सामग्री पर जाएँ

शङ्करपादभूषणम्/अधिकरणम् १ (ज्योतिरधिकरणम्)

विकिस्रोतः तः
शङ्करपादभूषणम्
अधिकरणम् १ (ज्योतिरधिकरणम्)
[[लेखकः :|]]
अधिकरणम् २ ( स्मृत्यधिकरणम्) →

भूतादिसूत्रस्य पौनरुक्त्यमुक्तम्। तच्चिन्त्यमेव। ` तावानस्य' इति मन्त्रस्य ब्रह्मपरतां (com-15) सिद्धिवत्कृत्य तत्परामर्शकयच्छब्दस्वारस्येन ज्योतिर्वाक्यस्य ब्रह्मापरताया आद्यसूत्रप्रमेयत्वात्। तादृशवाक्यस्य ब्रह्मपरतैवासिद्धेति शङ्कायां भुतपादत्वादिभिर्गायत्री वाक्यस्यापि ब्रह्मपरत्वामित्यस्य भूतादिसूत्रप्रमेयतयापौनरुक्त्यलेशस्याप्यनवकाशात्। श्रीमद्भाष्यफक्किकानामुक्तार्थताया अतिस्पष्टतया, एवमपि स्पष्टेऽपि प्रमेयभेदेन पौनरुक्त्योद्भावनं व्यामोहमात्रनिबन्धनं द्वेषनिबन्धनं वेति भाष्यदर्शिना स्पष्टमेव।
किं च चतुष्पदेत्याद्यप्यसत्। वागादेरन्यार्थमुक्तत्वेन भूतादिवदमुख्यत्वात्। तथाहि - भूतमिति वाक्यस्य हेतुवन्निगदार्थवादन्यायेन गानत्राणकर्तृत्वादिना स्तुत्या सर्वात्मकत्वोपपादनाय' अस्या हीदं सर्वं भूतं प्रतिष्ठतम्' इति भिन्नकक्षारूढवाक्यवत्तादृशवाक्यभेदो गायत्र्यामुक्तः। न तु प्राधान्येन। अत एव ` या वै सा गायत्रीयं वाव सा येयं पृथिवी' (छाo 3।12।2) इतिवत्` या वै सा गायत्रीयं वाव सा येयं वाक्' इति नौक्तम्। अन्यथाऽग्रिमपर्यायसाम्याय तथैवावक्ष्यत्। प्राणस्य तु गायत्र्यात्मकत्वं विशिष्य नोक्तमिति। न किञ्चिदेतत्।
आनन्दतीर्थीयास्तु- चतुः सूत्र्या (com-16) एकाधिकरणत्वं स्वीकृत्यैव ` वि मे कर्णा पतयतो चक्षुर्वीदं ज्योतिर्हृदय आहितं यत्' (ऋo संo 4। 5। 11। इत्याद्याग्रिसूक्तस्थं वाक्यम्। ` यदतः परो दिवो ज्योतिर्दीप्यते' ( छाo 3। 13। 7) इति च्छान्दोग्यस्थावाक्यं वोदाहरणम्, अधिकरणभेदं स्वीकृत्य ' ज्योतिश्चरणभिधानात्' ( ब्रo सूo 1। 1। 24। इति सूत्रे पूर्वोक्तमग्रिसूक्तस्थं वाक्यमुदाहरणमुत्तरात्रिसूत्र्यास्तूक्तच्छान्दोग्यवाक्यमुदाहरणमिति वा प्रतिपादयन्ति। तया गुहानिहितत्वस्यान्यनिष्ठत्वशङ्कयाऽऽ नन्दमवाधिकरणाक्षेपेण च सङ्गतिं वदन्ति। तथा हि - लोकतोऽन्यत्र प्रसिद्धज्योतिर्नाम्नोऽत्र ब्रह्मणि समन्वयप्रतिपादनाच्छस्त्र सङ्गतिः। ` यो वेद निहितं गुहायाम्' (तैo 2।1।1) इत्यानन्दमयस्य हृदयगुहानिहितत्वमुक्तम्। तद्गुहानिहितत्वम्' वि मे कर्णा पतयतो वि चक्षुर्वीदम्' इति कस्यचिज्ज्योतिषः प्रतीयते। तत्र वाक्येऽयमर्थः- मे कर्णै ज्योतिषा विरुद्धं पततः। चक्षुश्च विरुद्धं पतति। यदिदं हृदय आहितं ज्योतिस्तदप्यत्यन्तं कर्णादिविरुद्धं वर्तते। मे मनश्चातीव विरद्धं चरति। अतोऽव्याप्तबुद्धिरहं किं नु वक्ष्यामि। किं वेदानीं चिन्तयामीति । एतच्च यदि विष्णोरन्यत्तर्ह्यानन्दमयत्वं च तस्यैव प्रसज्जत इति निर्णेयं भवतीति।
तत्रेदं चिन्त्यम्- सङ्गतिस्तावदयुक्ता। गुहानिहितत्वहृदयाहितत्वयोरेकरूपत्वाभावेनाप्रत्याभिज्ञानाच्छान्दोग्यवाक्ये सुतरां तदभावाच्च। प्रत्युत` यदिदमन्तः पुरुषे ज्योतिः ' इति जाठरज्योतिषोरैक्योपदेशेन तदभावस्यैव ज्ञापनाच्च।'योऽयमन्तर्हृदये' इति गायत्र्याः श्रवणेऽपि पूर्वपक्षे गायत्रीज्योतिषोर्भिन्नत्वेन ज्योतिर्दावारा तदाक्षेपायोगाच्च। चतुः सूत्र्या एकाधिकरणत्वं स्वीकृत्योक्ताग्रिसूक्तस्थवाक्योदाहरणत्वमप्ययुक्तम्। तत्र च्छन्दोभिधानभूतादिपादव्यपदेशोपदेशभेदानामभावेन च्छन्दोभिधानभूतादिसूत्रासङ्गत्यप्रसङ्गात्।
यत्तु चन्द्रिकायाम्- उक्ताक्षेपे ` ज्योतिर्हृदय आहितं यत्' इत्याग्रिसूक्तस्थस्यैव ज्योतिषश्छान्दोग्येऽपि ज्योतिः श्रुत्या ` योऽयमन्तर्हृदये' ( छाo 3। 12।1। ) इति हृदयनिहितत्वधर्मेण च ( com - 17) शाखान्तराधिकरणन्यायेन प्रत्यभिज्ञायमान वेनैक्यानन्नोक्तसूत्रासङ्गतिरिति समाधानमुक्तम्। तदसत्। दिवः परत्र विश्वोत्तीर्णप्रदेशवृत्तित्वेन च्छान्दोग्यवाक्ये श्रुतस्य ज्योतिषो हृजयनिहितत्वेनाग्रिसूक्तोक्तज्योतिषो भिन्नत्वेन ज्योतिर्द्वयस्यैकल्पनायोगात्। अत एव न शाखान्तरन्यायविषयत्वम्। अग्रिसूक्ते कर्णादिविदूरत्वश्रवणेन च्छान्दोग्ये ' तदेतद्दृष्टं च श्रुतं च ' ( छाo 3। 13। 7) इति श्रवणेन मासाग्रिहोत्रनैयमिकाग्रिहोत्रयोरिवात्रापि ज्योतिषोर्भिन्नयोर्नामैक्यस्य वस्त्वैक्याप्रयोजकत्वात्।
यच्चोक्ताक्षेप आकारभेदेम तयोरविरोधोपपत्तिरिति चन्द्रिकायां समाधानमुक्तम्। तदप्यसत्। निश्चिते हि द्वयोर्ज्योतिषोरैक्य आकारभेदेनाधिरोधोपपत्तिकल्पना तत्कल्पनया चैक्यसिद्धिरित्यन्योन्याश्रयत्वप्रसङ्गात्।
