शङ्करविजयः/प्रथमस्सर्गः

विकिस्रोतः तः
               




   

श्रीमच्छङ्करविजयः

श्रीव्यासगिरिप्रणीतः

प्रथमस्सर्गः

कालठ्याख्ये ग्रामवर्ये द्विजाग्र्यः
सत्सन्तोषी केरलेष्वातिथेयः ।
जज्ञे कर्ता कर्मणां चोदितानां
त्यक्ता नित्यं निन्दितानां विनीतः ॥ १ ॥

स ब्रह्मचारी गुरुगेहवासी तत्कार्यकारी विहितान्नभोजी ।
सायं प्रभातञ्च हुताशसेवी व्रतेन वेदं निजमध्यगीष्ट ॥ २ ॥

क्रियाद्यनुष्ठानफलोऽर्थबोघस्स नोपजायेत विना विचारम् ।
अधीत्य वेदानथ तद्विचारं चकार दुर्बोधतरो हि वेदः ॥ ३ ॥

वेदेष्वधीतेषु विचारितेऽर्थे शिष्यानुरागी गुरुराह तं स्म ।
अपाठि मत्तस्सषडङ्गवेदो व्यचारि कालो बहुरत्यगात्ते ॥ ४ ॥

भक्तोऽपि गेहं व्रज संप्रति त्वं जनोऽपि ते दर्शनलालसःस्यात् ।
गत्वा कदाचित् स्वजनप्र​मोद विधेहि मा तात विलम्बथाः स्म ॥ ५ ॥

विधातुमिष्टं यदिहपराह्णे विजानता तत्पुरुषेण पूर्वम् ।
विधेयमेतद्यदिह श्व इष्टं कर्तुं तदद्येति विनिश्चितोऽर्थः ॥ ६ ॥

कालोप्तबीजादिह यादृशं स्यात् सस्यं न तादृग्विपरीतकालात् ।
तथा विवाहादि कृतं स्व​काले फलाय कल्पेत न चेद्वृथा तत् ॥ ७ ॥

2
शङ्करविजये

आजन्मनो गणयतो ननु तान् गताब्दान्
माता पिता परिणयं तव कर्तुकामौ ।
पित्रोरियं प्रकृतिरेव​ पुरोपनीतिं
यद्ध्यायतस्तनुभवस्य ततो विवाहम् ॥ ८ ॥

तत्तत्कुलीनपितरः स्पृहयन्ति कामं
तत्तत्कुलीनपुरुषस्य विवाहकर्म ।
पिण्डप्रदातृपुरुषस्य ससन्ततित्वे
पिण्डाविलोपमुपरि स्फुटमीक्षमाणाः ॥ ९ ॥

अर्थावबोधनफलो हि विचार एष
तच्चापि चित्रब​हुकर्मविधानहेतोः ।
तत्राधिकारमधिगच्छति सद्वितीयः
कृत्या विवाहमानि वेदविदां प्रवादः ॥ १० ॥

सत्यं गुरो न नियमोऽस्ति गुरोरधीन-
वेदो गृही भवति नान्यपदं प्रयाति ।
वैराग्यवान् व्रजति भिक्षुपदं विवेकी
नो चेद्गृही भवति 1राजपदं तदेतत् ॥ ११ ॥

श्रीनैष्टिकाश्रममहं परिगृह्य याव-
ज्जीवं वसामि तव पार्श्वगतश्चिरायुः ।
दण्डाजिनीं सविनयो बुध जुहृदग्नैौ
वेदं पठन् पठितविस्मृितिहानिमिच्छन् ॥ १२ ॥

दारग्रहो भवति तावदयं सुरवाय
यावत्कृतोऽनुभवगोचस्तां गतस्स्यात् ।
श्चाच्छनैर्विरसतामुपयाति सोऽयं
किं निह्नुषे त्वमनुभूतिपदं महात्मन् ॥ १३ ॥


^1  का. राजपथम् ।
3
प्रथमसर्गः

यागोऽपि नाकफलदो विधिना कुतश्चेत्
प्रायस्समग्रकरणं भुवि दुर्लभं तत् ।
कृष्यादिवन्न हि फलं यदि कर्म​णि स्या-
द्दिष्ट्या यथोक्तिविर​हे फल 1दुर्विधित्वम् ॥ १४ ॥

निस्स्वो भवेद्यदि गृही निरयी स नूनं
भोक्तुं न दातुमपि यः क्षमतेऽणुमात्रम् ।
पूर्णोऽपे 2पूर्ण 3मभिमन्तुमशक्नुवानो
4नो मन्यते भुवि शमं ख​लु तत्र तत्र ॥ १५ ॥

यावत्सु सत्सु परिपूर्तिरथो अमीषां
साधो गृहोपकरणेषु सदा विचारः ।
एकत्र संहतवतश्चितपूर्वनाश-
स्तच्चापयाति पुनरप्यपरेण योगः ॥ १६ ॥

