व्योमवती/षष्ठः भागः

विकिस्रोतः तः
← पञ्चमः भागः व्योमवती
षष्ठः भागः
[[लेखकः :|]]
सप्तमः भागः →

यत्तु वास्तवार्थविषयत्वे पुरुषेच्छावशेन अनियतार्थत्वं न स्यादिति, तदसत्, नैमित्तिकशब्दानां निमित्तवशेन प्रवृत्तेर्नानियतार्थत्वम्, यादृच्छिकानान्तु पुरुषेच्छावशेन अनियतार्थत्वमिष्यत एव, बाधकानुपपत्तेश्च न तैमिरिकस्य द्विचन्द्रदर्शनवच्छाब्दो व्यवहारः। तथाहि, तैमिरिकस्य द्विचन्द्रदर्शने तिमिरोत्पत्तेः प्रागूर्ध्वञ्च बाधकमस्ति, अनुपजाततिमिरस्य तु सर्वदा न चैवं शब्दव्यवहारे।
यत्तु मिथ्याज्ञानाविशेषेऽप्यर्थक्रियासिद्धिः यथा मणिप्रदीपप्रभयोरित्युक्तम्, तदपरिज्ञानात्। तथाहि, समीपवर्त्तिनो यन्मणावेव विज्ञानं तदेवार्थक्रियाजनकम् न प्रभायामिति। शाब्दज्ञानन्तु अर्थप्राप्तिपर्यन्तव्यवहारोपलब्धेरिन्द्रियजज्ञानवद् भ्रान्तं न भवतीति।
न च वास्तवसम्बन्धाभावे शब्दानाम् अश्वशब्दादश्वाध्यवसायो गोशब्दाच्च गव्यध्यवसाय इति विकल्पनियमो घटते, दृष्टश्चासाविति। तथाश्वशब्देऽपि सम्बन्धाग्रहे सम्बन्धिप्रत्ययो न स्यादित्यलमतिविस्तरेण।
तदेवं तादात्म्यतदुत्पत्तिप्रतिबन्धस्य पूर्वमेव प्रतिषेधात् शब्दानान्तु समयवशेनार्थप्रतिपादकत्वाद् उपपन्नम् अनुमानादर्थान्तरत्वे सति प्रामाण्यमिति।
प्रसिद्धाभिनयस्य चेष्टया प्रतिपत्तिदर्शनात् तदप्यनुमानमेव
अथ चेष्टाप्रमाणान्तरमिति केचित्, तन्निषेधार्थमाह *प्रसिद्धाभिनयस्य चेष्टया प्रतिपत्तिदर्शनात् तदप्यनुमानमेव* प्रसिद्धोऽभिनयश्चेष्टा कायिको व्यापारोऽर्थविशेषाविनाभूतो यस्यासौ तथोक्तः, तस्य चेष्टया अर्थविशेषे प्रतिपत्तिः। यथा मुखाञ्जलिसंयोगाद् विशिष्टात् पिपासाप्रतिपत्तिः, तस्य तया पूर्वमविनाभावोपलब्धेः। तथा च, अयं पिपासान्वितः, विशिष्टमुखाञ्जलिसंयोगवत्त्वात्, तदन्यैवंविधदेवदत्तवत्। अतः पक्षधर्मत्वादिबलेन गमकत्वाद् एतदप्यनुमानमेवेति। एवमन्यापि चेष्टा नाट्‌यशास्त्रप्रसिद्धा अनुमानेऽन्तर्भावनीयेति।
आप्येनाप्रसिद्धगवयस्य गवा गवयप्रतिपादनादुपमानमाप्तवचनमेव।
अथोपमानं प्रमाणान्तरमिति केचित्, तन्निषेधार्थमाह *आप्तेनाप्रसिद्धगवयस्य गवा गवयप्रतिपादनाद् उपमानमाप्तवचनमेव* इति। आप्तेन प्रसिद्धगोगवयसारूप्येण[अ]प्रसिद्धगवयस्य गवा गवयप्रतिपादनादिति। यथा गौरेवं गवय इत्युपमानमिष्टम्। तद् आप्तवचनमेव न प्रमाणान्तरमिति। न चास्य उपमारूपत्वात् प्रमाणान्तरत्वम्, विध्यर्थवादादिभेदेनापि प्रमाणानन्त्यप्रसङ्गात्। अथ सत्यप्यवान्तरभेदे नामीषाम् आप्तोपदेशाद् भेदः, तदुपमानेऽपि समानम्।
अथ वाक्यादुपलब्धसादृश्यस्याटव्यामटतो गवयार्थिनो मदीया गौरनेन सदृशीति ज्ञानमुपमानम्, असदेतत्, फलाभावात्। अज्ञाननिवृत्तिः फलमित्युक्तम्, निवृत्तेः प्रध्वंसत्वात्। तथाहि, यदि ज्ञानानुत्पत्तिः, विपरीतं वा ज्ञानमज्ञानम् उभयथापि तन्निवृत्तिः प्रध्वंस एव। प्रमाजनकञ्च प्रमाणम्। न च हेयादिबुद्धयः फलम्, तदपाये सति कालानत्रेण सुखदुःखादिविनिश्चयानन्तरमुत्पत्तेः। न च सादृश्यस्य प्रमेयत्वम्, तज्‌ज्ञानस्याफलत्वात्। अभ्युपगमे वा अन्यत् प्रमाणं वाच्यमिति।
अथ गवयज्ञानमुपमानं मदीया गौरनेन सदृशीति ज्ञानफलम्, सादृश्यावच्छिन्नः पिण्डः, तदवच्छिन्नं वा सादृश्यं प्रमेयमिति। न चेदं ज्ञानमिन्द्रियजम्, अटव्यां व्यवस्थितस्य गृहावस्थितपिण्डविषयत्वेनोत्पत्तेः। न चानुमानजम्, लिङ्गव्यापारानुपलब्धेः। गोसादृश्यन्तु गवये गृह्यमाणमप्यसिद्धम्, व्यधिकरणत्वात्। तथा च, मदीया गौरनेन सदृशी, अस्य तत्सदृशत्वाद् इति व्यधिकरणतैव। अनुपपद्यमानस्यार्थस्याभावाद् नार्थापत्तिजम्। शब्दं विनाप्युत्पत्तेर्न शाब्दम्। अभावस्य च नियतविषयत्वम्। न चेदं स्मरणम्, गवयसादृश्यस्य गोपिण्डे पूर्वमननुभूतत्वात्। अतः प्रमाणान्तरफलमेतदित्याशयः परस्य।
यदि च गोसादृश्यावच्छिन्नं गवयपिण्डम् इन्द्रियार्थसन्निकर्षादेवोपलभ्यते, तदा प्रत्यक्षफलमेव, न प्रमाणान्तरफलम्। तत्र कुं स्मरणापेक्षमिन्द्रियमेवं ज्ञानं जनयति, अनपेक्षं वा? अनपेक्षस्य ज्ञानजनकत्वेऽप्रसिद्धगोपिण्डस्य स्मरणेऽप्येतत् स्यात्। अथ पिण्डमात्रस्मरणे, अश्वादिपिण्डस्मरणे[ऽपि] स्यात्, अथ गवयसादृश्यावच्छिन्नस्मरणापेक्षं जनकम्, तत्रापि यदि स्मरणमात्रमपेक्षेत, गजादिस्मरणेऽपि स्यात्। अथ गोपिण्डस्मरणापेक्षम्, तत्रापि किं गोपिण्डमात्रस्मरणमपेक्षते, गवयसादृश्यावच्छिन्नं गोपिण्डस्मरणं वा। गोपिण्डमात्रस्मरणेऽश्वादिपि[ण्डस्मरणेऽपि ? ण्डेऽपि] स्यात्। गवयसादृश्यावच्छिन्नगोपिण्‍स्मरणापेक्षित्वे पूर्वमेवानुभवो वाच्यस्तदन्तरेण संस्कारानुत्पत्तेः स्मरण्सयैवाभावात्। अतः सविकल्पकज्ञानाभावेऽपि गवयसादृश्यावच्छिन्ने गोपिण्डे पूर्वमनुभवोऽभ्युपगन्तव्यः। येन हि संस्कारोत्पत्तौ स्मरणाद् मदीयया गवा सदृशोऽयं गवय इति ज्ञानं स्यात्। पूर्वञ्च गवयसादृश्यावच्छिन्नगोपिण्डेऽनुभवप्रसिद्धौ गवयोपलम्भाद् मदीया गौरनेन सदृशीति कथमेतत् स्मरणं न स्यात्? तथा पृष्टो ब्रवीति एतत्सदृशी मयोपलब्धाः, न तु प्रमाणान्तरं निर्दिशतीति मन्यमानः प्रशस्तो भगवान् अन्तर्भावमाहेति।
अन्ये तु यथा गौर्गवयस्तथेति वनेचरवाक्यात् सादृश्योपलम्भे सति उपजातसंस्कारस्याटव्यां परिभ्रमतो गोशादृश्यावच्छिन्नगवरयदर्शने सति अविनाभावसम्बन्धस्मरणानन्तरं तथा चायं गोसदृश इति ज्ञानमुपमानं मन्यन्ते। तस्माच्चानन्तरं गवयना [मे? मायमि]ति संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः। फलं संज्ञासंज्ञिरूपम्, संज्ञावच्छिन्नो वा पिण्डः प्रमेयमिति। न च वाक्यादेव सङ्केतप्रतिपत्तिर्गवयपिण्डस्य परोक्षत्वात्, `प्रत्यक्षं संज्ञाकर्म' (वै. सू.) इति सूत्रव्याघाताच्च।
न युक्तमेतत्, वाक्यादेव सङ्केतस्य प्रतीतत्वात्। तथाहि, सादृश्यवाक्यस्यायमर्थो यो गोसदृशः, स गवय इत्येवं व्यवहर्तव्यः। स च वाक्यादुपलब्धसङ्केतः सादृश्यावच्छिन्नं पिण्डमुपलभमानः परं व्यवहरति `अयं गवयः' इति, न तु सङ्केतं प्रतिपद्यते प्रतिपिण्डम्, अन्यत्रापि सङ्केतप्रसङ्गात्। तथाहि, यत्र यत्र गोत्वं पश्यसि, तत्र तत्र गोशब्दः प्रयोक्तव्यः, तस्माच्च असावर्थः प्रतिपत्तव्य इति सङ्केतग्रहे सति गोपिण्डोपलम्भादयं गौरिति प्रतिपद्यते, न तु गोना [मे ? मायमि] ति, व्यवहाराभावप्रसङ्गात्। न तु सूतर्व्याघातः, प्रत्यक्षशब्दस्य दृढप्रमाणोपलक्षणत्वात्। दृढप्रमाणोपलक्षणत्वात्। दृढप्रमाणपरिच्छिन्नेऽर्थे संज्ञा प्रवर्तते। यथा देशानत्रव्यवस्थितोऽपि पिता स्वपुत्रस्य नाम करोति `यज्ञदत्त नामासौ' इति।
अथ जातिशब्दस्य प्रत्यक्ष एवार्थे सङ्केतः, न, अतीन्द्रियेषु असङ्केतप्रसङ्गात्। दृष्टञ्च मनः शब्दस्यातीन्द्रियेऽपि मनसि दृढप्रमाणपरिच्छिन्ने सङ्केतः। तथा अयं गवय इति कथं पुनर्भवान् जानातीति परेण पृष्टो वनेचरेण ममाख्यातमिति वचनमेव निर्दिशति, न तु सादृश्यात् प्रतिपन्नमिति। कारकेण च व्यपदेशः। यथा चक्षुषा प्रतिपन्नमनुमानाच्च प्रतिपन्नमिति, तथा निर्विषयवाच्यप्रमाणमुपमानम्। अथास्ति संज्ञासंज्ञिरूपं प्रमेयम्, न, सम्बन्धप्रतिपत्तेः फलत्वे सम्बन्धिनः प्रमेयत्वानुपपत्तेः। अथ सम्बन्ध इव सम्बन्धिनः प्रतिपत्तिरेव उभयनिष्ठतया उपचारेणाभिधीयते। तथापि न संज्ञासंज्ञिरूपं प्रमेयम्, संज्ञायास्तदभावात्। अथ स्वयमुच्चार्य शब्दं प्रतिपद्यते, न, विवक्षाक्रमेण शब्दोत्पत्तिकाले सादृश्यज्ञानस्य प्रमाणस्यासम्भवात्। अथ जगतो विस्तीर्णतया क्वचिदुत्पन्नो गवयशब्दः प्रमेयः, न, तस्याश्रूयमाणस्य प्रमेयत्वानुपपत्तेः। अथ अप्रतिबन्धन्यायेन दूरस्थस्यागमने ब्रह्मभाषितस्यागमनं स्यात्।
न च सन्निहितः क्वचित् तदैव शब्दमुच्चरति, असंवेदनात्। अथ स्मृतिसमारोपितस्य गवयशब्दस्य प्रमेयत्वम्, न, तत्कल्पनायां कारणाभावात्। सादृश्यज्ञानन्तरं अयं गवयनामेति प्रतिपद्यते, न चान्तराले तत्स्मृतेरनुप्रवेशे प्रमाणमस्तीति। संज्ञावच्छिन्नस्य तु पिण्डस्य प्रमेयत्वेन सम्बन्धज्ञानं स्यात्, तस्योभयालम्बनत्वादिति। तथा परेणापि अनुमानादुपमानस्य भेदमुपदर्शयता `यथा तथेत्युपसंहारादुपमानसिद्धेर्ना विशेषः' इति वाक्यरूपमुपमानमिष्टमेव। तस्य चागमेऽन्तर्भावो न दोषायेति।
दर्शनार्थादर्थापत्तिस्तदप्यनुमानमेव।
अथ अर्थापत्तेरनुमानेऽन्तर्भावार्थं *दर्शना[र्थाद]र्थापत्तिस्तदप्यनुमानमेव* इति वाक्यम्। दृश्यत इति दर्शनं तस्मादुपलभ्यमानादर्थादन्यथानुपपद्यमानाद् अर्थस्याप्तिः प्राप्तिः प्रसङ्ग इति। तदुक्तम्,
प्रमाणषट्‌कविज्ञातो यत्रार्थो नान्यथा भवेत्।
अदृष्टं कल्पयेदन्या सार्थापत्तिरुदाहृता ।।
(श्लो. वा. 450 पृ.)
इति षड्भेदा अर्थापत्तिः। तत्र प्रत्यक्षपूर्विका तु यथा स्फोटादिलक्षणं कार्यमुपलभ्य तदन्यथानुपपत्त्या वह्नेर्दाहिका शक्तिः प्रतीयते। न चात्र प्रमाणान्तरेण अविनाभावग्रहणम्, शक्तेः प्रमाणान्तरागोचरत्वात्। अनुपलब्धाविनाभावञ्च लिंङ्गं न भवत्येव। अतः प्रमाणान्तरमेतत्।
अनुमानपूर्विका तु यथा धूमादग्निं प्रतिपद्य तदन्यथानुपपत्त्या तद्विशेषप्रतीतिरिति। उपमानपूर्विका च यथा अटव्यां गवयदर्शनान्तरं मदीया गौरनेन सदृशीति गां प्रतिपद्य तदन्यथानुपपत्त्या वाहदोहादिसामर्थ्यप्रतिपत्तिः। अर्थापत्तिपूर्विका तु रूपोपलम्भान्यथानुपपत्त्या अवगतस्य चक्षुषः परिच्छेदिका शक्तिः प्रतीयत इति। आगमपूर्विका तु जीवति देवदत्ते गृहे नास्तीति वाक्याद् गृहेऽसत्त्वं प्रतिपद्य तदन्यथानुपपत्त्या बहिर्भावप्रतिपत्तिः। न च बहिर्भावाविनाभूतं किञ्चिल्लिङ्गमस्तीति प्रमाणान्तरफलमेतत्।
अभावपूर्विका तु यथा सदुपलम्भकप्रमाणपञ्चकव्यावृत्त्या देवदत्तस्य गृहेऽसत्त्वं प्रतिपद्य तदन्यथानुपपत्त्या बहिर्देशसम्बन्धः प्रतीयते।
अन्तर्भावमाह *तदप्यनुमानमेव* न प्रमाणान्तरम्। तथा च स्फोटादिकार्येण अग्नेरतीन्द्रिया शक्तिः प्रतीयते, इत्यसदेतत्, तस्याश्चरमसहकारिव्यतिरेकेण पूर्वमेव प्रतिषेधात्। प्रतिबन्धकाभावविशिष्टोऽग्निसंयोग एव अग्नेः शक्तिः, तत्सद्भावे कार्यकरणात्। अग्नित्वन्तु निजा शक्तिः, सापि प्रत्यक्षैव। यच्चानुमानात् सामान्यावबोधे सत्यर्थापत्तितो विशेषावबोध इति, तदपास्तमेव, सामान्यविशेषस्य साध्यत्वादिति वदता। उपमानस्य तु स्मरणादभेदेऽपि तत्पूर्विकार्थापत्तिरनुमानमेव, व्याप्तेः पूर्वमेव ग्रहणात्। तथा च सादृश्यावच्छिन्नो गोपिण्डो वाहादिसमर्थः, तत्पिण्डत्वात् पूर्वोपलब्धैवंविधगोपिण्डवत्। अर्थापत्तिपूर्विकापि अर्थापत्तिरनुमितानुमानमेव। तथा च रूपोपलब्धिः करणकार्या क्रियात्वात्, छिदिक्रियावदिति। चक्षुः प्रसिद्धम्, तच्चानुमितं शक्तिमत् करणत्वात् वास्यादिवदिति।
या चेयं जीवति देवदत्ते गृहे नास्तीत्यन्यथानुपपत्त्या बहिर्भावप्रतिपत्तिः, साप्यनुमानमेव, व्याप्तेः पूर्वमेव ग्रहणात्। तथाहि देवदत्तो बहिर्देशसम्बन्धी जीवनसम्बन्धित्वे सति गृहेऽनुपलभ्यमानत्वाद् विष्णुमित्रवत्। जीवनसम्बन्धित्वञ्च देवदत्तस्य अर्थापत्तिवादिनापि आगमादेव प्रतिपत्तव्यम्, अन्यथा अर्थापत्तिर्न प्रवर्तेत। समानञ्चैतदभावपूर्विकायामप्यर्थापत्ताविति।
प्रमाणपञ्चकाभावेनापि जीवतो देवदत्तस्य गृहेऽसत्त्वप्रतिपत्तौ बहिर्देशसम्बन्धोऽनुमीयते। एवमन्यदप्युदाहरणमर्थापत्तेरविनाभावोपदर्शनेन अनुमान एव अन्तर्भावनीयम्, तथोत्पत्तिं विना अनय्थानुपपत्तेरुपदर्शयितुमशक्यत्वादिति।
अथ विरोधिनः सर्पादेर्विस्फूर्जनादिशब्दश्रवणाद् तदनुमितौ विरोधिन्येव नकुलादौ प्रतिपत्तिः प्रमाणान्तरमिष्टं कैश्चित्। तदनुमितानुमानमेव, व्याप्तेः पूर्वमेव ग्रहणात्। प्रयोगस्तु विस्फूर्जनशब्दो भुजङ्गकार्यो विस्फूर्जनशब्दत्वात् पूर्वोपलब्धैवंविधविस्फूर्जनशब्दवत्। एवमनुमितः सर्पः सन्निहितेन विरोधिना तद्वान्, विस्फूर्जनशब्ददकर्तृत्वात् पूरोवपलब्धैवंविधाहिवदिति।
सम्भवोऽप्यविनाभावित्वादनुमानमेव।
सम्भवः प्रमाणान्तरमिष्टं परैः। तन्निषोधार्थं *सम्भवोऽप्यविनाभावित्वादनुमानमेव* इति वाक्यम्। यत्र हि सहस्रं तत्रावश्यं [शतं] सम्भवतीत्यविनाभावस्य ग्रहणात्। तथा च सहस्रं स्वसमुदायि शतवत् सहस्रत्वात् पूर्वोपलब्धसहस्रवत्।
अभावोऽप्यनुमानमेव। यथा उत्पन्नं कार्यं कारणसद्भावे लिङ्गम्, एवमनुत्पन्नं कार्यं कारणासद्भावे लिङ्गम्।
कार्यानुत्पादेन कारणाभावः प्रतीयत इत्यभावरूपतयैव प्रमाणान्तरमिति केचित्। तन्निषेधार्थं न परं सम्भवः *अभावोऽप्यनुमानमेव* इति। *यथा उत्पन्नं कार्यं कारणसद्भावे लिङ्गम्* अविनाभावस्य पूर्वमेव ग्रहणात्, तथा *अनुत्पन्नं कार्यं कारणासद्भावे* कार्यानुत्पादस्य कारणाभावेनाव्यभिचारात्। तथा च कार्यानुत्पत्तिः कारणाभाववती कार्यानुत्पत्तित्वाद् उभयाभिमतकार्यानुत्पत्तिवत्।
अथ सदुपलम्भकप्रमाणपञ्चकव्यावृत्त्या वस्तुनोऽभावस्य ग्रहणमिति प्रमाणान्तरमभावः। यथा हि, भावांशपरिच्छेदे भावस्य व्यापारस्तथा तदभावपरिच्छेदे अभावस्याप्यभ्युपगन्तव्यः। तदुक्तम्,
प्रत्यक्षाद्यवतारस्तु भावांशो ग्रह्यते यदा।
व्यापारस्तदभावस्याप्यभावांशे जिघृक्षते ।।
(श्लो. वा. प. 478)
तथा हि, न प्रत्यक्षेणाभावस्य ग्रहणम्, तेन सम्बन्धाभावात्।
सम्बद्धं वर्तमानञ्च गृह्यते चुरादिना।
(श्लो. वा. प. 160)
प्रत्यक्षाभावादनुमानस्याप्य[प्र]वृत्तिः, तस्य सम्बन्धिग्रहणापेक्षित्वात्। एवं शब्दस्यापि। उपमानार्थापत्त्योश्चाव्यापारात् प्रमाणपञ्चकाभावेनैव प्रमेयाभावस्य ग्रहणमिति। तदुक्तम्,
प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते।
वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता ।।
(श्लो. वा. प. 473)
नन्वेवं तर्हि व्यवहितेऽप्यर्थे प्रमाणपञ्चकव्यावृत्तेः सद्भावादभावग्रहणप्रसङ्गः? न, वस्तुग्रहणप्रतियोगिस्मरणादेरपि व्यापारात्। तदुक्तम्,
गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम्।
मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ।।
(श्लो. वा. पृ. 472)
वस्तुनो भूतलादेः सद्भावं गृहीत्वा प्रतियोगिनं घटञ्च स्मृत्वा इन्द्रियव्यापारं विनैव मनसा प्रतिपद्यते नेह भूतले घटोऽस्तीति। तथा देवकुलं दृष्टवा बहिर्निर्गतो[हस्तिना]देशानत्रव्यवधानाद् इन्द्रियसम्बन्धं विनापि परेण पृष्टस्तदैव[हस्तिनः]नास्तितां प्रतिपद्यते। तदुक्तम्,
वस्तुमात्रं गृहीत्वापि पश्चात् किञ्चित स्मरन्नपि।
तत्रान्येनास्तितां पृष्टस्तदैव प्रतिपद्यते ।।
(श्लो. वा. पृ. 483)
तथा,
प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते।
सात्मनः परिणामो वा विज्ञानं वान्यवस्तुनी ।।
(श्लो. वा. पृ. 475)
सर्वमेतदसत्, प्रत्यक्षादिनैव अभावस्य प्रतीतेः। तथा च, अक्षव्यापाराद् इह भूतले घटो नास्तीति ज्ञानम् उपरोक्षमुत्पद्यमानं दृष्टम्। अथ इन्द्रियाणां भूतलग्रहणे व्यापारो नाभाव इति चेत्, न, भूतलग्रहणे प्रमाणाभावात्। विशेषणस्य हि पूर्वं ग्रहणं पश्चाद् विशेष्यस्य, भूतलञ्च विशेष्यमिति न त्सय पूर्वं ग्रहणे प्रमाणमस्ति। उपेत्यवादेन तूच्यते, यदि वस्तुमात्रग्रहणे सति प्रतियोगिस्मरणं घटावरुद्धभूतलोपलम्भेऽपि तत्स्मरणे नास्तिताज्ञानप्रसङ्गः। अथ विशिष्टवस्तुग्रहणे सति प्रतियोगिस्मरणम्, तर्हि येन विशेषणेन विशिष्टं तद् वस्तु पूर्वं प्रतिपत्तव्यमिति किम् इन्द्रियादेव प्रतीयते, प्रामाणान्तराद् वेति। इन्द्रियादेव प्रतिपत्त्यभ्युपगमे कथं नाभावः प्रत्यक्षविषयो विशिष्टतायास्तद्रूपत्वात्। न चानुमानादेर्व्यापारे प्रमाणमस्ति।
यदि च अन्यया प्रमाणपञ्चकव्यावृत्त्यैव कविशिष्टता प्रतीयते, तत्राप्यन्यवस्तुग्रहणाभ्युपगमे विशिष्टताग्रहणमेवाभ्युपेयमित्यनवस्था स्यात्। तस्मादिन्द्रियेणैव इतरपदार्थविविक्तं भूतलमुपलभ्य प्रतियोगिनं स्मरतीत्यभ्युपगमे घटाभावस्य प्रतीतत्वाद् अलं प्रमाणपञ्चकव्यावृत्त्येति।
सदंशप्रकाशकस्यैव असदंशेऽप्यन्वयव्यतिरेकाभ्यां व्यापारोपलब्धेर्न प्रमाणपञ्चकापरिच्छेद्ये वस्तुनि अभावस्य प्रमाणतेति वाच्यम्। न चेन्द्रियेण सम्बन्धाभावादग्रहणम्, तस्य कार्येणैव सद्भावसिद्धेः। तथा च परेणापि अपरोक्षज्ञानसद्भावेन इन्द्रियार्थयोर्योग्यतालक्षणः सम्बन्धोऽभ्युपगतः, स च रूपादावि[वाभा]वेऽप्यभ्युपगन्तव्यः, कार्यस्योभयत्राविशेषात् तथा वैशेषिकैरपि अपरोक्षज्ञानसद्भावेन इन्द्रियार्थयोः षोढा सम्बन्धोऽभ्युपगत इत्यभावेन विशेषणविशेष्यभावोऽस्त्येव, तेन हि सता अपरोक्षज्ञानोत्पत्तेः।
सदुपलम्भकप्रमाणपञ्चकव्यावृत्त्या तु अभावग्रहणे कथं षडेव प्रमाणानीत्यवधारणम्, प्रमाणाग्रहे तस्यानुपपत्तेः। न हि सदुपलम्भकप्रमाणाभावस्य परिच्छेद्यत्वे अन्यत् तस्य परिच्छेदकं प्रमाणमस्ति। अथ प्रमाणपञ्चकाभावस्यानेकत्वात् कश्चित् कस्यचिद् ग्राहको भवति? एवं तर्हि तस्याप्यन्येन ग्रहणं तस्याप्यनेनेत्यनवस्था स्यात्। न च प्रमाणव्यक्तेरनेकत्वात् तदग्रहणे तन्निष्ठस्य षडेवेत्यवधारणस्य सम्भवः स्यात्। वैशेषिकाणान्तु प्रमाणव्यक्तीनामानन्त्येऽपि एकं लक्षणमुपग्राहकमस्तीति युक्तं प्रमाणग्रहणे सत्यवधारणमिति।