यच्च चन्द्रिकायाम्- न च पूर्वपक्षेऽग्रिसूक्तस्य समाख्याबलादग्रिपरत्वाच्छान्दोग्यवाक्यस्य च च्छन्दः परत्वात्तयोरेकाविषयत्वलाभावान्न (com- 18) प्रत्यभिज्ञासम्भव इति शङ्क्यमित्याक्षिप्य ' तेजो वै ब्रह्मवर्चसं गायत्री ' इति गायत्र्यां तेजोरूपताश्रवणात्तेजः- शब्दाग्रिशब्दायोरनतिभिन्नार्थत्वादग्रौ गायत्रीशब्दस्य गायत्र्यां वाऽग्रिशब्दस्य सम्भवेनाग्रिसक्तवच्छान्दोग्यस्याप्यग्रिपरतायाश्छान्दोग्यवदग्रिसूक्तस्यापि गायत्रीपरताया वा सम्भवेन द्वयोरेकार्थत्वान्न * प्रत्याभिज्ञासम्भव इति समाधानम्- तदुपहास्यमेव । ब्रह्मर्वसतेजौहेतौ गायत्र्याम्- ` आयुर्घृतम्' इति वद्गौणव्यपदेशेऽपि तस्य तेजसोऽग्रिरूपत्वाभावेन तावन्मात्रेण वाक्याभेदासिद्ध्या च तयोरैक्यासिद्धेः। अन्यथा तेजः शब्दगायत्रीशब्दयोः सामानाधिकरण्यदर्शऩवत्' यजमानः प्रस्तरः' इति निर्देशाद्यजमानप्रस्तरयोरप्यैक्यापत्त्या सूक्तवाकेन यजमानस्यैव (com- 20) प्रहरणं स्यात्।
चतुः सूत्र्या ऐकादिकरण्ये छान्दोग्यवाक्यसुदाहरणमित्यपि न युक्तम्। छान्दोग्यवाक्ये ( com - 21) विचरणाभिधानाभावात्। अग्रि सूक्तच्छान्दोग्यस्थज्योतिषोरुक्तरीत्यैक्यस्थायुक्तत्वात्। स्ववाक्यगतासाधारणानेकश्रुतिलिङ्गत्यागेनान्यवाक्यगतलिङ्गेन निर्णये बीजाभावाच्च।
यच्च चन्द्रिकायाम् - यद्यपि च्छान्दोग्योक्तस्य ब्रह्मत्वे `यद्वैतब्रह्म' (छाo 3।12।7) इत्यादिश्रुतिलिङ्गानि स्ववाक्यस्थानि सन्तीत्याक्षिप्य तथाऽपि तत्तत्सूक्तस्थनिरवकाशविष्णुलिंङ्गै सावकाशश्रुतिसूक्तबाधेन सर्ववेदान्तानां विष्णौ समन्वयं दर्शयितुं सूत्रकारेणग्रिसूक्तस्थं लिङ्गमुक्तामिति समाधानं तथा च च्छान्दोग्यस्थं ' ज्योतिर्विष्णुः। अस्यैव ज्योतिषोऽग्रिसूक्तेविचरणाभिधानात्' इति सूत्रार्थेन ( com - 22) बाधकमिति। तदसत्।
निरवकाशलिङ्गविरोधेन श्रुतिबाधस्यान्तराधिकरणाकाशाधिकरणन्यायसिद्धतयाऽनन्यथासिद्दिचरणादिविद्वरत्वलिङ्गेनैव तत्समाख्याश्रुतिद्वयभङ्गेनाग्रिसूक्तस्यान्तरादित्यन्यायसाजात्येन ब्रह्मपरत्वसिद्धया (com- 23) तन्निर्णयस्यानपेक्षिततया (com- 24) तन्मुखेन तदभिधानवैफल्याच्च। निरवकाशलिङ्गवलात्तस्य (com- 25) ज्योतिषः परमात्मत्वेऽप्यस्य (com-26) ज्योतिषो निरवकाशजाठरागन्यैक्यसचिवशश्रुतिबलादन्यपरत्वशङ्कायास्तेनापरिहाराच्च। किञ्चैतन्मते ' छन्दोभिधानात्'( ब्रo सूo 1।1। 24) इति सूत्रं न विचरणाभिधानरूपहेत्वाक्षेपकम्। तत्प्रतिपादकाग्रिसूक्तगायत्रीविद्ययोरैक्ये हेत्वभावात्। कथञ्चित्तदुपपादने वा ज्योतिः- शब्दस्येव गायत्रीशब्दास्यापि निरवकाशात्तद्विरोधेनान्यपरत्वानुपपादकत्वात्। श्रुतेर्निरवकासलिङ्गभञ्जकत्वे च ज्योतिः- शब्दस्यैव तद्भाञ्जाकत्वापत्ते। अन्यथासिद्धिसहत्वस्योभयोस्तुल्यत्वात्। अत एव न साध्याक्षेपकत्वमपि । गायत्रीशब्दासमभिव्याहारादत्र ज्योतिषो ब्रह्मान्यत्वेऽप्यग्रिसूक्तस्थज्योतिषो ब्रह्मान्यत्वासिद्धेः। द्वयोरैक्यासम्भवस्तूक्त एवेति दिक्।
भिन्नाधिकरणपक्षस्तु सुतरां न सम्भवति। ` विकारशब्दान्नेति चेत्o' ( ब्रo सूo 1। 1। 13।) इत्यादाविव' धन्दोभिधानान्नेति चेत्' इत्युक्तेरैकाधिकरण्यसूचकत्वात्। छन्दोभिधानादित्याधिकरणस्य च्छान्दोग्यस्थगायत्रीशब्दनिर्णयार्थत्वोक्तिरपि न स्वरसा। तथा सति ` गायत्री तल्लिङ्गात्' इत्येव वक्तव्यत्वात्। " हृदयनिहितं ज्योतिर्विष्णुरित्याभिहितम्। तच्च च्छान्दोग्यश्रुतौ श्रूयते - ' यदतः परो दिवो ज्योतिः इति। तच्च गायत्रीत्वेन पठ्यते। गायत्रीशब्दश्च च्छन्दस्येव रूढ इति हृदयनिहितं ज्योतिर्न विष्णुः " (com- 27) इत्युक्ताक्षैपपूर्वकगायत्रीशब्दनिर्णयार्थत्वायोक्तविन्यास इत्यपि न स्वरसम्। गायत्रीशब्दसमभिव्याहाराच्छान्दोग्यस्थज्योतिषोऽब्रह्मात्वेऽप्यग्रिसूक्तस्थस्य ब्रह्मत्वानाक्षेपात्। उभयोरेक्यासम्भवस्योक्तत्वात्। अग्रिसूक्तेऽनुक्तस्य गायत्रीशब्दस्य तदनाक्षेपकत्वात्।
यदपि चन्द्रिकायाम्- ऐकाधिकरण्यमतद्वयेऽपि वाक्यद्वयमप्युदाहरणमिति कल्पनम्, तथा " यथा ह्यग्रिसूक्तस्थवाक्ये प्रकरणानुगृहीतश्रुत्या पूर्वपक्षस्तथा छान्दोग्येऽपि ` गायत्री' इति सर्वम्' इत्युपक्रमात्' सैषा चतुष्पदा षड्विधा गायत्री' इति चोपसंहारात्तस्य गायत्रीप्रकरणत्वेन तदनुगृहीतज्योतिः- श्रुत्या पूर्वपक्ष इति पूर्वपक्षयुक्तिसाधारण्यात्तथाऽग्रिसूक्ते विरतिशयवैभवलक्षणचरणेन सिद्धान्तवच्छान्दोग्येऽपि `एतामेव नातिशीयन्ते' इति निरतिशयवैभवरूपेण चरणेन सिद्धान्त इति सिद्धान्तयुक्तिसाधारण्याच्चैकाधिरणता। यथाऽऽघाराग्रिहोत्राद्याधि(com- 28) करणेषु' आधारमाघारयति' अग्रिहोत्रं जुहोति' इत्युदाहरणभेदेऽपि द्रव्यदेवतालक्षणयागरूपाभावान्न यागाविधित्वमिति पूर्वपक्षयुक्तिसाधारण्यान्मन्त्रवर्णादिना देवतादिलाभान्न रूपाद्यभाव इति सिद्धान्तयुक्तिसाधारण्याच्चैकाधिकरणता तद्वत्" इति वाक्यद्वयोदाहरणत्वोपपादनं च। तदपि न सत्। छान्दोग्यस्थज्योतिषो विचरणाभिधानाभावेन पूर्वपक्षसिद्धान्तयुक्तिसाधारण्यस्यादिकरणैक्येऽपि वाक्यद्वयोदाहरणतायां साधकत्वेनोपन्यस्तस्यासिद्धेः।
