शङ्करपादभूषणम्/अधिकरणम् २ ( स्मृत्यधिकरणम्)

विकिस्रोतः तः
← अधिकरणम् १ (ज्योतिरधिकरणम्) शङ्करपादभूषणम्
अधिकरणम् २ ( स्मृत्यधिकरणम्)
[[लेखकः :|]]
अधिकरणम् ३ (विलक्षणाधिकरणम्) →

अथ द्वितीयाध्यायस्य प्रथमः पादः।
अथ स्मृत्यधिकरणम्।

मन्वाद्यद्वैतवादिप्रतिभटकपिलाद्यागमस्यैव बाधो
न्याय्यस्त्वेवं गुरूणां सुवचविवरणाक्षेपिणां दूषणाय।
व्लृप्तः कोऽपि प्रबन्धः सरलमतिमता राघवाचार्यसूरि-
च्छात्रेणायं प्रयत्नात्प्रभवतु विदुषा संसदि प्रोत्सवाय।।
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्य-
स्मृत्यनवकाशदोषप्रसङ्गात्।।9।।

पूर्वाध्याये जगदुपादानत्वकर्तृत्वाद्युपलक्षितं प्रत्यगभिन्नाद्वितीयं ब्रहमा वेदान्तैः प्रतिपाद्यत इति वेदान्तानां तादृशब्रह्मपरत्वं सप्रपञ्चं निरूपितम्। तदिह स्मृत्यादिविरोधोद्भावनेनाऽऽक्षिप्यास्मिन्नध्याये समर्थ्यत इत्यनयोरध्यायोर्विषयविषयिभावः संगतिः। अत एवास्य प्रथमाध्यायानन्तर्यं फलवत्त्वं च। विषयपरिज्ञानं विनाऽसा(स) ङ्गत्यनाक्षेपस्य तत्परिहारस्य वा कर्तुमशक्यत्वात्। अत्र साक्षात्परम्परया वा बाधकोद्भावनेन समन्वयाक्षेपः पूर्ववाद्यभिमतः। तत्र साक्षाद्बाधकमपेक्ष्य परम्परया बाधकस्य विलम्बितप्रवृत्तिकत्वादतिविरोधिनः स्वपक्षे स्मृतिन्यायविरोधस्य साक्षाद्वाधकस्यैव प्रथमपादे निरासः। ततश्च 'इतरेषा चानुपलब्धे'( ब्रo सूo 1।1।2) इति सूत्रे महत्तत्त्वादिसाधकप्रमाणाभावेन तद्विषयकस्मृतेरमूलकत्वात्कार्यस्मृतेरिव रूपेण तत्सधर्मतया कारणस्मृतेरप्रामाण्यं प्रसाध्य स्मृत्यनवकाशप्रसङ्गस्येष्टापत्तिपराहतत्वेनाबाधकत्वे समर्थिते वक्ष्यमाणानुमानाद्यदुष्टप्रमाणमूलकत्वादमूलत्वासिद्ध्या नेष्टापत्तिः संभवतीति पुनः स्मृत्यनवकाश आपादित उक्तपरम्परया स्वपक्षविरोधिनां तादृशानुमानादीनां दुष्टत्वोपपादनेन द्वितीयो निरासः। एतेन - तृतीयचतुर्थयोरप्याद्यवत्स्वपक्षबाधकोद्धाररूपत्वाद्यनन्तर्यं स्यात्। द्वितीयस्य तु परपक्षदूषणसरूपत्वादन्त्यता स्यादिति चन्द्रिकाकारोक्तं दूषणं निरस्तम्। कारणस्मृतेरनुमानादिमूलकत्वस्मृत्यनवकाशप्रसङ्गेष्टापत्त्ययोगशङ्कायां तन्मूलत्वाभिमतानुमानादीनां दुष्टत्वोपपादनमन्तरेणोपक्रान्तस्मृत्यविरोधस्यापर्यवसानाद्द्वितीय एव तदुपपादनस्याऽऽवश्यकत्वात्। अथैवं पराभिमतमूलप्रमाणदुष्टत्वोपपादनम् ` न विलक्षणत्वात्' ( ब्रo सूo 2। 1।4) इत्यतः प्रागेव कर्तव्यं स्यादिति चेत्। अत्र तात्पर्यविदः- स्मृ(श्रु) तिवेरोधे सति स्मृत्यप्रामाण्यस्य (com - 42) ` विरोधे त्वनपेक्षम्' ( जैo सूo 1।3।3) इति न्यायेन सर्वैरेव वेदप्रामाण्यवादिभिरुपगन्तव्यतया विलक्षणत्वादितर्करमुपजीव्य वेदान्तानां वेदान्त्यभिमतार्थपरतानिरासे कृत एव तन्त्रस्य प्रामाण्यासंभवात्तदुपजीव्यवेदान्तानां स्मृतिविप्रतिषेधेन ब्रह्मापरत्वाभावः शङ्कितुं शक्यो नान्यथा, इति प्रथमसूत्रोक्तबाधकोपनीव्यब्रह्मावादसाक्षाद्वाधकविलक्षणत्वादितर्कनिरासस्यैव प्रथमं कर्तुमुचितत्वादिति। तृतीयतुरीययोर्भूतभौतिकादिविषयश्रुतीनां परस्परविप्रतिषेधाद्विरुद्धवाक्यद्वयान्यतरत्वमहाजनपरिगृहीतत्वादेः प्रामाण्यप्रयोजकत्वा संभवेन तदन्यस्य च प्रामाण्यप्रयोजकस्य वेदे दुर्वचतया प्रामाण्यप्रयोजकधर्मशून्यानां वेदान्तानां नोक्तब्रह्मापरत्वलक्षणसमन्वयः संभवतीति रीत्या परम्परया ब्रह्मावादविरोधिनः श्रुति विप्रतिषेधस्य निरास इति पादोपाधिभेदः। एते पादोपाधिभेदाः श्रीमद्भाष्ये भगवत्पादैः संक्षेपेण दर्शिताः इदानीं स्वपक्षे स्मृतिन्यायाविरोधपरिहारः प्रधानादिवादानां न्यायाभासोपबृंहितत्वं प्रति वेदान्तं सृष्ट्यादिप्रक्रियाया अविगीतत्वमित्यस्यार्थस्य प्रतिपादनाय द्वितीयोऽध्याय आरभ्यत इति। तृतीयचतुर्थपादयोरप्युपाधिभेदस्तैरेवोपदर्शितः- वियदादिविषयवृत्तिविप्रतिषेधस्तृतीयेन परिहृतश्चतुर्थेनेदानी प्राणादिविषयः परिह्रियत इति।
यत्तु चन्द्रिकायाम्- " अन्ये तु - आद्यपादे स्वपक्षे सांख्यादिस्मृतिभिस्तदुन्नीततर्कैश्च विरोधपरिहारः। द्वितिये साख्यादिमतानां दुष्टत्वोक्तः। तृतीये पूर्वभागे (com -43) पञ्चमहाभूतश्रुतीनामुत्तरभागे तु जीवश्रुतीनां चतुर्थपादे लिङ्गशरीरश्रुतीनां परस्परविरोधपरिहार इति पादार्थानाहुरिति। निरुक्तपादोपाधिभेदमनूद्य तन्न (com -44) आद्ये तृतीये च पाद एकोपाध्यभावात्। आद्येऽपि ` इतरेषा चानुपलब्धेः' ( ब्रo सूo 2।1।2) ' एतेन योगः प्रत्युक्तः' ( ब्रo सूo 2। 1।3) ` स्वपक्षदोषाच्च' (ब्रo सूo 2।1।10) ` एतेन शिष्टा अपरिग्रहा अपि व्याख्याताः' ( ब्रo सूo 2।1।12) इत्यादौ परमतानां दुष्टत्वोक्तेस्त्वयाऽपि स्वीकृतत्वाच्च। नन्वाद्ये तेषां दुष्टत्वोक्तिः स्वपक्षस्य तैर्विरोधनिरासार्थेति चेत्। न। द्वितीयेऽपि तदुक्तेस्तदर्थत्वात्। अन्यथा द्वितीयेस्याविरोधाध्यासासंगतिः स्यात्। किं च यथाऽऽऽद्यपादस्थे ` दृश्यते तु' ( ब्रo सूo 2।1।6) इत्यत्र विलक्षणयोरपि ब्रह्माप्रपञ्चयोर्वृश्चिकगोमययोरिव कार्यकारणभाव इत्येतदर्थप्रतिपादके स्वपक्षे (com - 45) तर्कविरोधपरिहारः। तथा द्वितीयेऽपि ` मदद्दीर्घवत्'( ब्रo सूo 2। 2। 11) इति सूत्रे `यथा वा द्व्यणुकादणोर्ह्रस्वाच्च सतो महद्दीर्घं च त्र्यणुकं जायते नार्णु नोह्रस्वम्, एवं चेतनाद्ब्रह्मणोऽचेतनं (2)जगज्जनिष्यते' इति त्वया भाषितत्वेन तत्रापि तर्कविरोधपरिहारोऽस्त्येव।(f.n.क.गन्निष्पद्यते।) तृतीयस्य पूर्वभागेऽपि ` अन्तरा विज्ञानमनसी o( ब्रo सूo 2।3। 15) इत्यत्र त्वन्मते' एतस्माज्जायते प्राणोमनः सर्वेन्द्रियाणि च ' ( मुo 2।1। 3) इत्यादिप्राणमनआदिविषयश्रुत्यविरोधस्योक्तत्वेन न भूतश्रुत्यविरोध(3) एवेति नियमः। ननु `अन्नमयं हि सौम्य मनः, आपोमयः प्राणः, तेजोमयी वाक्' ( छाo 6। 5। 4) इति श्रुतेर्मनआदीनि भूतान्येवेति तद्विचारो भूतविचार एवेति चेत्। तर्हि चतुर्थेऽपि ' तथा प्राणः' ( ब्रo सूo 2।4।1) `सप्तगतेर्विशेषितत्वाच्च' ( ब्रo सूo 2।4।1। ' सप्तगतेर्विशेषितत्वाच्च' ( ब्रo सूo 1।