यच्चेदं देवकुलमात्रं दृष्ट्वा निष्क्रान्तोऽन्येन पृष्टस्तदैव हस्त्यादेर्नास्तिता प्रतिपद्यत इत्युक्तम्, तन्न, अस्य स्मरणत्वात्। यद्यपि पूर्वं हस्तीत्यादि सविकल्पकं ज्ञानं नोत्पन्नम्; तथापि हस्त्याद्यभावविशिष्टे देवकुले निर्विकल्पकं ज्ञानमुत्पन्नम्। अन्यथा हि यदाहं देवकुलमद्राक्षम्, न तदा तं समीपवर्त्तिनं हस्तिनमिति प्रश्नानन्तरं स्मरणं न स्यात्। तत्तु दृष्टम्। यस्य वस्तुनः पूर्वं नाभावः परिच्छिन्नस्तत्र परप्रश्नानन्तरं संशेते, न निरीक्षितं मया किं तत्र देवदत्तोऽस्ति उत नास्तीति। न चोदानीमभावं निश्चिनोति आगमस्यापि प्रमाणान्तरेणार्थतथाभावप्रतिपत्तिः। नाप्तोपदेशेन कदाचित् सम्भवात्। अतः पूर्वमेव हस्त्याद्यभावस्य प्रतीतेर्युक्तमेतत् स्मरणं न मया तत्र हस्ती दृष्ट इत्यादि। अभावस्य च प्रमेयत्वं क्षणभङ्गावसरे व्यवस्थापितमेवेति।
तथैतिह्यमप्यवितथमाप्तोपदेश एवेति।
अथ अनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यं यथा इह वटे यक्षः प्रतिवसतीति, अस्यापि यदि प्रमाणान्तरेण अर्थतथाभावप्रतिपत्तिर्न आप्तोपदेशावर्थान्तरत्वमित्याह *तथैतिह्यमवितथमाप्तोपदेश एव*। तथा हि पूर्वंप्रमाणानि नार्थान्तरम्, तथा ऐतिह्यमपि अवितथं यथार्थमाप्तोपदेश एव, न प्रमाणान्तरम्। विपर्यये तु अप्रामाण्यमिति।
पञ्चावयवेन वाक्येन स्वनिश्चितार्थप्रतिपादनं परार्थानुमानम्। पञ्चावयवेनैव वाक्येन संशयितविपर्यस्ताव्युत्पन्नानां परेषां स्वनिश्चितार्थप्रतिपादनं परार्थानुमानं विज्ञेयम्।
अथ प्राक् सूचितस्य परार्थानुमानस्य व्याकरणार्थ *पञ्चावयवेन इत्यादि प्रकरणम्। परार्थानुमति[रिति]लक्ष्यनिर्देशः। *पञ्चावयवेन वाक्येन स्वनिश्चितार्थप्रतिपादनम्* इति लक्षणम्। स्वनिश्चितार्थः साध्यः, प्रतिपाद्यतेऽनेनेति स्वनिश्चितार्थप्रतिपादनं लिङ्गम्, तत् पञ्चावयवेन वाक्येन सहितं परार्थमनुमानम्। प्रतिपत्तिर्वा प्रतिपादनम्, स्वनिश्चितार्थविषयं ज्ञानं पञ्चावयवेन वाक्येन जनितम्, यतः कारकसमूहाद् भवति तत् परार्थानुमानमिति साध्यार्थवाक्यार्थवादिनां व्याख्यानम्। लिङ्गवाक्यार्थपक्षे तु अर्थ्यतेऽनेनेत्यर्थो लिङ्गम्, प्रतिपाद्यत इति प्रतिपादनम्, पञ्चावयवेन काक्येन प्रतिपाद्यमानं लिङ्गं परार्थानुमानमिति। यद्वा स्वनिश्चितार्थप्रतिपत्तिः प्रतिपादनम्, तच्च पञ्चावयवेन वाक्येन जनितं परार्थानुमानमिति।
नन्वेतस्मिन् पक्षे कथं स्वार्थाद् विशिष्यते परार्थानुमानम्, चक्षुरादिना शब्देन वा लिङ्गं प्रतिपद्य तस्मात् साध्यं प्रतिपद्यत इति कुतः स्वार्थपरार्थ इति भेदः? न च परसम्पादिताच्छब्दाल्लिङ्गं प्रतिपद्यत इति विशेषः, चक्षुरादेरपि परसम्पादितत्वात् शब्दरूपतावैलक्षण्यन्तु वैधर्म्यमात्रमेव। अतः साध्यवाक्यार्थपक्षो दोषानुपपत्ते(र?)र्ग्राह्य इति। तथा च केवलं लिङ्गं चक्षुरादिना प्रतिपन्नं साध्यप्रतिपत्तौ स्वार्थानुमानमशब्दसहितम्, शब्दसहितन्तु परार्थानुमानमिति विशेषः। तस्मादित्यनेन समर्थलिङ्गपरामर्शानन्तरम् अनित्य एवायम् इति साध्यप्रतिपत्तेः संवेदनाच्च साध्यमेव वाक्यार्थः। तस्मादित्येवमन्तमेव वाक्यम्। शेषञ्च अभिप्रायनिवेदनमिति, न त्वार्थम्, साध्यवाक्यार्थपक्षे बाधकानुपपत्तेरित्यलमतिविस्तरेण।
पूर्वस्य सङ्ग्रहवाक्यस्य विवरणम् `पञ्चावयवेनैव वाक्येन, न द्व्यवयवेन दशावयवेन वेति। केषाम्? *संशयितविप[रीता ? र्यस्ता]व्युत्पन्नानाम् *स्वनिश्चितार्थप्रतिपादनं परार्थानुमानं विज्ञेयम्।
अथ निरवयवत्वाद् वाक्यस्यानुपपन्नमेतत् पञ्चावयवेनेति। तथा च वर्णानां न समुदितानामर्थप्रतिपादकत्वम्, क्रमभाविनामाशुविनाशित्वेन समुदायासम्भवात्। न व्यस्तानाम्, एकस्मादेवार्थप्रतीतावन्येषामुच्चारणवैयर्थ्यात्। उपलभ्यते च शब्दाद् उच्चरितार्थप्रतिपत्तिः। अतस्तदन्यथानुपपत्त्या वर्णकलापादतिरिच्यमानः स्फोटात्मा प्रतीयत इति। तथा गौरिति शब्दोच्चारणाद् अभिन्नाकारं विज्ञानं श्रोत्रव्यापारादुत्पद्यमानं दृष्टम्। न चेदं संशयविपर्ययव्यतिरेकादवयविज्ञानवद् अभिन्नमर्थं विना भवतीति। वर्णोच्चारणन्तु स्फोटस्वरूपाभिव्यक्तये क्रियत इति न व्यर्थम्।
असदेतत्, पूर्ववर्णानुगृहीतस्यान्त्यवर्णस्य स्वानुभवसहकारिणोऽर्थप्रतिपादकत्वात्। यथा च, एकस्मिन् वर्णे ज्ञानम्, तेन क्रियते संस्कारः; पुनर्द्वितीयवर्णे ज्ञानम्, तेनापि पूर्ववर्णसंस्कारसहकारिणा संस्कार इति क्रमेण अन्त्यवर्णज्ञाम्, तस्मात् पूर्वसंस्काराभिव्यक्तावशेषवर्णानुस्मरणे सति अन्त्यवर्णादर्थप्रतिपत्तिः। न चैवं घटाद्यनुभवजनितसंस्कारस्य अनुभवान्तरसहकारिणः संस्कारारम्भकत्वेनातिप्रसङ्गः, तत्र विशिष्टादृष्टाभावात्। तदभावस्तु कार्याभावेनैव ज्ञायत इति। अत्र च कार्यस्य सद्भावाद् विशिष्टोऽदृष्टः कारणत्वेन कल्प्यत इति।
अन्ये तु शब्दार्थोपभोगप्रापकादृष्टनियमिताः पूर्ववर्णानुभवजनितसंस्काराः पूर्ववर्णेष्वेकं स्मरणमारभन्ते तत्सहकारी चान्त्यो वर्णः पदम्। यद्वा संस्कारमेकं विचित्रमारभन्ते, तस्माच्च पूर्ववर्णेष्वेकं स्मरणमिति।
अन्ये तु पूर्ववर्णानां तज्‌ज्ञानानाञ्च अतीतानामपि अन्त्यवर्णसहकारित्वम्, अन्वयव्यतिरेकोपपत्तेः। यथा हि, वर्तमानस्य कारणत्वम् अन्वयव्यतिरेकाभ्यां विज्ञातम्, एवमतीतस्यापीति। यद् वा पूर्ववर्णविनाशास्तज्‌ज्ञानप्रध्वंसाश्च समीपवर्तिनोऽन्त्यवर्णसहकारिण इति क्षीणार्थापत्तिः। एवंविधकल्पनानभ्युपगमे च वर्णोच्चारणवैयर्थ्यमेव स्यात्। न च स्फोटाभिव्य[क्त? ञ्जक]मिच्चारणम्, समस्तव्यस्तविकल्पानुपपत्तेः। न समस्तैरभिव्यज्यते, समुदायानभ्युपगमात्, न व्यस्तैः, एकेनैवाभिव्यक्तौ शेषोच्चारणवैयर्थ्यप्रसङ्गात्। अथ कल्पना आश्रीयते, सा अर्थप्रतिपत्तावपि समर्थेत्यलं स्फोटपरिकल्पनया। अभिन्नाकारञ्च ज्ञानमनत्यवर्णविषयं वर्णत्वविषयं वा।
यद् वा घनावस्थितिप्रत्यक्षेष्विव वर्णेषु भ्रान्तमभिन्नाकारं विज्ञानमिति न स्फोटसिद्धिः। शब्दाभिव्यक्ताविव स्फोटाभिव्यक्तावपि दोषा इति समानतया शब्दपरीक्षायामेवाभिधास्यन्त इत्यलम्।
वाक्यकल्पना त्वेकस्मिन् पदे ज्ञानस्योत्पादः, संस्कारस्य सङ्केतस्मरणस्य च उत्पद्यमानता, ततः संस्कारस्य सङ्गेतस्मरणस्य च उत्पादः, पदार्थप्रतिपत्तेरुत्पद्यमानता, पदज्ञानस्य विनश्यत्ता, ततः पदार्थप्रतिपत्तेरुत्पत्तिः, स्मरणस्य विनश्यत्ता, पदज्ञानस्य विनाशः, संस्कारस्य द्वितीयपदज्ञानस्य च उत्पद्यमानता, ततो द्वितीयपदज्ञानस्योत्पादः, पूर्वसंस्कारसचिवेन पदार्थ ज्ञानेन संस्कारस्योत्पादः, संस्कारान्तरस्योत्पद्यमानता सङ्केतस्मरणस्याप्युत्पद्यमानता, पदार्थप्रतिपत्तेर्विनश्यत्ता, पूर्वसङ्गेतस्मरणस्य विनाशः, ततो द्वितीयपदज्ञानसंस्कारस्योत्पादः सङ्केतस्मरणस्याप्युत्पादः, पदज्ञानस्य विनश्यत्ता, पदार्थप्रतिपत्तेरुत्पद्यमानता, पूर्वपदार्थप्रतिपत्तेर्विनाश इत्ययं न्यायस्तावद् यावदन्त्यपदे ज्ञानम्। तेन च कल्पनया तत्संस्काराभिव्यक्तेरशेषपदार्थविषयं स्मरणं जन्यते। तेन च स्वानुभवेन च विशिष्टमन्त्यपदमेव वाक्यम्, तस्माच्च वाक्यार्थप्रतिपत्तिरिति।
ननु पदज्ञानोत्पत्तेः पूर्वम् अदृष्टवशात् पदपदार्थविषयस्मरणोत्पादाभ्युपगमे तस्य पदज्ञानात् सङ्केतस्मरणकाले नावस्थानमिति पदार्थप्रतिपत्तेरूर्ध्वं कथं वाक्यार्थप्रतिपत्तिः? न च पदार्थप्रतिपत्तिं विनैव वाक्यार्थप्रतिपत्तिः, अदर्शनात्। अथ पदज्ञानादूर्ध्वं कल्पनया तत्संस्कारेण स्मरणं जन्यते ततः पदज्ञानस्य विनश्यत्तेति सङ्केतस्मरणकाले तस्यानवस्थानात् पदार्थप्रतिपत्त्यभावे न वाक्यार्थप्रतिपत्तिरिति दूषणं तदवस्थमेव?
असदेतत्, वाक्ये सङ्केतानुपपत्तेः। अन्त्यपदं वाक्यमेव, तद् अन्त्यार्थस्तु वाक्यार्थ इति। यदा च पूर्ववर्णतज्ज्ञानादूर्ध्वं कल्पनया तत्संस्कारेण स्मरणं जन्यते, ततः पदज्ञानस्य विनश्यत्तेति सङ्केतस्मरणाभावविशिष्टोऽन्त्यो वर्णः पदम्, तदैषा काक्यकल्पना। अन्यथा पूर्ववर्णेषु ज्ञानद्वारेण संस्काराद् विचित्रस्मरणानुगृहीतोऽन्त्यो वर्णः पदमित्यभ्युपगमेन पदार्थज्ञानानन्तरं पदज्ञानं स्यात्, वर्णज्ञानव्यवधानात्।
अन्ये तु पूर्वार्थस्य प्रतिसमाधानार्थमन्त्यपदज्ञानानन्तरं कल्पनया तत्संस्कारः सङ्केतानुभवजनितसंस्कारश्च एवं स्मरणमारभते, ततः पदार्थज्ञानस्योत्पादः, पदज्ञानस्य विनश्यत्ता, स्मरणानुभवयोश्चाविरोध इति। ततः स्मरणानुभवविशिष्टाद् अन्त्यपदाद् वाक्यार्थप्रतिपत्तिरिति।
अन्ये तु यद्यप्यन्त्यपदज्ञानानन्तरं सङ्केतस्मरणात् पदार्थावबोधे सति पदज्ञानं विनष्टम्, तथापि पुनस्तस्मिन्नेव ज्ञानमुत्पद्यते, ततः कल्पनया तत्संस्कारात् स्मरणोत्पादे सति अन्त्यपदाद् वाक्यार्थप्रतिपत्तिरिति।
असदेतत्, शब्दस्य विरस्य व्यापारप्रतिषेधात्। एकदा पदं स्वविषयज्ञानं कृत्वा पुनर्न करोतीति।
अन्ये तु प्रतिज्ञादिपदस्य पदान्तरोच्चारणकालेऽपि आकाशे पदान्तरारम्भकत्वेनावस्थानं तावद् यावदन्त्यपदम्, ततः पञ्चभिः पदैः श्रोत्रदेशे वाक्यम् अवयविभूतमारभ्यते, ततो वाक्यार्थप्रतिपत्तिरिति। निरस्तञ्चैतद् अनुभवेन। न हि पूर्वपूर्वपदस्योत्तरोत्तरपदकाले सर्वेषाञ्च वाक्यकालेऽनुभवोऽस्तीति।
अन्ये तु एकस्मिन् पदे ज्ञानम्, तेन क्रियते संस्कारः, पुनर्द्वितीयपदज्ञानम्, तेन प्राक्तनेन संस्कारेणान्यः संस्कार इति तावद् यावदन्त्यपदे ज्ञानमिति; ततः प्राक्तनसंस्काराभिव्यक्तौ पदचतुष्टयविषयं स्मरणमुत्पद्यते, तद्‌विशिष्टञ्चान्त्यपदं वाक्यमिति। न चात्रानुभवेन विरोधः, करणांशस्यैव कीर्तनात्।
अन्ये स्मरणेनानुभवस्याविरोधं मन्यमानाः कल्पनामाश्रयन्ते। पदज्ञानात् सङ्केतस्मरणस्योत्पादः, पदार्थप्रतिपत्तेरुत्पद्यमानता, ततः पदार्थज्ञानस्योत्पादः पूर्वपदज्ञानस्य विनश्यत्ता, द्वितीयपदज्ञानस्योत्पद्यमानता, ततो द्वितीयपदज्ञानस्योत्पादः, पदार्थज्ञानस्य विनश्यत्ता, पदज्ञानस्य विनाशः, सङ्केतस्मरणस्योत्पद्यमानतेत्यनेन क्रमेण अन्त्यपदज्ञाने सति वाक्यार्थप्रतिपत्तिः। न चात्र पूर्वपदपदार्थानुस्मरणेन प्रयोजनमस्ति, तत्कार्यस्य विनश्यदवस्थपदज्ञानेनैव कृतत्वात्। पूर्वपदानुरक्ते हि द्वितीयपदे ज्ञानमुत्पन्नम्, तदनुरक्तं तृतीयपदमिति अशेषपदानुरक्तम् अन्त्यपदं वाक्यमिति।
एतच्चासत्, पूर्वपदानुरागस्यानत्यपदेऽप्रतिभासनात्। यथा हि, दण्डीति ज्ञानं दण्डानुरक्तमेव, नैवं द्वितीयादिपदज्ञानं पूर्वपदानुरक्तमिति। न चायं नियमः सम्भवति पूर्वपदानन्तरमेव द्वितीयादिपदोच्चारणम्, कतिपयकालव्यवधानेऽपि उच्चारणेऽर्थप्रतिपत्तिदर्शनादिति पूर्वैव कल्पना न्याय्या।
अथास्त्वेवं वाक्यपरिकल्पना वाचकत्वन्तु निषिध्यते, अन्वयव्यतिरेकाभावात्। पदार्थेभ्यस्तु वाक्यार्थप्रतिपत्तिः। यत्र हि प्रमाणान्तरेणापि पदार्थप्रसिद्धिस्तत्रान्तरेणापि वाक्यं वाक्यार्थप्रत्तिपतिर्दृष्टा। यथा,
पश्यतश्चक्षुषा रूपं हेषाशब्दञ्च शृण्वतः।
खुरनिक्षेपशब्दञ्च श्वेतोऽश्वो धावतीति धीः ।।
(श्लो. वा. पृ. 94)
तथा च दूराच्चक्षुषा श्वेतं रूपमुपलभ्य हेषाशब्देन वा अश्वत्वजातिमनुमिनोति, खुरनिक्षेपशब्देन च धावनक्रियामवगत्य वाक्यं विनापि वाक्यार्थं प्रतिपद्यते। सत्यपि च वाक्ये पदार्थानामप्रतिपत्तेर्न वाक्यार्थप्रतिपत्तिः, यथा प्रसिद्धपदार्थैः कविभिर्विरचिते वाक्य इति। तस्मादभिहितपदार्थानाम् आकाङ्क्षायोग्यतासन्निधिद्वारेण वाक्यार्थगमकत्वमिति।
न युक्तमेतत्, शब्दस्याप्रामाण्यप्रसङ्गात्। तथा च पदरूपस्य तावद् अप्रामाणअयम्, अनुवादकत्वात्। तदुक्तम्,
पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते।
यच्चाधिक्यं भवेदेतत् स पदस्य न गोचरः ।।
(श्लो. वा. पृ. 412)
वाक्यन्तु पारम्पर्येणाप्यवाचकमिति कथं शब्दः प्रमाणं स्यात्? अथ पदैरभिहितानाञ्च पदार्थानां गमकत्वादिति पारम्पर्येण शब्दः प्रमाणम्? तर्हि श्रोत्रपरिच्छिन्नस्य शब्दस्यार्थपरिच्छेदे व्यापारादिति पारम्पर्येण प्रत्यक्षस्यापि चोदनाविषये सन्निधिप्रामाण्योपपत्तेः कथं चोदनैव धर्मे प्रमाणम्। प्रमाणमेव चोदनेति नास्यावधारणस्य व्याघातः। वाक्यस्यार्थपरिच्छेदकत्वानभ्युपगमे च प्रमाणान्तरासम्भवात् पदार्थानां प्रत्यक्षादिष्वन्तर्भावश्चिन्तनीयः।
तत्रेन्द्रियार्थसन्निकर्षेण सह व्यापारानुपलब्धेर्न प्रत्यक्षेऽन्तर्भावः। अविनाभावस्यानुपपत्तेर्नानुमाने। अनुपपद्यमानार्थासम्भवान्नार्थापत्तौ। उपमानाभावयोश्च नियतविषयत्वमेव। प्रमाणान्तरस्य च अनभ्युपगमादयुक्तमेतत्।
न च पदानां स्वार्थप्रतिपत्तावेव चरितार्थत्वम्, उक्तन्यायेन वाक्यार्थप्रतिपत्तावपि व्यापारात्। विरम्य व्यापारस्तु एकमर्थं प्रतिपाद्य पुनस्तमेव प्रतिपादयतन्तीति प्रतिषिद्धः।
यच्चेदं विनापि वाक्यं वाक्यार्थप्रतिपत्तिरित्युक्तम्, तदपरिज्ञानात्। वाक्येन हि जनिता वाक्यार्थप्रतिपत्तिः, प्रत्यक्षानुमानसम्पादिताः श्वेतोऽश्वो धावतीति बुद्धयः। यदपीदं पदार्थाप्रतिपत्तौ सत्यपि वाक्येन वाक्यार्थप्रतिपत्तिरिति, तदसत्, पूर्वपदार्थस्मरणानुगृहीतस्य अन्त्यपदस्य वाक्यत्वाच्च अवश्यमर्थप्रतिपादकत्वमिति व्यभिचाराभावः।
अन्विताभिधानन्तु न सर्वपदानाम्, एकेनैव क्रियाकारकसंसर्गान्वितस्य पदार्थस्याभिधाने शेषपदोच्चारणवैयर्थ्यप्रसङ्गात्। अथ अन्त्यं पदमन्विताभिधायकम्? तस्यापि पूर्वपदानपेक्षित्वे तदुच्चारणवैयर्थ्यम्, सापेक्षित्वे तु न अस्मत्सिद्धान्ताद् भेदः।
अवयवोद्देशः प्रतिज्ञावैधर्म्यञ्च।
अवयवाः पुनः प्रतिज्ञापदेशनिदर्शनानुसन्धानप्रत्याम्नायाः। तत्रानुमेयोद्देशोऽविरोधी प्रतिज्ञा। प्रतिपिपादयिषितधर्मविशिष्टस्य धर्मिणोऽपदेशविषयमापादयितुम् उद्देशमात्रं प्रतिज्ञा। यथा द्रव्यं वायुरिति।
अविरोधिग्रहणात् प्रत्यक्षानुमानाभ्युपगतस्वशास्त्रस्ववचनविरोधिनो अनुमेयोद्देशा निरस्ता भवन्ति। यथा अनुष्णोऽग्निरिति, प्रत्यक्षविरोधी, घनमम्बरम् इत्यनुमानविरोधो, ब्राह्मणेन सुरा पेया इत्यागमविरोधो, वैशेषिकस्य सत् कार्यम् इति ब्रुवतः स्वशास्त्रविरोधी, न शब्दोऽर्थप्रत्यायक इति स्ववचनविरोधी।
के पुनरवयवास्तदाह *प्रतिज्ञापदेशनिदर्शनानुसन्धानप्रत्याम्नायाः* वाक्यैकदेशत्वात्। न पुनः परोपगता जिज्ञासादयः, तेषामशब्दरूपत्वात्।
तत उपदेशक्रमेणावसरप्राप्तायाः प्रतिज्ञायास्तावल्लक्षणमुच्यते *अनुमेयोद्देशोऽविरोधी प्रतिज्ञा* इति। अनुमेयः प्रतिपिपादयिषितधर्मविशिष्टो धर्मी। धर्मविशिष्टता हि अस्तित्वाद्यपेक्षया सर्वपदार्थेष्वस्तीति प्रतिपिपादयिषितपदम्। यो हि धर्मः प्रतिपादयितुमिष्टः, तद्‌विशिष्टो धर्मी पक्षः। तस्योद्देशमात्रं प्रत्यक्षाद्यविरुद्धं परेषाम्, अनिश्चितार्थाभिधायकं वचनं प्रतिज्ञेति। अपदेशस्य हेतोर्विषयापादनम् अर्थः प्रयोजनमस्येति प्रयोजनोपन्यासः। प्रयोगस्तु, प्रतिज्ञा इतरस्माद् भिद्यते, प्रत्यक्षाद्यविरुद्धानुमेयोद्देशत्वात्, यस्तु न भिद्यते, न चासावेवं यथा उदाहरणादिरिति। अनुमेयोद्देशो वा प्रतिज्ञेति व्यवहर्तव्यः, यथोक्तानुमेयोद्देशत्वात्, यश्चैवं न व्यवह्रियते, न चासावेवम्, यथा अपदेश इति। उदाहरणन्तु *यथा द्रव्यं वायुरिति*।
ननु च असाधनाङ्गं प्रतिज्ञावचनम्, तदन्तरेणापि सम्बन्धवचनामात्रादर्थप्रतीतेः। तथाहि, यद् यत् कृतकम्, तत्तद् अनित्यं दृष्टम्, यथा घटः, तथा च कृतकः शब्द इत्यत्र सामर्थ्यादेव प्रतिज्ञार्थसिद्धेर्व्यर्थं तदभिधानम्। अत्र च प्रमेयस्य प्रमाणएनैव सिद्धेः सामर्थ्यं किरूपमिति चिन्त्यम्। न प्रत्यक्षस्वरूपम्, इन्द्रियार्थसन्निकर्षेण विप्रतिपत्तिविषयस्यापरिच्छेदात्। एवमागमेनापीति। अथानुमानमेव सामर्थ्यं तदवश्यमर्थप्रतिपत्तौ पक्षधर्मत्वादिकमपेक्षत इति प्रतिज्ञावचनमन्तरेण सपक्षासपक्षाप्रविबागे सति तदर्थाप्रतीतेर्न गमकमिति। अथ अभिधीयमानानुमानव्यतिरेकेण अन्यदनुमानं प्रस्तुतानुमानसामर्थ्यम्, न, तस्यापि अविनाभावानपेक्षित्वे न गमकत्वम्, प्रतिज्ञावचनञ्च विना तदर्थाप्रतीतेरिति पूर्वदोषानुषङ्गात्। न चाभिप्रेतार्थप्रतिपादनाय अनुमानोपन्यासकाले तदर्थसिद्धयेऽनुमानान्तरं पश्यामः।
न च कृतकत्वानित्यत्वयोः सामान्येन व्याप्त्यभिधाने समर्थसाधनस्य शब्द एवोपसंहाराद् विज्ञायते अत्रैवानित्यत्वम् अस्याभिप्रेतमिति, सम्बन्धाभिधानस्य विरुद्धाविरुद्धाभिप्रायेणापि समानतया विवेकप्रतिपत्तेरभावप्रसङ्गात्।