यदपि चन्द्रिकायाम् - अग्रिसूक्त इव `एतामेव नातिशीयन्ते' इति निरतिशयवैभवरूपं छान्दोग्येऽप्यस्यैव विचरणाभिधानमस्तीत्युक्तम्। तदपि न। ' वि मे कर्णा पतयतो वि चक्षुः' इत्यादेरग्रिसूक्तोक्तस्य कर्णादेर्विरुद्धपतनरूपज्योतिरतिक्रमणरूपविचरणस्य ' एतामेव नातिशीयन्ते ' इति च्छादोग्योक्तगायत्र्यनातिक्रमणरूपस्य विचरणस्य परस्परं भिन्नस्वलरूपस्येकशब्देनाभिधानायोगात्। ताभ्यां गम्यमाननिरतिशयवैभवपरत्वं तु नाभिधानरूपं सम्भवत्यां गतौ क्लिष्टं कल्पयितुं युक्तम्। किं च यद्युभयोर्वाक्ययोरत्र विषयता तदा' छन्दोभिधानात्' इति वत् ' अग्न्यभिधानात् ' इति वक्तव्ये तदभिधानोपेक्षायां बीजाभावः। ` छन्दः शब्दोऽग्रेरप्युपलक्षकः' इति चन्द्रिकोक्तं तु न सत्। उपदेशभेदभूतादव्यपदेशयोस्तदाऽप्यगते-। ' उपदेशभेदादिति पूर्वपक्षयुक्तिर्भूतादिपादेतिसिद्धान्तयुक्तिश्चच्छान्दोग्यवाक्यमात्रासाधारणी' इति चद्रिकोक्तं तु ' छन्द्रोभिधानात्' इति सूत्रे तथैव वक्तुं शक्यतया तत्रोपलक्षणत्वाङ्गीकारस्य निष्फलत्वापत्त्याऽनुपादेयमेव।
आघाराग्रिहोत्राधिकरणदृष्टान्तोऽप्ययुक्त एव। तदधिकरणे- अग्रिहोत्रं जुहोति' आघारमघारयति' इत्यादिवाक्यं न कर्मविधायकम्। तत्र द्रव्यदेवतयोरश्रुतत्वाद्द्रव्यदेवतालक्षणयागरूपस्याभावात्। किन्त्वग्रिहोत्रवाक्यं `पयसा जुहोति' 'दध्ना जुहोति' इत्यादिवाक्यविहितस्य कर्मसमुदायस्य, आघारवाक्यम्' ऋजुमाघारयति ' ऊर्ध्वमाघारयति' इत्यादि वाक्यविहितकर्मसमुदायस्यानुवाद इति पूर्वपक्षे - 'दध्यादिवाक्येन न दध्यादिगुणमात्रविधानं सम्भवति। त्वन्मतेऽग्रिहोत्र वाक्यस्य कर्मविधायकत्वाभावेन गुणिनः कस्याचिदसिद्धेः। नापि दध्यादिगुणविशिष्टकर्मविधानं सम्भवति। विधिगौरवापत्ते-। तस्मादग्रिहोत्रादिवाक्यमेव कर्मविधायकम्। तत्र दध्यादिवाक्यैर्द्रव्यलाभः। देवता च होमकरणमन्त्रवर्णात्' इति सिद्धान्ते चोभयगोचरग्राहकस्य साधारणस्येव प्रकृते पूर्वपक्षासिद्धान्तयुक्तिसाधारणस्यासिद्धेरुक्तत्वात्।
यदपि चन्द्रिकायाम् - (com- 29) उपदेशभेदात्' इति पूर्वपक्षयुक्तिः 'भूतादिपादे' इति सिद्धान्तयुक्तिश्च च्छान्दोग्यवाक्यमात्रासाधारणीत्यत्रार्थवादनये भट्टमत एको विचारोऽर्थवादमन्त्रादिसाधारणः। अन्यस्त्वर्थवादमात्रासाधारण इति द्विपर्वविचारदृष्टान्तकथनम्। तदपि न। अर्थवादनये हि' वायुर्वै क्षेपिष्ठा देवता' इत्यर्थवादगताः शब्दास्तथा ' उरु प्रथस्व' इति मन्त्रगताश्च शब्दाः ' वायव्यं श्वेतमालभेत भूतिकामः' इति विधिगतवायव्यादिशब्दानां तथा ' पुरोडायां प्रथयति' इति विधिगतशब्दानां च नैरपेक्ष्येणैव भूतार्थमन्वाचक्षते । विधिवाक्यगतवायव्यादिशब्दा अर्थवादगतशब्दनैरपेक्ष्येणैव विशिष्टमर्थं विदधतीति मन्त्रार्थवादेभ्यो भारतरामायणादिवत्कश्चिद्वृत्तान्तः प्रतीयते, न त्वनुष्ठेयं किञ्चिदित्येकवाक्यत्वाभावान्नार्थवादमन्त्राणां धर्मै प्रामाण्यमिति पूर्वपक्षे- पदैकवाक्यत्वाभावेऽपि विधिवाक्यस्य पुरुषं प्रेरयितुं विधेयार्थप्राशस्त्यदेवताप्रकाशाद्यपेक्षत्वादर्थवादमन्त्राणां च फलवदर्थावबोधपर्यवसिताध्ययनविधिपरिगृहीतत्वेन पूरुषार्थापेक्षत्वात्प्राशस्त्यं लक्षणया समर्पयद्यतः क्षिप्रगामी(मि) स्वभावतया शीघ्रफलप्रदो वायुरस्य पर्शोर्देवता ततः प्रशस्तमिमं वायव्यं पशुमालभेतोति वाक्ययोरन्वयादर्थवादानां विधिवाक्येकवाक्यतया धर्मे प्रामाण्यम्। एवं मन्त्राणामपि विध्यैकवाक्यतयैव प्रामाण्यमित्येको विचारो मन्त्रार्थवादसाधारणः। यतो वायुः क्षिप्रमेव फलप्रदोऽतो वायव्यं पशुमालभेतत्येवमर्थवादोक्तं हेतुमपेक्ष्यैव विधिः पुरुषं नियुङ्क्ते। ततः सापेक्षत्वाद्विर्वर्न प्रामाण्यमनपेक्ष्यत्वरूपमिति पूर्वपक्षे- सापेक्षत्वं हि प्रमाणन्तरादिगतार्थबोधकत्वम्। अर्थवादे' विमतं कर्मानुष्ठेयं फलवददेवतोपोतत्वाद्राजसेवावत्' इत्यनुमानं यदि विवाक्षितं स्यात्तदा विर्धर्नानान्तरसापेक्षत्वलक्षणमप्रमाण्यं स्यात्। न त्वेवमस्ति। किन्तु फलपददेवतातीषकत्वोपन्यासेन कर्मप्राशस्त्यमुवलक्ष्यते। तथा यति प्रशस्तं कर्मानुष्ठेयमित्यस्मिन्नर्ये सार्ववादविधेः। पर्यवसानादेकवाक्यता लभ्यत इति कुतः। प्रमाणान्तरसापेक्षत्वमिति विधिः प्रमाणमेवेति सिद्धान्त इत्यन्यो विचारोऽर्थवादमात्रसाधारणः। तत्र द्वितीयविचारेण कृतस्य मानान्तरानपेक्षत्वरूपप्रामाण्यप्रकारविशेषस्थापनस्य प्रथमविचारकृतसामान्येन प्रामाण्यसिद्ध्यधीनसिद्धिकत्वाद्विचारद्वयस्य परस्परपेक्षत्ववदिह विचारद्वयस्य परस्परापेक्षत्वाभावात्, तद्वदिह विचारद्वयस्य सामान्यविशेषरूपहेतुद्वयाभावाच्च वैषम्यस्य तद्विदां स्पष्टत्वात्।
यदप्यानन्दतीर्थीयानां प्रथमाधिकरणशरीरम्-- ज्योतिरिदमाग्रिर्विष्णुर्वेति सन्देहः। अस्य सूक्तस्याग्रिसूक्तत्वात्तद्गतज्योतिः शब्दोऽग्रिपरः। न च ' हृदय आहितं यत्' (ऋo संo 4।5।11) इति गुहानिहितत्वलिङ्गेन बाधः शङ्कनीयः। प्रकरणसनाथायाः श्रुतेर्लिङ्गेन दुर्बलेन बाधायोगात्। न च निरवकाशत्वं श्रुतेरिव लिङ्गस्यापि। जाठरे जातवेदसि लिङ्गस्य सावकाशत्वात्। अतः सावकाशलिङ्गात्परबलाभ्यां प्रकरणश्रुतिभ्यामुक्तज्योतिषो युक्तमग्रित्वमिति पूर्वपक्षे- निरवकाशेन कर्णादिविदुरत्वेन प्रकररणबाधाच्छ्रुतेर्विष्णावेव महायोगविदर्वद्वद्रूढिभ्यामुपपत्तेर्विष्णुरेवेदं ज्योतिरिति सिद्धान्तः। स्पष्टं चेदं चन्द्रिकादौ तदीयग्रन्थे।