एवं गुरौ वदति तज्जनको निनीषु-
रागच्छदत्र तनयं स्वगृहं गृहेशः ।
तेनानुनीय बहुलं गुरवे प्रदाप्य
वित्तं निकेत​नमनायि गृहीतविद्यः ॥ १७ ॥

गत्वा निकेतनमसौ जननीं ववन्दे
सालिङ्ग्य तद्विरहजं 5परितापमौज्झत् ।
प्रायेण चन्दनरसादपि शीतलं त-
द्यत्पुत्रगात्रपरिरम्भणनामधेयम् ॥ १८ ॥

श्रुत्वा गुरोस्सदनतश्चिरमागतं तं
तद्वन्धु6ताऽऽयमदथ त्वरितेक्षणाय ।
प्रत्युद्गमादिमिरसावपि बन्धुताया
सम्भावनां व्यधित बित्तकुलानुरूपम् ॥ १९ ॥


^1 का. दुर्विधत्वम् ।

^2 क, पूर्ति ।

^3 का. ममुमत्तुमशक्नुवन्यो ।

^4 क. मोहेन शं न मनुते खलु तत्र तत्र ।
का. देहेन शं न मनुते खलु तत्र तत्र ।

^5 का. चिरताप ।

^6 का. रा।
4
शङ्करविजये

वेदे पदक्रमजटादिषु तस्य बुद्धिं
संवीक्ष्य तज्जनयिता बहुशोऽप्यपृच्छत् ।
यस्याभवत्प्रथितनाम वसुन्धरायां
विद्याधिराज इति सङ्गतवाच्यमस्य ॥ २० ॥

भाट्टे नये गुरुमते कणभृङ्मतादौ
1प्रश्नांश्चकार तनयस्य मतिं बुभुत्सुः ।
शिष्योऽप्युवाच नतपूर्व​गुरुस्समाधिं
2पित्रोदिते स्मितमुखो हसिताम्बुजास्यः ॥ २१ ॥

वेदे च शास्त्रे च निरीक्ष्य बुद्धिं
प्रश्नोत्तरादावपि नैपुणीं ताम् ।
दृष्ट्वा तुतोषातितरां पितास्य
स्व​तस्सुखा 3या किमु शास्त्रतो वाक् ॥ २२ ॥

कन्यां प्रदातुमनसो बहवोऽपि विप्रा-
स्तन्मन्दिरं प्रति ययुर्गुणपाश​कृष्टाः ।
पूर्वं विवाहसमयादपि तस्य गेहं
संवाघवत्किल बभूव वरतुिकामैः ॥ २३ ॥

बह्वर्थदायिषु बहुष्वपि सत्सु देशे
कन्याप्रदातृषु परीक्ष्य विशिष्टजन्मा ।
कन्यामयाचत सुताय स विप्रबर्यो
विप्रं विशिष्टकुलजं प्रथितानुभाव4: ॥ २४ ॥

कन्यापितुर्वर 5पितुश्च विवाद आसी-
दित्थं तयोः कुलजुषोः प्रथितरुभूत्योः ।
कार्यस्त्वया परिणयो गृह 6एव पुत्री
मानीय 7मत्कृतनयाय सुता प्रदेया ॥ २५ ॥


1क. प्रश्न चकार । 2क. पित्तोदितः । 3क. वाक् ।

4का. भाचम् । 5क. वरयितुश्च । 6क. एत्य ।

7क. सद्म​ ।
5
प्रथमस्सर्गः

सङ्कल्पितद्विगुणमर्थमहं प्रदास्ये
मद्गेहमेत्य परिणीतिरियं कृता चेत् ।
अर्थं विना परिणयं द्विज कारयिष्ये
पुत्रेण मे गृहण​ता यदि कन्यका स्यात् ॥ २६ ॥

कश्चित्तु तस्याः पितरं बभाण
मिथस्समाहूय विशेषवादी ।
अस्मासु गेहं गतवत्स्वमुष्मै
विगृह्य कन्यामपरः प्रदद्यात् ॥ २७ ॥

तेनानुनीतो वरतातभाषितं
द्विजोऽनुमेने वररूपमोहितः ।
1दृष्टो गुणस्सवरणाय करपते
मन्त्रो हि जापाच्चिरकालभावितः ॥ २८ ॥

विद्याधिराजमरवमण्डितनामधेयौ
सं 2प्रत्ययं व्यतनुतामभिपूज्य दैवम् ।
सम्यङ्मुहूर्तमबिलम्ब्य विचारणीया
मौहूर्तिका इति परस्परमूचिवांसौ ॥ २९ ॥

उद्वाह्य​ शास्त्रविधिना विहिते मुहूर्ते
तौ स3म्मदं 4बहुमवापतुराप्तकामौ ।
तत्रागतो भृशममोदत बन्धुवर्गः
किं भाषितेन बहुना मुदमाप्तवर्गः ॥ ३० ॥