अथ यद्यत् कृतकं तत्तन्नित्यं दृष्टमिति व्याप्तिवचने विरुद्धवादी, अनित्यत्वेन च कृतकत्वस्य व्याप्तिवचने तत्त्ववादीति विनिश्चायः, तन्न, कृतकत्वनित्यत्वयोर्व्याप्तेः प्रतिपादयितुमशक्यत्वात्। तथा च, न कृतकेषु घटादिषु नित्यत्वम्, नित्येषु चाकाशादिषु कृतकत्वमिति दृष्टान्तदोषेण गतार्थत्वात् कथं विरुद्धत्वम्? यदा च नित्यः शब्द इति प्रतिज्ञाय कृतकत्वानित्यत्वयोर्व्याप्तिं ब्रूते, तदा अभिप्रेतार्थविपरीतेन व्याप्तिकथनाद् विरुद्धवाद्ययमिति विशेषाध्यवसायो भवत्येव।
ननु नित्या नित्याभिप्रायेणैवापि नित्यः शब्द इति वचनसम्भवात् प्रतिज्ञावचने सत्यपि तत्त्वातत्त्ववादिनोरनिश्चय एव, न, वचनेनैवाभिप्रायविशेषप्रसिद्धेः। न हि वक्तॄणां वचनादृतेऽभिप्रायावबोधे प्रमाणान्तरमस्तीति नित्यवचनान्नित्याभिप्राय एव निश्चीयते, अभिप्रायान्तरकल्पनायां प्रमाणाभावात्। अत एव वादिप्रतिवादिनोर्जयपराजयव्यवस्था प्राश्निकैः क्रियते। यत्राप्यन्यथा प्रतिपद्यमाना विचित्राभिप्रायतया प्रकरणार्थमन्यथा ब्रुवते, तत्रापि वचनविशेषेणैव अभिप्रायविशेषोऽनुमेयः, विवक्षान्तराद् वचनान्तरानुत्पत्तेः। अभ्युपगमे वा सम्बन्धवचनादपि अनिश्चय एव स्यात् किं नित्य[त्व] विवक्षातः कृतकत्वानित्यत्वयोः सम्बन्धवचनम्, उत अनित्यत्वविवक्षात इति।
अथ हेतुतदभावव्यवस्थाया वास्तवसम्बन्धापेक्षित्वाद् विपरीतविवक्षयापि कृतकत्वानित्यत्वयोरस्त्येव सम्बन्ध इति गमकत्व्? तर्हि नित्यत्वाभिप्रायेणापि एवंसम्बन्धमुपदर्शयतः तत्त्ववादित्वं स्यात्, प्रकारान्तरेण सम्बन्धोपदर्शनस्यैवाभावात्। तथा प्रतिज्ञावचनं विना सन्दिग्धविपर्यस्ताव्युत्पन्नपुरुषविशेषाणां प्रमेयविशेषेषु आकाङ्क्षाप्रतिपत्तौ वादिनो विशेषेण पुरुषमात्रस्य प्रमेयमात्रप्रतिपादनाय प्रवर्तमानस्य उन्मत्तवादित्वं स्यात्।
अथ विवादात् पुरुषविशेषस्य प्रमेयविशेषापेक्षित्वप्रतिपत्तिः? तर्हि प्रतिज्ञा अभ्युपगतैव, विवादस्य तद्रूपत्वात्। प्रतिज्ञा हि प्रतियोगिप्रतिज्ञान्तरमपेक्षमाणो विवादः, साधनसहिता तु प्रतिज्ञेति। न च शास्त्रादेव यथोक्तविशेषप्रतिपत्तिः, अनुमानोपन्यासकाले तस्याप्रमाणत्वात्, प्रामाण्ये वा किमनुमानेनेति? तस्मात् परार्थानुमानमिच्छता अवश्यं कार्यं प्रतिज्ञावचनमिति। यच्चेदम्
अर्थादर्थगतौ शक्तिः पक्षहेत्वभिधानयोः।
नार्थे तेन तयोर्नास्ति स्वतः साधनसंस्थितिः ।। (प्र. वा. 4।15)
इत्युक्तम्। तत्र अर्थस्यार्थगतौ सामर्थ्यं न निषिध्यते, केवलयोश्च पक्षहेत्वभिधानयोर्नार्थपरिच्छेदे सामर्थ्यम्, अवयवान्तरसद्भावे च स्वार्थोपस्थापनद्वारेण सामर्थ्यमिष्यत एव। अन्यथा हेत्वभिधानस्यापि असामर्थ्ये परार्थानुमानस्याप्रवृत्तेरेव।
अथ हेतुवचनं स्वयमसमर्थमपि समर्थहेतुसंसूचकत्वात् परप्रतिपत्तावुप[हीयते?दीयते] न चैवं प्रतिज्ञेत्याह,
साध्याभिधानात् पक्षोक्तिः पारम्पर्येण नाप्यलम्।
शक्तस्य सूचकं हेतुवचोऽशक्तमपि स्वयम् ।। (प्र. वा. 4।17)
तत्र पक्षोक्तिः प्रतिज्ञावचनं पारम्पर्येणाप्यलं समर्थं न भवतीति असाधनाङ्गमिति। साध्ये साध्याभिधानमसाधारणमेव, सपक्षासपक्षयोरप्रसिद्धेः। तथा साध्याभिधानस्य पक्षोक्तेः पर्यायत्वात् साध्याविशिष्टता चेति। अथ साध्यानुपयोगित्वात् साध्यानभिधानम्, तदप्यवयवान्तरसहितस्य साध्यप्रतिपादकत्वादसिद्धम्, विपर्यये तु अनैकान्तिकम्, केवलस्य हेतुवचनस्यापि असाधकत्वात्। तथा प्रतिज्ञावचनमपि असाधनाङ्गमिति वदता अभ्युपगतैव प्रतिज्ञेति व्याघातः।
अथ स्वप्रतिपत्तौ प्रतिज्ञावचनस्यानुपलम्भात् परप्रतिपत्तावनुपादानम्? एवं तर्हि हेतुवचनस्यापि अदर्शनादनुपादानं स्यात्। अथ हेत्वर्थस्योपलम्भाद् युक्तं हेतुवचनम्? तर्हि प्रतिज्ञार्थस्योपलब्धेः कार्यं प्रतिज्ञावचनम्। यथा हेत्वर्थः कारणं साध्यप्रतिपत्तौ, एवं प्रतिज्ञार्थः कर्मेत्युभयोः कारणत्वाविशेषात् पक्षस्यावचने प्रमाणं नास्तीति। उपस्थापिते च कर्मणि करणानां प्रवृत्तेरुपलम्भात् तदुपस्थापनार्थमवश्यं कार्यं प्रतिज्ञावचनमित्यलं विस्तरेण।
*अविरोधिग्रहणात् प्रत्यक्षानुमानाभ्युपगतस्वशास्त्रस्ववचनविरोधिनोऽनुमेयोद्देशा निरस्ता भवन्ति* इति व्यवच्छेद्यं दर्शयति। यो ह्यनुमेयोद्देशो न प्रत्यक्षादिना विरुध्यते, सा प्रतिज्ञेति।
अन्ये तु प्रत्यक्षाद्यविरुद्धोऽनुमेयस्तस्योद्देशः प्रतिज्ञेति व्याख्यां कुर्वते। यद्यपि अनुमेयस्य साध्यस्य साधनार्हतया प्रत्यक्षादिविरोधाभावान्न व्यवच्छेद्य[त्व]मस्ति, तथापि किम्भूतं साध्यमित्यपेक्षायां स्वरूपोपवर्णनार्थं प्रत्यक्षाद्यविरुद्धपदम्, प्रत्यक्षशब्देनैव विशिष्टार्थप्रतीतौ इन्द्रियार्थसन्निकर्षादिपदवदिति। तच्चासत्, अविरोधिपदस्योद्देशपदेन सामानाधिकरण्यात्, कर्मणः करणएन विरोधाभावाच्चेति। यथाभूतमुपलभ्यमानं कर्म तथाभूतमनुपलभ्यमानमपि इति उद्‌द्योतकरपादैरुक्तम्। प्रतिज्ञा तु करणमिति युक्तस्तत्र विरोधः।
तत्र प्रत्यक्षविरोधी *यथा अनुष्णोऽग्निः* इति। [अनु?उ]ष्णतायास्त्वगिन्द्रियेण प्रतिभासनात्। *घनमम्बरमित्यनुमानविरोधी* आकाशस्य अनुमानादेव अमूर्त्तत्वविभुत्वप्रसिद्धेः। घनं निविडावयवमित्युद्देशस्तेन विरुध्यत एव, घनत्वे सति अस्मदादीनामसढ्चारप्रसङ्गाच्चेति। अभ्युपगतशास्त्रविरोधी यथा *वैशेषिकस्य* सर्वकार्यमुत्पत्तेः पूर्वं स[दुत्पद्यत?त्] इति ब्रुवतः। वैशेषिकशास्त्रे हि असदुत्पद्यत इति प्रसिद्धम्। *न शब्दोऽर्थप्रत्यायक इति स्ववचनविरोधी*। यदि हि शब्दोऽर्थप्रत्यायको न भवति, कथमस्यार्थस्य ज्ञापनार्थं शब्दोच्चारणं न विरुध्येत इति।
अथ प्रमाणत्रित्वे सति कथं विरोधबहुत्वम्? लोकप्रसिद्ध्यपेक्षया। यद्यपि आगमविरुद्धस्य प्रत्यक्षविरुद्धस्य चामी भेदास्तथापि स्ववचनविरुद्धः स्वशास्त्रविरुद्धश्चेत्यादिव्यपदेशो जनानाम् अतस्तथैवाभिधानम्। अनुमानस्य तु अनुमानान्रेण विरोधासम्भवेऽपि स्वकीयानुमानस्य बलवत्वादयं व्यपदेशोऽनुमानेन प्रतिज्ञा बाध्यत इति।
हेतुवैधर्म्यम्
लिङ्गवचनमपदेशः। यदनुमेयेन सहचरितं तत्समानजातीये च सर्वत्र सामान्येन प्रसिद्धः, तद्‌विपरीते च सर्वस्मिन्नसदेव तल्लिङ्गमुक्तम्। तस्य वचनमपदेशः। यथा क्रियावत्त्वाद् गुणवत्त्वाच्च, तथा च तदनुमेयेऽस्ति तत्समानजातीये च सर्वस्मिन् क्रियावत्त्वम्। उभयमप्येतद् अद्रव्ये नास्त्येव, तस्मात् तस्य वचनमपदेश इति सिद्धम्।
प्रतिज्ञानन्तरं हेतुलक्षणमाह *लिङ्गवचनमवदेशः* इति। अर्थलणत्वाद् वचसामिति लिङ्गलक्षणानुवादेन अपदेशस्य लक्षणाभिधानमिति। *यदनुमेयेन सहचरितं तत्समानजातीये सर्वत्र च सामान्येन प्रसिद्धम्* यथाभूतो धर्मः पक्षे तत्समानः सपक्षे प्रसिद्धो न पुनर्विशेषः, अन्यधर्माणामन्यत्रावृत्तेः। सर्वत्र चेति व्यापकाव्यापकभेदं दर्शयति। *तद्‌विपरीते च* विपक्षे सर्वत्र नास्त्येवेति विपक्षादत्यन्तव्यावृत्तिं दर्शयति। प्रकरणसमकालात्ययापदिष्टयोश्च व्युदासः पूर्ववदित्येतत् *लिङ्गमुक्तम्* इति लक्षणानुवादः। तस्य वाचकं वचनं तृतीयान्तं पश्चम्यन्तं वा अपदेशः। तथा च अयमितरस्मात् भिद्यते यथोक्तलिङ्गवचनत्वात्, यस्तु न भिद्यते न चासावेवम्, यथा प्रतिज्ञादिरिति।
तस्य व्यापकाव्यापकस्वरूपोपदर्शनार्थम् उदाहरणद्वयम् *यथा क्रियावत्त्वाद् गुणवत्त्वाच्च* इति। च शब्देन प्रकारान्तरं क्रियावत्वेन गुणवत्वेन चेति दर्शयति। अनयोर्लक्षणेनाभिसम्बन्धोपदर्शनार्थमनुवादः। तथा च तत् क्रियावत्त्वं गुणवत्त्वञ्चानुमेये पक्षेऽस्ति। तत्समानजातीये च सपक्षे सर्वस्मिन् गुणवत्त्वम् असर्वस्मिन् क्रियावत्त्वमस्तीति। *उभयमप्येतद् अद्रव्ये* सत्तादौ नास्त्येवेति तस्य गुणवत्त्वस्य क्रियावत्त्वस्य च यथोक्तम् *वचनमपदेश इति सिद्धम्*।
हेत्वाभासनिरूपणम्
एतेनासिद्धविरुद्धसन्दिग्धानध्यवसितवचनानामनपदेशत्वमुक्तं भवति। तत्रासिद्धश्चतुर्विधः, उभयासिद्धोऽन्यतरासिद्धस्तद्भावासिद्धोऽनुमेयासिद्धश्चेति। तत्रोभयासिद्धः, उभयोर्वादिप्रतिवादिनोरसिद्धो यथा अनित्यः शब्दः सामयवत्वादिति। अन्यतरासिद्धो यथा अनित्यः शब्दः कार्यत्वादिति। तद्भावासिद्धो यथा धूमभावेनाग्न्यधिगतौ कर्तव्यायामुपन्यस्यमानो वाष्पो धूमभावेनासिद्ध इति। अनुमेयासिद्धो यथा पार्थिवं द्रव्यं तमः कृष्णरूपवत्त्वादिति।
*एतेन* सामर्थ्याद् अपदेशाभासा निरस्ता भवन्तीति स्ववाक्ये परिवर्जनार्थं परवाक्ये चोद्भावनार्थं संलक्ष्यते। तत्रेदं सामान्यलक्षणम्, अपदेशवदाभासमानाः सम्यङ् मतौ अपदेशाभासाः। [अ]हेतु[रवि?रपि वि] पर्यस्तबुद्धेर्हेतुव[दा?द्] भासते इति सम्यङ्मताविति पदम्। एतस्मिंश्च पक्षेऽन्यतरासिद्धस्य सम्यङ्मतौ हेतुवदाभासमानत्वं चिन्त्यम्। तस्य हि पक्षधर्मत्वादिमत्वमित्यतो हेतुवदाभासमानत्वाद् हेत्वाभासा इति सिद्धं लक्षणम्। यस्य तु हेतुरपि तस्य पक्षधर्मत्वाद्युपदर्शनेन हेतुत्वप्रतिपत्तौ यत्नः कार्यस्तत्प्रतिपत्तेर्ह्यर्थप्रतिपत्तौ कारणत्वादिति। अत एव अन्यतरासिद्धो यद्यपि वस्तुवृत्त्या हेतुस्तथापि पक्षधर्मतया परेणाप्रतिपन्नत्वाद् असिद्धबुद्धिं जनयतीति। प्रतिपन्ने च प्रमाणतः पक्षधर्मत्वेन साध्यसिद्धेर्भावाद् हेतुरेवेति।
अन्ये तु अहेतवः पक्षधर्मत्वाद्यन्यतमरूपाननुविधानात् समानधर्माणो हेत्वाभासा इति।
अथ कियतां पुनरेवमनपदेशत्वमित्याह *असिद्धविरुद्धसन्दिग्धानध्यवसितवचनानामनपदेशत्वमुक्तं भवति* इति। *तत्रासिद्धश्चतुर्विधः* इति विभागः। सामान्यलक्षणञ्च आशङ्क्यमानपक्षवृत्तित्वम् अर्थाल्लभ्यते। आशङ्क्यमाने हि पक्षे वृत्तिः सर्वस्य विशेषणासिद्धादिप्रपञ्चस्यास्तीति पक्षव्यापीदं सामान्यलक्षणम्। न चैवं पक्षावृत्तित्वं तस्य असमर्थविशेषणादिभेदेषु असम्भवात्।
केन रूपेण चतुर्विध इत्याह *उभयासिद्धोऽन्यतरासिद्धस्तद्भावासिद्धोऽनुमेयासिद्धश्चेति*। तत्र *उभयोर्वादिप्रतिवादिनोरसिद्धो यथा अनित्यः शब्दः सावयवत्वादिति* शब्दे हि सावयवत्वं नित्यानित्यवादिनोर्न प्रसिद्धमिति। *अन्यतरासिद्धो यथा अनित्यः शब्दः कार्यत्वादिति* मीमांसकस्य हि प्रत्यभिज्ञानादिकमुपलभमानस्य शब्दे कार्यत्वं तावदसिद्धं यावद् अन्यतरपक्षव्युदासद्वारेण प्रमाणतो (ना?) व्यवस्थाप्यत इति निश्चीयते। निश्चिते तु पक्षधर्मत्वे ततः साध्यं प्रतिपद्यत एव। *तद्भावासिद्धो यथा धूमभावेनाग्न्यधिगतौ* इति। धूमत्वेनानिश्चितं वाष्पादिकमुपलभमानस्याग्न्यधिगतौ कर्तव्यायां तद्भावासिद्धो धूमभावस्यानिश्चितत्वादिति। *अनुमेयासिद्धो यथा पार्थिवं[द्रव्यं] तमः कृष्णरूप[त्व?वत्त्वा] दिति।
सांख्याभ्यपगतस्य तमसोऽप्रसिद्धत्वाद् अयमाश्रयासिद्धो न तु अभावरूपतमोऽपेक्षया। तस्य तु प्रमाणेन प्रसिद्धेः पक्षीकरणे कृष्णरूप[त्वं?वत्त्वं] स्वरूपासिद्धं, नत्वाश्रयासिद्धमिति।
नन्वेवं विशेषणासिद्धादिप्रपञ्चस्यासङ्ग्रहणादयुक्तोऽयं विभागः? न, उभयासिद्धेऽन्यतरासिद्धे वा अन्तर्भावात्। तथा च उभयोर्विशेषणासिद्धो [यथा] नित्यः शब्दःअनभिधेयत्वे सतिबाह्येन्द्रियप्रत्यक्षत्वात्। बाह्येन्द्रियप्रत्यक्षत्वे च सति अनभिधेयत्वादिति उभयोर्विशेष्यासिद्धः। अन्यतरविशेषणासिद्धो [यथा] नित्यः शब्दः कृतकत्वे सति अमूर्तत्वात्। एवमन्येष्वपि पुरुषविशेषाभिप्रायेण असिद्धत्वाद्यूह्यमिति। असमर्थविशेषणासिद्धो [यथा] नित्यः शब्दः प्रमेयत्वे सति कृतकत्वात्। विपर्ययेण असमर्थविशेष्या[सिद्ध] इति। व्यधिकरणविशेषणासिद्धो [यथा] नित्यः शब्दः चाक्षुषथ्वे सति कृतकत्वात्। विपर्ययेण व्यधिकरणविशेष्यासिद्ध इति। विरुद्धविशेषणासिद्धो[यथा] [अ?] नित्यः शब्दः कार्यत्वे सति अमूर्तत्वादिति। अन्यथासिद्धविशेषणासिद्धो [यथा] नित्यः शब्दः अभ्यस्यमानत्वे सति अमूर्तत्वादिति।
नन्वेवमपि एषामुभयासिद्धेऽन्यतरासिद्धेऽन्तर्भाववत् तद्भावा[सिद्धा]नुमेयासिद्ध्योरप्यन्तर्भावः स्यादिति कथं चातुर्विध्यम्? तयोरवान्तरभेदापेक्षया तद्भावासिद्धः, परार्थानुमानस्य प्रस्तुतत्वाद् उभयासिद्धोऽन्यतरासिद्धश्चेति भिद्यते। एवम् अनुमेयासिद्धोऽपीति चातुर्विध्यम्।
अन्ये तूभयासिद्धं यत्र विशेषणं विशेष्यञ्च असिद्धमिति। अन्यतरासिद्धन्तु विशेषणासिद्धं विशेष्यासिद्धं वेति मन्यन्ते। न चैतद् भाष्यकर्तुरभिप्रेतम्, वाद्यभिप्रायेण उदाहरणोपन्यासात्।
अन्ये तु स्वार्थानुमानस्य तद्भावासिद्धोऽनुमेयासिद्धश्चेति भेदः सकलभेदसङ्ग्राहकः, परार्थानुमानस्य तूभयासिद्धोऽन्यतरासिद्धश्चेति। अत्र तु स्वार्थानुमानेन परार्थस्य भेदनिरूपणमिष्टमेव, स्वातन्त्र्यन्तु निषिध्यते।
यो हि अनुमेयेऽविद्यमानोऽपि तत्समानजातीये सर्वस्मिन् नास्ति तद्‌विपरीते चास्ति स विपरीतसाधनाद् विरुद्धो यथा यस्माद् विषाणी तस्माद् अश्व इति।
विरुद्धलक्षणमाह *यो ह्यनुमेये* पक्षे व्याप्त्या अविद्यमानोऽपि तत्समानजातीये च सपक्षे *सर्वस्मिन् नास्ति तद्‌विपरीते च* विपक्षेऽस्ति *स विपरीतसाधनाद् विरुद्धो यथा यस्माद् विषाणी तस्माद् अश्व इति*। विषाणिनां पिण्डं पक्षीकृत्य अश्वोऽयम् इति साधयतो विषाणित्वाद् इति हेतुर्विरुद्धः, अस्य हि अनश्वेनैव व्याप्तत्वात्। अयन्तु विपक्षैकदेशवृत्तिः। विद्यमानसपक्षस्तथा विपक्षव्यापकः नित्य शब्दः कार्यत्वाद् इति। अविद्यमानसपक्षो विपक्षव्यापकः सर्वं कार्यं सर्वज्ञकर्तृकं प्रमेयत्वादिति। विद्यमानसपक्षो विपक्षैकदेशवृत्तिः, जीवच्छरीरं सात्मकं कार्यत्वादिति। अतश्चतुर्विधः।
यस्तु सन्ननुमेये तत्समानासमानजातीययोः साधारणः सन्नेव सन्देहजनकत्वात् सन्दिग्धो यथा यस्माद् विषाणी तस्माद् गौरिति।
एकस्मिंश्च द्वयोर्हेत्वोर्यथोक्तलक्षणयोर्विरुद्धयोः सन्निपाते सति संशयदर्शनादयमन्यः सन्दिग्ध इति कचित्। यथा मूर्तत्वामूर्तत्वं प्रति मनसः क्रियावत्त्वास्पर्शवत्त्वयोरिति।
नन्वयमसाधारण एव अचाक्षुषत्वप्रत्यक्षत्ववत् संहतयोरन्यतरपक्षासम्भवात्, ततश्चानध्यवसित इति वक्ष्यामः।
ननु शास्त्रे तत्र तत्र उभयथा दर्शनं संशयकारणमपदिश्यत इति, न, संशयो विषयद्वैतदर्शनात्। सशयोत्पत्तौ विषयद्वैतदर्शनमेव कारणम्, तुल्यबलत्वे च तयोः परस्परविरोधात् निर्णयानुत्पादकत्वं स्यान्न तु संशयहेतुत्वम्। न च तयोस्तुल्यबलत्वमस्ति अन्यतरस्यानुमेयोद्देशस्यागमबाधितत्वाद् अयन्तु विरुद्धभेद एव।
*यस्तु सन्ननुमेये* व्याप्त्या *तत्समानासमानजातीययोः* सपक्षविपक्षयोः सन्नेव, स सन्दिग्धोऽनैकान्तिकः। *सन्देहजनकत्वात्* इति कार्योपन्यासो न तु लक्षणम्, इन्द्रियादिष्वपि सद्भावेनातिव्यापकत्वात्। उदाहरणन्तु *यथा यस्माद् विषाणी तस्माद् गौरिति* विषाणिनं पिण्डं पक्षीकृत्य गौरिति साधयतो विषाणित्वादिति हेतुरनैकान्तिकः, पक्षत्रयवृत्तित्वात्। अयन्तु सपक्षव्यापकत्वे सति विपक्षैकदेशवृत्तिः। अगौरयं विषाणित्वात् इति सपक्षैकदेशवृत्तित्वे सति विपक्षव्यापकः। सपक्षविपक्षैकदेशवृत्तिश्च नित्यः शब्दः अस्पर्शवत्त्वात् इति चतुर्विधोऽनैकान्तिकः।
अथ चातुर्विध्यमनुपपन्नम्, अनैकान्तिकस्य लक्षणञ्चाव्यापकम्, विरुद्धाव्याभिचार्यसाधारणयोरव्यापनाद् इत्याशङ्काप्रतिषेधार्थम् *एकस्मिंश्च द्वयोः* इत्यादि प्रकरणम्। द्वयोर्हेत्वोर्विंभिन्नधर्मिस्थयोः सन्निपाते संशयादर्शनात् यथा नित्यः शब्दः कार्यत्वात्, नित्यमाकाशम् अकार्यत्वाद् इति एकस्मिन् धर्मिणीति पदम्। तथाथाप्येकस्मिन् धर्मिणि द्वियोः सन्निपातेऽपि न संशयो यथा अनित्यः शब्द कार्यत्वात्, नित्यस्त्वमूर्तकार्यत्वादिति तदर्थं *यथोक्तलक्षणयोः*
तथाप्यविरुद्धार्थसाधकयोरेवंविधयोरपि न संशयहेतुत्वं यथा नित्यः शब्दः कार्यत्वात्, आश्रितो गुणत्वात्। अतो *विरुद्धयोः* विरुद्धार्थसाधकयोः सन्निपाते संशयस्य दर्शनात् *अयमन्यः सन्दिग्धः* अनैकान्तिक इति केचित्। उदाहरणन्तु *यथा मूर्तत्वामूर्तत्वं प्रति मनसः क्रियावत्त्वास्पर्शवत्त्वयोरिति*। मूर्तं मनः क्रियावत्त्वात् छत्रवत् इत्येकः, अमूर्तं मनः अस्पर्शवत्त्वात् आकाशवत् इत्यपरः। उभयोश्च पक्षधर्मान्वयव्यतिरेकवत्त्वोपलब्धेः किं मूर्तं मनः स्यादुत अमूर्तमिति संशयः।
तदसत्, अभयोः प्रयोगासम्भवात्। तथाहि, एकस्मिन् साधने प्रयुक्ते तस्य निर्दुष्टतायां साध्यसिद्धेरन्यस्य उपन्यासानुपपत्तिः, दुष्टतायां वा सैव अस्य अभिधेयेति। न च परस्परविरुद्धार्थसाधकत्वमेव अनुमानयोर्दोषः, प्रमाणेन उभयोरेकत्र सद्भावसिद्धौ विरोधस्याभावप्रसङ्गात्। अव्यभिचार्यानुमानयोश्च अवश्यमर्थव्यवस्थापकत्वम्, अव्यभिचारस्य तल्लक्षणत्वात्, विपर्यये तु व्यभिचारित्वमेव। यथा मूर्तं मनोऽस्पर्शवत्त्वे सति क्रियावत्त्वात्, अमूर्तञ्च क्रियावत्त्वे सत्यस्पर्शवत्त्वात् इति समस्तयोः प्रयोगः।