तत्रेदं चिन्त्यम्- निरवकाशलिङ्गेन श्रुतिबाधस्य पूर्वाधिकरणद्वयसिद्धत्वेन पुनरिहान्यपरत्वशङ्कानुत्थानात्। प्रकारणस्य लिङ्गाद्दुर्बलत्वेन न तत्सहायेनोक्तशङ्कोत्थानम्। निरवकाशतया प्रबलेन लिङ्गेन प्रकरणबाधकस्य कैमुत्यन्यायसिद्धत्वात्। एतेन ' त्वमग्रे' इत्यग्रिशब्दसन्निधानादग्रिपरत्वशङ्केति चन्द्रिकोक्तकल्पनं निरस्तम्। सन्निधानस्य प्रकरणादपि दुर्बलत्वेन तद्वाधस्य (com- 30) दण्हापूपिकान्यायसिद्धत्वात्। किञ्च ज्योतिः शब्दाग्रिशब्दयोर्देवतापरत्वेऽन्तरधिकरणन्यायेल , भूतपरत्व आकाशादिकरणन्यायेन गतार्थत्वं दुर्वारम्। न च प्रकरणानुग्रहादधिका शङ्केति यक्तम्। श्रुतेर्विषणुपरत्वे प्रकरणस्यापि विष्णुपरत्वसम्भवेनान्यपरत्वायोगात्। न चाग्रिसूक्तत्वादिव्यवहारेण प्रकरणस्यान्यपरत्वशङ्केति कल्पनं युक्तम्। अक्षिविद्याऽऽदित्यविद्येत्यादिव्यवहारस्याक्षिशब्दादित्यादिशब्दवत्तामात्रेणेव गार्हपत्यपराया अपि ऋच ऐन्द्रीति व्यवहारस्येन्द्रपरवत्तामात्रेणेव विष्णुपरस्यापि सूक्तस्याग्रिपदवत्तामात्रेणाग्रिसूक्तत्वव्यवहारसिद्धे।
यदपि - (com - 31) उक्तरीत्याऽऽक्षिप्य जाठरेऽग्रौ सावकाशस्य लिङ्गस्याग्रौ सावकाशश्रुत्या बाधोपपत्तेरिति पूर्वपक्षसमर्थनं चन्द्रिकायाम्। तदप्यसत्। जाठरेऽग्रौ हृदयनिहितत्वस्याप्रसिद्धेर्लिङ्गस्य निरवकाशत्वात्। जाठरत्वप्रसिद्धिविरोधेन तत्सावकाशत्वकल्पनानुपपत्तेश्च। कर्णादिविदूरत्वस्याग्रावसम्भवाच्च। तदाच्छादनेन पूर्वपक्षस्त्वस्मद्रीत्या पूर्वपक्षसिद्धान्ताभिप्रायेणादिकरणयोजनासम्भवेनायुक्त एव।
यदपि चन्द्रिकायाम् -- इदमग्रिसूक्तं न विष्णुसूक्तमित्यध्यापकप्रसिद्धाग्रिसूक्तत्व-- विष्णुसूक्तत्वाभाव -व्यवहारसचिव्वान्निरवकाशमपि लिङ्गं श्रुति - प्रतिबध्नातीति निरवकाशत्वमात्रपयुक्तलिङ्गतप्राबल्यस्य निरवकाशोक्तव्यवहारसाचिव्यश्रुतित्वोभयप्रयुक्तश्रुतिगतप्रबल्याद्दुर्बलतया लिङ्गगतबहुत्वप्राबल्यस्य श्रुतित्वरूपस्वभावप्रयुक्तप्राबल्याद्दुर्बलतया युक्तमेव सूक्तस्याग्रिपरत्वमिति
पूर्वपक्षोपपादनम्। तदपि न विचारक्षमम्। प्राणविद्याऽक्षिविद्याऽऽदित्यविद्येत्यादिव्यवहारवदैन्द्रीमन्त्रप्रसिद्धिवच्चोक्तरीत्याऽन्यथासिद्धव्यवहारादेरर्थविशेषनिर्णायकत्वायोगात्। अत एवैकविष्णुविषयकत्वाविशेषेऽपि तत्तत्पदश्रवणाश्रवणरूपपरविषेषश्रवणप्रयुक्तः 'पुरुषसूक्तमिदं नारायसूक्तमिदं नेदं पूरुषसूक्तं नेदं नारायणसूक्तमिदं विष्णुसूक्तं नेदं विष्णुसूक्तम्' इत्यादिव्यवहारः सङ्गच्छते। तत्तत्पदाश्रवणेन तत्तत्सूक्तत्वाभावव्यवहारेऽपि तस्य तत्परत्वाभावानिर्णायकत्वात्तत्साचिव्याच्छ्रुतेः प्राबल्यायोगात्। लिङ्गस्य तु निरवकाशत्वप्रयुक्तं प्राबल्यं निरपवादमेवेति सति बाधके नात्राग्रिसूक्तादिसमाख्या निर्णायिका प्रभवति। निरवकाशत्वबहुत्वप्रयुक्तप्रबल्यान्न श्रुतित्वसूक्तसाचिव्यपयुक्तमपि प्राबल्यम्। श्रुतित्वपयुक्तप्रबल्यस्य प्रागेव निरस्तत्वाच्च। छान्दोग्यवाक्ये च नोक्तप्रकाराऽधिका शङ्का प्रवर्तते।
तमोविरोधित्वं ज्योतिष्पदप्रवृत्तिनिमित्तमाश्रित्य ब्रह्मणि तमसा सह वर्तमाने ज्योतिः सब्दासम्भवेन पूर्वपक्षोत्थानमित्यपि परोक्तं न सत्। ` प्रजननं ज्योतिः, विराट्छन्दसां ज्योतिः, त्रिवृत्पञ्चदशसप्तदश एकविंश एतानि वा ज्योतीषिं' इत्यादि बहुतरप्रयोगविरोधेन तमोविरोधित्वस्य ज्योतिष्पदप्रवृत्तिनिमित्तत्वाभावात्। आदित्यादितेजोमये ब्रह्माणि तमसा सहावस्थानस्य केनापि प्रमाणेनासम्प्रतिपत्तेः प्रकाशकत्वमात्रस्यैव तत्प्रवृत्तिनिमित्तत्तवौचित्यात्। अस्तु वा यथाकथञ्चित्तमोविरोधित्वं ज्योतिष्पदप्रवृत्तिनिमित्तमित्याशङ्का तथाऽपि तस्याऽऽ दित्यादिसाधारणतया ऽ ग्रिमात्रपूर्वपक्षोपष्टम्भकत्ववर्णनमसङ्गतमेवेति नोक्तपूर्वपक्षो युक्तः। पूर्वपक्षस्यायुक्तत्वेनैव तन्निराकरणसिद्धान्तोऽप्ययुक्त एव। किञ्च--
कर्णादीनां विदूरत्वं विष्णोरन्यत्र नैव हि।
अग्रेस्तु श्रुतिसूक्तादि सावकाशं परात्मनि।।

इत्यादिना कर्णादिविदूरत्वलिङगेन ज्योतिः श्रुतेर्विष्णुपरत्वनिर्णयसिद्धान्तो न युक्तः। तल्लिङ्गस्य शिवसाधारण्यात्। तथा ह्यथर्वशिखायाम्- ' अथ हैन पैप्पलादोऽङ्गिराः सनत्कुमारश्चाथर्वाणमुवाच, भगवन्किमादौ प्रयुक्तं ध्यानं ध्यायितव्यम्, कि तद्ध्यानं को वा ध्याता कश्च ध्येयः' इत्यनेन ध्यानध्यातृध्येयविषयप्रश्नमवतार्य ` स एभ्योऽथर्वा उवाचोमित्येतदक्षरमादौ प्रयुक्तं ध्यानं ध्यायितव्यमित्येदक्षरं परं ब्रह्मा' इति प्रणवानुगतं ब्रह्मा ध्येयत्वेनोकत्वा ` अस्य पादाश्चत्वारो वेदाः' इत्यादिना प्रणवस्य त्रिमात्राभिस्तस्य व्याप्तिमुक्त्वा ' एतस्माद्ध्यानादौ प्रयुज्यते सर्वकरणोपसंहारत्वाद्धार्यं धारणात्तुरीयं ब्रहमा' इत्यनेनावसानस्थितचतुर्थमात्रात्मकप्रणवाख्यतुरीयपरब्रह्माणः सर्वकरण्यव्यवहारतीतत्वस्य ध्येयत्वे हेतुत्वमुपन्यस्य 'ध्यायीतेशानं प्रध्यायितव्यम्' इत्युपसंहारे शिव एव