4।5) ' अणवश्च' ( ब्रo सूo 1। 4।7) इत्यादिवह्वधिकरणैः कृत इन्द्रियविचारोऽपि तृतीयस्य पूर्वभागे स्यात्। चतुर्थेऽपि ' संज्ञामूर्तिकलृप्तिः'(ब्रo सूo 2। 4। 10) इत्यत्र ` अनेन जीवेन' (छाo 6।3।2) इति वाक्ये जीवस्य कर्तृता नोच्यते कितुं ब्रह्माण इति त्वया सिद्धान्तितत्वेन न (com -46) लिङ्गशरीरस्यैव विचार इति नियमः। किंच तृतीयचतुर्थयोरप्याद्यवत्स्वपक्षविरोधपरिहाररूपत्वादाधानान्तर्यं स्यात्। द्वितीयस्य तु परपक्षदूषणरूपत्वादन्त्यता स्यात्" इति दूषणमुक्तम्। तत्रोच्यते - यदुक्तम् - आद्ये तृतीये च पाद एकोपाध्यभावादिति। तदसत्। स्वपक्षसाक्षाद्बाधकोद्धारः प्रथमपादोपाधिरनुगत एव । ` स्वपक्षे स्मृतिन्यायविरोधपरिहारः' इति प्रथमपादोपाधिकथनपरभाष्ये स्मृतिन्याययोर्द्वैराश्येन कथंन तु तयोः स्वपक्षसाक्षाद्विरोधित्वपरिहारेऽपि युक्तिमपेक्ष्य सर्वज्ञप्रणीतत्वमहाजनपरिगृहीतत्वादिना वेदतुल्यायाः स्मृतेरभ्यार्हितत्वसूचनद्वारा तद्विरोधनिरसनप्राथम्यबीजोद्धाटनाय। अभ्यर्हितत्वलाभश्च द्वंद्वे प्रथमं निर्देशात्। (com-47) अभ्यर्हितं पूर्वम्' इत्यनुशासनात्। एवं तृतीयपादे पूर्वोत्तरभागयोर्महाभूतदीवविषयकश्रुतेर्विरोधपरिहारेऽपि भौतिकेतरविषयश्रुतिपरहाररूपस्तत्पादोपाधिग्नुगत एव। त्वदीयैर्जयतीर्थै(र्थी-यै) रप्यद्यात्मेतरविषयकत्वघटितस्यैव तृतीयपादोपाधेरुपदर्शितत्वाच्च।
यदपि - `इतरेषां तानुपलब्धेः' इत्यादि। तदस्मदनभिप्रेतार्थदूषणत्वाच्चिन्त्यम्। ` इतरेषां चानुपलब्धेः' इत्यत्र कार्यस्मृतेरिव कारणस्मृतेरपि निर्मूलत्वोपवर्णनस्यैवाभिप्रेतत्वेन स्मृतिमूलत्वाभिमतानामनुमानादीना दुष्टत्वोपवर्णनस्यानभिप्रेतत्वात्। अत एव प्रथमपादान्ते ` इदानीं परपक्षनिषेधप्रधानं प्रकरणं प्रारिप्समाणः स्वपक्षपरिग्रहप्रधानं प्रकरणमुपसंहारति' भगवत्पादैरभिहितम्। तथा योगाधिकरणेऽपि योगस्मृतिविरोधरूपं स्वपक्षबाधकमुद्धृतम्। न तु तन्मताभिमतानुमानादिदुष्टत्वमुपपादितम्। ` स्वपक्षदोषाच्च' इत्यत्रापि परोपन्यस्तब्रह्मावादविरोधिदूषणानां परपक्षसाधारणतया परैस्तेषां दूषणत्वं नास्तीत्येवाङ्गीकार्यमित्येवाभिप्रायो भाष्ये वर्णितः। न तु परमतानां दुष्टत्वम्। `एतेन शिष्टापरिग्रहाः' इत्यत्रापि वैशेषिकाद्युक्तानां ब्रह्मावादसाक्षाद्विरोधितर्काणां निरास एव कृतो न तु तदीयस्मृतिमूलत्वाभिमतानुमानदुष्टत्वमुवर्णितामिति नैतेषा सूत्राणां परम्परया बाधकनिरसनपरे द्वितीयपादे संगतिः।
यथाऽऽद्यपादेत्यादिकमपि न सत्। कारणगुणाः कार्येषु स्वजातीयगुणमारभन्त इत्यभ्युपगमवादिना जगतश्चेतनब्रह्मकार्यत्वाभ्युपगमे जगतश्चेतनत्वं स्यादित्यापादिते यदि कारणगुणानां सर्वेषामेव नियमेन स्वजातीयगुणारम्भकत्वं तवानुमतं तदा स्वपक्षविप्रतिषेधः, ह्रस्वपरिमण्डलाभ्यां महद्दीर्घयोरुत्पत्तेस्त्वयोपगमेन पारिमाण्डल्यादेः कारणगुणस्य स्वजातीयकार्यगुणरम्भकत्वादिति परपक्षदूषणमुखेनैव स्वपक्षबाधकोद्धारस्य ` महद्दीर्घवद्वा' इति मुत्रेऽभिप्रेततया तत्सूत्रस्य स्वपक्षबाधकोद्धारपरपक्षदूषणोभयरुपतया परपक्षदूषणपरद्वितीयपादेऽपि निवेशोपपत्तेः। न चैवं तत्सूत्रस्योभयरूपत्वे प्रथमोपस्थितस्वपक्षबाधकोद्धारपरप्रथमपादनिवेशपरित्यागे बीजाभाव इति शङ्क्यम्। स्वातन्त्र्येण वैशषिकाभिमतस्वपक्षबाधकोद्वारस्य प्रथमपादे कृतत्वेन द्वितीये च स्वतन्त्र्येण तन्मतनिरासस्य प्रस्तुतत्वाच्च तत्रैव तन्निवेशोपपत्तेः। त्वन्मतेऽपि ` भोक्त्रापत्तेः o ( ब्रo सूo 2।1।13। इति सूत्रे ` ननु मुक्तेश्वरयोर्भेद समर्थनं फलाध्यासंगतमतो नैव तत्सूत्रार्थः' इत्यादिना ' फलत्वेऽपि युक्तिविरोधेऽन्तर्भावादत्रोक्तम्' इति भाष्य मवतार्यैतत्सूत्रस्य फलाध्यायसंगतत्वेऽप्यत्र नासंगतिः। येनान्यर्थकल्पनम्। उक्तरीत्या युक्तिविरोधेऽप्यन्तर्भावात्। अन्यथोभयान्तर्भूतस्यैकत्राप्यनुक्तिप्रसङ्गादित्युभयान्तर्भूतस्यैकत्र निवेशस्वीकारच्चैतद्दूषणस्य स्वशिरस्ताडनरूपत्वात्।
तृतीयस्य पूर्वभागेऽपीत्यादिकमपि भाष्यादर्शिनां प्रतारणमात्रत्वादसध्वेव । (com-46) `अन्तरा विज्ञानमसीo'( ब्रo सूo 2।3। 15) इत्येतत्सूत्र आत्मनो भूतानामुत्पत्तिप्रलयावनुलोमप्रतिलोमक्रमाभ्यां भवत इति निरूपिते" आथर्वणे भूतानामात्मनश्चन्तराले करणान्यनुकम्यन्ते - ` एतास्माज्जायते प्राणः' इत्यादिना, तेषां चोत्पत्तिलयक्रमान्तरान्वेषण उक्तक्रमविरोधः" इति ` अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेत्' इत्यनेनाऽऽक्षिप्ते ' यदि तावद्भौतिकानि करणानि ततो भूतोत्पत्तिलयाभ्यामेव तेषामुत्पत्तिलयौ भवत इति नैतयोः क्रमान्तरं मृग्यम्' इति ` अविशेषात्' इति सूत्रभागस्य भाष्ये व्याख्यानात्तत्सूत्रस्य भूतविषयश्रुतिविरोधपरिहाररूपत्वस्यातिस्पष्टत्वात्। तथा च ` तस्मात्पर्वोक्तोत्पत्तिप्रलयक्तमभङ्गो भूतानाम्' इति पूर्वपक्षोपसंहारे' तस्मान्नास्ति भूतोत्पत्तिक्तमभङ्ग-' इति सिद्धान्तोपसंहारे[च] भाष्यकृदुक्तमिति।
चतुर्थेऽपीत्यपि न सत्। भौतिकेतरविषयश्रुतिविरोधपरिहारात्मके तृतीये पादे भौतिकप्राणादिविषयश्रुतिविरोधपरिहारपराणाम् (com - 47) तथा प्राणाः'(ब्रo सू, 2।4।1) इत्यादीनां निवेशायोगात्। ' उत्पत्तिविषयश्रुतिविप्रतिषेधः प्राणानां परिहृतः, संख्यायाविषय इदानी परिह्रियते `इति' सप्तगतेर्विशेषितत्वाच्च' इति सूत्रावतरणभाष्यपर्यालोचनया तत्रेन्द्रियविचारस्य कतत्वेऽपि पादद्वय इन्द्रियविचारस्य विषयभेदो बालेनापि सुबोध एव।
चतुर्थेऽपीत्याद्यपि न युक्तम्। ` संज्ञामूर्तिo' इत्यत्र ` अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य' (छाo 6।3।2) इत्यादिवचनानुसारेण जीवस्यैव भौतिकनामरूपस्रष्टृत्व (com -48) मवगम्यते। `तद्धेदं तर्ह्मव्याकृमासीत्तन्ननामरूपाभ्यामेव व्याक्रियते' इत्यत्र तु परमेश्वरस्येति भौतिकनामरूपविषयश्रुतिविरोधस्यैव निराकृतत्वेन चतुर्थपादोधिनियमात्यागस्यातिस्पष्टत्वात्।