तौ दम्पती सुवसनौ शुभदन्तप​ङ्क्ती
सम्भूषितौ विकसिताम्बुजरम्यवक्त्रौ ।
सव्रीडहासमुख​वीक्षणसंप्रहृष्टौ
देवाविवापतुरनुत्तमशर्म नित्यम् ॥ ३१ ॥


1का. भ्रष्टो । 2का. सुप्रत्ययं ।

3क. संमुदं । 4का. मुहुरवापतुः ।
6
शङ्करविजये

अग्नीनभाधित महोत्तरयागजातं
कर्तुं विशेषकुशलैस्सहितो द्विजेशः ।
तत्तत्फ1लेषु यदनाहितहव्यवाहः
स्यादुत्तरेषु विहितेष्वपि नाधिकारी ॥ ३२ ॥

यागैरनेकैर्बहुवित्तसाध्यैर्विजेतुकामो भुवनान्ययष्ट ।
व्यस्मारि देवैरमृतं तदाशैर्दिने दिने सेवितयज्ञभागैः ॥ ३३ ॥

सन्तर्पयन्तं पितृदेवमानुषां-
स्तत्पदार्थैरभिवाञ्छितैग्सदा ।
विशिष्टवित्तैस्सुमनेभिरञ्चितं
तं मेनिरे जङ्गमकल्पपादपम् ॥ ३४ ॥

परोपकारव्रतिनो दिने दिने
व्रतेन वेदं पठतो महात्मनः ।
श्रुतिस्मृतिप्रोदितकर्म कुर्वत
स्समा 2अतीयुर्दिनमाससंमिताः ॥ ३५ ॥

रूपेण मारः क्षमया वसुन्धरा
विद्यासु वुद्धो धनिनां पुरस्सरः ।
गर्वानभिज्ञो विनयी सदाऽऽनतः
स नोपलेभे तनयाननं जरन् ॥ ३६ ॥

गावो हिरण्यं बहु सस्यमालिनी
वसुन्धरा चित्रपदं निकेतनम् ।
सद्भावना बन्धुजनैश्च सङ्गमो
न पुत्रहीनं बहवोऽप्यमूमुहन् ॥ ३७ ॥

अस्यामजाता मम सन्ततिश्चे-
च्छरद्यवश्यं भवितोपरिष्टात् ।
तत्राप्यजाता तत उत्तरस्या-
मेवं स कालं मनसा निनाय ॥ ३८ ॥


1क. फलं हि । 2क. व्यतीयुः ।
7
प्रथमस्सर्गः

विद्यन्मनाश्शिवगुरुः कृतकार्यशेषो
जयामचष्ट सुभगे किमतः परं 1नः ।
साङ्गं वयोऽर्धमगमत्कुलजे न दृष्टं
पुत्राननं यदिह लोक्यमुदाहरन्ति ॥ ३९ ॥

2एवं प्रिये गतवतोऽसुत​दृश्वनश्चेत्
पञ्जत्वमे*ष्यदथ नऽशुभमापतिष्येत् ।
अस्या ह्युपायमनिशं भुवि वीक्षमाणो
नेक्षे ततो बत जनिर्विफला ममाभूत् ॥ ४० ॥

भद्रं सुतेन रहितौ भुवि के वदन्ति
नौ पुत्रपौत्रसरणिक्रमतः प्रसिद्धिम् ।
लोके न पुष्पफलशून्यमुदाहरान्ते
वृक्षं प्रवालसमये फलितं विहाय ॥ ४१ ॥

3इतीरिते प्राह तदीयभार्या
शिवाख्यकल्पद्रुममाश्रयावः ।
तत्सेवनातो भविताऽधुनाथ
फलं स्थितं जङ्गमरूपमैशम् ॥ ४२ ॥

यत्राभाणि गुरोस्सुवेदपठनं वेदर्थवित्त्या समं
संवादो गुरुशिष्ययोरभिहितो गार्हस्थ्यकर्माण्यथ ।
दम्पत्योस्सुतदृष्ट्युपायकरणे4 संवाद उक्त​रत्ततः।
काव्ये शङ्करदेशिकेन्द्रविजये सर्गोऽयमाद्योऽगमत् ॥ ४३ ॥

॥ इति श्रीशङ्करविजये व्यासाचलीये प्रथमस्सर्गः ॥


1क. नौ ।

2का. एवं प्रिये गतवतोस्सुतदृश्वनोश्चेत्

पञ्चत्वमेष्यदथ नौ शुभमापतिष्यत्

  • अत्र "हेतुहेतुमतोर्लिङ्चे"ति लिङनीमित्तसत्त्वात् "लिङ्निमित्ते लृङ क्रियातिपत्तौ” इति क्रियातिपत्तौ भविष्यति ऐष्यदिति आपतिष्यदिति च लङ इति द्रष्टव्यम् ।

3का. इतीरिता । 4अ. णं ।