ध्येयस्वरूपमिति निर्णयात्सर्वकरणविदुरस्य शिवस्य कर्णादिवदूरत्वाक्षतेः। उक्तप्रश्नवाक्येऽयमर्थः- प्रथमतो विधात्रेत शेषः। ध्यानम्- ध्यायत इति ध्यानं ध्यानविषयः, ध्यायितव्यम्- शिष्यपुत्रादीनामुपदेशयोग्यम्। अथवा ध्यानयोग्यम्। अयमत्र विवक्षितोऽर्थः- ध्येयत्वेन योग्यं प्रयुक्तं प्रथमोत्पन्नो विघाता किं ध्यातवान्भवदादिभ्यः पुत्रेभ्यश्च किमुक्तवांश्चेति। शेष स्पष्टार्यम्। मन्त्रोपनिषदि च - ' यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः' इति सिवं प्रस्तुत्य ' नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभृत्' इत्यनेन कोऽप्येनं कुत्रापि न गृहीतवानित्यभिधाय न सन्द्दशे तिष्ठेति रुपमस्य' इत्युकत्वा तद्धेतुत्वेन ' न चक्षुषा पश्यति कश्चदेनम्' इति श्रुतम्। तत्र चक्षुषेत्युपलक्षणम्। अन्यैरपीन्द्रियैरेनं न कश्चिज्जानाति। ततो न संदृशेऽस्य रुपं सवरुपं तिष्ठति संदृशे सम्यग्दर्शन इत्यर्थः। तथा च चक्षुः कर्णादिविदूरत्वस्य शिवसाधारण्यं श्रुतिसिद्धं निर्विवादमेव।
कर्णादिविद्वरत्वं च ' इयत्' इतिपरिच्छेदानर्हवैभवत्वमेवेति चन्द्रिकोक्तमसाध्वेव। ' वि मे कर्णा पतयतो वि चक्षुः' इत्यनेन कर्णादीनां ज्योतिरतिक्रमणस्यैवोक्तेर्निरतिशयवैभवत्वस्य तेन गम्यमानत्वे तु ' चरणाभिधानात्' इत्यत्राभिदानपदास्वारस्यमित्यामिहितमेव पूर्वपक्षानिराकरणे । तस्यापि शिवसाधारण्यं विष्ण्वोद्यैश्वर्वस्यापि शिवाधीनत्वप्रतिपादनेन व्यवस्यापितमन्तस्तद्धर्मादिकरणे। विद्वद्रढ्यादिना ज्योतिः श्रुतेर्विष्णावेव मुख्यात्वीक्तिरपि न युक्ता। ' नारायणपसे ज्योतिः' इतिवन्मन्त्रोपनिषदि शिवपरायाः ' इशानो ज्योतिरव्ययः' इतीशानपदवाच्ये शिवेऽपि तद्रढेर्दर्शनात्।
इदं न विष्णुसुक्तमित्यध्यापकप्रसिद्धिस्तु (com- 32) धान्यमास धिनुहि' इति मन्त्रस्य मांसहविष्कयागे निविष्टस्य ' मासमसि' इत्यूहे कर्तव्ये ' मृगोऽसि इत्यहप्रसिद्धिवदज्ञानमूलैव। विष्ण्वादिशब्दाभावादेव तत्प्रसिद्धेरिति चन्द्रिकोक्त तु न साधु। बहुजनसंवादविष्यप्रसिद्धेरज्ञानाविषयत्वकल्पनस्यायुक्तत्वात्। दृष्टान्तोक्तिस्तु स्वकीयभ्रमपमूलैव। धान्यसब्दस्य सतुषद्रव्यवाचिनः पुरोडाशरूपहविष्प्रकृतिद्रव्यत्वेनैव निर्दिष्टस्य मांसे हविषि तत्प्रकृतिद्रव्यवाचिनो मृगशब्दस्यैवोहनीयत्वौचिय्स्य न्यायवित्संमतत्वात्।
यदपि चन्द्रिकायाम् - अग्रेर्नापरिच्छेद्यवैभवत्वम्। ' अग्रिर्वैगदेवानामवमः' ( ऐo ब्राo 1।1) इत्यवमतया ' भीषाऽस्मादग्रिस्तपति' इति सभयतया ' परिह्येन म्रियन्ते विद्युद्ष्टटिश्च चन्द्रमा आदित्योऽग्रिः' ( ऐo ब्राo 40।4) इति मरणादिमत्तया च तस्य श्रुतत्वात्। अग्रिश्रुत्यादि तु ' अग्रिनाऽग्रिः समिध्यते' (ऋo संo 1।1।22।) 'तद्देवा ज्योतिषो ज्योतिः' ( बृo 4। 4। 15) 'नारायणपरोज्योतिः' ( नाo 11। 4) ' विष्णुरेव ज्योतिः' ( चतुर्वेदाशिखा) अहमग्रिरहं हुतम्' ( भo गीo 9। 16) ' ज्योतिषामपि तज्जयोतिः' ( भo गीo 13। 18) इत्यादिश्रुतिस्मृतिभिर्विष्णौ सावकाशामित्युकत्वा, एवं सूक्तान्तरेष्वपि द्रष्टव्यम्। तथा हि -- ऐन्द्रे ' न त्वा वाँ इत्द्र कश्चन जातो न जनिष्यते' (ऋo संo 1।6। 1) इति , तथा ' ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः' ( अथर्वशिरः 4) इति , तथा बार्हस्पत्ये ' विश्वेषामिज्जनिता ब्रहमणामसि' (ऋo संo 2।6। 29) इति , तथा सौरे, सूर्व आत्मा जगतस्तस्थुषः' (ऋद संo 1। 8। 7) इति , तथा विश्वकर्मसूक्ते ' विश्वतश्चक्षुः ' ( तैo सं o 4। 6। 2) ' यो नः पिता जनिता' ( ऋ संo 10। 82। 3) इत्यादीनि सन्ति ब्रह्मालिङ्गानि। किचं सौरे ' येना पावक चक्षुषा भुरण्यं तं जनाँ अनु। त्वं वरुण पश्यसि' (ऋo सं o 1। 4। 8) इति सूर्यस्य पावकवरुणादेशब्दैः संबोधनम्। तथा वारुणे ' अथा वयमादित्ये ' ( ऋo संo 1। 2। 15) इति वरुणस्याऽऽ दित्यादिशब्देः, संबोधनम्, तथाऽऽ ग्रेये, ट त्वमग्र इन्द्रो वृषभः सतामपि त्वं विष्णुरुरुगायो नमस्यः' ( ऋ o सं o 2। 14। 7) इत्यग्रिं संबोध्य तत्रेन्द्रविष्ण्वादिशब्दाप्रयोग उक्तसूक्तानां स्रवशब्दवाच्यब्रह्मापरत्वे युक्तोनान्यथेति सर्वसूक्तगतनामसमन्वयपरत्वमस्योक्तम्। ( com - 33) तत्पक्षहेत्वोरादिशब्दाभावादुपलक्षणत्वाश्रयणस्य क्लिष्टत्वाद्धेयम्। किंचाग्रिसूक्तस्थज्योतिषैव निर्णये ' ज्योतिर्दर्शनात्' ( ब्रo सूo 1। 3। 40) इत्यस्य गतार्थतापत्तिश्च।
यदपि चन्द्रिकायाम्- ' ज्योतिर्दर्शनात्' इत्यत्र त्वग्रिसूक्तस्थस्यापि ज्योतिषो म्रियमाणत्वादिलिङ्गैर्जीवत्वे शङ्कितानि लिङ्गानि ब्रह्मपरोपक्रमोपसंहारस्थत्वादन्तर्भावितण्यन्तानीति वक्ष्यत इति पौनरुकत्यापत्तिनिवारणम् (com - 34)। तदपि म्रियमाणत्वादिलिङ्गानां ब्रह्मणि सन्दंशन्यायेनान्यार्थपरताया अत्रैव निरूपायितुं युक्तत्वाद्धेयम्।