ततत्रापि असाधारणमित्याह *नन्वयमसाधारण एव अचाक्षुषत्वप्रत्यक्षत्ववत्, संहतयोरन्यतरपक्षासम्भवात्* इति। यथा हि, रूपातीन्द्रियगुणव्यतिरेकेण अन्यगुणानां गुणव्यवहारे साध्यसामान्यवत्त्वाद् द्रव्यत्वे सति नियमेनाचाक्षुषत्वं हेतुर्न सपक्षे रूपादावस्ति, नापि विपक्षे घटादावित्यसाधारणः; तद्‌वत् सहचरयोः क्रियावत्त्वास्पर्शवत्त्वयोरन्यतरपक्षासम्भवादित्यन्यतरस्मिन् सपक्षे विपक्षे वा असम्भवाद् असाधारणत्वम्। न चास्यासङ्ग्रह इत्याह *ततश्चानध्यवसित इति वक्ष्यामः*।
यद् वा चाक्षुषत्वप्रत्यक्षत्ववत् इति वैधर्म्योदाहरणम्। यथा हि गुणः शब्दः सामान्यवत्त्वाद् द्रव्यत्वे सति नियमेन अचाक्षुषप्रत्यक्षत्वात् अन्धादिवदिति। अस्य सपक्षैकदेशे वर्तमानस्य विपक्षादत्यन्तं व्यावृत्तिर्न चैवं क्रियावत्त्वास्पर्शवत्त्वयोरित्याह *संहतयोरन्यतरपक्षासम्भवात्* इति।
एवं विरुद्धाव्यभिचारिणोऽसाधारणस्यचसंशयहेतुत्वेनिराकृते सूत्रविरोधमुद्भावयन्नाह *ननु(च?)शास्त्रेतत्र तत्रोभयथा दर्शनं संशयकारणमपदिश्यते* इति। तत्र तत्र शास्त्रे तस्मिंस्तस्मिन् सूत्रे `दृष्टञ्च दृष्टवत्' (वै. सू.) दृष्ट्वा संशयो भवति। दृष्टञ्च मनसि क्रियावत्त्वं पुनर्दृष्टेन तुल्यं वर्तत इति दृष्टवद् अस्पर्शवत्त्वम्। अतो विरुद्धसाधनाभिसम्बद्धं मनो दृष्ट्वा संशेते किं मूर्तम् उत अमूर्तं मन इति। `यथा दृष्टम् अयथादृष्टञ्च' (वै. सू.)उभयथा दृष्टत्वात् संशय इत्यसाधारणस्य च संशयहेतुत्वमुक्तम्। यथा दृष्टं पक्षे, पुनरयथा दृष्टं सपक्षे, विपक्षे च न दृष्टम्, अत उभयथा दृष्टत्वात् संशयः।
यद् वा यथादृष्टं क्रियावत्त्वेन पुनरयथादृष्टम् अस्पर्शवत्त्वेन, अत उभयथा उभाभ्यां सह दृष्टत्वात् संशय इत्युक्ते परेणाह न युक्तमेतत्, संशयस्य विषयद्वैतदर्शनादुत्पत्तेः। अस्यैव विवरणम् *संशयोत्पत्तौ विषयद्वैतदर्शनमेव कारणम्* इति। विषयद्वैते दृश्यत इति विषयद्वैतदर्शनं सामान्यमेव। विषयस्य वा द्वैतं द्वैविध्यं यस्य, तत् तथोक्तं सामान्यं तद्दर्शनमेव, विरुद्धविशेषानुवृत्तिहेतुत्वात् संशयकारणं न विरुद्धहेतुसन्निपातः, असाधारणधर्मो वा, विरुद्धविशेषैः सहानुपलम्भेन तस्य तत्स्मारकत्वानुपपत्तेः। विरुद्धविशेषानुस्मृतिहेतुश्च धर्मः संशयकारणं न परस्परविरोधी समानबल इति। समानबलत्वे च *तयो[परस्पर]विरोधात्* इतरस्येतरेण प्रतिबन्धात् *निर्णयानुत्पादकत्वं स्यान्न(तु?) संशयहेतुत्वम्* तैलादिनाभ्यक्तस्य शालिबीजस्य स्वाङ्कुरानुत्पादकत्ववदिति अभ्युपगम्यैतदुक्तम्। परमार्थतो *न च तयोस्तुल्यबलत्वमस्ति* अन्यतरस्य अमूर्तं मन इति *अनुमेयोद्देशस्यागमविरोधित्वात्* इति। तथा चागमः `तदभावादणु मनः' (वै. सू.) इति। मूर्तत्वञ्च अव्यापिपरिमाणसम्बन्धित्वमेव।
अथेदं वचनमप्रमाणम्? तर्हि मनः सद्भावासिद्धेराश्रयासिद्धमनुमानमिति यथोक्तलक्षणानुपपत्तिः। न च मूर्तत्वानभ्युपगमे युगपज्‌ज्ञानानुत्पत्त्यापि मनःसद्भावसिद्धिः, अमूर्तस्य सकलेन्द्रियाधिष्ठायकत्वेन युगपज्‌ज्ञानोत्पत्तिप्रसङ्गात्। अतः प्रतिज्ञावचनस्यागमेन विरोधाद् अमूर्तानुमानं न यथोक्तलक्षणमिति। अयन्तु विरुद्धभेदः प्रतिज्ञावसरेऽभिहित एव। विरुद्धाद् भिद्यते इति विरुद्धभेदः कालात्ययापदिष्टः, दुष्टपक्षोपन्यासानन्तरमुपन्यासात्।
सूत्रद्वितयञ्च एकधर्मिविषयत्वेन संशयप्रतिपादनार्थमिति व्याख्येयम्। तथा च, नियतसामान्यवस्तु प्रतिनियतविशेषैः सहचरितमेकदा दृष्टं पुनस्तत्तुल्यम् अन्यविशेषाविनाभूतम्, अतः कालान्तरे देशव्यवधानवशात् तद्‌दृष्टवा संशेते किमिदमेवम् आहोस्विदेवं न भवतीति। तथा एकधर्मिविषयत्वेऽपि। `यथादृष्टम्' इति किञ्चित् सामान्यवद्‌वस्तु केनचिद् विशेषेण सह दृष्टम्, `अयथादृष्टम्' तदेवोपलब्धिविशेषशून्यं विशेषानत्रसहितं दृष्टम्, अत उभयथा दृष्टत्वादुभाभ्यां सह दृष्टत्वाद् उभयशून्यस्योपलब्धौ तत्स्मरणे तु असति, संशयो भवतीति। यथा देवदत्तं सकेशमुपलभ्य पुनर्निष्केशम्, अतः कालान्तरे तमेव वेष्टितशिरसमुपलभमानस्य किमयं सकेशो निष्केशो वेति संशयो भवतीति।
यश्च सन्ननुमेये तत्समानासमानजातीययोरसन्नेव सोऽन्यतरासिद्धोऽनध्यवसायहेतुत्वाद् अनध्यवसितः। यथा, सत् कार्यम् उत्पत्तेः इति। अयम् अप्रमिद्धोऽनपदेश इति वचनादवरुद्धः।
ननु चायं विशेषः संशयहेतुरभिहितः शास्त्रे तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्योभयथा दृष्टत्वादिति? न, अन्यार्थत्वात्। शब्दे विशेषदर्शनात् संशयानुत्पत्तिरित्युक्ते नायं द्रव्यादीनामन्यतमस्य विशेषः स्याच्छ्रावणत्वम्, किन्तु सामान्यमेव सम्पद्यते। कस्मात् ? तुल्यजातीयेष्वर्थान्तरभूतेषु द्रव्यादिभेदानाम् एकैकशो विशेषस्योभयथा दृष्टत्वादित्युक्तं न संशयकारणम्। अन्यथा षट्‌स्वपि पदार्थेषु संशयप्रसङ्गात्। तस्मात् सामान्यप्रत्ययादेव संशय इति।
समस्तसपक्षे तु असाधारणस्यानध्यवसित्वमाह *यश्च सन्ननुमेये तत्समानासमानजातीययोः* सपक्षविपक्षयोः। *असन्नेव(च?) सोऽन्यतरासिद्धोऽनध्यवसायहेतुत्वात्* निश्चयानुपादकत्वात्। अतस्तद्धेतुत्वाद् *अनध्यवसितः*। *यथा सत् कार्यम् उत्पत्तेः* इत्युदाहरणम्। सकलं कार्यमुत्पत्तेः प्राक् स[द्‌अनु?द्उ]त्पद्यमानत्वादिति हेतुर्न[प्रत्या?आ]काशादौ नापि खरविषाणादावित्यनध्यवसितः
न चास्य सूत्रेणासङ्ग्रह इत्याह *`अयमप्रसिद्धोऽनपदेशः' (वै. सू.) इतिवचनादवरुद्धः* सपक्षविपक्षयोरप्रसिद्धत्वादिति। एवमसाधारणस्य संशयहेतुत्वे निरस्ते सूत्रविरोधमुद्भावयन्नाह *ननु चायं विशेषः संशयहेतुरभिहितः शास्त्रे, तुल्यजातीयेषु* सपक्षेषु। *अर्थान्तरभूतेषु* [विशेषेषु?विपक्षेषु]च। *विशेषस्य* अन्यार्थत्वात्* सत्तासम्बन्धित्वात्, अर्थशब्दवाच्यत्वाच्च किं द्रव्यं गुणः कर्म वा शब्द इति संशयः। न परं सत्तासम्बन्धात्, श्रावणत्वाच्च *इत्युक्ते* सूत्रकारेण, परो ब्रूते श्रावणत्वविशेषस्योपलब्धेः कथं शब्दे संशय इत्याशङ्क्याह *नायं द्रव्यादीनामन्यतमस्य* इति। न द्रव्यस्य गुणस्य कर्मणो वा विशेषः श्रावणत्वम्। *किन्तु सामान्यमेव सम्पद्यते। कस्मात्?* यस्मात् गुणत्वे शब्दस्य साध्ये *तुल्यजातीयेषु* रूपादिषु शुक्लत्वादिविशेषो गुणत्वेन सहचरितो दृष्टः। *अर्थान्तरभूतेषु* (च?) उत्क्षेपणादिषु कर्मत्वेन सहचरित उत्क्षेपणत्वादिविशेषो दृष्टस्तथा पृथिव्यादिषु पृथिवीत्वादिर्द्रव्यत्वेनेति। *द्रव्यादिभेदानाम्* द्रव्यगुणकर्मणाम्। *एकैकशः* प्रत्येकम्। *विशेषस्योभयथा दृष्टत्वात्* द्रव्यत्वगुणत्वादिसहचरितस्य दृष्टत्वात्। उपलभ्यते च शब्दे श्रावणत्वं विशेषस्तद् द्रव्यत्वादिविषयं स्मरणं भवत्येव। अतः किं द्रव्यस्य सतोऽयं विशेषः श्रावणत्वम्, गुणस्य कर्मणो वा, इत्युक्तेन न्यायेन संशयकारणं श्रावणत्वम्, न तु असाधारणत्वेन। *षट्‌स्वपि पदार्थेषु* असाधारणधर्मोपलब्धौ *संशयप्रसंङ्गात्*। उत्क्षेपणत्वादिविशएषानुपलब्धेश्च संशयकारणत्वम् अन्वयव्यतिरेकाभ्यामुपलब्धम् न तदुपलब्धेः।
न च सर्वस्माद् व्यावृत्तं विशेषमुपलभमानस्य विरुद्धविशेषानुस्मृतेरभावात् संशयो युक्तः, सद्भावेऽप्यनुच्छेदः स्यात्, निर्णयोत्पत्तिकारणाभावात्। *तस्मात् सामान्यप्रत्यक्षादेवसंशयः* न विशेषदर्शनादित्युपसंहारः।
यद् वा विशेषवत्त्वस्योभयथा सपक्षविपक्षाविशेषितस्योपलब्धेस्तदुपलम्भाच्च शब्दे संशयः। न संशयकारणम् असाधारणो धर्मः, षट्‌स्वपि पदार्थेषु संशयप्रसङ्गादिति। शेषं पूर्ववत्।
द्विविधं निदर्शनं साधर्म्येण वैधर्म्येण च। तत्र अनुमेयसामान्येन लिङ्गसामान्यस्यानुविधानदर्शनं साधर्म्यनिदर्शनम्। तद् यथा, यद् यत् क्रियावत् तत् तद् द्रव्यं दृष्टं यथा शर इति। अनुमेयविपर्यये च लिङ्गस्याभावदर्शनं वैधर्म्यनिधर्शनम्। तद् यथा, यद् अद्रव्यं तत् तत् क्रियावन्न भवति यथा सत्तेति।
अथापदेशानन्तरं निदर्शनस्वरूपनिरूपणार्थम् *द्विविधं निदर्शनम्* इत्यादि प्रकरणम्। द्विविधमिति विभागो निदर्शनमिति निरुक्तिर्लक्षणम्। निदर्श्यते साध्यसाधनयोर्बहिव्याप्तिरस्मिन् इति निदर्शनं दृष्टान्तः। तथा निदर्श्यते साध्यसाधनयोर्व्याप्तिरनेनेति निदर्शनं व्याप्तिप्रतिपादकं दृष्टान्तवचनम्। तथाहि, निदर्शनम् इतरस्माद् भिद्यते यथोक्तदृष्टानत्वचनत्वात्, यस्तु न भिद्यते न चासावेवं यथा प्रतिज्ञादिरिति।
तत् केन रूपेण द्विविधम्? *साधर्म्येण वैधर्म्येण च* इति। *तथ्रानुमेयसामान्येन* साध्यसामान्येन। *लिङ्गसामान्यस्य* साधनसामान्यस्य। *अनुविधानदर्शन साधर्म्यनिदर्शनम्*। साधनसामान्यं व्याप्यम्, व्यापकञ्च साध्यसामान्यमिति। *यद् यत् क्रियावत् तत्तद् द्रव्यं दृष्टं यथा शरः* इत्युदाहरणम्। अत्र हि द्रव्यत्वव्याप्तौ क्रियावत्त्वं साधनस्य, *अभावदर्शनं वैधर्मय्निदर्शनम् [तद्‌यथा] यद् यद् अद्रव्यं तत् तत् क्रियावन्न भवति। यथा सत्तेति*। सत्तायां हि द्रव्यत्वव्यावृत्या क्रियावत्त्वव्यावृत्तिरस्तीति वैधर्म्योदाहरणम्।
अनेन निदर्शनाभासा निरस्ता भवन्ति। तद् यथा नित्यः शब्दः अमूर्त्तत्वात् यद् अमूर्त दृष्टं तन्नित्यम्, यथा परमाणुः, यथा कर्म, यथा स्थाली, यथा तमः अम्बरवदिति। यद् यद् द्रव्यं तत् तत् क्रियावद् दृष्टमिति च लिङ्गानुमेयोभयाश्रयासिद्धाननुगतविपरीतानुगताः साधर्म्यंनिदर्शनाभासाः।
यदनित्यं तन्मूर्तं दृष्टं यथा कर्म, यथा परमाणुः, यथाकाशं यथा तमः घटवत्, यन्निष्क्रियं तद् अद्रव्यं दृष्टञ्चेति लिङ्गानुमेयोभयाव्यावृत्ताश्रयासिद्धाव्यावृत्तविपरीतव्यावृत्ता वेधर्म्यनिदर्शनाभासा इति।
*अनेन [निदर्शनाभासाः]* निदर्शनवदाभासन्त इति निदर्शनाभासास्तत्समानधर्माणः। *निरस्ता भवन्ति* इति स्ववाक्ये परिवर्जनार्थं परवाक्ये चोद्बावनार्थं निरूप्यन्ते। *तद् यथा नित्यः शब्दः अमूर्तत्वात्, [यद्?] यद् अमूर्तं दृष्टं तन्नित्यं[दृष्टं?] यथा परमाणुः* इति। साधनस्यामूर्तत्वस्य परमाणावभावात् साधनविकलमुदाहरणम्। अस्मिन्नेव साध्ये `यथा कर्मेति' साध्यविकलम्, नित्यत्वस्य कर्मण्यभावात्। `यथा स्थाली' इत्युभयविकलम्, नित्यत्वस्यामूर्तत्वस्य च स्थाल्यामभावात्। `यथा तमः' इति धर्मासिद्धम्, सांख्याभ्युपगतस्य तमसोऽप्रसिद्धत्वात्। `अम्बरवत्' इति साध्यसाधनाधिकरणत्वेऽपि अ[न]नुगतो वचनदोषः। यद् यद् अमूर्तं दृष्टं तत्तन्नित्य दृष्टं यथा अम्बरमिति वचनं विना अनुगतस्याप्रतीतेः।
यद् वा सम्यग्‌दृष्टान्तोऽपि आकाशासत्त्ववादिनो न साध्यसिद्धिं करोति यावन्न प्रमाणतो व्यवस्थाप्यत इत्याभास उच्यते।
अन्ये तु आभासावसरे सम्यग्‌दृष्टान्तोपदर्शनम् आभासानाम् आभासताज्ञापनार्थम्। इत्थम्भूतं हि निदर्शनम्, एतत्‌प्रतिरूपकाणि च तदाभासा इति।
*यद् यद् द्रव्यं तत्तत् क्रियावद् दृष्टम्* इति च विपरीतानुगमः। तथा च एवं ब्रुवतो द्रव्यत्वं व्याप्यं क्रियावत्त्वञ्च व्यापकं स्यादिति विपरीता व्याप्यव्यापकभावप्रतिपत्तिः। न चैतदस्ति, आकाशादौ क्रियावत्त्वं विनापि द्रव्यत्वोपलब्धेः। समव्याप्तिकेऽपि साधनस्य व्यापकत्वाभिधाने साध्यस्य प्रतिपत्तिर्न स्यादितिदूषणम्। विषमव्याप्तिके विपरीतानुगमो दोषो न समव्याप्तिके इति चान्ये। अत्रोपसंहारवाक्यं लिङ्गञ्च, अनुमेयश्च, उभयञ्च, आश्रयश्चेति लिङ्गानुमेयोभयाश्रयाः, ते असिद्धा येषु आबाशेषु ते तथोक्ताः, ते च अननुगताश्च, विपरीतानुगताश्चेति *लिङ्गानुमेयोभयाश्रयासिद्धाननुगतविपरीतानुगताः साधर्म्यनिदर्शनाभासाः*।
वैधर्म्यनिदर्शनाभासान् दर्शयति *यदनित्यं तन्मूर्तं दृष्टं यथा कर्म* इति साधनाव्यावृत्तम्, तस्य हि अमूर्तत्वादिति। तस्मिन्नेव साध्ये `यथा परमाणुः' इति साध्याव्यावृत्तं व्यतिरेकोदाहरणम्, परमाणोर्नित्यत्वादिति। `यथा आकाशम्' इत्युभयाव्यावृत्तम्, अमूर्तत्वस्य नित्यत्वस्य च तत्राव्यावृत्तिरिति। `यथा तमः' इति धर्मासिद्धम्, सांख्याभ्युपगतस्य तमसोऽप्रसिद्धत्वादिति। `घटवत्' इत्युभयाव्यावृत्तावपि अव्यतिरेकः, यद् यन्नित्यं न भवति तत्तदमूर्तं न भवतीति वचनं विना व्यतिरेकस्याप्रतिपत्तेः। घटासत्त्ववादिनो वा प्रमाणेनाप्रतिपादितो न साध्यसिद्धिं करोतीति आभास उच्यते, *यन्निष्क्रियं तद् अद्रव्यं दृष्टम्* इति व्यतिरेकः। साध्यव्यावृत्त्या हि साधनव्यावृत्तिर्वाच्या, न तु साधनव्यावृत्त्या साध्यव्यावृत्तिः, क्रियावत्त्वाभावेऽपि आकाशादौ द्रव्यत्वस्य साध्यस्याव्यावृत्तेः, साधनाभावो हि व्यापकः साध्याभावो व्याप्य इति। एतेषामुपसंहारः, लिङ्गञ्च, अनुमेयश्च, अभयञ्चेति लिङ्गानुमेयोभयानि, तानि अव्यावृत्तानि येषु आभासेषु ते लिङ्गानुमेयोभयाव्यावृत्ताः, ते च आश्रयासिद्धञ्च अव्यावृत्तञ्च वपरीतव्यावृत्तञ्चेति *लिङ्गानुमेयोभयाव्यावृत्ताश्रयासिद्धाव्यावृत्तविपरीतव्यावृत्ता वैधर्म्यनिदर्शनाभासाः* इति।
निदर्शनेऽनुमेयसामान्येन सह दृष्टस्य लिङ्गसामान्यस्य अनुमेयेऽन्वानयनमनुसन्धानम्। अनुमेयधर्ममात्रत्वेनाभिहितं लिङ्गसामान्यमनुपलब्धशक्तिकं निदर्शने अनुमेयधर्मसामान्येन सह दृष्टम् अनुमेये येन वचनेनानुसन्धीयते तदनुसन्धानम्। तथा च वायुः क्रियावानिति। अनुमेयाभावे च तस्यासत्त्वमुपलभ्य, न च तथा वायुर्निष्क्रिय इति।
एवं सह आभासैर्निदर्शनमुपदर्श्य अनुसन्धाननिरूपणार्थमाह *निदर्शनेऽनुमेयसामान्येन सह *इत्यादि। *निदर्शने* दृष्टान्ते। *अनुमेयसामान्येन* साध्यसामान्येन। *सह दृष्टस्य लिङ्गसामान्यस्य अनुमेये* पक्षे। *अन्वानयनमनुसन्धानम्*। आनयनं प्रतिपादनमन्यस्यापि सम्भवतीति लिङ्गस्येति पदम्। तथापि लिङ्गस्य निदर्शने प्रतिपादनमस्तीति तद्‌व्युदासाय अनुमेयपदम्। अनुमेये च गृहीताविनाभास्य लिङ्गस्य प्रतिपादकं हेतुवचनमपीति निदर्शनेऽनुमेयसामान्येन सह दृष्टस्य लिङ्गसामान्यस्येति पदम्। अतः अनुसन्धानमितरस्माद् भिद्यते निदर्शने गृहीतव्याप्तिकस्य लिङ्गस्यानुमेयेऽन्वानयनरूपत्वात्, यस्तु न भिद्यते न चासावेवं यथा प्रतिज्ञादिरिति।
सङ्ग्रहोक्तेर्विवरणमाह *अनुमेयधऱ्ममात्रत्वेनाभिहितं लिङ्गसामान्यम्* न तु समर्थमिति मात्राभिधानेन दर्शयति। *अनुपलब्धशक्तिकम्* इति। अनुपलब्धा शक्तिरविनाभावो यस्य तत् तथोक्तम्। पुनः *निदर्शनेऽनुमेयधर्मसामान्येन सह दृष्टम्*। [अनुमेये पक्षे] येन वचनेन `अनु' पश्चात् सन्धीयते पक्षधर्मतया ख्याप्यते तद् अनुसन्धानम्।
तदपि द्विविधम्, साधर्म्येण वैधर्म्येण च। तत्र अनुमेयसामान्येन सह लिङ्गसामान्यस्य निदर्शने सत्त्वमुपलभ्याभिसन्धत्ते तथा चायं क्रियावान् वायुरिति। वैधर्म्यनिदर्शने तु अनुमेयस्य द्रव्यत्वस्याभावे च तस्य क्रियावत्त्वस्यासत्त्वमुपलभ्य न च तथा वायुर्निष्क्रिय इत्युपसंहारः। निष्क्रियत्वप्रतिषेधेन क्रियावत्त्वमुपसंहरतीति। पृथग्‌वचनन्तु प्रतिषेधाभिप्रायेणैव।
ननु व्यर्थमनुसन्धानवचनम्, तदन्तरेणापि हेतुवचनाद् गृहीतव्याप्तिकात् साध्यसिद्धेः? न, अनेन विना अबाधितविषयत्वस्याप्रतिपत्ते। हेतुवचनन्तु कारणमात्रोपस्थापकम्, न तु गृहीतव्याप्तिकस्य अन्तर्व्याप्तिप्रतिपादकमिति। यथाभूतेन द्रव्यत्वाविनाभाविना प्रमाणान्तराविरुद्धेन क्रियावत्त्वेन क्रियावान् करः, तथा च वायुरित्यन्तर्व्याप्तिप्रतिपत्तिः। तदभावे तु बहिर्व्याप्तिसद्भावेऽपि न गमकत्वम्। यथा शब्दस्य अनित्यत्वे साध्ये सामान्यवत्त्वे सति चाक्षुषप्रत्यक्षः, तस्य कालात्ययापदिष्ट[स्य?त्वं]चेति। अत एवात्रोपनयवचनं न निर्विषयत्वादप्रमाणम्।
न चोपसंहार विना धर्मिविशेषेण सम्बन्धाप्रसिद्धौ तत्रैव साध्यविशेषप्रतिपत्तिः स्यात्। स्वार्थानुमानकाले च उपनयार्थस्योपलब्धेः कार्यं तद्‌वचनम्, स्वप्रतिपत्त्यनुसारेण परार्थानुमानप्रवृत्तेः। न च स्वप्रतिपत्तावेतस्यासत्वम्, अविनाभावसम्बन्धस्मरणानन्तरं परामर्शज्ञानस्यानुभवात्। अनभ्युपगमे च सम्बन्धस्मपणस्यानियतत्वात् नियतप्रदेशे प्रतिपत्तिर्न स्यादित्युक्तम्।
तस्माद् अयमित्यपरोक्षतानिर्देशस्याविनाभावसम्बन्धस्मरणानन्तरमुपलब्धेरस्ति परामर्शज्ञानम्, अतस्तदुपन्यासार्थं कार्यमनुसन्धानवचनमिति।
अनुमेयत्वेनोद्देष्टे चानिश्चिते च परेषां निश्चयापादनार्थं प्रतिज्ञायाः पुनर्वचनं प्रत्याम्नायः। प्रतिपाद्यत्वेनोद्दिष्टे चानिश्चिते च परेषां हेत्वादिभिरवयवैराहितशक्तीनां परिसमाप्तेन वाक्येन निश्चयापादनार्थं प्रतिज्ञायाः पुनर्वचनं प्रत्याम्नायः, तस्माद् द्रव्यमेवेति।
अथ प्रत्याम्नायस्वरूपोपदर्शनार्थम् *अनुमेयत्वेनोद्दिष्टे* इत्यादि प्रकरणम्। *अनुमेयत्वेन* अनुमानयोग्यत्वेन। *उद्दिष्टे चानिश्चिते[च] परेषाम्* संशयितविपर्यस्ताव्युत्पन्नानाम्। पुनः *निश्चयापादनार्थं प्रतिज्ञायाः [पुनः]वचनं प्रत्याम्नायः*।