तृतीयचतुर्थयोरप्याद्यवत्स्वपक्षविरोधपरिहाररूपत्वादाद्यानन्तर्यं स्यात्। द्वितीयस्य तु परपक्षदूषणरूपत्वादन्त्यता स्यादिति दूषणं तु प्राङ् निरस्तमेवेति दिक्।
आनन्दतीर्थीयास्तु - प्रथमे युक्त्यविरोधो द्वितीये समयाविरोधस्तृतीये केवलश्रुत्यविरोधश्चतुर्थे सयुक्तिकश्रुत्यविरोध (com - 49) इत्याहुः। तदसत्। अलौकिकार्थगोचरबहुजनपरिगृहीतवाक्यसंदर्भरूपसमयत्वस्य त्वदीयचन्द्रिकाकारोक्तस्मृतिसाधारणतया स्मृतीनां समयरूपताभिप्रायेणैव स्मृत्यधिकरणे समयविगानं संदेहबीजमिति तत्तवप्रकाशिकायां जयतीर्थोक्त्या च स्मृतीनां समय (com - 50) बहिर्भावायोगेन स्मृत्यविरोधस्य समयपद एव संगतेः। स्मृतीनां (com - 51) युक्त्यादिरूपत्वेनेति जयतीर्थोक्तेः स्मृतीनामिव समयानामपि युक्तिरूपत्वाविशेषात्समयविरोधस्यापि स्मृतिविरोधवदाद्यपादेनिरसनौचित्यात्। समयानामपि स्मृतिविशेषरूपतया स्मृतिविरोधपरिहारेण समयाविरोधस्याप्युक्तानुपाध्या( X उक्तानुपलब्ध्या। ` इतरेषा च ' ( ब्रo सूo 2।1।2) इत्यत्र कृतत्वेन तदर्थ द्वितीयपादानपेक्षणाच्च । न च तत्र सामान्यतो निराकृतानामत्र विशेषतो निराकरणादिति जयतीर्थोक्तिरपि साधीयसी। विशेषती निराकरणस्य समयेष्विव स्मृतिष्वपि तुल्यतया द्वितीयपादे एवोपवर्णित इत्यस्यापि वक्तुं युक्तत्वात्।
यत्तु चन्द्रिकायाम् - स्मृत्यविरोधपराधिकरणस्य युक्तिपादेनिवेशानुपपत्ति (com -52) माशङ्क्य पाशुपतादिस्मृतीनां समयरूपत्वेन स्वोक्तार्थ संमतित्वेन श्रुतियुक्तिकथनेन च यतुः स्वरूपत्वात्तदविरोधस्यैकैकविरोधप्रतिपादके पादविशेषेनन्तर्भावेऽप्यविरोधाध्यायान्तर्भावेण क्वचिन्निवेशे कर्तव्ये प्रथमं(3) (f.n.क.oथमातिo।) तदतिक्रमे हेत्वाभावच्चतुरात्मकतया(4) (f.n.क.oकत्वेन प्रo) प्रबलतया च प्रथमं निरसनीयत्वाच्चाध्यायादावेव निवेश(5) (f.n.वेशात्।) इति समाहितम्। तदसत्। `अतो ऽवैदिक स्मृतीनामप्रमाणत्वान्न श्रुत्युक्तजगत्कारणत्वस्य तद्विरोधः' इति जयतीर्थोक्तेः काणादबौद्धार्हतादिस्मृत्यवलम्बिपूर्वपक्षाणां स्मृत्यधिकरण एव चन्द्रिकायां प्रदर्शितत्वाच्चवैदिकस्मृतिमात्रविरोधपरिहारस्य त्वदभिप्रेतत्वेन सांख्यापाशुपतादिचतूरूपाणामेव समयान माद्ये निरास इति निर्बन्धस्य वक्तु(com - 53) मशक्यत्वात्।
किंचाभिमान्यधिकरणे ` मृदब्रवीत्' ( शo पo ब्राo) ` अथ ह चेतनाश्चाचेतनाश्च तेजोबन्नान्याकाश(1) (f.n.क.oन्नाकाशा इo) इति तान्यचेतनानि वायुर्वाव चेतनः ' इचिश्रुत्योर्विरोधस्यासदधिकरणे ` असदेवेदमग्र आसीत्' सदेव सौम्येदमग्र आसीत्' (छाo 6। 2। 1) इति श्रुत्योर्विगानस्य , एतेन शिष्टापरिग्रहाः' ( ब्रo सूo 2। 1। 12) इत्यत्र `अकस्माद्धीदमनाविरासीदसकस्मात्तिष्ठति' इति `एतस्माज्जायते प्राणः' इत्यादिश्रुतीनाम् ' भोक्त्रापत्तेः o( ब्रo सूद 2।1।13) इत्यत्र ` परेऽव्यये सर्व एकी भवन्ति' इत्यैक्यश्रुतिभेदश्रुत्योः `इतरव्यपदेशात्' ( ब्रo सूo 2।1।21) इत्यत्र जीवकर्तृताबोधकश्रुतेः 'एको ह वै नारायणः ' इत्यादिश्रुतीनां च परस्परविरोधनिरासकत्वसंभवे प्रवलाया श्रुतेरुपसर्जनत्वं परिकल्प्य -- मृन्न वदति जडत्वात्, कारणं प्रलयेऽसद्भवितुमर्हति वस्तुत्वात्कार्यवत्, विप्रतिपन्नं निष्कारणमचेतनकारणं जीवकारणं वा कार्यत्वात्कूलपतनदध्यादिवत्, विष्णुर्न जगत्कर्ता जीवाभिन्नत्वादित्यादियुक्तिविरोधपरिहारताकल्पनेनाऽऽद्यपादान्तर्भावोक्ति (com -54) रनुचितैव।
एवं केवलश्रुतिविरोधपरिहारपरतृतीयपादे - (1) वियदधिकरणे ' आत्मन आकाशः संभूतः `अनादिर्वाऽसमाकाशः' इति श्रुत्योर्विरोधपरिहारपरे' आकाशस्योत्पत्तिमत्त्वाङ्गीकारेऽनुभूतियुक्तिबहुवाक्यविरोधात्'(1) (f.n.oवाग्विरोo।) इत्यादिना ` वियदनुत्पत्तिमद्विभुत्वात्' इति युक्ते(com - 55) र्जयतीर्थापदर्शितायाः श्रुतेर्वियदनादित्व(com 56) साधिकायाः, (2) ` एतेन मातरिश्वा व्याख्यातः' ( ब्रo सूo(2।3।8) इति द्वितीयाधिकरणे' तासां वायुर्वत्सः' सा वा एषा देवताऽनादिर्योऽयं पवते' इति श्रुत्योर्विरोधनिरासपरे सर्वदेवतोपास्यता च नोत्पत्तिमत्त्वे घटत इत्यादिनोपदार्शितायाः सर्वदेवतोपास्यत्वातिशयित (com - 57) चेतनत्वयुक्तेस्तदनादित्वसाधिकायाः ( 3) ` असंभवस्तु सतोऽनुपपत्तेः' ( ब्रo सूo 2। 3। 9) इत्याधिकरणे ` असतः सदजायत' `सदेव सौम्येदमग्र आसीत्' इति श्रुतिविरोधनिरासके ब्रह्माणः सादित्वसाधिकाया असंभवदुत्पत्तिकनभोनभस्वत्साम्यरूपाया (com--58) असंभवदुद्भावयोर्नभोनभस्वतोरित्यादिना जन्मश्रुतेः सयुक्तिकत्वेन प्राबल्यादित्यन्तेन त्वदुक्ताया युक्तेः, (5) `आपः' ( ब्रo सूo 2। 3। 11) इत्यधिकरणे ` अग्रेरापः' `तदपोऽसृजत' इति श्रुतिविरोधपरिहारपरेऽपां तेजोजनिसाधिकाया विमता आपस्तेजसो जाता अप्त्वात्स्वेदादिवदित्यादिना ( com - 59) त्वदुक्ताया युक्तेः, (7) ` तदभिव्यानादेव तु तल्लिङ्गात्सः' ( ब्रo सूo 2।3। 13) इत्यधिकरणे ` यत्प्रयन्त्यभिसंविशन्ति' ' रुद्रो माऽऽ विशान्तकः ' इति श्रुत्योर्विरोधपरिहारपरे विष्णोः संहारकर्तृत्वाभावसाधिकाया विष्णोर्जगदुत्पादकत्वाल्लोके पितुरन्यस्यैव (com -- 60) मारकत्वदर्शनादिति त्वदुक्ताया उत्पादकयुक्तेः,(9) ` अन्तरा विज्ञानमनसीo' ( ब्रo सूo 2। 3। 15) इत्याधिकरणे ` अक्षरात्परमादेव' [इति] श्रुतेः ` यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ' इति पूर्वावस्थितमनस्तत्त्वस्य पूर्वमेव लय इति लिङ्गदर्शनस्य चोत्पत्तिक्रमेण व्युत्क्रमेण च लयविषये विरोधपरिहारपरे " न सर्वेषा व्युत्क्रमेणैव लयः। किंतु केषाचित्क्रमात्केषांचिद्व्युत्क्रमेण। तथा हि - विज्ञान तत्त्वं तावन्मनस्तत्त्वादुत्पन्नं श्रूयते - `मनसश्चं(1) (f.n.क.oस्तु।) विज्ञानम्' इति श्रुतौ। तस्य च पश्चादुत्पन्नस्य विज्ञानतत्त्वस्य पश्चादेव लयः पूर्वस्थितस्य मनस्तत्त्वस्य पूर्वमेव लयः" इति पूर्वपक्षोपपादिकाया ( com--61)' तस्याः सयुक्तिकलिङ्गदर्शनo'