यदपि - छन्दोभिधानात्' इत्यादित्रिसूत्र्या अधिकरणान्तरत्ववर्णनम्। तथा हि - अत्र लोकतोऽन्यत्रप्रसिद्धगायत्रीनामसमन्वयः क्रियते । छान्दोग्ये ' गायत्री वा इदँ सर्वम्' ( छाo 3। 12। 1) इत्यारभ्य ' अथ यदतः परो दिवो ज्योतिर्दीप्यते ' इति श्रूयते। तत्र गायत्री किं छन्दोविशेष उत विष्णुरिति संशये, गायत्रीश्रुतिप्रसिद्ध्या ' वाग्वैषा' इति वाक्यत्वसङ्कीर्तनाच्च च्छन्दोविशेषे एव। न च ज्योतिः श्रुत्या बाधः। श्रुत्या श्रुतिबाधायोगात्। ज्योतिः पर्यायतेजः शब्दस्य ` तेजो वै गायत्री' इति श्रवणेन गायत्र्यामेव तदुपपत्तेश्च। गायत्रीशब्दश्च न विष्णो रूढः। तत्र मानाभावात्। लिङ्गस्य रूढ्या बाधात्। न चात्र तदधीनत्वन्यायः प्रवर्तते। वेदरूपायास्तस्या नित्यत्वात्। तथा चेदं ज्योतिरपि तद्रूपमेवेति पूर्वपक्षे, सिद्धान्तः- गायत्री विष्णुरेव। तथा हि - दर्शमं श्रुतिरित्यर्थः। एतद्गायत्र्या गानत्राणकर्तृत्वश्रवणात्। तस्य च्छन्दस्यभावात्। अतो ज्योतिरपि विष्णुरेव। तदधीनत्वाच्च मुख्यता। न च नित्यत्वविरोधः।
स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिः क्रिया।
यत्प्रसादादिमे सन्ति न सन्ति तदुपेक्षया।।
इति नित्यानामपि तादधीन्यश्रुतेः। भूतादिपादव्यपदेशादपीदं निर्णीयते। सैषा;चतुष्पदा षड्विधा गायत्री' इति गायत्र्याः षड्विधत्वमनूद्य चतुष्पदत्वं व्यपदिश्य तत्रैव पुरुषसूक्तमन्त्रः। संवादायोदाह्रियते-- ` तदेतदृचाऽभ्युक्तं तावानस्य' इति। अस्य पुरुषस्य तावान्पूर्वोक्तो महिमा। न कैवलमेतावान्किन्तु पुरुषस्ततः पूर्वोक्तादपि महिम्नो ज्यायान्। कथम्। सर्वाणि भूतान्यस्यैकः पादः, अस्यामृतं स्वरूपभूतं पादत्रयं दिवि तिष्ठतीति।
यदुक्तं गायत्री ज्योतिश्च विष्णुरिति। तद्भवेद्यदि गायर्त्राज्योतिः प्रसङ्गयोरेकं वस्तूच्येत। न चैवं ` त्रिपादस्यामृतंदिवि' इति गायत्र्या द्युस्थितत्वोक्त्या ' परो दिव:' इति ज्योतिषो दिवः परत्वोकत्या विरोध इति शङ्कनीयम्। त्रिलोकसप्तलोकाद्यभिप्रायेणोपदेशभेदोपपत्तेः। तथा हि - भुर्भुवः स्वरिति लोकत्रयाभिप्रायेण लक्षयोजनोच्छ्रितान्तरिक्षोपरितनश्वेतद्वीपानन्तासनवैकुष्ठानां द्युत्वात्तद्गतरूपत्रयं दिवीत्युच्यते। सप्तलोकापेक्षयेन्द्रसदनस्य द्युत्वाद्वैकुष्ठस्य दिवः परत्वं मेरोरपि द्युत्वात्तत्परानन्तासनस्य दिवः परत्वं सूर्यमण्डलस्यापि द्यत्वेन तदुत्तरश्वेतद्वीपस्य दिवः परत्वं तत्रस्थमूर्तित्तयस्य दिवः परत्वं च युज्यते। अत उभयथोपदेशेऽपि विरोधाभावादुभयत्राप्येकमेव विप्ण्वाख्यं वस्तूच्यत इति गायत्री विष्णुरेव। स एव ज्योतिरानन्दमयश्चेति सिद्धान्त इति।
तत्रेदं चिन्त्त्यते-- यद्यत्र गायत्रीनाम समन्वेतव्यं तर्हि भाष्ये ज्योतिर्वाक्योपन्यासः किमर्थः। न तावत्पूर्वादिकरणाक्षेपार्थः। ज्योतिर्वाक्यस्योभयाधिकरणविषयतामते तदाक्षेपेऽपि ज्योतिः सूत्रेऽग्रिसूक्तस्थमुक्तवाक्यमेव विषय इति पक्षे तदनाक्षेपात्। अनाक्षेपे च चिन्तावैफल्यात्। गायत्रीशब्दस्य प्राग्ब्रह्माविषयत्वानुक्त्या `छन्दोभिधानान्नेति चेन्न' इति शङ्कानुत्थानाच्च। यदि चैतद्दोषपरिजिहीर्षया ज्योतिर्नामैव च्छान्दोग्यस्थं समन्वेतव्यमिष्यते तर्हि समन्वेतव्यनामाग्रहणान्यूनता। स्वपक्षसाधनक्त्वैव च्छन्दोभिधानादित्याक्षेपोऽपि नोचितः।
यत्तु - (com -35) गायत्रीवाक्ये विषये ज्योतिर्वाक्योपादानं पूर्वपक्षे ज्योतिरधिकरणाक्षेपदर्शनार्थम्। ज्योतिर्वाक्ये विषये गायत्रीवाक्योपादानं गायत्रीशब्दरूपपूर्वपक्षबीजप्रदर्शनार्थामिति चन्द्रिकायामुक्तम्। तदसत्। ` गायत्री वै' इत्युपक्रमाच्छान्दोग्यस्थज्योतिषच्छन्दरत्वेऽप्यग्रिसूक्तस्थज्योतिषः कर्णादिविदूरत्वेन साधितस्य ब्रह्मात्वस्यानाक्षेपाच्चिन्तावैफल्यात्। ननु द्वयोरैक्याश्रयणेनेयं शङ्केति परैरुक्तमेवेति चेत्। कर्णादिविदूरत्वस्य द्रष्टृत्वश्रुतत्वादेश्चात्यन्ताविरुद्धतया प्रत्यभिज्ञाबाधस्योक्तत्वात्।

यत्तु चन्द्रिकायाम्- उक्तमाक्षिप्य ज्योतिषो गायत्रीत्वे ` इयं वाव सा येयं पृथिवी' (छाo 3। 12। 2) इति गायत्र्यभिन्नत्वेनोक्तायां पृथिव्याम्` अस्यं हीदं सर्वं भूतं प्रतिष्ठितम्' इत्युक्तस्थितिहेतुत्वादेरपि तद्धर्मत्वापत्त्या जन्मादिसूत्राक्षेपसम्भवाच्चिन्तासाफल्यं वर्णितम्। तन्मन्दम्। ` इदं सर्वम्' इति प्रत्यक्षावगतकिञ्चिदाश्रयत्वमात्रोकत्या जन्मादिसूत्राभिहितचेतनाचितनात्मककृत्स्नजगज्जन्मस्थितलयहेतुत्वादिरूपभवदभिमताष्टकर्तृत्वानाक्षेपात्। तावताऽपि ज्योतिर्वाक्यप्रयोजनालाभाच्च। एतेन (com -36) योऽयमन्तर्त्हृदये' इति च्छान्दोग्यस्थे ज्योतिष्यानन्दमयधर्मभूतहृदयनिहितत्वश्रवणेन ज्योतिरधिकरणमनाक्षिप्यैवाऽऽनन्दमयाधिकरणाक्षेपकत्ववर्णनमपि चन्द्रिकोक्तमपास्तम्। गुहानिहितत्वहृदयनिहितत्वयोर्भेदन प्रत्यभिज्ञानाभावादित्युवत्याऽऽनन्दमयाधिकरणाक्षेपकत्वाभावस्य पूर्वमुक्तत्वाच्च। किञ्च गायत्र्याश्छान्दस्त्वेऽपि तदुपक्रममात्रान्न ज्योतिषश्छदस्त्वम्। प्रकरणविच्छेदकाथशब्दश्रवणेन ` अथैष ज्योतिः' इत्यादावेतच्छब्दस्येव ' अत यदतः परो दिवो ज्योतिः' इत्यत्रापि यच्छब्दस्याप्युक्तपरामर्शित्वासम्भवात्। अस्मन्मते तु ` छन्दोभिधानात्' इत्यत्रैव प्रकरणविच्छेदमाक्षिप्य तन्निराकरणेन ` यदतः पर ' इत्यत्र यच्छब्दस्य पूर्वप्रकृतवाचित्वमेव , न ` अथैष ज्योतिः ' इत्यत्रेव प्रस्तोष्यमाणपरार्शित्वमिति व्यवस्थाप्यत इति न दोषः। अत एव गायत्रीपूर्वपक्षोऽपि न युक्तः। किञ्च निरवकाशकर्णादिविदूरत्वलिङ्गमात्रेण सावकाशज्योतिः श्रुतिबाधस्य पूर्वाधिकरण उक्तत्वादत्र ` यद्वै तद्ब्रह्म' ( छाo 3। 12।5) इति निरवकाशश्रुतिसहितेन निरवकाशभूतादिपादत्वलिङ्गेन गायत्रीश्रुतिबाधस्य कैमुतिकन्यायसिद्धत्वान्नोक्तपूर्वपक्षोदयः।