सङ्ग्रहोक्तेर्विवरणमाह अनुमेये धर्ममात्रे *प्रतिपाद्यत्वेन* साध्यत्वेन, *उद्दिष्टे चानिश्चिते च परेषाम्*। किं विशिष्टानाम्? *हेत्वादिभिर[?वयवैरा]हितशक्तीनाम्* इति. आहिता शक्तिरविनाभावो यस्य लिङ्गस्य यैस्तैस्तथोक्तैस्तेषाम्। एतस्मात् साधनाद् भविष्यति साध्यसिद्धिरित्येवं कृतास्थानामिति[भावः]। *निश्चयापादनार्थं प्रतिज्ञायाः पुनर्वचनं प्रत्याम्नायः* इति। पुनरुक्तमात्रव्यवच्छेदार्थं प्रतिज्ञायाः पुनर्वचनमिति पदम्। तथापि अनित्यः शब्दोऽनित्यः शब्द इति पुनरुक्तव्युदाप्तार्थं निश्चयापादनार्थमिति पदम्। अविप्रतिपन्नस्य एतस्मादपि निश्चयो भवतीति तदर्थं परेषामिति। तथापि तेषां मध्ये कस्यचिद् एकावयवोपदर्शनेन अन्वयव्यतिरेकानुस्मरणद्वारेण अर्थप्रतिपत्तिर्भवतीति *परिसमाप्तेन वाक्येन* इति ग्रहणम्। यस्मिन्नवयवे सति वाक्यं परिसमाप्यत इति। तदेवं प्रत्याम्नायः इतरस्माद् भिद्यते यथोक्तलक्षणत्वादिति।
ननु प्रतिज्ञावचनस्य तु विनाशित्वेन अवस्थानासम्भवात् कथं पुनर्वचनमिति? तत्समानशब्दोच्चारणात्। यथा क्षणिकत्वेऽपि कर्मणः पूर्वं समानाभिनयकरणात् पुनर्नृत्यतीति व्यपदेशस्तद्वत् प्रतिज्ञासमान[शब्द]प्रयोगकरणात् पुनर्वचनमिति व्यपदेशो भवत्येव। अतिशये `पुनः' शब्दो विवक्षित इति प्रतिज्ञा पक्षस्तस्य पुनर्वचनं घटतएव।
लिङ्गवाक्यार्थवादिनस्तु प्रतिज्ञायतेऽनेनेति प्रतिज्ञा लिङ्गं तस्य पुनर्वचनं प्रत्याम्नाय इति।
उदाहरणन्तु *तस्माद् द्रव्यमेवेति*। एतेन अद्रव्यत्वप्रतिपादकप्रमाणाभावोऽप्युपदर्शित एव।
अथ व्यर्थं प्रत्याम्नायवचनम्, सम्बन्धाभिधानादेव विवक्षितार्थप्रसिद्धेः। तदुक्तम्,
`(4)डिण्डिकरागं परित्यज्याक्षिणी निमील्य चिन्तय तावत् किं इयतार्थप्रतिपत्तिर्भवति नवेति। यदि इह भवति किमनया शब्दमालया? न भवतीति न वाच्यं दृष्टत्वात्' (हेतुविन्दुः, बड़ोदा, पृष्ठ 56)
(F.N) {4. डिण्डिका नग्नाचार्याः। ते निष्फलमुपर्युपरि(*) नामलेखने प्रसक्तास्ततस्तेषामिव `परेणोक्ते तस्योपरिमया अवश्यमयुक्ततया निष्फलमपि अभिधानीयम् ित्यस्थानाभिनिवेशं त्यक्त्वा अक्षिणी निमील्य बहिर्विक्षेपमुपसंहृत्य चिन्तय तावत् किमियता पक्षधर्मसम्बन्धवचनमात्रकेण वाक्येन साध्यस्य प्रतीतिः स्यान्नवेति। भावे प्रतीतेः, किं प्रपञ्चमालया प्रतिज्ञोपनयनिगमनलक्षणया, बालप्रतारकतद्रूपयोगवर्णनलक्षणया वा। (अर्चटभट्ट कृता हेतुविन्दुटीका, व़ड़ोदा, पृ. 71, पं. 1-14।'}
{(*) उपरीति। प्रकरणादन्यकृतस्य नाम्न इति द्रष्टव्यम्। तथाहि तेकस्यचिद् राजपुत्रस्य महामात्रस्य वा योगिनान्येन सजातीयेन कृतं नाम श्रुत्वा अहोपुरुषिकया धनाशया चोदिता अनय्था वा तदुत्साहवर्धनं नाम कृत्वा तल्लिखितुं प्रयुञ्जतेऽत एव नामलेखनमिति णिचा निर्द्दिष्टम्। (दुर्वेकमिश्रकृतहेतुविन्दुटीकाटीका आलोकः, वड़ोदा, पृ. 320, पं. 7-10।}
नैतदेवं, प्रतिज्ञावचनं विना अन्वयव्यतिरेकाप्रसिद्धौ सम्बन्धाभिधानस्यागमकत्वेन पूर्वमेव व्यवस्थापितत्वात्
न ह्येतस्मिन्नसति परेषामवयवानां समस्तानां व्यस्तानां वा तदर्थवाचकत्वमस्ति। गम्यमानार्थत्वादिति चेन्न, अतिप्रसङ्गात्। तथाहि, प्रतिज्ञानन्तरं हेतुमात्राभिधानं कर्तव्यम्, विदुषामन्वयव्यतिरेकस्मरणात् तदर्थावगतिर्भविष्यतीति। तस्मादत्रैवार्थपरिसमाप्तिः।
कथम्? अनित्य इत्यनेन अनिश्चितानित्यत्वमात्रविशिष्टः शब्दः कथ्यते। प्रयत्नानन्तरीयकत्वादित्यनेन अनित्यत्वसाधनं धर्ममात्रमभिधीयते। इह यत् प्रयत्नानन्तरीयकं तदनित्यं दृष्टम्, यथा घट इत्यनेन साध्यसामान्येन साधनसामान्यस्य अनुगममात्रमुच्यते। नित्यम् अप्रयत्नानन्तरीयकं दृष्ट्, यथा आकाशम् इत्यनेन साध्याभावेन [सह] साधनस्य असत्त्वं प्रदर्श्यते। तथा च प्रयत्नानन्तरीयकः शब्दो दृष्टः, न च तथा आकाशवदप्रयत्नानन्तरीयकः शब्द इत्यन्वयव्यतिरेकाभ्यां दृष्टसामर्थ्यस्य साधनसामान्यस्य शब्देऽनुसन्धानं गम्यते। तस्माद् अनिन्यः शब्द इत्यनेन अनित्य एव शब्द इति प्रतिपिपादयिषितार्थपरिसमाप्तिर्गमय्ते।
तस्मात् पञ्चावयवेनैव वाक्येन परेषां स्वनिश्चितार्थप्रतिपादनं कियत इत्येतत् परार्थानुमानं सिद्धमिति।
अथ प्रतिज्ञादेरेवार्थप्रतिपादकत्वमस्तु, किं प्रत्याम्नायेन, तथाहि, प्रतिज्ञावचनैर्विषयव्यवस्थापनाद् हेतूदाहरणाभ्यां वहिर्व्याप्तिप्रसिद्धौ उपनयेनान्तर्व्याप्त्युपदर्शने सति अवश्यमभिप्रेतार्थसिद्धिरिति। सत्यमेतत्, तथापि अवश्यम्भाविनोऽर्थस्य प्रतिज्ञादिना प्रतिपादितस्य प्रतिपादनार्थमवश्यं कार्य निगमनमित्याह *न ह्येतस्मिन्* इति। न पूर्वेषामवयवानां समस्तानां तदर्थवाचकत्वमस्ति। व्यस्तानामितरेतरव्यावृत्तस्वार्थव्यवस्थापने चरितार्थत्वमित्यन्यदतो वाच्यं यस्य सहकारिणां पूर्वपदानां समस्तानामपि स्मृत्युपस्थापितानां वाक्यार्थप्रतिपादकत्वमिति।
अथ साधनस्य अन्तर्व्याप्तिबहिर्व्याप्त्यभिधाने सति साध्यविशेषो गम्यत एवेत्याह *गमय्मानार्थत्वादिति चेन्न, अतिप्रसङ्गात्। तथाहि, प्रतिज्ञोनन्तरं हेतुमात्राभिधानं कर्तव्यम्* स्वत एव विदुषां हेतूपलम्भे सति अन्वयव्यतिरेकानुस्मरणं, तस्माच्चार्थाधिगतिर्भविष्यतीति विशेषाभिधानवैयर्थ्यं स्यात्।
अथ परं प्रतिपादयता वचनेनैव प्रतिपादनं कार्यमिति शेषाणां प्रयोगः? तर्हि वाक्यार्थप्रतिपादनार्थं निगमनमपि कार्यम्। न च प्रतिपाद्याभिप्रायेण प्रयोगो युक्तः, तस्य मनुष्यधर्मणा साक्षादप्रतीतेरव्यवस्थापनाच्च। तथाहि, कश्चिदेकस्मादेव अवयवादर्थं प्रतिपद्यते, कश्चिद् द्वाभ्याम्, अन्यस्त्रिभिरित्यनवस्थितत्वात् प्रतिपाद्यानां तदभिप्रायानिश्चये प्रयोगानुपपत्तिरेव स्यात्। अतः परं प्रतिपादयता स्वप्रतिपत्त्युपायोपगर्शनं कार्यमिति पञ्चानां प्रयोगो युक्तः. तथाहि, प्रदेशस्थं धूममुपलभ्य अविनाभावसम्बन्धं स्मृत्वा तथा चायं धूमवानिति परामृशति, ततः साध्यं प्रतिपद्यते तस्मादग्निमानिति निगमनार्थस्याप्युपलब्धेः परप्रतिपादनाय तदुपन्यासो युक्त एवेति पञ्चानां प्रयोगः कार्य इत्याह भाष्यकारः *तस्मादत्रैवार्थपरिसमाप्तिः* इति।
अन्ये तु अन्तर्व्याप्तिप्रतिपादनार्थं निगमनमिति मन्यन्ते। अनुसन्धानात् पक्षव्यापकत्वप्रसिद्धौ विपरीतप्रसङ्गप्रतिषेधार्थं निगमनमिति।
विपरीतार्थव्यवस्थापकप्रमाणस्याप्रामाण्योपदर्शने सति पक्षे व्याप्तिः प्रतीयत एव। यत्र च परपक्षाप्रतिषेधस्तत्र हेतोर्न गमकत्वम्। यथा मूर्खोऽसौ तत्पुत्रत्वात् उपलभ्यमानतत्पुत्रवदिति। अत्र हि तत्पुत्रस्य अमूर्खत्वे न किञ्चिद् बाधकमस्तीति तत्साधकप्रमाणाभावश्च निश्चित एवेति अन्यथासिद्धं साधनमेतत्।
अथाविनाभूतस्य प्रमाणविरोधाभावान्न युक्तं विपरीतप्रमाणस्याप्रामाण्योपदर्शनमिति चेन्न, तदन्तरेणाविनाभावस्यैवाप्रसिद्धेः। तथाहि, नित्यत्वप्रतिपादकप्रमाणस्य प्रामाण्ये सति न शब्दे कृतकत्वस्यानित्यत्वेन व्याप्तिः स्यादिति। न च परपक्षप्रतिषेधकादेव स्वपक्षसिद्धिः, व्यधिकरणत्वात्, हेतोरपि वैयर्थ्यप्रसङ्गाच्चेति। परपक्षप्रतिषेधे तूपदर्शितबहिर्व्याप्तिकं पक्षे चोपलभ्यमानं भवत्येव साधनमिति निगमनप्रयोगः कार्यः।
अथ प्रतिज्ञावचनमेव परपक्षप्रतिषेधसहायं साधनमिति चेन्न, तस्य साध्यमात्राभिधायकत्वात्, साध्यम् इति अर्हत्यर्थे, शक्यार्थे वा कृ[त्य?ता]भिधानात् कथं तद्वचनात् तस्य सिद्धिः? तस्माद् बहिर्व्याप्तिवदन्तर्व्याप्तिं समर्थयता अबाधितविषयत्वासत्प्रतिपक्षत्वप्रतिपादनार्थमेव अवयवान्तरमभिधेयम्।
अथ प्रकरणसमकालात्यापदिष्टयोरपि बहुर्व्याप्तिसद्भावात् गमकत्वं स्यात्, अस्ति च तयोः पक्षव्यापकत्वे सत्यन्वयव्यतिरेकसद्भाव इति? अयुक्त [मेतत्,] तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धायत्तस्तु अव्यभिचारो न भवतीत्युक्तं व्याप्तिसमर्थनावसरे। तस्मादुक्तन्यायेन अत्रैवार्थपरिसमाप्तिरिति।
एवं विभिन्नप्रकरणेषु अवयवानां स्वरूपोपदर्शनेऽपि एकत्र तत्स्वरूपपरिज्ञानापेक्षया प्रश्नः *कथम्* इति। *अनित्यः शब्द इत्यनेन अनिश्चितानित्यत्वमात्रविशिष्टः शब्दः कथ्यते* इति प्रतिज्ञैषा। *प्रयत्नानन्तरीयकत्वादित्यनेन अनित्यत्वसाधनधर्ममात्रमभिधीयते* न तु समर्थमिति हेतुवचनम्। *इह यत् प्रयत्नानन्तरीयकं तदनित्यं दृष्टं यथा घट इत्यनेन साध्यसामान्येन (सह?)साधनसामान्यस्यानुगममात्रमुच्यते* इति साधर्म्योदाहरणम्। *नित्यम् अप्रयत्नानन्तरीयकं दृष्टं यथा आकाशम् इत्यनेन साध्याभावेन [सह] साधनस्यासत्त्वं [व्याख्यायते ? प्रदर्श्यते]* इति वैधर्म्योदाहरणम्। *तथा च प्रयत्नानन्तरीयकः शब्द* न च तथा प्रयत्नानन्तरीयको न भवतीति, *अन्वयव्यतिरेकाभ्यां दृष्टसामर्थ्यस्य साधनसामान्यस्य शब्देऽनुसन्धानं गम्यते*। *तस्मादनित्यः [एव ? शब्दः] इत्यनेन अनित्य एव शब्द इति प्रतिपिपादयिषितार्थपरिसमाप्तिर्गम्यते* इत्यभिप्रेतार्थ सिद्धिर्भवतीति। अतः *पञ्चावयवेनैव वाक्येन परेषां स्वनिश्चितार्थप्रतिपादनं क्रियते* इति सिद्धम्।
अत्र च शब्दविशेषस्य पक्षीकरणे प्रयत्नानन्तरीयकत्वं साधनं विवक्षितमिति ज्ञेयम्। अन्यथा हि शब्दमात्रपरिग्रहे प्रयत्नानन्तरीयकत्वं भागासिद्धं स्यात्। न हि प्रयत्नानन्तरं सर्वशब्दानां जन्मास्तीति।
निर्णयवैधर्म्यम्
विशेषदर्शनजमवधारणज्ञानं संशयविरोधी निर्णयः। एतदेव प्रत्यक्षमनुमानं वा। यद्‌विशेषदर्शनात् संशयविरोध्युत्पद्यते स प्रत्यक्षनिर्णयः। यथा स्थाणुपुरुषयोरूर्ध्वतामात्रसादृश्यालोचनाद् विशेषेष्वप्रत्यक्षेषु उभयविशेषानुस्मरणात् किमयं स्थाणुः पुरुषो वेति संशयोत्पत्तौ[सत्यां?]शिरःपाण्यादि[विशेष?]दर्शनात् पुरुष एवायमित्यवधारणज्ञानं प्रत्यक्षनिर्णयः।
विषाणमात्रदर्शनाद् गौर्गवयो वेति संशयोत्पत्तौ सास्नामात्रदर्शनाद् गौरेवायमित्यवधारणज्ञानमनुमाननिर्णयः।
अथ निर्मयो विद्यान्तरमिति केचित्। तन्निषेधार्थं *विशेषदर्शनजम्* इत्यादि प्रकरणम्। परार्थानुमानानन्तरमस्यान्तर्भावनिरूपणमत्रापि अन्तर्भावज्ञापनार्थम्। निर्णय इति लक्ष्यनिर्देशोऽवशिष्टं लक्षणम्। अवधारणज्ञानं हि विपर्ययज्ञानमपि भवति न तु विशेषदर्शनाज्जायते। विशेषदर्शनजं [चोभ ? च संश] यज्ञानमपीत्यवधारणग्रहणम्।
तथापि विशेषदर्शनजमवधारणज्ञानं निर्णय इत्युक्ते व्यभिचाराभावाद् व्यर्थं संशयविरोधीति पदम्? न, विशिष्टनिर्णयलक्षणार्थत्वात्। यद्यपि विशेषदर्शनजमवधारणज्ञानमिति सकलनिर्णयव्यापीदं सामान्यलक्षणं तथापि संशयविरोधीति पदं संशयपूर्वकस्य निर्णयस्य लक्षणार्थम्। तथा च नैयायिकैरुक्तं `विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः' (न्या. सू. 1।1।41) इति संशयपूर्वकस्य लक्षणम्। विमृश्येति विमर्शं कृत्वा, पक्षप्रतिपक्षाभ्यामिति तद्वचनाभ्याम्, स पुनः साधनदूषणाभ्यां निर्णय इति।
अथ विशेषदर्शनात् संशयो व्यावर्तते, न निर्णयादिति कथं तद्‌विरोधित्वम्? उपचारेण, निर्णयकारणस्य संशयविरोधित्वात् निर्णयस्तद्‌विरोधीत्युक्तम्।
अस्यान्तर्भावमाह *एतदेव प्रत्यक्षमनुमानं वा* न ज्ञानान्तरम्। प्रत्यक्षसामग्रीजन्यं हि प्रत्यक्षमनुमानसामग्रीजन्यन्तु अनुमानमिति। *यद् विशेषदर्शनात् संशयविरोध्युत्पद्यते स निर्णयः* इति प्राक्तनस्य विवरणम्।
अत्र *स्थाणुपुरुषयोरूर्ध्वतामात्रसादृश्यालोचनाद् विशेषेष्वप्रत्यक्षेषूभयविशेषानुस्मरणात्* [किमयं] स्थाणुः पुरुषो वेति संशयोत्पत्तौ सत्यां शिरः पाण्यादिविशेषदर्शनात् पुरुष एवायमित्यवधारणज्ञानम् *इनद्‌रियार्थसन्निकर्षादुत्पत्तेः प्रत्यक्षनिर्णयः*। *विषाणमात्रदर्शनात्* इति पिण्डव्यवधानेऽपि सादृश्यविशिष्टविषाणदर्शनात्। *गौर्गवयो वेति संशयोत्पत्तौ* सत्याम्। *सास्नामात्रदर्शनात्* अविनाभावसम्बन्धस्मरणे सति परामर्शज्ञानानन्तरम्। *गौरेवायमित्यवधारणज्ञानं अनुमाननिर्णयः*।
स्मृतिवैधर्म्यम्
लिङ्गदर्शनेच्छानुस्मरणाद्यपेक्षादात्ममनसोः संयोगविशेषात् पट्वभ्यासादरप्रत्ययजनिताच्च संस्काराद् दृष्टश्रुतानुभूतेष्वर्थेषु शेषानुव्यवसायानुस्मरणेच्छाद्वेषहेतुरतीतविषया स्मृतिरिति।
अथ स्मृतेः कार्यकारणविषयस्वरूपनिरूपणार्थं *लिङ्गदर्शनेच्छा[नु] स्मरणाद्यपेक्षात्* इत्यादि प्रकरणम्। [*लिङ्गदर्शनेच्छानुस्मरणाद्यपेक्षात्*] लिङ्गदर्शनञ्च इच्छा च अनुस्मरणञ्चेति तथोक्तानि, तान्यादिर्येषामित्यादिपदेन प्रणिधानादेर्ग्रहणम्, तान्यपेक्षत इति तदपेक्षस्तस्मात्। *आत्ममनसोः संयोगविशेषात्* इत्यसमवायिकारणनिर्देशः। लिङ्गदर्शनेच्छानुस्मरणाद्यपेक्षात् *पट्वभ्यासादरप्रत्ययजनिताच्च संस्कारात्* इति निमित्तकारणनिर्देशः। *दृष्टशृतानुभूतेष्वर्थेषु* इति दृष्टः प्रत्यक्षेण, श्रुतः शब्देन, अनुभूतोऽनुमानेन।
अन्ये तु दृष्टश्चक्षुषा, अनुभूतस्त्वगिन्द्रियेणेति।
तत्र लिङ्गं दर्शयति *शेषानुव्यवसायानुस्मरणेच्छाद्वेषहेतुः* इति। उपयुक्ताल्लिङ्गाद् अनुमेयः शेषः, सोऽनुव्यवसीयते अनेनेति शेषानुव्यवसायः परामर्शज्ञानम्, तस्य हेतुरविनाभावसम्बन्धस्मरणम्, तथा पदस्मरणाद् वाक्यस्मरणम्, सुखस्मरणादिच्छा दुःखस्मरणाद् द्वेष इति। *अतीतविषया* इति स्वरूपकथनम्। अतीतो विषयो यस्याः सा तथोक्तेति।
नन्वयुक्तमेतत्, विद्यमानेऽपि वस्तुनि स्मरणस्य दर्शनादित्यव्याप्तिः, अतिव्याप्तिश्च अनुमानादेरतीतविषयत्वादिति।
अथ चोदनैव भूतं भविष्यन्तं विप्रकृष्टादिकमर्थं प्रकाशयति नानय्त् किञ्चन इन्द्रियादिकमिति चेन्न, अनुमानस्यापि अतीताद्यर्थप्रकाशकत्वेनोपलम्भात्। तथा च, मेघोन्नत्या भविष्यति वृष्टिरित्यनुमीयते, नदीपूराच्च विशिष्टाद् उपरिष्टाद् वृष्टिरित्युक्तम्। प्रत्यक्षञ्चात्र अविनाभावग्राहकमभ्युपेयम्, अन्यथा व्याप्तिग्रहणाभावेऽनुमानमेव न प्रवर्तेत। न चानुमानेनैवाविनाभावग्रहणम्, अनवस्थाप्रसङ्गात्। वर्तमानेन चाविनाभावग्रहणे कथम् अतीताद्यर्थानुमानं स्यात्, अन्येनाविनाभावग्रहणेऽन्यस्यानुमित्तौ अतिप्रसङ्गात्। तस्मादतीतविषयत्वं व्याख्येयमुपचारेण। यत्र हि विषयेऽनुभवोऽतीतस्तत्र स्मृतिरुत्पद्यत इति।
अन्ये तु अतीतो व्यवहितो विषयो यस्यानुभवस्यासौ अतीतविषयः, स विषयो यस्याः सा अतीतविषयेति प्राप्ते सति एकस्य विषयस्य लोपोद्रष्टव्य इत्यतीतानुभवविषयत्वं लभ्यत इति मन्यन्ते।
अथ अर्थजत्वमेव स्मृतेः कस्मान्नेष्यते? अर्थविनाशेऽप्युत्पादात्। न च यद्देशकालालिङ्गितेऽनुभवज्ञानमुत्पन्नं तदालम्बनमेव न्याय्यम्, स्मृतिकाले तस्याविद्यमानतया विषयत्वाभावात्। बाह्येन्द्रियाणाञ्च स्मृतिजन्मनि प्रत्येकं व्यभिचारादन्तःकरणस्य व्यापारो निश्चीयते। न च तस्य स्वातन्त्र्येण बहिर्विषये व्यापारः सम्भवतीति अनर्थजत्वमेव न्याय्यम्। अवश्यञ्च अर्थजत्वे सति अव्यभिचारित्वादिधर्मोपेतत्वात् प्रमारूपतायां स्मृतेः प्रमाणादुत्पत्तिर्वाच्या। अनुमानादेश्च व्यापारानुपलब्धेरन्तःकरणस्य स्वातन्त्र्येण तदुत्पत्तौ प्रामाण्ये सति स्मृतेरपरोक्षत्वं स्यात्, न चैतदस्ति, तस्मान्निर्विषयत्वमेव।

आर्षज्ञानवैधर्म्यम्
आम्नायविधातॄणोमृषीणामतीतानागतवर्तमानेष्वतीन्द्रियेषु धर्मादिषु ग्रन्थोपनिबद्धेष्वनुपनिबद्धेषु च आत्ममनसोः संयोगाद् धर्मविशेषाच्च यत् प्रातिभं यथात्मनिवेदनं ज्ञानमुत्पद्यते तद् आर्षमित्याचक्षते। तत्तु प्रस्तारेण देवर्षीणाम्, कदाचिदेव लौकिकानाम्, यथा कन्यका ब्रवीति श्वो मे भ्राता आगन्तेति हृदयं मे कथयतीति।
अथ आर्षज्ञानस्य कारणविषयप्रमाणनिरूपणार्थम् *आम्नायविधातॄणाम्* इत्यादि प्रकरणम्। आम्नायो वेदः श्रुतिस्मृतिलक्षणः, तस्य विधातारः कर्तारः, तेषामृषीणामुत्पद्यते *यत् प्रातिभं ज्ञानम्* इति प्रतिभया संस्कारविशेषेण निर्वर्त्तितम्। *यथात्मनिवेदनम्* यथा तस्य पदार्थस्यात्मा स्वरूपं तन्निवेदनम् तदालम्बनमुत्पद्यते *तद् आर्षमित्याचक्षते*। केष्वर्थेषूत्पद्यते? *अतीतानागतवर्तमानेषु*। किंविशिष्टेषु? *अतीन्द्रियेषु धऱ्मादिषु* आदिपदेन परमाण्वादेर्ग्रहणमिति। *ग्रन्थोपनिबद्वेष्वनुपनिबद्धेषु च* ग्रन्थोपनिबद्धेषु[आर्त्मादिषु], अनुपनिवद्धेषु च [परमाण्वादिषु]इयान् धर्म इति। कुतः कारणादेषु यथार्थविज्ञानम्? *आत्ममनसोः संयोगात्* असमवायिनः, *धर्मविशेषाच्च* निमित्तादिति। *तत्तु प्रस्तारेण* ऋषीणामतस्तदार्षम्। तत्तु कदाचिदेव लौकिकानामप्यर्षीणामेवंविधं विज्ञानमस्तीति। किम[स्मदादीनां?त्र] प्रमाणमित्याह *कदाचिदेव लोकिकानाम्* तत् प्रातिभं ज्ञानमिति। *यथा कन्यका ब्रवीति श्वो मे भ्राता आगनत्ेति*। न चेन्द्रियजं तत्, [तद्]व्यापारं विनाप्युत्पत्तेः।
अथ बाह्येन्द्रियाणां व्यापारासम्भवेऽपि अन्तःकरणस्य व्यापारात् प्रत्यक्षफलत्वम्। सम्बन्धोऽपि इन्द्रियेण सह भ्रातुः संयुक्तविशेषणविशेष्यभावः। तथाहि, तद्‌विशिष्टमात्मानं देशं कालं वा आलम्ब्योत्पद्यते ज्ञानमेतद् इत्युक्तं परैः। तच्चासत्, अस्यापरोक्षत्वा[नुप?]पत्तेः। यत्र हि अपरोक्षज्ञानं तत्रैव इन्द्रियव्यापारकल्पना क्रियते। न चात्र तदस्तीति। न च बहिर्विषये विशेषणेऽपि मनसः स्वातन्त्र्येण व्यापारः सम्भवतीत्युक्तम्। लिङ्गलिङ्गिसम्बन्धानुस्मरणानुभवाच्च नानुमानजम्। शब्दं विनाप्युत्पत्तेर्न शाब्दम्। अतः प्रमाणान्तरफलमेतत्। तथा प्रश्ने कृते सति न प्रत्यक्षादिकं निर्दिशति, अपि तु *हृदयं मे कथयतीति* ब्रूते।