इत्यादिना त्वदुक्ताया, (11) 'ज्ञोऽत एवं ' ( ब्रo सूo 2।3। 18) इत्यधिकरणे ` नित्यो नित्यानाम्' ` सर्व एते चिदात्मनो व्युच्चरन्ति ' इति श्रुत्योर्विरोधपरिहारे जीवानुत्पत्तिसाधिकायाः ' न जीव उत्पत्तिमाननादित्वादीश्वरवत्।। न च साध्याविशिष्टता हेतोः। प्रागभावशून्यताया विवक्षितत्वात्। न च तत्र विवादः। उत्पत्तेरेवाभावप्रसङ्गात्। कारणशून्यतां वाऽनादित्वं ब्रूमः। न च तत्रापि विवादः। कारणानुपलब्धेः' इत्यादिना त्वदुक्तायाः (com - 62) कारणराहित्ययुक्तेः,(12) उत्क्रान्तिगत्यधिकरणे ` व्याप्ता ह्यात्मानश्चेतना निर्गणाश्च सर्वात्मानः सर्वरूपा अनन्ताः, इति काषायणश्रुतेः अणुर्ह्येष आत्माऽयं वा एति सिनीतः पुण्यं चापुण्यं च' इति गौपवनश्रुतेश्च जीवस्य व्याप्तत्वाणुत्वलाविषये विरोधनिरासकेजीवव्याप्तित्वसाधिकायाः ` तावदुणुरात्मा सर्वदेहगतस्पर्शज्ञानात् ' इत्यादिना त्वदुक्ताया ( com -63) देहव्यापिसुखाद्युपलब्धिरूपयुक्तेः, (13) ` व्यतिरेको गन्धवत्तथा च दर्शयति' ( ब्रo सूo 1। 3।27) इत्यधिकरणे' स नित्यो निरवयवः पुण्ययुक्पापयुगिमं लोकममुं चाऽऽवर्तते स विमुच्यते स एकधा मन सप्तधा न शतधा ' इति गौपवनश्रुतिः ` स पञ्चदा स सप्तधा स दशधा भवति। स शतधा च सहस्त्रधा स गच्छति स मुच्यते' इति पाराशर्या [य] णश्रुतेश्च जीवस्यैकत्वबहुत्वविषये विरोधपरिहारपरे जीवस्यैकरूपत्वसाधिकायाः, युज्यते खलुविभावात्मनि योगप्रभावेन शरीरबहुतया वा ' इत्यादिना त्वदुक्ताया (com - 64) अनेकशरीरगित्वरूपयुक्तेः, ( 15)` यावदात्मभावित्वच्च न दोषस्तद्दर्शनात्' ( ब्रo सूo 1। 3। 30) इत्यधिकरणे ` लयमभ्युपैति' ` स चाऽऽनन्त्याय कल्प्यते ' इत्यनित्यत्वनित्यत्वयोः श्रतिविरोधनिरासके जीवोत्पत्तिसाधिकाया उपाधेरुत्पत्तिमत्त्वे प्रतिबिम्बस्योत्पत्तिनियमादित्यनेन त्वदुक्ताया (com -- 65) उत्पत्तिमदुपाधिप्रतिबिम्वितत्वरूपताया युक्तेः, (16) ` पुस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात्' (ब्रo सूo 2। 3।31) इत्यधिकरणे `विज्ञानात्मा सह देवेश्च सर्वैः स आनन्द स बलः स ओजः [इति] श्रुतेः ` स दुः खाद्विमुक्ते आनन्दी भवति। सोऽज्ञानाद्विमुक्तो ज्ञानी भवति ' इत्यादिपौङ्गिश्रुतेश्च परस्परविरोधनिरासके जीवस्यानान्दत्वासाधिकायाः (com -- 66) सर्वदा तदनुभवप्रसङ्गरूपयुक्तेस्त्वदुक्ताया, ( 17) (com -- 67) ` कर्ता शास्त्रर्थवत्त्वात्' ( ब्रo सूo 1। 3। 33) इत्यधिकरण ईस्वरस्यैव कर्तृत्वबोधकश्रुतेः फलसंपत्त्या जीवकर्तृत्वाबोधिकायाः ` सयत्कर्म कुरुते तदभिसंपद्यते ' इति श्रुतेश्च विरोधनिरासके जीवस्य कर्तृत्वाभावसाधिकाया लाघवरूपयुक्तेः " समर्थितं हीश्वरस्यैवानन्ययोगेन कर्तृत्वम् ` इतरव्यपदेशात्' ( ब्रo सूo 2। 1। 21) इत्यादौ। अत एव द्वयोः कर्तृत्वमपि प्रत्युक्तम्। ईश्वरस्यैव कर्तृत्वाङ्गीकारे कल्पनालाघवं च स्यात्" इति त्वदुक्तायाः , (19) ` आभास एव च' ( ब्रo सूo 2। 3।50) इत्यधिकरणे ' रूप रूपम्' इति श्रुतेः प्रकारणवशादनुमितप्रतिबिम्बत्वाभावबोधकश्रुतेश्च विरोधनिरासक एकेश्वरप्रतिबिम्वत्वाभावसाधिकायाः प्रतिबिम्बानामेक ( com -- 68) जातीयत्वाभावरूपयुक्तेस्त्वदुक्तायाः सत्त्वेनैषामधिकरणानां युक्तिविरोधनिरासके प्रथमपाद एव निवेश उचितः।
अत्र च प्रमाणवाक्यस्य स्वविरोध्यर्थविषयकज्ञानकरणत्वव्यापकाप्रमाण्‌वक(र) त्वनियमाद्वेदान्तनिष्ठस्योक्तप्रमाशक्तत्वस्य तद्विषयकविरुद्धविषयबोधकसांख्यास्मृत्यप्रामाण्यं विनाऽनुपपद्यमानतया तादृश(शा) प्रामाण्यापादकत्वमप्रत्यूहम्। तादृशप्रामाण्यापादकापत्तेश्च ब्रह्माप्रमाशक्तत्वज्ञानविरोधितया ` वेदान्ता यद्युक्तब्रह्मपराः स्युस्तदा स्वविरोध्यर्थकज्ञानकरणत्वव्यापकाप्रामाण्यवन्तः स्यु ' इति तर्कः स्वपक्ष(com -- 69) साक्षाद्विरोधीति तन्निरासकत्वादस्याधिकरणस्याध्यायपादसंगतिः। तत्र वेदान्तानामुक्तब्रह्मपरत्वमयुक्तमुत युक्तमिति तदर्थ सांख्यास्मृतिप्रामाण्ये साधक मस्त्युत नास्तीति तदर्थ च सांख्यास्मृतिः किमदुष्टकरणजन्यज्ञानामूला,, उत नेति संशये - वेदान्ता नोक्तब्रह्मापराः। तथा सति सांख्यास्मृतेरप्रामाण्यप्रसङ्गात्। न चेष्टापत्तिः। सर्वज्ञप्रणीताया महाजनपरिगृहीतायाश्च वेदवदेव प्रामाण्यस्य निरपवादत्वात्। आप्तिर्हि प्रामाण्यबोजम्। सा च वेद इव तन्त्रेऽपि तुल्या। तत्प्रणेतुरिव तन्त्रप्रणेतुरपि। ` ऋर्षिप्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत्( श्वेo 5।2) इति श्रुतिसिद्धसर्वज्ञताकत्वात्। न चेश्वरज्ञानस्य नित्यतयाऽसंभावितदोषकरणत्वेन तन्मूलकानां वेदाना प्रामाण्य निश्चेतु शक्यते कपिलादिसिद्धज्ञानानां च जन्यतया संभावितदोषकरणत्वान्न प्रामाण्यनिस्चयसंभव इति वाच्यम्। भगवदनुग्रहाविर्भूताविज्ञानानां कपिलादीनां ज्ञाने दोषमूलकत्वशङ्काया अयुक्तत्वात्। नहि तेषां प्रतारणादिदोषकल्पने किंचिद्वीजमस्ति। न च ' विरोधे (com -- 70) त्वनपेक्ष स्यादसति ह्यनुमानम्' (जैo सूo 1। 3। 3) इति न्यायस्यात्रावकाशोऽस्ति। निर्णीततात्पर्यकश्रुतिविरोध एव तत्प्रसरात्। न च तत्राप्युपक्रमादिभिस्तात्पर्यनिर्णयः शक्यशङ्कः। बलवत्तक्रावष्टम्भेन सांख्याचार्यैः स्वाभिमतार्थ एव तस्य तात्पर्यस्य वर्णितत्वात्। नन्वे(चै) वं सति मन्वादिस्मृत्यप्रामाण्यप्रसङ्गस्तत्रापि महाजनपरिगृहीतत्वस्य प्रामाण्यबीजस्य तुल्यतयेष्टापत्त्ययोगादिति वाच्यम्। तासामनुष्ठेयार्थे सावकाशतया सांख्‌यस्मृतिविरुद्धार्थे तात्पर्याकल्पनात्। साख्यास्मृतीनां त्वध्यात्मदर्शनमधिकृत्यैव प्रवृत्तानां निरवकाशत्वात्। अत एव वेदतन्त्रयोः समबलत्वे निर्णयो वाच्यो न तु तन्त्रानुरोधेन निर्णय इति परास्तम्। वेदस्यापि धर्मादौ स्वकाशत्वात्। न चोपनिषदां निरवकाशता। तासामपि सांख्यायरीत्या स्वकाशताया उपपादनीयत्वात्। तथा हि - न तावत्कारणवाक्यानां ब्रह्मणि जगदुपादानताबोधकत्वं तद्गनकर्तताबोधकत्वं वा। वक्ष्यमाणतर्कविरोधात्। नापि प्रत्यगभिन्नपरमात्मबोधकवाक्यानां यथाश्रुतार्थकत्वम्। हिताकरणबन्धमुक्तिव्यस्थाभावप्रसङ्गात्। इत्थमेवाद्वितीयत्वादिपक्षे दोषा उन्नेयाः। एवं च सांख्याप्रवचनोक्तरीत्या सृष्टिवाक्येषु प्रकृतिताबोधकवाक्यानां जगत्प्रकृतिभूतप्रधानस्वामितामात्रेणौपचारिकत्वम्। कर्तृताबोधकवाक्यानां केषांचिदवान्तरेश्वरबोधकत्वं केषांचिदौपचारिकत्वमम्। तत्त्वमस्यादिवाक्यानां चिन्मण्डलान्तः पातित्वबोधकत्वामित्येवागत्याऽनुसा(स) रणीयम्। तथा च सांख्यासूत्राणि--` तत्संनिधानादाधिष्ठातृत्वं मणिवत्' ( सां o सूo 1।