यत्तु चन्द्रिकावाम्- विष्णौ प्रसिद्धेष्वन्येषु भगवन्नामसु सत्स्वन्यत्र प्रसिद्धहगायत्र्यादिशब्दप्रयोगवैयर्थ्यान्न गायत्रीशब्दो भगवत्पर इत्याधिकशङ्काया पूर्वपक्षोत्थानवर्णनम्। तदसत्। आकाशादिपदसामानाधिकरण्येऽस्याः शङ्काया(com - 37) विशिष्याऽऽकीर्तनेन तत्परिहारायोगात्। सर्वत्र तत्परिहारस्तु न सूत्रारूढः। सूत्रे ' छन्दआद्यभिधानात्' इति विन्यासापत्तेः। एतेन - आकाशादिशशब्दसाधारणीयम्। गायत्रीसब्देऽनुपपत्त्यन्तरसद्भावा (com - 38) दधिक शङ्कोदय उदाहृत इति चन्द्रिकोक्तमनादरणीयम्।
यदपि चन्द्रिकायाम् - युक्तमग्रिसूक्तस्थज्योतिषो विष्णुत्वम्। उपदेशभेदाभावात्। इह तु ` दिवः 'इति प़ञ्चम्युपदेशवाक्यस्थस्य ज्योतिषो ज्योतिः श्रुत्या विष्णुत्वेऽपि ` दिवि' इति तद्विरुद्धसप्तम्युपदेशवद्वाक्यस्थाया गायत्र्या न विष्णुत्वमित्यसाधारणी त्वन्येत्यधिकशङ्काप्रदर्शनम्। तदप्यसत्। प्रत्यभिज्ञानप्रयुक्तस्यैव विष्णुपरत्वस्योपदेशबेदप्रतिबध्यतया निमित्तान्तरप्रयोज्यस्य तस्य तदप्रतिबध्यतया तत्र तदभावहेतुत्वाभिधानस्यायुक्तत्वात्। छान्दोग्यवाक्यगतद्रष्टृत्वादिविरुद्धकर्णादिविदूरत्वोपदेशस्य तत्रापि सत्त्वान्न प्रत्यभिज्ञानमित्यस्योक्तत्वात्। अत एव पञ्चमीनिर्देशेत्याद्यपि न युक्तम्। पञ्चमीनिर्देशस्य विष्णुपरताया महेतुत्वात्। ज्योतिषश्चरणाभिधानादिहेत्वन्तरेण विष्णुपरत्वस्येव सर्वात्मत्वादिहेत्वन्तरेण विष्णुपरत्वस्य गायत्र्यामपि सम्भवेन तत्रोपदेशभेदस्याप्रतिबन्धकत्वात्। यदि हि ज्योतिरुपक्रमाद्गायत्री स्यात्तस्यास्तदभेदच्च तस्या विष्णुपरत्वमुक्तं स्यात्। तथोपदेशभेदान्न तदभेद इति शङ्का स्यात्। इह तु गायत्र्युपक्रमाज्ज्योतिषश्छन्दस्त्वे शङ्किते तद्रूपभेदाभिधानं छन्दस्त्वाभावेऽनुकूलमेव स्यात्।
ननु गायत्र्या विष्णुत्वाज्ज्योतिषोऽपि विष्णुत्वमत्र प्रतिपाद्यं तच्चोपदोशद्भज्यत इति। मैवम्। गायत्रीनामसमन्वये प्रधाने सिद्धे ज्योतिर्नामसमन्वयाभावेऽप्यदोषात्। न ह्यत्र ज्योतिषोऽन्यत्वे पूर्वाधिकरणस्थज्योतिषोऽप्यन्यत्वं हेतुभेदादित्युक्तम्। अभधाने चार्थिकेन चोद्यपरिहारो युक्तो नेत्युक्तार्थप्रतिक्षेपास्वारस्यादुभयोरप्रतिपाद्यत्वेनैकदेशाक्षेपो युक्तः। तथा सत्याक्षेप्यनामग्रहणकर्तव्यतापत्तेः।
यदपि चन्द्रिकायाम्- अग्रिसूक्तस्थज्योतिर्निष्ठकर्णादिविदूरत्वविरुद्धदृ,ष्टश्रुतत्वाद्युपदेशभेदान्नेदं ज्योतिर्विष्णुः, ततश्च गायत्र्यापि न विष्णुरित्यपराधिकशङ्काप्रदर्शनम्। तदपि पूर्वोक्तशङ्कानिराकरणयुक्त्यैव न सत्। ज्योतिषीऽन्यत्वेऽपि गायत्र्या विष्णुत्वाविरोधात्।
यदपि चन्द्रिकायाम् - एकस्या वह्निश्रुतेरन्यत्रप्रसिद्धिबाधेऽपि गायत्रीवाक्पृथिव्याद्यनेकशब्दानामन्यत्रप्रसिद्धिबाधो न युक्त इत्यधिकशङ्काप्रदर्शनम्। तदप्यसदेव। अन्तरदिकरणे श्रुतिबाहुल्येऽपि लिङ्गेन बाधदर्शनात्प्रकृत एकविषयानेकश्रुत्यभावेन श्रुतिबाहुल्यासिद्धेश्च। अन्यथाऽतिप्रसङ्गात्। वाग्गायत्रीपदयोरपर्यायत्वात्माणमातरिश्वादिपदवल्लिङ्गबाध्यत्वोपपत्तेश्च।
यच्च चन्द्रिकायाम् - अन्तरधिकरण इन्द्रादिबहुश्रुतीनामन्यत्र प्रसिद्धिबाधस्त्वनयत्राप्रसिद्धान्तः स्यत्वमुखेन युक्तः। न चेह तथा मुखमस्तीत्युक्तम्। तन्न। प्रकृतेऽपि तथाभूतसर्वभूतात्मकत्वादिमुकसद्भावात्।
यदपि चन्द्रिकायाम्- एतच्च प्रमाणाश्रिता तु - युक्तमाकाशाद्यकरणोक्तं जन्यभूताकाशस्वभावस्य विवरत्वादेर्ज्योतिः शब्दप्रवृत्तिनिमित्तस्य चेशाधीनत्वम्। धर्मिणा सह जन्यत्वात्। गायत्रीरूपवेदस्य त्वनादित्वेन तत्स्वभावस्य गानत्राणकर्तृत्वादेः प्रवृत्तिनिमित्तस्य नेशाधीनत्वमित्याधिकाशङ्काप्रदर्शनम्। तदपि न सत्। न तावद्वरणाना पदाना वा नित्यत्वं वेदनित्यत्वम्। कविकाव्यादेरपि नित्यत्वप्रसङ्गात्। अपि त्वानुपूर्वीनित्यत्वम्। तच्चोच्चारणप्रयोज्यमिति कथं तस्य नेश्वरीधीनता। तस्या अनादित्वरूपनित्यत्वस्य सादित्वरूपजन्यत्वविरोधित्वेऽपीश्वरधीनत्वाविरोधित्वाच्चेति।
पूर्वपक्षश्चापि न युक्तः । पूर्वाधिकरणे ब्रह्मपरत्वेन निणर्तिया ज्योतिः श्रुत्या गायत्रीश्रुतिबाधसंभवात्। अत एव श्रुत्या श्रुतिबाधायोग इति तत्त्वप्रकाशिकायां जयतीर्थोयोक्तिरपि न युक्ता। निर्णीतत्वानिर्णीतत्वाभ्यां वेलक्षण्यात्। न चोपक्रमस्थत्वाद्गायत्रीश्रुततुप्रबल्यमित्यभिप्रायकल्पनमित्यपि साधु। ब्रह्मातर्कादुपक्रमापेक्षयोमपक्रमप्राबल्यमवगच्छता त्वत्पूर्वपक्षिणा तथा पूर्वपक्षि(क्षयि) तुमयोग्यत्वात्।
