निं चिनुते सर्वं वा इदमग्नेरन्नं सर्वं म इदमन्नमित्येवैवंविद्विद्यादिति - १०.१.४.१३
तदाहुः किं तदग्नौ क्रियते येन यजमानः पुनर्मृत्युमपजयतीत्यग्निर्वा एष देवता भवति योऽग्निं चिनुतेऽमृतमु वा अग्निः श्रीर्देवाः श्रियं गच्छति यशो देवा यशो ह भवति य एवं वेद - १०.१.४.१४