96) ` मूक्तात्मनः प्रशंसा, उपासा सिद्धस्य वा'( सांo सूo 1। 95) नाद्वैतश्रुतिविरोधो जातिपरत्वात्' ( सां o 1।154) एवमादीनि। तत्र भाष्यम्- ननु तथाऽपि प्रकृत्याद्यखिलाधिष्ठातृत्वं श्रुयमाणं नोपपद्यते। लोके संकल्पादिना परिणममानस्यैवाधिष्ठातृत्वव्य वहारादिति । तत्राऽऽह - तदिति। यदि संकल्पेन स्रष्टत्वमधिष्ठातृत्वमुच्यते तदाऽयं दोषः स्यात् । अस्माभिस्तु पूरुषस्य(1) (f.n. क.oषप्रकृतिसंo।) संनिधानादेवाधिष्ठातृत्वं स्रष्ट्टत्वादिरूपमिष्यते मणिवत्। यथाऽयस्कान्तमणेः सांनिध्यमात्रेण शल्यनिष्कर्षकत्वं न संकल्पादिना तथैवाऽऽ दिपुरुषस्य संयोगमात्रेण प्रकृतेर्महत्तत्वादिरूपेण(2) (f.n.क.oकृतिर्मo।) परिणमनम्(3) (f.n.oमते। इo।)। इदमेव सोपधिकस्रष्टृत्वमित्यर्थः।
नन्वेवमीश्वरप्रतिपादकश्रुतीनां का गतिस्तत्राऽऽह - मुक्तेति। यथायोग(4)(f.n.oयोग्यं काo।) काचिच्छुतिर्मुक्रात्मनां केवलात्मसामान्यस्य ज्ञेयताविधानाय संनिधिमात्रेश्वर्येण स्तुतिरूपा प्ररोचनार्था। काचिच्च संकल्पपूर्वकस्रष्टृत्वादिप्रतिपादिका(5)(f.n.oष्टत्वप्रo।) श्रुतिः सिद्धस्य ब्रह्माविष्णुहरादेवरेवानित्येश्वरस्याभिमानादिमतोऽपि (6)गौणानित्यत्वादिमत्त्वान्नित्यत्वाद्युपासनापरेत्यर्थः। (f.ल.क.oपासापo।) नन्वेव पूरुषनानात्वे सति--
एक एव हु भूतात्मा भूते भूते व्यवस्थितः।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत्।।
नित्यः सर्वगतो ह्मत्मा कूटस्थो दोषवर्जितः।
एकः स भिद्यते शक्त्या मायया न स्वभावतः।।

इत्याद्य श्रुतिस्मृतय आत्मैक्यप्रतिपादिका नोपपद्यन्त इति। तत्राऽऽह - नाद्वेतश्रुतीति। आत्मैक्यश्रुतीनां विरोधस्तु नास्ति। तासां जातिपरत्वात्। जातिः(7) (f.n.oजातिसाo।) सामान्यमेकरूपत्वम्(8)(f.n.oन्यस्यैकo।) तत्रैवाद्वै तश्रुतीनां (9)तात्पर्यात्। नन्वखण्डत्वे(10)। तत्र प्रयोदनाभावादित्यर्थः। (f.n.9.क.oत्यर्यं नo।10. त्वे।)
नन्वयं पूर्वपक्षो न युक्तः। उक्तदोषाणं समन्वयाध्याय एव तत्र तत्रोद्धतत्वात्। तथाहि - ईक्षत्याधिकरणे पूर्वपक्षभाष्ये ` प्रधानस्यानेकात्मकस्य परिणामसंभवात्कारणत्वोपपत्तिर्मृदादिवत् नासंहतस्यैकात्मकस्य ब्रह्माणः' इत्युपादानत्वस्य ब्रह्मणि प्रतिक्षिप्तत्वात्तत्साधनं विना न सिद्धान्तोत्थितिरिति'(com - 71) कृत्स्नप्रसक्तिः' इति न्यायाभासोऽपि तत्र निरसनीयतया विवक्षितः। एवं क्वचिदीक्षणस्यौपचारिकत्वमित्यपि तत्रैव निरस्तम्। एवमदृश्यत्वाधिकरणे--
चिदात्मना तु सारूप्यं जडानां नोपपद्यते।
  जङ प्रधानमेवातौ जगद्योनिः प्रतीयताम्।।
इति निबन्धे पूर्वपक्षोत्थापनात्।
विवर्तस्तु प्रपञ्चोऽयं ब्रह्माणोऽपरिणामिनः।
अनादिवासनोद्भूतो न सारूप्यमपेक्ष्यते।।

इति सिद्धन्तप्रणयनाच्च `न विलक्षणत्वात्' ( ब्रo सूo 2।1।4) इत्याद्यधिकरणार्थ एवोक्त-। जिज्ञाससूत्र एव च सर्वज्ञत्वलसर्वकर्तृत्वतदभावादिविरुद्धधर्माध्यासाज्जीवब्रह्मा भेद माशङ्क्य तन्मिथ्यात्वसाधने विषयः। समर्थित इति तदनन्यत्वादधिकरणार्थोऽपि स्पष्टीकृतः। ` प्रकृतिश्च ( ब्रo सूo 1। 4। 23) इत्यत्रापि कार्यं चेदं जगत्सावयवमचेतनमशुद्धं च दृश्यत इत्यादिना ` न विलक्षणत्वात्' इत्यादि सूत्रार्थ एव दर्शित इति तदनुगुणेन सिद्धान्तेन भवितव्यमेवेति चेत्। अत्र वदन्ति - ईक्षत्याधिकरणे नित्यचैतन्यरूपस्य परमात्मनो मुख्यसर्वज्ञात्वासंभवात्तान्निर्वाहाय जन्यज्ञानोपगमे सशरीरत्वापत्तेश्चसिद्धान्तहेतोरस्वारस्यमुपपाद्य पूर्वपक्षोपोद्वलनायैतत्पादीयनिरसनीयस्य निरवयवत्वादिप्रयुक्तोपादानत्वासंभवस्योपदर्शितत्वेऽपिः तन्निरासकन्याय एतत्पादीयसिद्धान्यस्यैव समाश्रयणात्। यथोक्तं तत्रं सिद्धान्तभाष्ये - यथा तु तर्केणापि ब्रह्मण एव कारणत्वं निर्वोढुं शक्यते न प्रधानदीनां तथा प्रपञ्चयिष्यते ` न विलक्षणत्वात्' इत्येवमादिनेति। एतेनोक्तनिबन्धः प्रकृत्यधिकरणभाष्य चाविरोधेन व्याख्यातम्। एवमन्यत्रापि द्रष्यव्यम्।
यत्तु चन्द्रिकायाम् - यत्तु वेदान्तानां बहुमुखतया परतन्त्रप्रज्ञानां पुंसा तैः स्वतोऽर्थनिश्चयायोगेन स्मृत्या तदर्थे निश्चेतव्ये सति मन्वादिस्मृतीनामनुष्ठेयपरत्वेन सावकाशत्वात्कापिलस्मृतेस्तु सिद्धार्थनिष्ठायां मोक्षसाधनसम्यग्दर्शनमधिकृत्य प्रवृत्ताया अन्यपरत्वायोगान्नारवकाशत्वरूपदोषप्रसङ्गात्तदनुसारेण वेदान्ता अचेतनकारणपरतया व्याख्येया इति प्राप्ते मन्वादिस्मृतिषुपुराणादेषु च बहुनां ब्‌रह्मकारणत्ववादिवाक्यानां सत्त्वात्तेषामनवकाशत्वरूपदोषप्रसङ्गात्तदनुरोधेन चेतनकारणत्वपरतया वेदान्ता व्याख्येया इति सिद्धान्त इत्यस्मद्रीत्या पूर्वपक्षसिद्धान्तावनूद्य तन्न, वेदान्तानां चेतनकारणतायामैकमुख्यस्य ' गतिसामान्यात्' ( ब्रo सूo 1। 1। 10) इत्यत्रोक्तत्वेन समन्वयाध्याय उपपादितत्वेन च बहुमुखशङ्कानुदयादिति पूर्वपक्षे दूषणमुक्तं तदत एव निरस्तम्। प्रसिद्धानां वेदान्तानां यादृशक( का)रणपरत्वमन्येषामपि न तद्विरुद्धत्वमिति (com - 72) प्रागुक्तत्वेऽप्युक्तरीत्या सर्वेषामेव वेदनान्तानां सांख्याचार्योक्तरीत्या न ब्रह्मापरत्वमिति शङ्कायामनुपपत्त्यभावात्।

यदपि चन्द्रिकायाम् - स्पर्शनश्रुतिविरोधेन सर्ववेष्टनादिस्मृत्यप्रामाण्यस्य पूर्वतन्त्र एवोक्तत्वेनेह स्मृतिविरोधेन श्रुत्यस्वारस्यशङ्कानुदयाच्चेति पूर्वपक्षे द्वितीयं दूषणमुक्तम्। तदपि न सत्। निर्णीततात्पर्यश्रुतिविरोध एव ` विरोधे त्वनपेक्ष स्यात्' इथि पूर्वतन्त्रीयन्यायप्रवृत्तेः पूर्वपक्ष एवोपपादितत्वात्।