ननु गायत्र्या अविष्णुत्वे ` अथ यदतः' इति ` यदतः परो ज्योतिः ' इति निर्दि,्टप्रतिनिर्देशः [अत:] यच्छब्दसमानाधिकरणो ज्योतिःशब्दोऽपि तत्परः स्यादिति ज्योतिरप्यविष्णुः स्यादिति चेत्। न । ` अथैष ज्योतिः ' इत्यत्रैतच्छब्दस्यैव प्रकृतेऽप्यथशब्देन विभिन्नप्रकरणस्य यच्छब्दस्य प्रकृतपरामर्शित्वायोगेन प्रकरिष्यमाणपरत्वौचित्यात्। अनेकार्थस्य तस्येदमादिवत्पूर्वपरामर्शित्वाभावाच्च। तस्य गायत्रीपरत्वे ` या ज्योतिः' इति स्त्रीलिङ्गतौचित्यच्च। ब्रह्मवर्चसतेजोहेतौ गायत्र्याम्' आयर्घृतम्` इतिवत्' तेजो वै गायत्री' इत्यन्यथासिद्धमिति पूर्वमेवोक्त्म्। अतो ज्योतिर्गायत्रीवाक्ययोरेकविषयताग्राहकयमाणाभावद्भायत्रीशब्दस्य च्छन्दःपरत्वेऽपि ज्योतिः शब्दस्य तत्परत्वासिद्धेः। कथंचिदेकवाक्यताकल्पने च निर्णीतोपसंहारस्यज्योतिष्पदानुरोधेन गायत्रीपरस्यैव ब्रहमापरतापत्त्या न च्छन्दः परौ ज्योतिर्गायत्रीशब्दाविति युक्तं कल्पयितुमिति। एवं सिद्धान्ते (com - 39) सूत्राक्षरार्थस्तावदयुक्तः। ` तथा चेतोर्पणo इत्यादेः पञ्चम्यन्तस्य हेतुसमर्पकत्वे `तथा हि दर्शनम्'इत्यस्य दृष्टान्तसमर्पकत्वं स्वतः स्वरसम्। तत्परित्यज्य `तथा हि ' इत्यादेर्हेतुसमर्पकत्वकल्पनस्य चेतोर्पणo'इत्यादेः प्रयोजनसमर्पकत्वकल्पनस्य चायुक्तत्वात। किंच तथाशब्दः सादृश्यवाची प्रसिद्धः । तेन सादृश्यानुसंधानमेव स्वरसतः प्रतीयते।` तथाहि' इत्यखण्डो निपात उक्तार्थापपादनप्रतिज्ञायां स्वरसः। त्वदुक्तार्थे तु न स्वारस्यम्। उत्तरसूत्रद्वयानन्वयस्तुक्त एव। तादधीन्यासंभवस्य पूर्वपक्षोपन्यस्तस्य न किंचिदुपपादकं सौत्रं पदम्। उत्सूत्रसिद्धान्तस्त्वयुक्तः। ` अत एव प्राणः '( ब्रo सूo 1।1।13) इत्यादिवदतिदेशादेव तद्वारणसूचनं त्वतिदेशाभावादेव न युक्तम्।
यत्तु चन्द्रिकायाम्-
अनादीनां गुणादीनां यथा गुण्यादितन्त्रता।
तथाऽनादिश्रुतेरस्तु क्षेमायेश्वरतन्त्रता।।

यथा वैशेषिकमतेऽनादिनित्यानामपि गगनादिपरिमाणादीनां स्वाश्रयगगनाद्यधीनता, (com -40) यथाऽद्वौतिमते वाऽनादेरात्माज्ञा नसंबन्दस्य जीवब्रह्माविभागादेश्च संबन्ध्यज्ञानाद्यधीनता, यथा वा प्राभाकरमतेऽनादे(com-41) र्दुः खप्रागभावस्य मोक्षस्य ज्ञानाधीनता, यथा वा मतान्तरे दुरितप्रागभावस्यानादेरपि निषिद्धाकरणाधीनता, तथा गायत्र्यास्तत्पदप्रवृत्तिनिमित्तस्य चोत्पत्त्यभावेऽपि विष्ण्वधीनता स्थितैवेति पूर्वपक्षपरिहारप्रदर्थनम्। तन्न सम्यक्। गायत्र्याश्रितस्य धर्मस्य गानत्राणकर्तृत्वस्य कथं तदनाश्रयब्रह्माधीनत्वामिति शङ्कायां गुणानां स्वाश्रयाधीनत्वोपपादनेनापरिहारात्। नहि नित्याया गायत्र्यास्तत्स्वभावस्य चान्याधीनत्वे गगनादिपरिणादिदृष्टान्तो घटते। तद्वदह गुणगुणिभावाभावात्। स्वनिष्ठानि हि द्रव्याणि नित्यानि गगनादीन्यनधीनान्युपलभ्यन्ते। अतस्तत्साधारण्यं न तादधीन्यप्रयोजकम्। अनित्येष्वपि नोत्पादकत्वमाश्रितत्वं वा तादधीन्यनियामकम्। अनुत्पादकपोषकाद्यधीनत्वस्यैव बहुलमुपलम्भात्। श्रुतिप्रामाण्यात्तदङ्गीकारे तु तदेव तर्हि वक्तव्यम्। न तु दृष्टान्तभावात्। दुः खप्रागभावे न ज्ञानाध्यधीनता । अपि तु प्रागभावनाशकप्रतियोग्युत्पत्तिप्रतिबन्धकत्वमात्रम्। तन्मात्रेण तादर्धान्यव्यवहारमात्रम्। एवमद्वैतिमतेऽप्यनाद्यज्ञानसंबन्धस्य जीवब्रह्माविभागादेश्चाविद्यानाशाधीननाशप्रतियोगित्वेनाविद्याधीनत्वव्यवहारमात्रमेव। दुरितप्रागभावस्यापि निषिद्धाकरणाधीनत्वं दुरितोत्पत्तिकारणनिषिद्धकरणाभावादेव। नैवं परमात्मनो गायत्रीस्वरूपे गानत्राणकर्तृत्वे वा करणत्वमिति दृष्टान्तोऽप्ययुक्त एव। कंचास्त्वनादेरपि गायत्र्याख्यवेदस्येश्वराधीनत्वं माऽस्तु वा किं तेन स्यात्। न च गायत्र्यास्तादधीन्यात्तत्पदवाच्यता ब्रह्मणः। किंतु तत्पदप्रवृत्तिनिमित्तस्य तादधीन्यात्। तच्चेदानीमपि सिध्यति। भूत्यस्य राजाधीनत्वेऽपि तद्गतस्वभावविशेषाणां तादधीन्यादर्शनेन वस्तुत(न) स्तादधीन्यस्य तत्स्वभावविशेषतादधीन्यं प्रत्यप्रयोजकत्वात्। दीपगतप्रकाशकत्वादेस्तत्पदप्रवृत्तिनिमित्तस्य तैलाद्यधीनत्वदर्शनेऽपि तैलादेर्दीपादिपदवाच्यत्वादर्शनेन तत्पदप्रवृत्तिनिमित्तस्य तादधीन्येऽपि तस्य तत्पदप्रयोगाप्रयोजकत्वच्च। तस्मात् - चतुः सूत्र्या ऐकाधिकरण्यम्। तत्र च च्छान्दोग्यवाक्यमेव विषयः। तत्रस्थज्योतिष्पदस्यैव परमात्मपरत्वं साध्यम्। तत्र मन्त्रवर्णाक्तचरणाभिधानमेव हेतुः। तत्र ` च्छन्दोभिधानात्' इत्यसिद्धिशङ्का। तस्यां छन्दसि भूतचरणत्वासंभवसूचनेन च्छन्दोभिधानस्यान्यथासिद्धिसूचनेन तत्रापि भूतादिपादव्यपदेशेनोपष्टम्भनम्। पुनरुपदेशभेदप्रयुक्तासिद्धिशङ्कानिवारणमित्येवास्मद्भाष्यकारोपदर्शितः क्रम एव युक्त इति।। 27।।

श्रमच्छंकरपादाब्जभूषणे परदूषणे।
रघुनाथकृतिर्भूयाज्ज्योतिर्नयविवेचने।।

इति ज्योतिरधिकरणं समाप्तम्।।