अथ कस्मात् प्रत्यक्षानुमानानन्तरमार्षज्ञानस्य न निरूपणम्? अस्मदादीनां तेन व्यवहाराभावात्। यतस्तत्तु प्रस्तारेण ऋषीणामेव, कदाचिदेव लौकिकानामिति।
सिद्धदर्शनस्य विद्यान्तरत्वनिरासः
सिद्धदर्शनं न ज्ञानान्तरम्। कस्मात्? प्रयत्नपूर्वकम् अञ्जनपादलेपखड्गगुलिकादिसिद्धानां दृश्यद्रष्टॄणां सूक्ष्मव्यवहितविप्रकृष्टेष्वर्थेषु यद् दर्शनं तत्प्रत्यक्षमेव। अथ दिव्यान्तरिक्षभौमानां प्राणिनां ग्रहनक्षत्रसञ्चारादिनिमित्तं धर्माधर्मविपाकदर्शनमिष्टं तदप्यनुमानमेव। अथ लिङ्गानपेक्षं धर्मादिषु दर्शनमिष्टं तदपि प्रत्यक्षार्षयोरन्यतरस्मिन् अन्तर्भूतमित्येवं बुद्धिरिति।
सिद्धदर्शनं विद्यान्तरमिष्टं परैस्तन्निषेधार्थमाह *सिद्धदर्शनं न ज्ञानान्तरम्* इति। आर्षज्ञानानन्तरमस्य अन्तर्भावनिरूपणम् आर्षेऽप्यन्तर्भावार्थम्। यत् सिद्धानां दर्शनमुत्पद्यते तत्प्रत्यक्षमेव। केष्वर्थेषु? *सूक्ष्मव्यवहितविप्रकृष्टेषु* इति। सूक्ष्माः परमाणवः, व्यवहिता नागभुवनादयोऽस्मदादीन्द्रियापेक्षया। न तु सिद्धेन्द्रियाणां व्यवधायकमस्ति। विप्रकृष्ट मेर्वादयः, तेषु। सिद्धानां किं विशिष्टानाम्? मुक्तात्मव्यवच्छेदार्थं *दृश्यद्रष्ट्ट़णाम्* इति। किञ्च तेषां सद्भावे प्रमाणमित्याह *दृश्यानाम्*। कदाचिद् अञ्जनादिवियुक्ताः प्रत्यक्षेणाप्युपलभ्यन्ते। का पुनस्तेषां सिद्धिरित्याह *अञ्जनपादलेपखड्गगुलिकादिसिद्धानाम्* इति। आदिपदेन चिन्तामणिप्रभृतीनां ग्रहणम्। अञ्जनादिवशाच्च सिद्धेन्द्रियाणां सूक्ष्माद्यर्थप्रकाशनम्, अतः *तत् प्रत्यक्षमेव* [न] ज्ञानान्तरमिति।
अथ ज्योतिषामयनं दृष्ट्वा प्राणिनां शुभमशुभं वा भविष्यतीति ज्ञानं प्रमाणान्तरमिष्टं तन्निषेधार्थम् *दिव्यान्तरिक्षभौमानाम्* इत्यादि। दिवि भवं दिव्यमुल्कापातादि, अन्तरिक्षे भवञ्चान्तरिक्षं दिग्दाहादि, भूमौ भवं भौमं भूसञ्चलनादि, तेषाम्। *ग्रहनक्षत्रसञ्चारादिनिमित्तम्* उपलभ्य प्राणिनां धर्माधर्मयोर्विपाकः फलदानसामर्थ्यं तद्दर्शनं[न] ज्ञानान्तरमिष्टम् *तदप्यनुमानमेव* लिङ्गदर्शनानु[बन्ध]स्मरणादिजन्यत्वात्।
यद् वा दिव्यान्तरिक्षभौमानां सुरसिद्धमनुष्याणां प्राणिनां ग्रहनक्षत्रसञ्चारादिनिमित्तमुपलभ्य धर्माधर्मयोर्विपाकदर्शनमिष्टं तदप्यनुमानमेवेति।
अथ लिङ्गानपेक्षं धर्माधर्मादिषु दर्शनमिष्टं तदपि यदि इन्द्रियार्थसन्निकर्षादपरोक्षमुत्पद्यते प्रत्यक्षमेव। अथेन्द्रियार्थसन्निकर्ष विनैव धर्मविशेषादुत्पद्यते तथाप्यार्षमित्याह *प्रत्यक्षार्षयोरन्यतरस्मिन्नन्तर्भूतमिति*। *एवं बुद्धिरिति* उपसंहारः परोपगताया बुद्धेर्विनाशपर इति।
सुखवैधर्म्यम्
अनुग्रहलक्षणं सुखम्। स्रगाद्यभिप्रेतविषयसान्निध्ये सति इष्टोपलब्धीन्द्रियार्थसन्निकर्षाद् धर्माद्यपेक्षाद् आत्ममनसोः संयोगाद् अनुग्रहाभिष्वङ्गनयनादिप्रसादजनकमुत्पद्यते तत् सुखम्। अतीतेषु विषयेषु स्मृतिजम्। अनागतेषु सङ्गल्पजम्। यत्तु विदुषाम् असत्सु विषयानुस्मरणेच्छासङ्कल्पेष्वाविर्भवति तद् विद्याशमसन्तोषधर्मविशेषनिमित्तमिति।
अथ बुद्धेरनन्तरं सुखस्य कार्यकारणस्वरूपोपदर्शनार्थम् *अनुग्रहलक्षणं सुखम्* इत्यादि। अनुग्रहलक्षणमनुग्रहस्वरूपम्। यस्मिन्नुत्पन्ने सति आत्मा अनुगृहीतमात्मानं मन्यत इति। *स्रगाद्यभिप्रेतविषयसान्निध्ये सति* इति। स्रगादयश्च ते अभिप्रेतविषयाश्चेति तेषां सान्निध्यम्। अनभिप्रेता रागादयः सुखहेतवो न भवन्तीति अभिप्रेतग्रहणम्। इष्टोपलब्धिश्च इन्द्रियार्थसन्निकर्षश्चेति तथोक्तं तस्मात्। धर्माद्यपेक्षादित्यादिपदेन दिक्‌कालादेर्ग्रहणम्। तान्यपेक्षत इति तदपेक्षस्तस्मात्। इष्टोपलब्धीन्द्रियार्थसन्नकर्षाद् धर्माद्यपेक्षाद् आत्ममनसोः संयोगात् असमवायिकारणाद् आत्मनि सुखमुत्पद्यते। *अनुग्रहाभिष्वङ्गनयनादिप्रसादजनकम्* इति कार्यनिरूपणम्। अनुगृहीतिरनुग्रहः सुखविषयं ज्ञानम्, आसत्तिरभिष्वङ्गः, नयनादिप्रसादः प्रसन्नता। आदिपदेन मुखादिप्रसन्नता गृह्यत इति। तदेतत् असाधारणत्वादितरस्माद् भेदकमिति ज्ञेयम्। न च सर्वं विवेकिनः स्वरूपतो दुःखम्, अनुग्रहात्मकस्य सुखस्याप्यनुभवात्। अतएव न दुःखाभावे सुखव्यवहार इति वाच्यम्। विभिन्नकारणजन्यस्य तीव्रतरादिभेदभिन्नस्य प्रतिभासनात्। एवं दुःखस्यापि न सुखाभावरूपतेति।
यदेतदुक्तं सुखं तत् सन्निहिते वस्तुनि इन्द्रियार्थसन्निकर्षादुत्पद्यते, अतीतानागतेषु स्मरणसङ्कल्पाभ्यामित्याह *अतीतेषु* सुखसाधनेषु, *स्मृतिजम्, अनागतेषु सङ्गल्पजम्* इत्येतद् हेयमुपदर्शितम्।
*यत्तु विदुषामसत्सु [विषयानुस्मरणेच्छासङ्कल्पेषु] विषयानुस्मरणञ्चेच्छा च सङ्कल्पश्चेति तथोक्ताः, तेष्वविध्यमानेष्वाविर्भवति तदुपादेवमेव। *विद्याशमसन्तोषधर्मविशेषनिमित्तम्* इति कारणोपन्यासः। विद्या तत्त्वज्ञानं तस्मात् तत्त्वज्ञानिनां सुखम्। तथा शमो रागादिविनाशः, तस्माच्च शान्तमनसां सुखम्। सन्तोषो विषयेष्वलम्प्रत्यः, तस्माच्च सुखम्। केषाञ्चिद् धऱ्मविशेषाच्चेति।
अन्ये तु विद्यया जनितः सः शमः, तस्मात् सुखमिति। शेषं पूर्ववत्।
दुःखवैधर्म्यम्
उपघातलक्षणं दुःखम्। विषाद्यनभिप्रेतविषयसान्निध्ये सति अनिष्टोपलब्धीन्द्रियार्थसन्निकर्षाद् अधर्माद्यपेक्षादात्ममनसोः संयोगाद् यद् अमर्षोपघातदैन्यनिमित्तमुत्पद्यते, तद् दुःखम्। अतीतेषु सर्पव्याघ्रचौरादिषु स्मृतिजम्। अनागतेषु सङ्गल्पजमिति।
दुःखनिरूपणार्थमाह *उपघातलक्षणम्* उपघातस्वरूपं दुःखमिति। उपहन्यतेऽनेनेति उपहतमात्मानं मन्यत इति। कारणमाह [*विषाद्यनभिप्रेतविषयसान्निध्ये सति*] विषादयश्च तेऽनभिप्रेतविषयाश्चेति, तेषां सान्निध्ये सतीति। अभिप्रेताश्च विषयादयः सुखहेतव एवेत्यनभिप्रेतग्रहणम्। [*अनिष्टोपलब्धीन्द्रियार्थसन्निकर्षादधर्माद्यपेक्षात्*] अनिष्टोपलब्धिश्च इन्द्रियार्थसन्निकर्षश्चेति तथोक्तः, तस्मादधर्मापेक्षादित्यादिपदेन दिक्कालादेर्ग्रहणम्। तस्मादनिष्टोपलब्धीन्द्रियार्थसन्निकर्षाद् अधर्माद्यपेक्षादात्ममनसोः संयोगादसमवायिकारणाद् आत्मनि समवेतं यद् उत्पद्यते तद् दुःखम्। अमर्षोपघातदैन्यानां निमित्तं कारणम्, तदितरस्माद् भेदकमिति ज्ञेयम्। अतीतेषु सर्पादिष्विति कार्यनिरूपणम्। अमर्षोऽसहिष्णुता, उपहतिरुपघातो दुःखालम्बनं ज्ञानमिति। दैन्यं दीनरूपता दुःखादुत्पद्यत इति। तदेतद् असाधारणत्वाद् इतरस्माद् भेदकमिति ज्ञेयम्। *अतीतेषु सर्पव्याघ्रचौरादिषु* दुःखसाधनेषु, *स्मृतिजम्, अनागतेषु सङ्कल्पजमिति*।
इच्छावैधर्मय्म्
स्वार्थं परार्थं वा अप्राप्तप्रार्थनेच्छा। सा चात्ममनसोः संयोगात् सुखाद्यपेक्षात् स्मृत्यपेक्षाद् वा उत्पद्यते। प्रयत्नस्मृतिधर्माधर्महेतुः। कामोऽभिलाषः, रागः सङ्कल्पः, कारुण्यम्, वैराग्यम्, उपधा, भाव इत्येवमादय इच्छाभेदाः। मैथुनेच्छा कामः, अभ्यवहारेच्छा अभिलाषः, पुनः पुनर्विषयानुरञ्जनेच्छा रागः, अनासन्नक्रियेच्छा सङ्कल्पः, स्वार्थमनपेक्ष्य परदुःखप्रहाणेच्छा कारुण्यम्, दोषदर्शनाद् विषयत्यागेच्छा वैराग्यम्, परवञ्चनेच्छा उपधा, अन्तर्निगूढेच्छा भावः। चिकीर्षाजिहीर्षेत्यादिक्रियाभेदाद् इच्छाभेदा भवन्ति।
इच्छायाः कार्यकारणस्वरूपनिरूपणार्थं *स्वार्थं परार्थ वा* इत्यादि। अप्राप्ते वस्तुनि प्रार्थनारूपत्वादिच्छेति। स्वार्थं परार्थं वेति विप्रतिपत्तिनिरासार्थं विभागकथनम्, न केवलं स्वार्थमेव परार्थमपि। उत्पत्तिकारणमाह *सा चात्ममनसोः संयोगात्* असमवायिकारणादुत्पद्यते। किमपेक्षात्? *सुखाद्यपेक्षात् स्मृत्यपेक्षाद् वा* इति। *प्रयत्नस्मृतिधर्माधर्महेतुः* इति कार्यनिरूपणम्। शुद्धाभिसन्धिर्धमंहेतुर्दुष्टाभिसन्धिश्चाधर्महेतुरिति।
अन्येऽपि गुणाः कामादयः सन्ति [च शब्दे ? ते च] किं न सूचिता इति चोद्यस्य परिहारार्थमन्तर्भावं निरूपयति *कामोऽभिलाषो रागः सङ्कल्पः कारुण्यं वैराग्यम् उपधा भाव इत्येवमादय इच्छाभेदाः* तद्‌विशेषा इति। मैथुनेच्छा कामः, तत्सद्भावे कामीति व्यपदेशात्, नेच्छामात्रमिति। अभ्यवहरणेच्छा अभिलाषः, अभिलाषलक्षणेच्छा। सामान्येन सर्वस्मिन् वस्तुनि अभ्यवहरणमादानं विवक्षितम्। तदिच्छा अभिलाष इति चान्ये। *पुनः पुनर्विषयानुरञ्जनेच्छा रागः* तेन हि सता रागीति व्यपदेशात्। अनासन्नक्रियायाम् अनागतक्रियायामिच्छा सङ्कल्पः। *स्वार्थमनपेक्ष्य परदुःखप्रहाणेच्छा* तद्‌विनाशेच्छा कारुण्यम्। दोषदर्शनाद् विषयेषु परित्यागेच्छा वैराग्यम्। तत् सद्‌भावे विरक्तव्यवहारात्। *परवञ्चनेच्छा उपधा। अन्तर्निगूढेच्छा भावः* इति। यद्यपि इच्छा सर्वा अनत्र्न बाह्येति; तथापि इयमन्यापेक्षया कथञ्चिद् विज्ञायत इत्यन्तर्निगूढेत्युच्यते। *चिकीर्षा जिहीर्ष्तेयादिक्रियाभेदादिच्छाभेदा भवन्ति* कर्त्तुमिच्छा चिकीर्षा, हर्तुमिच्छा जिहीर्षेति।
द्वेषवैधर्म्यम्
प्रज्वलनात्मको द्वेषः। यस्मिन् सति प्रज्वलितमिवात्मानं मनय्ते, स द्वेषः। स चात्ममनसोः संयोगाद् दुःखापेक्षात् स्मृत्यपेक्षाद् वोत्पद्यते। प्रयत्नस्मृतिधर्माधर्महेतुः। द्रोहः, क्रोधः, मन्युरक्षमा अमर्ष इति द्वेषभेदाः।
द्वेषनिरूपणार्थमाह[*प्रज्वलनात्मकः*]प्रज्वलनस्वरूपो द्वेषः। *यस्मिन् सति प्रज्वलितमिवात्मानं मन्यते, स द्वेषः* इति पूर्वस्य विवरणम्। *स चात्मनसोः संयोगात्* असमवायिकारणात्, *दुःखापेक्षात् स्मृत्यपेक्षाद् वा* आत्मन्युत्पद्यत इति। *प्रयत्नस्मृतिधर्माधर्महेतुः* इति कार्यनिरूपणम्। यथा हि द्वेषाद् वधादौ प्रवर्त्तमानस्याधर्मो भवत्येवं यजनादौ प्रवर्त्तमानस्य धर्मोऽपीति। भेदनिरूपणार्थमाह *द्रोहः क्रोधे मन्युरक्षमा अमर्ष इति द्वेषभेदाः* तद्विशेषा इति। स्वामिनोऽपकारो द्रोहः, क्रोधस्तु यस्मिन्नुत्पन्ने शरीरेन्द्रियावयवानां विकारः सम्पद्यते। मन्युरपकृतस्यापकर्तुमसमर्थस्य कण्ठाक्षविकारजनकः। अक्षमा असहिष्णुता। अमर्षोऽपकर्तुर्वर्षादिव्यवधानेनाप्य[प]करणम्।
नन्वेते सुखदुःखेच्छाद्वेषाः कथं विज्ञानाद् व्यतिरिच्यन्ते, समानकारणजन्यत्वाद् अन्तर्मुखाकारतया प्रतीयमानत्वाच्चेति कारणभेदेन हि पदार्था भिद्यन्त इत्युक्तम्। [तदुक्तम्]
तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः।
तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ।।
(प्र. वा. 2।251) इति।
तथाहि, केचिद् भावस्तद्रूपिणो धान्यादिरूपिणः, अन्येऽतद्रूपिणस्तद्‌विधर्माण इति। कस्मात्? तदतद्रूपहेतुजत्वात्। धान्यरूपात् कारणादुत्पन्नास्तद्रूपिणः, अन्ये तु विलक्षणा अतद्रूपिणः, इत्युक्ते सत्याह यद्येवं तत्सुखादिविज्ञानेनाभिन्नहेतुजं किमज्ञानमिष्टम्? नैतदेवम्, अभेदे साध्येसमवाय्यसमवायिनिमित्तापेक्षयापि समानकारणजन्यत्वस्य व्यभिचारात्। तथाहि, एकस्मात् समवायिकारणादुत्पद्यन्ते पाकजाः परस्परं विभिन्नाश्चेति। असमवायिकारणन्तु पार्थिवपरमाण्वग्निसंयोगस्तेषामेक एव। तथा एकोऽप्युष्णस्पर्शस्तेषां निमित्तकारणमिति, तदपेक्षयापि व्यभिचारः। सामग्र्यपेक्षया त्वसिद्धं समानकारणजन्यत्वम्, तस्याः प्रतिकार्यनियतत्वात्। उक्तञ्च एकत्रस्रगाद्युपलक्षिता सामग्री कारणम्, अनय्त्रान्यथाभूतेति। तथा प्रतिनियतजातेः प्रागभावस्य चानुप्रवेशे सर्वत्र सामग्रीभेदो भवत्येवेति। अन्तर्मुखाकारतया प्रतीयमानत्वञ्च ज्ञानधर्मैर्व्यभिचारीति। अस्ति च धर्मधर्मिणोर्भेद इत्युक्तम्। तथा ज्ञानस्यानुत्पत्तिविनाशाभ्यां व्यभिचारः, ततोरन्तर्मुखाकारतया प्रतीयमानत्वम्, न च बोधरूपतेत्यलमतिप्रसङ्गेन।
प्रयत्नवेधर्म्यम्
प्रयत्नः संरम्भ उत्साह इति पर्यायाः। स द्विविधो जीवनपूर्वकः, इच्छाद्वेषपूर्वकश्च। तत्र जीवनपूर्वकः सुप्तस्य प्राणापानसन्तानप्रेरकः, प्रबोधकाले च अन्तःकरणस्येन्द्रियान्तरप्राप्तिहेतुः। अस्य जोवनपूर्वकस्य आत्ममनसोः संयोगाद् धर्माधर्मापेक्षादुत्पत्तिः। इतरस्तु हिताहितप्राप्तिपरिहारसमर्थस्य व्यापारस्य हेतुः, शरीरविधारकश्च। स च आत्ममनसोः संयोगाद् इच्छापेक्षाद् द्वेषापेक्षाद् वोत्पद्यते।
अथ प्रयत्नस्य कारणस्वरूपविभागनिरूपणार्थमाह *प्रयत्न- संरम्भ उत्साह इति पर्यायाः* उक्षणम्, असाधारणत्वात्। तथाहि, प्रयत्न इतरस्माद् भिद्यते, अनादिकालप्रवाहायातेत्थम्भूतपर्यायाभिधेयत्वात्, यस्तु न भिद्यते, न चासावेवम्, यथा रूपादिरिति। स द्विविधः कारणभेदादित्याह *जीवनपूर्वक इच्छाद्वेषपूर्वकश्च* जीवनं पूर्वं कारणमस्येति जीवनपूर्वकः। स कथं विज्ञायत इत्याह *सुप्तस्य प्राणापानसन्तानप्रेरकः* इति। येयं सुप्तस्य प्राणापानसन्तानक्रिया, सा प्रयत्नकार्या[शरीर]क्रियात्वात्, जाग्रदवस्थायां प्राणक्रियादिवदिति। न परं प्राणादिसन्तानप्रेरकः *प्रबोधकाले चान्तःकरणस्येन्द्रियान्तरेण प्राप्तेहेतुः* इति। यथा हि प्रबोधसमये येनैवेन्द्रियेणोपलम्भस्तेनैव सम्बन्धार्थमन्तःकरणस्य निरिन्द्रियात्मप्रदेशे वर्तमानस्यावश्यं कर्माभ्युपेयम्, तच्च प्रयत्नकार्यं परिगृहीतान्तःकरणकर्मत्वात्, जाग्रदवस्थायां तत्कर्मवत्। अत एव नादृष्टस्यैवात्र कारणत्वम्, अनुमानेन प्रयत्नकार्यत्वोपलब्धेः। कारणान्तरासम्भवे चादृष्टस्यैव [निमित्त] कारणत्वमिष्यत इति।
स्थिते हि सद्भावे जीवनपूर्वकस्योत्पत्तिकारणमाह *आत्ममनसोः संयोगात्* असमवायिकारणाद् विशिष्टधर्माधर्मापेक्षादुत्पत्तिरिति। इतरस्तु इच्छाद्वेषपूर्वकः *हिताहितप्राप्तिपरिहारसमर्थस्य व्यापारस्य* कायिकव्यापारस्य हेतुः। तथा *शरीरविधारकश्च*। तेन हि प्रतिबद्धं शरीरे गुरुत्वं न पतनमारभते। तस्योत्पत्तिकारणमाह *आत्ममनसोः संयोगात्* असमवायिकारणात्। *इच्छापेक्षाद् द्वेषापेक्षाद् वोत्पद्यते* इति।
गुरुत्ववैधर्म्यम्
गुरुत्वं जलभूम्योः पतनकर्मकारणम्। अप्रत्यक्षम् पतनकर्मानुमेयम्, संयोगप्रयत्नसंस्कारविरोधि। अस्य च अबादिपरमाणुरूपादिवन्नित्यानित्यत्वनिष्पत्तयः।
गुरुत्वस्य लक्षणपरीक्षार्थं *गुरुत्वं जलभूम्योः* इत्यादि प्रकरणम्। अप्रत्यक्षत्वे सति पतनकर्मकारणत्वाद् गुरुत्वम् इतरस्माद् भिद्यते। वेगोऽपि पतनकर्मकारणमित्यप्रत्यक्षग्रहणम्। जलभूम्योरिति आश्रयनिरूपणम्। इतरपदापेक्षं वा लक्षणम्। जलभूम्योरेव वर्त्तमानत्वे सति पतनकर्मकारणत्वाद् गुरुत्वम्। रसोऽपि जलभूम्योरेव वर्त्तमानत्वे सति पतनकर्मकारणत्वाद् गुरुत्वम्। रसोऽपि जलभूम्योरेव वर्तते, न तु पतनकारणम्, अभ्युपगमे [वा?च] कारणातिशयेन कार्यातिशयस्य अन्यत्रोपलब्धेः पाषाणादे रसातिशायाभावेन पातातिशयाभावः, पिप्पल्यादौ च तत्सद्भावेन सद्भावः स्यात्। स नास्तीति न रसः कारणं पतनोत्पत्तौ। रूपादेश्च कारणत्वे अनलादावपि सद्भावात् पातः स्यात्, न चास्तीत्यतो रूपादिव्यतिरिक्तं कारणमनुमीयत इत्यत आह *पतनकर्मानुमेयम्* इति। आद्यस्य हि पतनकर्मणोऽसमवायिकारणं गुरुत्वम्, द्वितीयादेस्तु संस्कारोऽपीति। स चासौ जलभूम्योरेव वर्त्तते।
ननु त्वगिन्द्रियस्य व्यापारात् पञ्चपलं दशपलमिति प्रतिभासनाद् गुरुत्वं प्रत्यक्षम्? न त्वगिन्द्रियेण सम्बन्धोपपत्तेः पृथिव्यादिगुरुत्वस्यापि प्रत्यक्षताप्रसङ्गात्। अथ आधेयगतमेव गुरुत्वं परिच्छिनत्ति त्विगिन्द्रियम्, न च तत् पृथिव्यादिगुरुत्वेऽस्तीति। नन्वेवमपि मक्षिकादिगुरुत्वं परिच्छिन्द्यात्, तस्याप्याधेयगतत्वादिति। न च तस्य अविशिष्टत्वादपरिच्छेदः, प्रत्यक्षद्रव्यसमवायस्याविशेषात्। अथ अधोगतिहेतुत्वं वैशिष्ट्यम्? त्रिह त्वगिन्द्रियसम्बन्धेन अधोगतिविशेषमुपलभमानस्य पञ्चपलं दशपलमित्यानुमानिक एव प्रत्ययः।
अथ दशपलैस्तन्तुभिरारब्धे पटे गुरुत्वातिशयस्यानुपलब्धे, कारण एव गुरुत्वम्, न तु कार्ये। तदसत्, उभयत्रापि पातोपलब्धेः। न च स्वगतगुरुत्वाभावेऽपि आश्रयान्तरगुरुत्वादेव पतनम्, वाय्वादेरपि पातप्रसङ्गात्। तस्मादुभयत्रापि कार्येण सद्भावसिद्धेर्गुरुत्वमस्तीति। अवनतिविशेषानुपलम्भश्च कार्ये मक्षिकादिगुरुत्वसम्पर्केणापि समान इति। तथाहि, तन्तुषु मीयमानेषु मक्षिकादिसम्पर्केऽपि अवनतिविशेषा नोपलभ्यन्ते, न च तद्गुरुत्वस्यासत्त्वमित्यलम्।
अथ गुरुत्वस्य पातहेतुत्वे किमिति सर्वदा पातो न भवति? प्रतिबन्धादित्याह *संयोगप्रयत्नसंस्कारविरोधि* इति। वृन्तफलसंयोगेन प्रतिबद्धं न फले पतनमारभते, प्रयत्नप्रतिबन्धाद् आकाशावस्थितेषु शकुनिषु गुरुत्वं न पतनं करोति, [धनुर्निक्षिप्तेषु शरेषु गुरुत्वं न पतनं करोति वेगाख्य]संस्कारप्रतिबन्धात्, एषामपाये फलादिषु पातदर्शनात्।
*तस्य चाबादिपरमाणुरूपादिवन्नित्यानित्यत्वनिष्पत्त्यः* इति। अबादयश्च ते परमाणवश्चेति तथोक्ताः, तत्परमाणुरूपादीनामिवेति। यथा आप्यपरमाणुरूपादीनामनिष्पद्यमानत्वान्नित्यत्वम्, एवमेव गुरुत्वं नित्येष्वनिष्पत्तेर्नित्यम्, अनित्ये तु कारणगुणपूर्वप्रक्रमेण निष्पद्यमानत्वात् तद्रूपवदेवानित्यमित्यतिदेशार्थः।