यदपि चन्द्रिकायाम् - अस्यादिकरणस्य सौत्रस्मृतिशब्दा संकोचायावैदिकस्मृतिममात्रविषयत्वसंभवे तत्संकोचेन कापिलस्मृतिमात्रविषयत्वोक्त्ययोगाच्चेति पूर्वपक्षे तृतीयं दूषणमुक्तम्। तत्परिहारश्च - सतीष्वध्यात्मविषयासु बहुषु स्मृतिषु सांख्ययोगस्मृत्योरेव निराकरणे यत्नः कृतः। सांख्यायोगौ हि परम पुरुषार्थसाधकत्वेन लोके प्रख्यातौ। शिष्टैश्च परिगृहीतौ। लिङ्गेन च श्रौतेनोपबृंहितौ। ` तत्कारण साख्ययोगाभिपन्न ज्ञात्वादेव मुच्यते सर्वपाशैः'(श्वेo 6। 13। इति सांख्यस्मृतिमात्र (com-- 73) निरासनिर्बन्धबीजकथनपरश्रीमद्भाष्यदर्शिनां स्पष्ट एव।
यदपि चन्द्रिकायाम् - ` ( com - 74) महद्दीर्घवद्वा' ( ब्रo सूo 2। 2। 11) इत्यादौ काणादिमतं दुष्यते , तथा ` रचनानुपपत्तेश्च नानुमानम्' ( ब्रo सूo 2।2। 1) इत्यत्र सांख्यमतमपीति चतुर्थदूषणमुक्तम्। तदपि न । निर्दोषश्रुतिमूलकस्मृतुविरोधान्निर्मूलत्वान्महत्तत्त्वादिकार्यस्मृतेरिव तत्सधर्मतया कारणस्मृतेरप्रामाण्यस्यैतदधिकरणप्रमेयत्वेन वक्ष्यमाणानुमानाद्यदुष्टप्रमाणमूलकत्वादमूलत्वासिद्धिशङ्कायां तत्साध्यकानुमनदुष्टत्वस्य ` रचनानुपपत्तेश्च' इत्याधिकरणप्रमेयत्वेन चादोषात्। अयमत्र सिद्धान्तनिष्कर्षः- तुल्यबलयोर्विरोधे निरवकाशेन सावकाशस्य संकोचो वक्तव्यः। न चैव प्रकृतेऽस्ति। वेदानुसारिस्मृतीनां क्लृप्तमूलतया निश्चितप्रामाण्यकत्वात्। वेदविरुद्धानां च सांख्यस्मृतीनां मूलं यावदनुमीयते तावत्प्रत्यक्षश्रुतिविरोधेनाप्रामाण्यंमेव भ्रमप्रतारणादिक्लृप्तमूल निश्चीयत इति ( com - 75) न मूलश्रुतिकल्पनावकाशः। तथा च नाऽऽसं प्रामाण्यनिश्चयः संभवतीत्युक्ततर्कस्येष्टपत्तिशङ्कापराहतत्वान्नास्मत्पक्षविरोधिता। तदेतदन्यस्मृतीनामप्रामाण्यमापादयता सूत्रकारेणैव सूचितम्। अन्यस्मृतीनां प्रामाण्यानभ्युपगमे तासामप्रामाण्यापादनायोगात्। सांख्यस्मृतेः प्रमाणविरिद्धार्थकत्वस्याप्रामाण्यहेतोर्लाभात्। ननुक्तं समबलत्वं श्रुतिस्मृत्योः। दुरुक्तं तत् । श्रुतेः प्रामाणान्तरप्राप्ति निरपेक्षाया एव प्रमाणत्वात्। स्मृतेश्च तत्सापेक्षत्वात्। कपिलादिसिद्धाः प्रमाणान्तरेणार्थमुपलभ्य तद्बुवोधयिषया स्मृतीः प्रावाचेन । अन्यथा स्मृतीनां कथमाप्तिमूलकत्वम्। कथं वा तदभावे प्रामाण्यम्। स्वतः सिद्धज्ञाप्तिमूलकता च नानपेक्षत्वभञ्जीका । यतो ज्ञप्तेरुत्पद्यमानाया एव दोषजन्यत्वशङ्काया अप्रामाण्शङ्कायाः प्रसरात्। नन्वेवं तार्किकवद्वेदपौरुषेयत्वाभ्युपगमापत्तिरिति चेत्। न । यतस्तार्किका वेदप्रामाण्यमाप्तप्रणीतत्वान्न स्वत इति मन्यन्ते। तथा हि सूत्रम् - `तद्वाचनाद्वाम्नायप्रामाण्यम्' ( ) इति। इदं च सर्वज्ञेश्वरसिद्धो तदुक्ततया वेदप्रामाण्यसिद्धिस्तस्यां च सत्यां प्रमाणवेदप्रसिद्धसर्वज्ञेश्वरसिद्धिरित्यन्योन्याश्रयदुष्टम्। औपनिषदास्तु- उत्पत्तौ प्रमाण्यस्य स्वतस्त्वाभ्युपगमान्न तथेति विशेषात्। न च नित्यज्ञानेऽपि भ्रमत्वं शक्यशङ्कम्। असति बाधके ज्ञानानामुत्यर्गतः प्रामाण्यात्। नन्वेतत्सिद्धान्तविरुद्धम्‌, दृश्यसामान्यस्य मिथ्यात्वेनेस्वरज्ञानस्यापि मिथ्याविषयत्वलक्षणभ्रमत्वानपवादत्वदिति चेत्। नहि मिथ्याविषयकत्वलमात्रं भ्रमत्वम्। ` इदं रजतमनिर्वाच्यमसद्वा ' इति ज्ञानस्याप्यप्रामाण्यप्रसाङ्गात्। कितुं तद्विति तदनवगाहित्वम्। न चानिर्वाच्यमनिर्वाच्यत्वादिना विषयीकुर्वतो ङगवज्ज्ञानस्य तत्संभवः। न च कपिलादिज्ञानस्य नित्यतायां किंचित्प्रमाणमस्ति। तस्मान्निरस्तसमस्तदोषशङ्काया श्रुत्या तन्मूलया स्मृत्या वा न समबलत्वं कापिलस्मृतेरिति न सावकाशत्वनिरवकाशत्वाभ्यां व्यवस्था युक्ता। किंच वेदविरुद्धसाख्याप्रवक्तुः कपिलस्य श्रुतिप्रतिपाद्यत्वं प्रसिद्धम्। कपिलमिति सामान्यश्रुतेरन्यस्य च कपिलस्य सगरपुत्राणां प्रतप्युर्वासुदेवाम्नः स्परणात्। न च तावताऽपि कपिलशब्दार्थसंदेह एवेति वाच्यम्।` ऋषिं प्रभूतम्' इति वचनं श्वेताश्वतरहगतम्। तच्चद्वितीयब्रह्माप्रतिपादन एव स्वरसमिति( com - 76) चमसाधिकरणे निर्णीतम्। तेन चाद्वैतानुयायी वायुदेवांशः कपिल एव प्रतिपाद्यत इति निर्धारयितुं शक्यत्वात्। किंच ` यद्वै किंचन(1) (f.n.क.oच मo इत्याकारक एव पाठ इदानीतनवैदिकानाम्।) मनुरवादत्तद्‌भेषजम्' ( तैo संo 2।2। 10। 2) इति मनूक्तिमात्रस्य प्रामाण्बोधकश्रुतेर्जीगरूकत्वेन तदुक्तिसावकाशत्वकथनमससंगतम्। अन्यथा ` किंचनं ' इतिपदवैर्थ्यापत्तेः। मनुना तु---
सर्वभूतेषु चाऽऽत्मानं सर्वभूतानि चाऽऽत्मनि ।
समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति (12।91)।।
इति सार्वात्म्यं प्रशंसता कापिलं मत निन्दितमिति गम्यते।
कपिलो सहि न सार्वात्म्यं मन्यते। आत्माभेदानुपगमात्। श्रुत्यनुरोधिन्यः स्मृतयश्च-- ` यत्तत्सूक्ष्ममविज्ञेम्' इति परं ब्रह्म प्रकृत्य `स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते ' इति चोक्‌त्वा' तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम्' इत्याहुः। तथाऽन्यत्रापि ' अव्यक्तं पुरुषे ब्रह्मान्निष्क्रिये(1) (f.n.क. oनिष्कले संo।) संप्रलीयते' इत्याहुः।

अतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणः।
स सर्गकाले च करोति सर्गं संहारकाले च तदत्ति भूयः।।
इति पुराणे । भगवद्गीतासु च --
अहं सर्वस्य जगतः प्रभवः प्रलयस्तथा ।। इति।
परमात्मानमेव च प्रकृत्याऽऽपस्तम्बः पठति-- ` तस्मात्कायाः प्रभवन्ति सर्वे मूलं शास्वतिकः स नित्यः' (धo सूo 1।8।23। 2) इतीश्वरकारणत्ववादिन्यः। महाभारते--
बहवः पुरुषा राजन्नुताहो एव एव तु । इति विचार्य--
बहवः पुरुषा राजन्सांख्ययोगाविचारिणाम्।।
इति परपक्षमुपन्यस्य तदुव्युदासेन--
बहूनां पुरुषाणां हि यथैका योनिरुच्यते।
तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्।। इत्युपक्रम्य--
ममान्तरात्मा तव च ये चान्ये देहसंस्थिताः।
सर्वेषा साक्षिभूतोऽसौ न ग्राह्मः केनचित्क्वचित्।।
विश्वमूर्दा विश्वभुजो विश्वपादाक्षिनासिकः।
एकश्चरति भूतेषु स्वैरचारी यथासुखम्।.
इति सर्वात्मतायां च भाष्योक्ताः।। 1।।
   अमुलत्वाच्च सांख्यास्मृतेरप्रामाण्यमाह--
   इतरेषा चानुपलब्धेः।। 2।। इति।
इतरेषां प्रधानादितरेषां महदादितत्त्वानां लोकवेदयोरनुपलब्धेः। तथा च स्वतन्त्रकप्रधानवादिनी कापिलस्मृतिरप्रमाणं मूलशून्यत्वान्महत्तत्वादिबोधककापिलस्मृतिवत्। महत्तत्त्वादयो यथा न श्रुत्यादिसिद्धास्तथोपपादितम् ` न संख्योपसंग्रहात्o' (ब्रo सूo 1।4। 11) इत्यत्र भाष्यव्याख्यानयोः। अत्र निर्दोषश्रुतिमूलकस्मृतिविरोधात्सांख्यास्मृतेरप्रामाण्यं प्रथमसूत्र उक्तम्। द्वितीये च निर्मूलत्वादप्रामाण्यम्। निर्मलत्वं च स्वसमानविषयकादुष्टकरणजन्यज्ञानमूलकत्वरूपसमूलत्वाभावो प्रामाण्ये हेतुः वेदे व्यभिचारवारणाय स्मृतित्वपन्यद्वा हेतुविशेषणमवसेयम्।
यत्तु चन्द्रिकायाम् - चच्चोक्तं परैः प्रधानादितरेषां महदादीनामनुपलब्धेश्च साख्यमतमयुक्तमिति ' इतरेषाम्' इतिसूत्रार्थमनूद्य तन्न, ' न संख्योपसंग्रहात्' इत्यत्रैव श्रुत्यादिषु महदादीनामुपलब्धे (com - 76) र्दर्शितत्वादिति दुषणमुक्तम्। तदपि न सत्। निर्मूलमहत्तत्त्वादिकार्यस्मृतिसधर्मतया कारणस्मृतेरप्रामाण्यस्यैतत्सूत्रार्थस्य दूषणास्पर्शित्वात्। कार्यस्मृतेरप्रामाण्यात्कारणस्मृतेरप्रामाण्यं युक्तमित्याभिप्रायके श्रीमद्भाष्ये निरुक्तसूत्रार्थस्यातिस्पष्टत्वेन दर्शितत्वादन्यस्मिन्नर्थे शङ्कानुदयाच्च।। 2।।
एतेन योगः प्रत्युक्तः।। 3।।
अत्र ब्रह्मावादसाक्षाद्विरोधियोगस्मृतिवोरोधादध्यायपादसंगतिः। संशयपूर्वपक्षावाह--
योगस्मृत्याऽस्ति संकोचो न वा समन्वये।
धर्मे वेदः सावकाशः संकोचोऽनवकाशया।।
  इति संशयपूर्वपक्षादिकं प्रागुक्तदिशाऽवसेयम्।
यत्तु चन्द्रिकायाम् -- यच्चोक्तम्` विद्यामेतां योगाविधिं च कृत्स्नम्' ( काo 2। 6। 18) इत्यादिश्रुत्या योगस्य परिगृहीतत्वेन न सांख्यतुल्यतेयधिकाशङ्कायाम्-एतेनेति। तन्न। `तत्कारणं सांख्यायोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपाशै_ (श्वेo 6। 13) इत्यादिषु श्रुतिषु साख्यास्यापि परिगृहीतत्वेनादिकाशङ्काभावात्। तत्र वैदिकं ज्ञानमेव सांख्याशब्दार्थश्चेदिहापि ज्ञानोपाय एव योगशब्दार्थेऽस्त्विति दूषणमुक्तम्। चच्छ्रीमद्भाष्यहृदयापरीक्षानिबन्धनम्। तथा हि -- योग विषये ' तां योगम्' ( काo 2। 6। 11) इति' विद्यामेतां योगविधिं च ' ( काo 2। 6। 18) इत्यादिना वैदिकानि लिङ्गान्युक्त्वा " योगशास्त्रेऽपि ' अथ तत्त्वदर्शनोपायो योगः' इति सम्यग्दर्शनार्थत्वेनैव योगोऽङ्गी क्रियते। अतः संप्रतिपन्नार्थेकदेशत्वादष्टकादिस्मृतिवद्योगस्मृतिरप्यनपवदनीया भविष्यतीति। इयमभ्यधिकाशङ्काऽतिदेशेन निवर्त्यते" इति
। अधिकाशङ्कोपपादने' अथ तत्त्वदर्शनोपायो योगः '
इति हिरण्यगर्भप्रणीतयोगशास्त्रीयसूत्रस्य भाष्ये प्रदर्शितत्वाद्धैरण्यगर्भस्मृत्यवष्टम्भेनायं पूर्वपक्ष इति गम्यते। तत्र च संभवत्येवाभ्यधिकाशङ्का। सा चेत्थम्-- ऋषिं प्रसूतं कपिलं यस्तमग्रे'(श्वेo 5। 2) इत्यादिश्रुतिर्न वासुदेवावतारकपिलपरा। तस्याऽऽजानासिद्ध्या धौरेयस्येतरानुग्राह्मत्वायोगात्। लीलापरत्वं च संभवात्यां गतावनुचितम्। नापि तन्त्रप्रणेतृकपिलपरा। अग्रेपदासंगतेः। तस्य हिरण्यगर्भपुत्र(पर) त्वेनैव प्रसिद्धेः। किंतु ' हिरण्यगर्भः समवर्तताग्रे' ' हिरण्यगर्भं पश्यत जायमानं यो ब्रह्माणं विदधाति पूर्वम्' इत्यादिबहुश्रुतिसिद्धप्रथमजत्वादिलिङ्गप्रत्यभिज्ञानुरोधेनैका कपिलश्रुतिरतिप्रसिद्धमपि तन्त्रप्रणेतारं परित्यज्यं प्रसिद्धमपहायैककपिलवर्णहिरण्यगर्भपरतया नेया। न च निरपेक्षवेदविरोधादुक्तस्मृतेप्रामाण्यम्। ` यद्वै किचनं मनुरवदत्तद्भेजम्' इति श्रुत्या हिरण्यगर्भवचनमात्रस्य प्रामाण्योक्त्यनुरोधेन वेदान्तानामेव तदनुरोधेन व्याख्येयत्वात्। अन्यथा किंचनेतिपदवैयर्थ्यापत्तेः। न चोक्तश्रुतिः प्रसिद्धमनुक्तीनामेव प्रामाण्यं बोधयति, न हिरण्यगर्भोक्तीनामिति कथमेतादिति शङ्क्यम्। तस्यां मनुशब्दस्य समष्टिमनोभिमानिहिरण्यगर्भपरत्वात्। तथा हि -- तैत्तिरीशाखास्थ[स्य] ` मानवी ऋचौ धाय्ये कुर्यात्' इति विधेर्ह्ययमर्थवादः- ' यद्वै किंचन(1)(f.n.क.oच मo) मनुरवदत्' इति । तद्विधिविधेययो[ऋ]चोः ` देवानां य इन्मनो यजमान इयक्षति' (ऋ o संo 6।2। 40) इति श्रवणादेव मनोभिमानिहिरण्यगर्भप्रकाशकताऽवगम्यते। तथा च विधिगतस्य मानवी इतिपदस्य मनुप्रकाशिके इत्यर्थपरत्वात्। मनुपदस्य स्मृतिप्रणेतृमनुपरत्वे तदसंभवात्। विधिपद(गत)स्य मनुगत(पद) स्य हिरण्यगर्भपरत्वे तदैकार्थ्याय विधिवाक्योपात्तऋग्विशेषस्तदानुगुण्येन व्याख्येयः। तदर्थवादगतमनुशब्दस्यापि हिरण्यगर्भपरत्वमेव युक्तम्। ईश्वरप्रतिपादकत्वाच्च वेदान्तपक्षानुसारित्वेऽप्यस्य हैरण्यगर्भयोगशास्त्रस्य स्फुटम् " न च ` इतरेषा चानुपलब्धेः' इति न्यायेन तन्निरासस्य ( तन्निरारासः) ` यद्वै किंचन' इति हिरण्यगर्भोक्तिमात्रप्रामाण्यमभिदधानायाः श्रुतेरेव कार्यस्मृत्यादेः समूलव्यवस्थापकत्वात्। अन्यथा ` किंचन' इतिपदवैयर्थ्यस्योक्तत्वात्ठ इत्युक्ताऽभ्यधिका शङ्का च परिहृता भाष्ये- अर्थैकदेशसंप्रतिपत्तावप्यर्थैदेशाविप्रतिपत्तेरिति। सिद्धान्तमाह-
प्राप्ताऽपि योगतात्पर्यादतात्पर्यान्न सा प्रमा।
अवैदिकप्रधानादावसंकोचस्तथाऽप्यतः।। इति।