द्रवत्ववैधर्म्यम्
द्रवत्वं स्यन्दनकर्मकारणमअ। त्रिद्रव्यवृत्ति। तत्तु द्विविधम्, सांसिद्धिकम्, नैमित्तिकञ्च। सांसिद्धिकमपां विशेषगुणः। नैमित्तिकं पृथिवीतेजसोः सामान्यगुणः. सांसिद्धिकस्य गुरुत्ववन्नित्यानित्यत्वनिष्पत्तयः।
सङ्घातदर्शनात् सांसिद्धिकत्वमयुक्तमिति चेत्, न, दिव्यतेजःसंयुक्तानामाप्यानां परमाणूनां परस्परं संयोगो द्रव्यारम्भकः सङ्घाताख्यः, तेन परमाणुद्रवत्वस्य प्रतिबन्धात् कार्ये हिमकरकादौ द्रवत्वानुत्पत्तिः।
नैमित्तिकञ्च पृथिवीतेजसोरग्निसंयोगजम्। कथम्? सर्पिर्जतुमधूच्छिष्टादीनां कारणेषु परमाणुष्वग्निसंयोगाद् वेगापेक्षात् कर्मोत्पत्तौ तज्जेभ्यो विभागेभ्यो द्रव्यारम्भकसंयोगविनाशात् कार्यद्रव्यनिवृत्तावग्निसंयोगाद् औष्ण्यापेक्षात् स्वतनत्रेषु परमाणुषु द्रवत्वमुत्पद्यते। ततस्तेषु भोगिनामदृष्टापेक्षाद् आत्माणुसंयोगात् कर्मोत्पत्तौ तज्जेभ्यः संयोगेभ्यो द्व्यणुकादिप्रक्रमेण कार्यद्रव्यमुत्पद्यते, तस्मिंश्च रूपाद्युत्पत्तिसमकालं कारणगुणप्रक्रमेण द्रवत्वमुत्पद्यत इति।
द्रवत्वस्य लक्षणपरीक्षार्थमाह*द्रवत्वं स्यन्दनकर्मकारणम्* इति। स्यन्दनकर्म वक्ष्यमाणम्। तत्कारणं द्रवत्वमित्युक्ते वेगेन व्यभिचारः, तदर्थं त्रिद्रव्यवृत्तीति। तथापि त्रिद्रव्यवृत्तित्वं वेगस्यापि सम्भवतीति नियमेनेति पदमूह्यम्। रूपन्तु नियमेन त्रिद्रव्यवृत्ति, न तु स्यन्दनकर्मकारणम्। अतो द्रव्यत्वम्, इतरस्मा द्‌भिद्यते, नियमेन त्रिद्रव्यवृत्तित्वे सति स्यन्दनकर्मकारणत्वादिति।
तत्तु द्विविधमिति विभागः। केन रूपेण? सांसिद्धिकं नैमित्तिकञ्चेति। तयो- परस्परं वैलक्षण्यनिरूपणार्थमाह *सांसिद्धिकमपां विशेषगुणः, नैमित्तिकं पृथिवीतेजसोः सामान्यगुणः* इति परस्परभेदः। *सांसिद्धिकस्य गुरुत्ववन्नित्यानित्यत्वनिष्पत्तयः* इति। यथा गुरुत्वं नित्येष्वनिष्पद्यमानत्वान्नित्यम् अनित्येषु निष्पत्तेरनित्यं कारणगुणपूर्वकमाश्रयविनाशाच्च विनश्यति, एवं सांसिद्धिकद्रवत्वमपीत्यतिदेशार्थः।
ननु चायुक्तमेतद् अपां सांसिद्धिकद्रव्यत्वमिति, हिमकरकादावनुपलम्भात्? *तदाह सङ्गातदर्शनात् सांसिद्धिकत्वमयुक्तमिति चेत्* नैतदेवम्। अन्यत्र सलिले सांसिद्धिकद्रवत्वस्योपलब्धेः, आप्यपरमाणुषु तत्सद्भावसिद्धौ हिमकरकादौ तस्यानुत्पादात् प्रतिबन्धकमस्तीति निश्चीयते। तच्च अन्यस्यानुपलम्भाद् दिव्यतेजःसंयोग एवेत्याह* दिव्यतेजःसंयुक्तानामाप्यानां परमाणूनां परस्परं संयोगो द्रव्यारम्भकः*। स च *सङ्घाताख्यः, तेन परमाणुद्रवत्वस्य प्रतिबन्धात् कार्ये हिमकरकादौ द्रवत्वानुत्पत्तिः* इति। तेजःसद्भावस्तु स्फोटादिकार्यानुमेयः। तथा च हिमकरकासम्बन्धादुपलभ्यते स्फोटादिलक्षणं कार्यं शरीरे वृक्षादौ च दाह इति। विलयनञ्चास्य दिव्यतेजःसम्बन्धात्। अवयवे क्रिया, ततो विभागस्तस्मात् संयोगनिवृत्तौ द्रव्यविनाशे सति परमाणवः कार्यमारभन्ते। तत्र च दिव्यतेजःसंयोगस्यप्रतिबन्धकस्य निवृत्तेः परमाणुद्रवत्वं कार्ये द्रवत्वमारभते।
न चेदं नैमित्तिकम्, सर्पिरादाविव पुनः संग्रहानुपलब्धेः। यथाहि नैमित्तिकद्रवत्वं सर्पिरादाविति द्रुतस्य संग्रहः, तथेहाऽपि स्यात्। न चैतदस्तीति।
*नैमित्तिकञ्च पृथिवीतेजसोरग्निसंयोगजम्*। कथमित्यव्युत्पन्नप्रश्नः। तत्राह सर्पिरादीनां कारणेष्वित्यादिपदेन सूत्रोक्तानां संग्रहः। तथाहि सर्पिर्जतुमधूच्छिष्टानां पार्थिवानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम्। त्रपुसीसलोहरजतसुवर्णानां तैजसानामग्निसंयोगाद्द्रवत्वमद्‌भिः सामान्यमिति (वै. सू. 2।1।44-55)। अतः सर्पिरादिकारणेषु च परमाणुष्वग्निसंयोगापेक्षाद् वेगापेक्षात् कर्मोत्पत्तौ सत्यन्ततो विभागा जायन्ते। तेभ्यो विभागेभ्यो द्रव्यारम्भकसंयोगविनाशः, ततः कार्यद्रव्यनिवृत्तिस्तस्याञ्च सत्यामग्निसंयोगाद् औष्ण्यापेक्षात् स्वतन्त्रेषु परमाणुषु द्रवत्वमुत्पद्यते। परमाणवः समवायिकारणम्, अग्निसंयोगोऽसमवायिकारणमुष्णस्पर्शो निमित्तकारणमिति। ततोऽनन्तरमुत्पन्नद्रवत्वेषु* भोगिनामदृष्टापेक्षादात्माणुसंयोगात्* कर्मोत्पद्यत इति। परमाणुः समवायिकारणम्, आत्माणुसंयोगोऽसमवायिकारणम्, भोगिनामदृष्टो निमित्तकारणमिति। ततो विभागेभ्यः प्राक्तनसंयोगविनाशे सति तेभ्यः कर्मभ्यः परमाण्वन्तरेण संयोगा जायन्ते। तेभ्यः संयोगेभ्यो द्व्यणुकाण्युत्पद्यन्ते। तदादिक्रमेण त्र्यणुकादिकार्यमुत्पद्यते। तस्मिंश्च द्व्यणुकादौ* रूपाद्युत्पत्तिसमकालं कारणगुणपूर्वक्रमेण द्रवत्वमुत्पद्यत इति *पाकजोत्पत्तिन्यायोऽत्र द्रष्टव्यः। एतावांस्तुविशेषः, तत्रावश्यं रूपादिनिवृत्तिर्न चैवं द्रवत्वस्येति।
स्नेहवैधर्म्यम्
स्नेहोऽपां विशेषगुणः। संग्रहमृजादिहेतुः। अस्यापि गुरुत्ववन्नित्यानित्यत्वनिष्पत्तयः।
स्नेहस्य लक्षणपरीक्षार्थं* स्नेहोऽपां विशेषगुणः सङ्ग्रहमृजादिहेतुः* इति। अपां विशेषगुणो रूपादिरपीति सङ्ग्रहमृजादिहेतुरिति पदम्। सङ्ग्रहः पिण्डीकरणम्। मृजा तु विशदत्वम्। तद्धेतुत्वादितरस्माद् भिद्यते।
ननु स्नेहस्याभिनवपल्लवादावुपलम्भाद् उदकविशेषगुणत्वमसिद्धम्? न, संयुक्तसमवायेनोपलम्भात्। संयुक्तं हि पल्लवादिना उदं तत्समवेतस्नेहो गृह्यते, तदपाये तस्यानुपलब्धेः, तथा स्नानोत्तरकालं केशादौ स्निग्धप्रत्ययदर्शनात्। यथा च संयोग्याश्रयवैगुण्याभावे सर्वस्मिन्नुदके स्निग्धज्ञानं नैवं सर्वस्यां पृथिव्यामिति। अस्यापि गुरुत्ववन्नित्यानित्यत्वनिष्पत्तय इति। नित्येषु नित्योऽनित्येषु कारणगुणपूर्वः, आश्रयविनाशाद् विनश्यतीति।
संस्कारवैधर्म्यम्
संस्कारस्त्रिविधो वेगो भावना स्थितिस्थापकश्च। तत्र वेगो मूर्तिमत्सु पञ्चसु द्रव्येषु निमित्तविशेषापेक्षात् कर्मणो जायते, नियतदिक्‌क्रियाप्रबन्धहेतुः स्पर्शवद्‌द्रव्यसंयोगविशेषविरोधी क्वचित् कारणगुणपूर्वक्रमेणोत्पद्यते।
संस्कारनिरूपणार्थमाह *संस्कारस्त्रिविधः*। केन रूपेण? वेगो भावना स्थितिस्थापकत्वेनेति। विभाग एवासाधारणत्वाल्लक्षणमिति, तल्लक्षणवैचित्र्यज्ञापनार्थमेतत्। तत्र वेगस्य समानजातीयात् भेदमाश्रयञ्च निरूपयन्नाह* मूर्तिमत्सु* इत्यादि। मूर्तिमत्सु द्रव्येषु। न ज्ञायते कियत्सु, तदर्थं *पञ्चसु*। तथापि न ज्ञायते केषु, तदर्थं* मूर्तिमत्सु* इत्याश्रयनिरूपणम्। यद् वा संस्कारत्वे सति पञ्चसु मूर्तिमत्स्वेव वर्तमानत्वाद् वेग इति लक्षणम्।
कारणमाह*निमित्तविशेषापेक्षात् कर्मणो जायते* इति। संयोगविभागयोः कर्मजत्वमिति निमित्तविशेषापेक्षादिति विशेषणम्। निमित्तविशेषो नोदनाभिघातसंयुक्तसंयोगाः, तदपेक्षादिति। कर्म असमवायिकारणम्, स्वकारणविशेषो नोदनादिर्निमित्तकारणम्, वेगाधारस्तु समवायिकारणमित्यसाधारणत्वाल्लक्षणं चेदम्। कार्यमाह नियतायां दिशि क्रियाप्रबन्धस्य क्रियासन्तानस्य हेतुरिति।
ननु चायुक्तमेतत्, अनियतदिग्‌देशस्य भ्रमणाख्यस्यापि कर्मणः कारणत्वात्, सत्यमेत्, तथाप्यदोषः, नियतदिक्‌क्रियाप्रबन्धस्यैव हेतुरित्यवधारणानभ्युपगमात्। सोऽपि नियतायामेव दिशि क्रियाप्रबन्ध इति चान्ये। अनियतदिक्‌क्रियाप्रबन्धहेतुरित्यवधारणस्यात्र पूर्वरूपतां मन्यमाना व्याख्यान्तरं कुर्वते। तस्य विनाशकारणमाह *स्पर्शवद्द्रव्यसंयोगविशेषविरोधी* इति। स्पर्शवद्द्रव्यसंयोगमात्रविरोधित्वे वायुसंयोगेन विरोधादिषोर्गमनं न स्यात्। तद्धेतोर्वेगस्य विनाशादिति विशेषग्रहणम्, कठिनावयवसंयोगेनादावपि तद्विनाशोपलब्धेः।
नन्वेवमप्याकाशे प्रक्षिप्तस्येषोर्निबिडावयवसंयोगस्य वेगविनाशकस्याभावादपातः स्यात्, न, अनेककार्यकरणे स्पर्शवद्द्रव्यसंयोगमात्रेणापि विनाशस्यान्वयव्यतिरेकाभ्यामुपलम्भात्। तथा च क्षिप्तस्येषोर्वेगविनाशोपलब्धेरवश्यं कारणमभिधेयम्, निर्हेतुकविनाशप्रतिषेधात्। अतो वायुसंयोगेनाप्यनेककार्यकरणे सति विरुध्यते, अदृष्टप्रक्षयाद् वेति। *क्वचित् कारणगुणपूर्वप्रक्रमेणोत्पद्यते* यथा पर्वतस्रोतसामधःपततां संयोगे सत्येकस्मिन्नुदके समुत्पन्ने रूपादिवत् कारणवेगाद् वेगोऽपीति।
भावनासञ्ज्ञकस्त्वात्मगुणो दृष्टश्रुतानुभूतेष्वर्थेषु स्मृतिप्रत्यभिज्ञानहेतुर्भवति, ज्ञानमददुःखादिविरोधी। पट्‌वभ्यासादरप्रत्ययजः पटुप्रत्ययापेक्षादात्ममनसोः संयोगाद् आश्चर्येऽर्थे पटुः संस्कारातिशयो जायते। यथा दाक्षिणात्यस्योष्ट्रदर्शनादिति। विद्याशिल्पव्यायामादिष्वभ्यस्यमानेषु तस्मिन्नेवार्थे पूर्वपूर्वसंस्कारमपेक्षमाणादुत्तरोत्तरस्मात् प्रत्ययादात्ममनसोः संयोगात् संस्कारातिशयो जायते। प्रयत्नेन मनश्चक्षुषि स्थापयित्वा अपूर्वमर्थं दिदृक्षमाणस्य विद्युत्‌सम्पातदर्शनवदादरप्रत्ययः, तमपेक्षमाणादात्ममनसोः संयोगात् संस्कारातिशयो जायते। यथा देवह्रदे सौवर्णराजतपद्मदर्शनादिति।
भावनासंज्ञकस्त्वात्मगुणत्वादितरस्माद् भिद्यते। न च बुद्ध्यादिभिर्व्यभिचारः, संस्कारः, संस्कारस्य सतोऽवान्तरविशेषनिरूपणात्। *स्मृतिप्रत्यभिज्ञानहेतुः* इति कार्यनिरूपणम्, सद्भावे प्रमाणञ्चेति। `स्मृतिर्वासनाख्यात्' भवति, तथोक्तमात्माधिकारे। केषु स्मृतिप्रत्यभिज्ञानहेतुरित्याह *दृष्टश्रुतानुभूतेषु* इति, निर्णीतार्थेष्विति भावः।
नाशकारणमाह *ज्ञानमददुःखादिविरोधी* इति। ज्ञानं प्रतिपक्षज्ञानं विवक्षितम्, तेन विरुध्यते, यथा आत्मादिज्ञानजनितः संस्कारो नैरात्म्याद्यभ्यासेनेति, तस्मिन् सति तत्रास्मरणात्। स्वमदेन विरोधः,बालावस्थानुभवजनितसंस्कारस्य पुनर्युवावस्थायां विषयाभिभूतस्य तत्रास्मरणात्। दुःखेन, यथा शास्त्रानुभवजनितसंस्कारस्य तीव्रेण दारादिदुःखेनेति, तेन सता तत्रास्मरणात्। आदिपदेन तु क्रोधादेरपि संस्कारनिवर्त्तकत्वमुक्तम्।
तस्योत्पत्तिकारणमाह पट्‌वभ्यासादरप्रत्ययेभ्यो जातस्तत्प्रत्ययज इति। पटुप्रत्ययापेक्षादात्ममनसोः संयोगादसमवायिकारणादात्मन्याश्चर्येऽर्थे पटुः संस्कारो जायते, *यथा दाक्षिणात्यस्योष्ट्रदर्शनात्*। स चातिशयेन स्मृतिहेतुर्भवतीति। (अभ्यासाद्) *विद्याशिल्पव्यायामादिष्वभ्यस्यमानेषु तस्मिन्नेवार्थे पूर्वपूर्वसंस्कारमपेक्षमाणादुत्तरोत्तरस्मात् प्रत्ययादात्ममनसोः संयोगात् संस्कारातिशयो जायते*। पूर्वपूर्वसंस्कारापेक्षो हि उत्तरोत्तरप्रत्ययोऽभ्यासः, तमपेक्षमाणादात्ममनसोः संयोगादसमवायिकारणादात्मनि संस्कारातिशयो जायते*। तत्र विद्यायाम् उपाध्यायोच्चरितपदश्रवणे सति संस्कारः। पुनर्विवक्षादिक्रमेण स्वयमुच्चारणे सति तु ज्ञानं पूर्वं संस्कारापेक्षं संस्कारान्तरमारभते। पुनस्तदुच्चारणे सति तज्ज्ञानं पूर्वसंस्कारापेक्षं संस्कारान्तरमारभत इत्येवं त्रिचतुरादिपरिवर्त्तने सत्यन्त्यपदानुभवात् पूर्वसंस्कारापेक्षं संस्कारान्तरमारभते। पुनस्तदुच्चारणे सति तज्ज्ञानं पूर्वसंस्कारापेक्षं संस्कारान्तरमारभत इत्येवं त्रिचतुरादिपरिवर्त्तने सत्यन्त्यपदानुभवात् पूर्वसंस्कारापेक्षात् संस्कारातिशयो जायते। एतच्चावश्यमभ्युपेयम्, अन्यथाभ्यासवैयर्थ्यं स्यात्। न चातिप्रसङ्गः, अदृष्टस्य व्यवस्थाहेतुत्वात्। न च तस्यास्ति सर्वत्र सद्भावः, कार्यस्य स्मरणस्य सर्वत्रानुपलब्धेः। यत्र हि स्मरणमस्ति तत्रैव पूर्वसंस्कारापेक्षं ज्ञानं संस्कारमारभत इति। आन्तरे चाभ्यासे पूर्वपूर्वसंस्कारापेक्षं नियतार्थस्मरणमेव संस्कारमारभत इति चिन्त्यम्। एवं शिल्पेऽप्युपाध्यायलिखितचित्रदर्शनात् संस्कारः, पुनः स्वयं सम्पाद्योपलभते; तदनुभवः पूर्वसंस्कारापेक्षः संस्कारान्तरमारभते, पुनः स्वयं लिखित्वोपलभते, तदनुभवः पूर्वसंस्कारापेक्षः संस्कारान्तरमारभते, इत्येवं द्वित्र्यादिपरिवर्त्तनेन संस्कारातिशयः। व्यायामेऽपि उपाध्यायेन धनुर्वेदपरिपठितन्यायेन प्रयुक्तेषूपलम्भादुपजाते संस्कारे पुनस्तदनुसारितया स्वयं प्रयुक्ते तदनुभवेन पूर्वसंस्कारापेक्षेण संस्कारान्तरमारभ्यते, पुनस्तथैव प्रयोगे सति तदनुभवेन पूर्वसंस्कारापेक्षेणान्यः संस्कार इत्येवमन्त्यानुभवात् संस्कारातिशय इति।*
आदरप्रत्ययजसंस्कारमाह *प्रयत्नेन मनः चक्षुषि स्थापयित्वा अपूर्वमर्थं दिदृक्षमाणस्य* इति, द्रष्टुमिच्छतो विद्युत्सम्पातदर्शनेन तुल्यं वर्त्तते, इति तद्दर्शनवदादरप्रत्ययः। तमपेक्षमाणादात्ममनसोः संयोगादसमवायिकारणादात्मनि संस्कारातिशयो जायते। *यथा देवह्रदे सौवर्णराजतपद्मदर्शना*दिति*। तत्र हि सौवर्णराजतपद्मयोरुत्थानमागमाल्लोकप्रवादतो वा समुपलभ्य पुनर्विशिष्टयात्रासमये प्रयत्नेन संस्कारातिशयो भवतीति।
स्थितिस्थापकस्तु स्पर्शवद्द्रव्येषु वर्त्तमानो घनावयवसन्निवेशविशिष्टेषु कालान्तरावस्थायिषु स्वाश्रयमन्यथाकृतं यथावत् स्थापयति। स्थावरजङ्गमविकारेषु धनुःशाखादन्तशृङ्गास्थिसूत्रवस्त्रादिषु भुग्नसंवर्तितेषु स्थितिस्थापकस्य कार्य संलक्ष्यते। नित्यानित्यत्वनिष्पत्तयोऽस्यापि गुरुत्ववत् द्रष्टव्या।
स्थितिस्थापकस्तु संस्कारत्वे सति स्पर्शवत्स्वेव द्रव्येषु वर्त्तमानत्वादितरस्माद भिद्यते। किं भूतेषु? *घनावयवसन्निवेशविशिष्टेषु* इति। घनाश्च ते अवयवाश्च, तेषां सन्निवेशो रचनाविशेषः। घन इति सन्निवेशस्य वा विशेषणम्, तद्विशिष्टेषु। *कालान्तरावस्थायिषु स्वाश्रयमन्यथाकृतं यथावत् स्थापयति* इत्यतः स्थितिस्थापकः।
सद्भावे प्रमाणमाह स्थावराश्च जङ्गमाश्चेति तथोक्तास्तेषां विकारेषु धनुःशाखादन्तशृङ्गास्थिषु, सूत्रवस्त्रादिषु च भुग्नेषु संवर्तितेषु पिण्डीकृतेषु तस्य कार्यं संलक्ष्यते। तथाहि धनुषि शाखादौ च आकर्षणकर्मण्युपजाते नोदनादिभ्यस्तन्निवृत्तावपि कर्मोपलम्भादवश्यमसमवायिकारणं वाच्यम्, वस्तुनस्तदन्तरेणानुत्पत्तेः। न च नोदनादेरन्यतमः सम्भाव्यत इत्यन्येनासमवायिकारणेन भवितव्यम्, क्रियाविभागयोश्च क्रियोत्पत्तावकारणत्वोपलम्भात्। तथा तन्निवृत्तावपिप्रतिबन्धकाभावे सति शाखादौ पूर्वावस्थावस्थापककर्मोपलम्भान्निमित्तान्तरमेव न्याय्यम्। अदृष्टविशेषस्य तु साधारणत्वात् कारणत्वं न प्रतिषिद्ध्यत इति।
*नित्यानित्यत्वनिष्पत्तयोऽप्यस्य गुरुत्ववद् द्रष्टव्या* इति। यथा हि गुरुत्वं नित्येषु नित्यमुत्पत्तिविनाशकारणाभावादनित्येषु कारणपूर्वकमाश्रयविनाशाद् विनश्यति एवं स्थितिस्थापकसंस्कारोऽपीति। कार्ये तु स्थितिस्थापकसंस्कारप्रसिद्धेस्तदारम्भकपरमाणुष्वपि तत्कल्पना क्रियते।
धर्मवैधर्म्यम्
धर्मः पुरुषगुणः, कर्तुः प्रियहितमोक्षहेतुः, अतीन्द्रियोऽन्त्यसुखसंविज्ञानविरोधो, पुरुषान्तःकरणसंयोगविशुद्धाभिसन्धिजः, वर्णाश्रमिणां प्रतिनियतसाधननिमित्तः। तस्य तु साधनानि श्रुतिस्मृतिविहितानि वर्णाश्रमिणां सामान्यविशेषभावेनावस्थितानि द्रव्यगुणकर्माणि।
धर्मस्य लक्षणपरीक्षार्थमाह *धर्मः पुरुषगुणः* इत्यादि। पुरुषगुणत्वं बुद्ध्यादावपीत्यतः *प्रियहितमोक्षहेतुः* इति। प्रियं सुखम्, हितं तत्साधनम्। नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोक्ष इति। अथेश्वरज्ञानमप्येषां हेतुरतः कर्त्तुरिति। येन हि कृतो धर्मस्तत्रैव प्रियहितमोक्षहेतुः, न चैवमीश्वरज्ञानस्य, अकार्यतया कर्त्तुरभावादिति। अथ तत्त्वज्ञानं कर्त्तुर्यथोक्तफलहेतुस्तदर्थमतीन्द्रिय इति। संस्कारोऽपि स्मृतिद्वारेणैव भवतीत्यतोऽन्त्यसुखसंविज्ञानविरोधीति। अन्त्यमावसानिकं सुखं तत्संवेदनेन विरुध्यते।
नन्वेवमपि अतीन्द्रियत्वे सत्यन्त्यसुखसंविज्ञानविरोधित्वात्, धर्मः इतरस्माद् भिद्यत इत्युक्ते व्यभिचाराभावाद् व्यर्थं शेषाभिधानम्, न, अन्यत्वात् कर्त्तुं। प्रियहितमोऽक्षहेतुरिति विशिष्टार्थक्रियानिरूपणम्। पुरुषगुण इत्यन्यथाभावप्रतिषेधार्थम्।
अथ पुरुषगुणत्वे किं प्रमाणम्? अनुमानमागमश्च। तथाहि तनुभुवनादिकार्यम्, पुरुषगुणपूर्वकम्, विचित्रकार्यत्वाद्, रथादिवदिति। यथाहि रथादिकर्त्ता भोक्तुरभिप्रायं विचित्रमपेक्षमाणस्तथैव तद्रचनां करोति एवं शरीरादिकर्त्तापीति। न च शरीरोत्पत्तेः पूर्वमस्मदाद्यात्मनि बुद्ध्यादयः सन्ति, संस्कारस्तु स्मरणोत्पत्तावेवावगतसामर्थ्य इति गुणान्तरं तद्गतमपेक्षमाणस्तदुपभोगनिष्पत्तये विचित्रं शरीरादिकमारभत इति। आगमस्तु `यावदात्मनि धर्माधर्मौ तावदायुः शरीरमिन्द्रियाणि विषयाश्चे'ति, तथा `क्षीयन्ते चास्य कर्माणी'ति।
येषान्तु बुद्धिगुणो धर्मस्तेषां कथं नाकर्मनिमित्तः स्वर्गः? तथाहि प्रलयावस्थायां बुद्धेः प्रधाने प्रलीनतया धर्माधर्मयोरनभिव्यक्तौ प्रधानस्य बुद्ध्यादिभावेन परिणामो न स्यात्, अभिव्यक्तस्य कर्मणः कारणत्वाभ्युपगमात्। न चादावनभिव्यक्तमेव कारणम्, बुद्धिस्थञ्चाभिव्यक्तमिति वाच्यम्, विशेषहेत्वभावात्। बुद्ध्यादिसम्पादितं कर्म कर्त्तुर्भोगसम्पादकमित्यभ्युपगमे च अविशेषेण सकलपुरुषोपभोगसम्पादकं स्यात्, नियमहेत्वभावात्। तथा मुक्तात्मनोऽपि शरीरादिसम्पादनाय प्रवर्त्तेत, अविशेषादिति संसारित्वप्रसङ्गः। गुणपुरुषान्तरविवेकादर्शनञ्च प्रधानप्रवृत्तेर्न कारणम्, पूर्वमेव प्रतिषेधात्।