अयं भावः- अस्तु तादृशर्चोर्हिरण्यगर्भप्रकाशकता तथाऽपि विधिगतस्य तद्धितप्रत्ययस्य न प्रकारश्यप्रकाशकसंबन्धपरत्वम्। अपि तु ` यद्वै किंच' इति वाक्यशेषानुसारेण तासां मनुना दृष्टमानवीत्यर्थ एवाऽऽश्रयणीयः । तथा च हिरण्यगर्भप्रकाशकयोरपि मनुसूक्तान्तर्गत्या मनुना दृष्टत्वसंभवान्न क्लेसेन मनुशब्दस्य प्रसिद्धमनुत्यागेन हिरण्यगर्भपरत्वं युक्तमिति। तथा च प्रधानाद्यंशे प्रत्यक्षविरोधेन तदंशे योगशास्त्रस्य तात्पर्यकल्पनेऽसङ्गमनिर्गुणपुरुषम्(प्र) व्रज्याद्युपदेशेन निवृत्तिनिष्ठत्वादिरूपभाष्योक्तांशान्तप्रामाण्यस्य रक्षितुमशक्यतया तदंशे यथाश्रुतार्थे तात्पर्यमेमव नास्तीति कल्प्यते। तात्पर्याभावेऽपि तत्प्रतिपादनं परमात्मनोऽतिसूक्ष्मतया तस्मिन्महसा चित्तस्य योजयितुमशक्यतया प्रथम [त] स्तदुपयोगितया स्थूलविषयं योगं वक्तम्। तत्---
(com -77) पूर्वपक्षासमुत्थानमाद्ये हेतोरसिद्धता।
द्वितीयेऽभ्यधिका शङ्काऽनुपपत्तिस्तृतीयके।।

   इति चन्द्रिकाकारोक्तं सर्वं परास्तमिति दिक्।
आनन्दतीर्थायास्तु - `स्मृत्यनवकाशo ' इत्यादिसूत्रत्रयमेकमधिकरणं स्मृतिविरोधमनिरासकम्। तत्र घूर्णा(णा) क्षरतुल्यानां वेदानामाप्तिमूलकत्वाभावात्सर्वज्ञप्रणीतानां च पाशुपतादिस्मृतीनां च रुद्रादिप्रत्यक्षमूलकत्वेन श्रुतितो बलवत्त्वात्तदनुसारेणैव वेदार्थो वर्णनीय इति न विष्णोर्जगत्कारणत्वं युक्तम्। पाशुपतादिस्मृतिषु रुद्रादेरेव जगत्कारणत्वोक्तेरिति प्राप्ते - विष्णवादिप्रत्यक्षमूलकपाञ्चरात्रादिस्मृतीनां समबलत्वे प्रतिरोधिद्विष्ण्वाद्युक्तस्य श्रुतिषु संवाददर्शनेन रुद्राद्यपेक्षया तत्तद्विष्ण्वादिप्रणीतत्वादधिकबलत्वे बाधात्। तादृशस्मृतिसचिवया श्रुत्याऽतितरां बाधाच्च न पाशुपतादिस्मृतीनां प्रामाण्यम्। अतो नोक्तवेदप्रामाण्येन विष्णोर्जगत्कारणत्वसमन्वयानुपपत्तिः। अत्र च विशेषेणावैदिकनिखिलस्मृतिप्रत्येकावलम्बनेन पूर्वपक्षा बहवः चन्द्रिकाद्युक्ताः। तथा हि चन्द्रिकायाम्- अत्र च येषा पाशुपतसख्यादीनां मते वेदस्यापौरुषेयत्वप्रामाण्ये तन्मते स्मृत्यनुसारेण श्रुतिर्नेयेति श्रुतिप्रामाण्येन (com- 78) पूर्वपक्षः। येषां तु कणादादीनां मते वेदस्य पौरुषेयत्वप्रामाण्ये तेषां कणादादीनां स्मृतेः स्पष्टार्थत्वं सयुक्तिकत्वं चेति तत्र बीजमिति तेऽपि पूर्वपक्षिणः। बौद्धादिमते त्वाप्तप्रणीतबौद्धाद्यागमविरोधादाप्तप्रणीतो वेदो।प्रमाणमित्येव पूर्वपक्षः। अत एव सुधायाम् -` पाशुपतसांख्याबौद्धार्हतादि ' इति बौध्धादिशब्द एवमादि । संकोचे प्रमाणाभावादवैदिकत्वेन संकोचस्तु न्यायप्राप्तत्वात्सह्य इत्याहु-। तदसत् । रुद्रप्रणीतानामपि परस्परविरुद्धानां बहुनामागमानामुपलम्भेन तत्प्रणीतानामपि परस्परविरुद्धानां बहूनामागमानामुपलम्भेन तत्प्रणीतागमान्तरविरुद्धायाः पाशुपतस्मृतेराप्तिमूलकत्वमाश्रित्यापौरुषेयश्रुतिस्वारस्यभङ्गस्य शङ्कितुमशक्यत्वात्। कणादादिसमृत्यवलम्बी पूर्वपक्षोऽपि न युक्तः। तेषामपि रुद्रोपदेशादेव तादृशास्त्रापणेतृत्वलस्मरणात्। कपिलकमलासनयोराप्तौ तु श्रुतिरुपदर्शिता। नन्वेवं सांख्यायोगयोः परस्पविरोधादप्रामाण्यप्रसक्त्या त्वन्मतेऽपि कथं पूर्वपक्षसिद्धिरिति चेत्। आशयानवबोधात्। तथा हि - आद्याधिकरणे योगाधिकरणसिद्धान्तन्यायेन योगस्मृतेरीश्वलरांशे न्याये तात्पर्यम्। इतरांशे तु न विरोधः। तयोरुपायभूतयोगप्रतिपादकतया मन्वादिस्मृतिवत्सावकाशतेति वा द्वितीयेऽप्याद्यसिद्धन्तन्यायेन प्रयोक्तुरनाप्तत्वामाश्रित्य वा द्वितीयेऽप्याद्यसिद्धान्तन्यायेन प्रयोक्तरनाप्तत्वामाश्रित्य पूर्वपक्षोत्थितेरप्रत्यूहत्वात्। पशुपतिप्रणीतानां च स्मृतीनां परस्परविरुद्धत्वादेकतरप्रामाण्यनिर्धारणे कारणाभावात्। तत्प्रामाण्यवलम्बनेन पूर्वपक्षो न युक्त इत्युक्तम्। पाञ्चरात्रादिस्मृतिविरुद्धबौद्धादिसमृत्यवलम्बी पूर्वपक्षोऽप्यनयैव सरण्या निरस्तः। भगवत्प्रणीतपाञ्चारात्रादिस्मृतिविरुद्धायास्तत्प्रणीतशाक्यादिस्मृतेराप्तिमूलताया दुर्निश्चेयत्वादिति। रुद्राद्युक्तस्य रुद्रादेर्जगत्कारणत्वादेः श्रुतिषु यथासंवादस्तथोपपादितं प्रागिति जगत्कारणत्वांशे पाशुपतस्मृत्यपेक्षया पाञ्चारात्रादेरधिकबलत्वासिद्धेश्च। यश्च ` इतरेषा चानुपलब्धेः' इति सूत्रस्येतरेषां पाशुपतस्मृतिषूक्तानामतीन्द्रियेभ्य इतरेषा फलानुष्ठानात्तदुक्तकर्मानिष्ठानपरित्यागयोः कृतयोरपि प्रत्यक्षतोऽनुपलब्धेस्तदंशे पाशुपतादिस्मृतीमानप्रामाण्यमित्यर्थ इति। तन्न। वैगुण्यादपि फलानुपलम्भोपपत्तेः। ` न विलक्षणत्वात्' ( ब्रo सू o 2। 1। 4) इत्यत्र कारीर्यादिस्थले त्वया तथैव फलानुपलम्भस्य समर्थितत्वाच्च। श्रुतौ प्रामाण्यनिश्चयेन तन्निर्वाहाय वैगुण्यं तत्र कल्पितं मयेति चेत्। अत्राप्यप्रामाण्यस्यानिश्चयेनोत्सर्गतः प्राप्तप्रामाण्यरक्षणाय तथा कल्पयितु युक्तत्वात्। अत्राप्रामाण्यं प्रमाणान्तरेण निश्चितमिति चेत्। तर्हि सूत्रवैयर्थ्यात्। निश्चितेऽप्यर्थे हेत्वन्तराभिधानं तदैवोचितं भवति यदि प्राचीनं हेतुमनुपजीव्यस्य स्वसाध्यसाधानक्षमत्वम्। तच्च न संभवतीति। ` एतेन योगः प्रत्युक्तः' इत्यत्र योगस्मृतौ दृष्टार्थाविसंवादात्प्रमाण्यमाशङ्क्य प्रथमं स्वदेनं द्वितीयं गात्रभञ्जनमिति तदुक्तक्रमानुपलम्भान्न तत्प्रामाण्यमित्यर्थवर्णनमपि न युक्तम्। ` इतरेषाम्' इत्यत्र योग्यानां फलानामिव क्रमस्यापि विवक्षासंभवेन तृतीयसूत्रस्यापि त्वन्मते व्यर्थत्वात्।।

मीमांसान्यायपञ्चास्यराघवाचार्यसूरिणाम्।
शिष्यस्यैषा कृतिर्भूयाद्रघुनाथस्य सन्मुदे।।
इति स्मृत्यधिकरणं समाप्तम्।