येऽपि परमाणुरूपो धर्म इति मन्यन्ते, तेषामपि तस्य नित्यतायां सकलक्रियाविलोपप्रसङ्गः, मरणाद्यभावश्च। अनित्यता तु परमाणुरूपतायां न सम्भवत्येव, तस्य परमाणुत्वेनोत्पत्तिविनाशकारणाभावात्। तथा परमाणूनां धर्मशब्देनाभिधाने संज्ञाभेदमात्रमेव स्यात्। अथ परमाणुगुणौ धर्माधर्मौ? एवमपि सर्वपुरुषाणाम् एकाकारो भोगः स्यात्, पुण्यापुण्याधिकरणैः परमाणुभिरारम्भाविशेषात्।
अथ केचित् पुण्याधिकरणाः परमाणवोऽन्ये चापुण्याधिकरणाः। तत्राधिकैः पुण्याधिकरणैरारब्धे सुखातिशयोऽधिकैश्चापुण्याधिकरणैर्दुःखमिति चेत्, अत्रापि तयोर्नित्यत्वे मरणाद्यभावप्रसङ्गः। अनित्यत्वन्तु न युक्तम्। परमाणुविशेषगुणानामस्मदादिव्यापारेणोपपत्तेरदर्शनात्।
अन्ये त्वनाश्रितो धर्म इति मन्यन्ते, तत्रापि अनित्यपक्षे न किञ्चिद् अनाश्रितं वस्तुभूतं कार्यं सम्भवतीति दूषणम्। नित्यपक्षे तु यागादिक्रियाविलोपप्रसह्गः। अथ क्रियाभिव्यक्तः कार्यकारणः? तर्हि क्षणिकत्वेन क्रियाविनाशे स्वर्गादिफलं न स्यात्. न च प्रदीपस्येवाभिव्यञ्जकत्वं तत्प्रकाशकत्वं क्रियायाः, तद्भावेऽपि तस्यानुपलम्भात्। अथ यागादिक्रिया धर्मस्य सामर्थ्यमुपजनयतीति चेत्? तर्हि यत् तत् सामर्थ्य स एव धर्मः, यत्राश्रितः स चात्मेति संज्ञाभेदमात्रं स्यात्। तथा अमूर्त्तस्यात्मना सम्बन्धाभावात् तत्सम्बन्धित्वेन फलाभाव इत्यलं प्रसङ्गेन। न च बोधात्मकमेव कर्म, व्यतिरेकानभ्युपगमे बोधरूपतया सर्वत्राविशेषेण जगद्वैचित्र्याप्रसङ्गात्।
तस्योत्पत्तिकारणमाह पुरुषान्तःकरणसंयोगादसमवायिकारणादुपजायते। *शुद्धाभिसन्धिज* इति अभिसन्धेर्निमित्तकारणत्वं दर्शयति। वर्णाश्रमिणां प्रतिनियतानि साधनानि निमित्तं यस्यासौ तन्निमित्तः।
तदेवाह* तस्य तु साधनानि श्रुतिस्मृतिविहितानि*। वर्णाश्च ब्राह्मणादयः, आश्रमाश्च ब्रह्मचर्यादयस्तेषाम्, सामान्यविशेषभावेनावस्थितानि द्रव्यगुणकर्माणीति।
तत्र सामान्यानि धर्मे श्रद्धा, अहिंसा, भूतहितत्वम्, सत्यवचनम्, अस्तेयम्, अनुपधा, ब्रह्मचर्यम्, क्रोधवर्जनम्, अभिषेचनम्, शुचिद्रव्यसेवनम्, विशिष्टदेवताभक्तिः, उपवासोऽप्रमादश्च।
*तत्र सामान्यानि* साधनानि। *धर्मे श्रद्धा* भक्तिविशेषः कारणम्। अहिंसा तु यत्यादेः सर्वदा, अन्यस्य देशविशेषे कालविशेषे चेति। यथा तीर्थे न हनिष्यामि, अमावास्यादौ। भूतहित्वमपि कस्यचित् सर्वदा, कस्यचिद् देशविशेषादाविति। सत्यवचनं धर्मसाधनम् यन्न परेषामनिष्टम्। उक्तञ्च `न ब्रूयात् सत्यमप्रियमि'ति। अस्तेयमचौर्यम्। कस्याञ्चिदवस्थायां चौर्येऽपि न दूषणमित्युक्तम्। यथा मुमूर्षोर्द्विजस्याशनमात्राहरणमिति। अनुपधा पराद्रोहः। ब्रह्मचर्यम् अपत्यसृजः रणस्योपस्थस्य संयमः, तच्च कस्यचित् सर्वदा, कस्यचिद् देशकालविशेष इति। क्रोधवर्जनमप्येवम्। अभिषेचनं स्नानम्। शुचिद्रव्याणां सेवनमासनपरिधानाशनैः। विशिष्टदेवताभक्तिरिति त्रयीप्रसिद्धानुमानावगतदेवताविशेषभक्तिः। उपवासोऽहोरात्रं नैरशनता, कालविशेषादौ धर्मसाधनम्। अप्रमादौ विहितानुष्ठाने निरालस्यम्।
ब्राह्मणक्षत्रियवैश्यानामिज्याध्ययनदानानि। ब्राह्मणस्य विशिष्टानि प्रतिग्रहाध्यापनयाजनानि, स्ववर्णविहिताश्च संस्काराः। क्षत्रियस्य सम्यक्‌प्रजापालनमसाधुनिग्रहो युद्धेष्वनिवर्तनम्, स्वकीयाश्च संस्काराः। वैश्यस्य क्रयविक्रयकृषिपशुपालनानि स्वकीयाश्च संस्काराः। शूद्रस्य पूर्ववर्णपारतन्त्र्यम्, अमन्त्रिकाश्च क्रियाः।
ब्राह्मणक्षत्रियविशां सामान्यानि धर्मसाधनानि, इज्या यजनम्, अध्ययनं वेदपाठः, दानं सत्पात्रस्य द्रव्यनिवेदनमिति। ब्राह्मणस्यासाधारणानि धर्मसाधनानि *प्तिग्रहाध्यापनयाजनानि*। प्रतिग्रहः शास्त्रेणानिन्दितद्रव्यादानम्, वेदपाठो, याजनं यागे पौरोहित्यम्, स्ववर्णनियताश्च संस्काराः। क्षत्रियस्यासाधारणानि धर्मसाधनानि* सम्यक् प्रजापालनम्, स्ववर्णनियताश्च संस्काराः। क्षत्रियस्यासाधारणानि धर्मसाधनानि* सम्यक् प्रजापालनम्, असाधुनिग्रहो युद्धेष्वनिवर्तनम्, स्वकीयाश्च संस्काराः। वैश्यस्य क्रयविक्रयकृषिपशुपालनानि, स्वकीयाश्च संस्काराः। शूद्रस्य सर्वदा ब्राह्मणाद्याज्ञया वर्तनम्, अमन्त्रकाश्चोङ्कारादिविवर्जिताः क्रिया इति*।
आश्रमिणआन्तु, ब्रह्मचारिणः गुरुकुलनिवासिनः स्वशास्त्रविहितानि गुरुशुश्रूषाग्नीन्धनभैक्ष्याचरणानि मधुमांसदिवास्वप्नाञ्जनाभ्यञ्जनादिवर्जनञ्च। विद्याव्रतस्नातकस्य कृतदारस्य गृहस्थस्य शालीनयायावरवृत्त्युपार्जितैरर्थैर्भूतमनुष्यदेवपितृब्रह्माख्यानां पञ्चानां महायज्ञानां सायम्प्रातरनुष्ठानम्, एकाग्निविधानेन पाकयज्ञसंस्थानाम् अग्निष्टोमादीनाम्, सोमयज्ञसंस्थानाञ्च। ऋत्वन्तरेषु ब्रह्मचर्यमपत्योत्पादनञ्च। ब्रह्मचारिणो गृहस्थस्य वा ग्रामान्निर्गतस्य वनवासो वल्कलाजिनकेशश्मश्रुनखरोमधारणञ्च। वन्याम्बुहुतातिथिशेषभोजनानि वनस्थस्य। त्रयाणामन्यतमस्य श्रद्धावतः सर्वभूतेम्यो नित्यमभयं दत्त्वा संन्यस्य स्वानि कर्माणि यमनियमेष्वप्रमत्तस्य षट्‌पदार्थप्रसंख्यानाद् योगप्रसाधनं प्रव्रजितस्येति। दृष्टञ्च प्रयोजनमनुद्दिश्यैतानि साधनानि भावप्रसादञ्चापेक्ष्य आत्ममनसोः संयोगाद्धर्मोत्पत्तिरिति।
*आश्रमिणान्तु*धर्मसाधनान्युच्यन्ते। तत्रब्रह्मचारिणः, किं विशिष्टस्य? गुरुकुले वसतस्तच्छीलं चेति तद्वासिनो* गुरुशुश्रूषाग्नीन्धनभैक्ष्याचरणानि*। गुरुशुश्रूषा तदुपासनम्। अग्नीन्धनम् अग्न्यर्थमिन्धनाहरणम्। भिक्षाणां समूहो भैक्षं माधुकरी भिक्षा, तदाचरणम्। मधुमांसदिवास्वप्नाञ्जनाभ्यञ्जनादिवर्जनम्। एतत्तु प्रतिवेदं द्वादशवर्षाणीत्यष्टचत्वारिंशद् वर्षाणि विद्याव्रतं यावद् ग्रहणं भवेत्।
ततो विद्याव्रतस्नातकस्य चीर्णविद्याव्रतस्य कृतदारस्योद्वहितपत्नीकस्य गृहस्थस्य धर्मसाधनान्युच्यन्ते। ते चतुर्विधाः, वार्त्तावृत्तयः, शालीनवृत्तयः, यायावराः, घोरसंन्यासिकाश्चेति। तत्र वार्त्तावृत्तयः कृषिवाणिज्यादिकमनिन्दितं शास्त्रेणैव युञ्जन्तः शतसंवत्सराभिः क्रियाभिर्यजन्तो याजयन्त आत्मानं प्रार्थयन्ते। शालीनवृत्तयस्तु यजन्तो याजयन्तो ददतः प्रतिगृह्णन्तः सतसंवत्सराभिः क्रियाभिरात्मानं प्रार्थयन्ते। यायावरास्तु अधीयन्तो न [अध्यापयन्तः, यजन्तो न,] याजयन्तः, ददत्तो न प्रतिगृह्णन्तः, इत्यात्मांनं प्रार्थयन्ते। तत्र घोरसंन्यासिका नाम उद्धृतपरपूताभिरद्‌भिः कार्यं कुर्वाणाः प्रतिदिनमाहृतोञ्छवृत्तिमुपजीवन्तः शतसंवत्सराभिः क्रियाभिर्यजन्त आत्मानं प्रार्थयन्ते। उदाहरणार्थञ्च गृहस्थद्वयम्। उक्त [शीलान ? शालीन] यायावरवृत्त्युपार्जितैर्द्रव्यैर्भूतमनुष्यदेवपितृब्रह्माख्यानां पञ्चानां महायज्ञानां सायं प्रातरनुष्ठानम्। सायमपराह्णम्, प्रातः प्रत्युषसि। तत्र बाह्यबलिना भूतयज्ञः, हन्तकारेण [=अतिथिदेयतण्डुलेन] मनुष्ययज्ञः, पुष्पपत्राद्युत्सर्गेणाग्निसन्तर्पणेन देवयज्ञः। अतिदानेन पितृयज्ञः, वेदाध्ययनेन ब्रह्मयज्ञ इत्येषां सायं प्रातरनुष्ठानम्। एकाग्निविधानेन एकोऽग्निर्विवाहकाले परिगृहीत इति। नैमित्तिकानान्तु परस्परं व्यावृत्तमनुष्ठानभेदं दर्शयति* पाकयज्ञसंस्थानाम्* इत्यादिना। पाकयज्ञसंस्थास्तु
अष्टकाः पार्वणं श्राद्धं श्रावण्याग्रहायाणी तथा।
चैत्री चाश्वयुजी चैव (सप्त?) पाकसंस्था इमाः स्मृताः ।।
एषाञ्च नित्यानां शक्तौ विद्यमानायामनुष्ठानम्। असमर्थस्य त्वकरणेऽपि न दोष इति। तदेवाह `जरया ह वा एष एतस्मात् सत्राद् विप्रमुच्यते मृत्युना वेति'। अग्न्याधेयानाञ्च हविर्यज्ञसंस्थानाम्। अग्न्याधेयोऽग्निहोत्रं दर्शपूर्णमासौ च चातुर्मास्याग्रहायणेष्टिनिरूढपशुबन्धसौत्रामणी चेति सप्त हविर्यज्ञसंस्थाः। अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्राप्तोर्याम इति सप्त होमयज्ञसंस्थाः। तदाह `सोमयज्ञसंस्थानामग्निष्टोमादीनामिति'। एवमन्येऽपि यज्ञविशेषास्तच्छास्त्रप्रसिद्धा एव ग्राह्या इति। ऋत्वन्तरेषु ब्रह्मचर्यमपत्योत्पादनञ्च।
वनस्थस्य धर्मसाधनमाह *ब्रह्मचारिणो गृहस्थस्य वा वनवासः* इति। उक्तञ्च `यदि वा ब्रह्मचर्यादेव प्रव्रजेत्' इति। अतो ब्रह्मचारिणो गृहस्थस्य वा अधिकारः। तेऽपि चतुर्विधाः, वैखानसाः, औदुम्बराः, बालखिल्याः, फेनपाश्चेति। तत्र वैखानसा नाम अकृष्टपच्याभिरौषधीभिर्ग्रामबहिष्कृताभिरग्निपरिचरणं कृत्वा पञ्चमहायज्ञक्रियां निर्वर्त्तयन्त आत्मानं प्रार्थयन्ते। तत्रौदुम्बरा नाम प्रातरुत्थाय यां दिशं प्रेक्षन्ते तदाहृतैर्बदरनीवारश्यामाकैरग्नपरिचरणं कृत्वा पञ्चमहायज्ञक्रियां निर्वर्त्तयन्त आत्मानं प्रार्थयन्ते। तत्र बालखिल्या नाम जटाधरा चीरवल्कलसंवृताङ्गाः पौर्णमास्यां वा कार्त्तिक्यां पुष्यादिभक्षमुत्सृजन्त अष्टौ मासान् वृत्त्युपार्जनं कृत्वा पञ्चमहायज्ञक्रियां निर्वर्त्तयन्त आत्मानं प्रार्थयन्ते। तत्र फेनपा नाम उद्दण्डकानुन्मत्ताः शीर्णपत्राभिभोजिनो यत्र तत्र वा वसन्त आत्मानं प्रार्थयन्ते। तदेवाह *वल्कलाजिनकेशशमश्रुनखरोमधारणं वन्याम्बुहुतातिथिशेषभोजनानि वनस्थस्य* इति। यत्याश्रममुपदर्शयन्नाह *त्रयाणामन्यतमस्य* इति। त्रयाणां ब्रह्मचारिगृहस्थवानप्रस्थानामन्य तमस्य। किं विशिष्टस्य? *श्रद्धावतः*। सर्वभूतेभ्यो नित्यं सर्वदा अभयं दत्वा। उक्तञ्च `न हिंस्यात् सर्वभूतानीति'। *संन्यस्य स्वानि कर्माणि*अग्नि होत्रादीनि। *यमनियमेष्वप्रमत्तस्य* इति। अहिंसादयो यमाः, शुश्रूषादयो नियमाः, तेष्वप्रमत्तस्य। *षट्‌पदार्थप्रसंख्यानात्* परिज्ञानाद्* योगसाधनं प्रव्रजितस्य* इति। योग एव तस्य धर्मसाधनम्।
उक्तन्यायेन तेऽपि चतुर्विधाः; कुटीचकाः, बहूदकाः, हंसाः, परमहंसाश्चेति। कुटीचकास्त्रिदण्डकमण्डलुकन्थादिधारिणो ज्ञातिगृहेषु भोजिनः। बहूदका नाम ब्राह्मणगृहेषु भिक्षाशिनः शून्यागारदेवगृहवासिनः। हंसा नाम सिखाकमण्डलुदण्डहस्ता ग्रामैकरात्रवासिनस्तीर्थादिषु त्रिपञ्चरात्रम्, एवं पक्षोपवासादिभिरात्मानं प्रार्थयन्ते। परमहंसास्त्वेकदण्डधराः, मुण्डाः, कौपीनवाससः, शिखायज्ञोपवीतकमण्डलुभिक्षाकपालादीनाञ्च त्यागिनः। न तेषां धर्मो नाधर्मः, न सत्यम्, न चानृतम्। सर्वंसहाः, सर्वसमाः, समलोष्टाश्मकाञ्चनाः। एषां चतुर्णामपि दृष्टं प्रयोजनमनुद्दिश्यैतानि साधनानि भावप्रसादं शुद्धाभिसन्धिञ्चापेक्ष्य आत्ममनःसंयोगादसमवायिकारणाद्धर्मोत्पत्तिरिति ।।
अधर्मवैधर्म्यम्
अधर्मोऽप्यात्मगुणः। कर्त्तुरहितप्रत्यवायहेतुरतीन्द्रियोऽन्त्यदुःखसंविज्ञानविरोधी। तस्य तु साधनानि, शास्त्रे प्रतिषिद्धानि धर्मसाधनविपरीतानि हिंसानृतस्तेयादीनि, विहिताकरणम्, प्रमादश्च, एतानि दुष्टाभिसन्धिञ्चापेक्ष्यात्ममनसोः संयोगादधर्मस्यो [त्पत्तिः ? त्पादकानि]।
न परं धर्मोऽधर्मोप्यात्मगुणः। *कर्त्तुरहितप्रत्यवायहेतुरतीन्द्रियोऽन्त्यदुःखसंविज्ञानविरोधी* इति। अतीन्द्रियत्वे सत्यन्त्यदुःखसंविज्ञानविरोधित्वात्, अधर्मः, इतरस्माद् भिद्यते। शेषं पूर्ववत्। तस्य साधनानि शास्त्रे विप्रतिषिद्धानि धर्मसाधनविपरीतानि हिंसानृतस्तेयादीनि। हिंसा प्राणिवधोऽनृतमसत्यं स्तेयं चौर्यम्। आदिपदेनान्येषामपि धर्मसाधनविपरीतानामवरोधः, अवश्यकर्त्तव्यस्य संध्यावन्दनादेरकरणं विहितकालातिक्रमेणाप्यननुष्ठानम्, प्रमादश्चालस्यम्। एतानि निमित्तानि दुष्टाभिसन्धिं दुष्टाभिप्रायं चापेक्ष्यात्ममनःसंयोगादसमवायिकारणादात्मन्यधर्मो [त्पत्तिरिति ? त्पादकानीति।]
अविदुषो रागद्वेषवतः प्रवर्त्तकाद् धर्मात् प्रकृष्टात् स्वल्पाधर्मसहिताद् ब्रह्मेन्द्रिप्रजापतिपितृतनुष्यलोकेष्वाशयानुरूपैरिष्टशरीरेन्द्रियविषयसुखादिभिर्योगो भवति। तथा प्रकृष्टादधर्मात् स्वल्पधर्मसहितात् प्रेततिर्यग्‌योनिस्थानेषु अनिष्टशरीरेन्द्रियविषयदुःखादिभिर्योगो भवति, इत्येवं प्रवृत्तिलक्षणाद् धर्मादधर्मसहिताद् देवमनुष्यतिर्यङ्नारकेषु पुनः पुनः संसारप्रबन्धो भवति।
ज्ञानपूर्वकात्तु कृतादसङ्कल्पितफलाद् विशुद्धे कुले जातस्य दुःखविगमोपायजिज्ञासोराचार्यमुपसङ्गम्योत्पन्नषट्‌पदार्थतत्त्वज्ञानस्याज्ञाननिवृत्तौ विरक्तस्य रागद्वेषाद्यभावात् तज्जयोर्धर्माधर्मयोरनुत्पत्तौ पूर्वसञ्चितयोश्चोपभोगान्निरोधे सन्तोषसुखं शरीरपरि[च्छे?खे]दञ्चोत्पाद्य रागादिनिवृत्तौ निवृत्तिलक्षणः केवलो धर्मः परमार्थदर्शनजं सुखं कृत्वा निवर्तते, तदा निरोधात् निर्बीजस्यात्मनः शरीरादिनिवृत्तिः। पुनः शरीराद्यनुत्पत्तौ दग्धेन्धनानलवदुपशमो मोक्ष इति।
इदानीं कस्योपजातं कर्म संसारसम्पादकं कथञ्च निवर्त्तकमित्युपदर्शयति अविदुषो मिथ्याज्ञानवतो धर्माधर्मावुत्पन्नौ संसारं सम्पादयतस्तदाह प्रवर्त्तकात् संसारसम्पादकाद् धर्मात् प्रकृष्टात् स्वल्पाधर्मसहितात्। इष्टानि च तानि शरीरेन्द्रियविषयसुखादीनि तैः। किंविशिष्टैः? आशयानुरूपैः कर्मानुरूपैर्योगः सम्बन्धो भवतीति। केषु स्थानेषु ? आशयानुरूपैः कर्मानुरूपैर्योगः सम्बन्धो भवतीति। केषु स्थानेषु ? ब्रह्मेन्द्रप्रजापतिपितृ [ऋषि?]मनुष्यलोकेष्विति। *तथा प्रकृष्टादधर्मात् स्वल्पधर्मसहितात्, अनिष्टशरीरेन्द्रियविषयदुःखादिभिर्योगः*। केषु? *प्रेततिर्यग्‌योनिस्थानेषु* इति। उपसंहारमाह *इत्येवं प्रवृत्तिलक्षणात्* तत्स्वरूपाद्। *धर्मादधर्मसहिताद् देवमनुष्यतिर्यङ्नारकेषु पुनः पुनः संसारस्य प्रबन्धः सन्तानो भवतीति।
प्रवर्त्तकाद्धर्मात् संसारोत्पत्तिमुपदिश्य निवर्त्तकात् तन्निवृत्तिमाह *ज्ञानपूर्वकात्तु कृतात्* इति। ज्ञानं पूर्वं यस्य स तथोक्तस्तस्मात्। किं रूपात्? *असङ्कल्पितफलात् इति। इत्थं मे शरीरेन्द्रियविषयाः सम्पद्यन्ताम्, नेत्थमित्येवं न सङ्कल्पितं फलं यस्य स तथोक्तस्तस्माद्, विशुद्धे कुले जन्म भवति। तस्य जातस्य दुःखविगमोपायजिज्ञासा सम्पद्यते कुतः साधनादत्यन्तं दुःखसन्ततेर्वियोगः सम्पद्यत इति। एवं जिज्ञासोराचार्योपसङ्गमः सम्पद्यते। तञ्चोपसङ्गम्य दुःखसन्तानव्यावृत्तेरुपायं विजान्गति तत्त्वज्ञानाच्छ्रेयः सम्पद्यत इति। ततः शास्त्राभ्यासात् षट्‌पदार्थतत्त्वज्ञानमुत्पद्यते। तस्य चोत्पन्नषट्‌पदार्थज्ञानस्य अज्ञाननिवृत्तिर्भवति। तन्निवृत्तौ विरागः, कारणाभावेन कार्यस्यानुत्पत्तेः। विरुक्तस्य रागद्वेषाभावात् ताभ्यां जायेते यौ धर्माधर्मौ तौ तज्जौ, तयोरनुत्पत्तिरिति, रागद्वेषयोर्धर्माधर्मजनकत्वेनोपलब्धेः। तदभावे तदभावो भवत्येव। सञ्चितयोश्च निरोधस्तत्त्वज्ञानादुपभोगाद् वा। ततो रागादिनिवृत्तौ सत्यां निवृत्तिलक्षणः केवलो धर्मः सन्तोषसुखं शरीरपरि[च्छे?खे]दं चोत्पादयति। तच्चोत्पाद्य परमार्थः सर्वपदार्थानामात्मा तद्दर्शनाज्जातं परमार्थदर्शनजं सुखं करोति। तत् कृत्वा निवर्त्तते। तदा निर्गतं धर्माधर्मसमाख्यातं बीजं यस्यासौ तथोक्तस्तस्यात्मनः शरीरादिनिवृत्तिः। बीजाभावादेव पुनः शरीराद्यनुत्पत्तौ सत्यां* दग्धेन्धनानलवदुपशमो मोक्षः* इति। यथा दग्धेन्धनस्यानलस्योपशमो ज्वालादिरहितस्यावस्थानम् तद्वदत्यन्तं विशेषगुणविमुक्तस्यात्मनोऽवस्थानं मोक्ष इति निर्णीतमादिवाक्ये।
शब्दोऽम्बरगुणः, श्रोत्रग्राह्यः, क्षणिकः, कार्यकारणोभयविरोधी, संयोगविभागशब्दजः, प्रदेशवृत्तिः, समानासमानजातीयकारणः। द्विविधो वर्णलक्षणो ध्वनिलक्षणश्च। तत्र अकारादिर्वर्णलक्षणः, शङ्खादिनिमित्तो ध्वनिलक्षणस्च। तत्र वर्णलक्षणस्योत्पत्तिः, आत्ममनसोः संयोगात् स्मृत्यपक्षाद् वर्णोच्चारणेच्छा, तदनन्तरं प्रयत्नः, तमपेक्षमाणादात्मवायुसंयोगाद् वायौ कर्म जायते, स चोर्ध्वं गच्छन् कण्ठादीनभिहन्ति, ततः स्थानवायुसंयोगापेक्षात् स्थानाकाशसंयोगाद् वर्णोत्पत्तिः। अवर्णलक्षणोऽपि भेरीदण्डसंयोगापेक्षाद् भेर्याकाशसंयोगादुत्पद्यते। वेणुपर्वविभागाद् वेण्वाकाश विभागाच्च शब्दाच्च संयोगविभागनिष्पन्नाद् वीचीसन्तानवच्छब्द सन्तान इत्येवं सन्तानेन श्रोत्रप्रदेशमागतस्य ग्रहणम् (नास्ति?), परिशेषात् सन्तानसिद्धिरिति।
शब्दस्य लक्षणपरीक्षार्थमाह *शब्दोऽम्बरगुणः* इत्यादि। अम्बरगुणत्वाच्छब्द इत्युक्ते संख्यादिभिर्व्यभिचारस्तदर्थं श्रोत्रग्राह्य इति। शब्दः, इतरस्माद् भिद्यते, अम्बरगुणत्वे सति श्रोत्रग्राह्यत्वादिति। क्षणिक इति परीक्षार्थम्। पूर्वपदापेक्षं वा लक्षणम्।
ननु चासिद्धं शब्दे क्षणिकत्वम्, प्रत्यभिज्ञानादेरुपलम्भात्। यमहमश्रौषं गोशब्दम्, तमेतर्हि शृणोमि इति श्रोतुर्विज्ञानमुत्पद्यमानमुपलब्धम्। न चेदमप्रमाणम्, अन्यताग्राहकप्रमाणानुपलब्धेः। तथा अर्थापत्त्या च शब्दस्य नित्यत्वं विज्ञायते। अनित्यत्वे हि सङ्केतकालानुभूतशब्दविलयोत्तरकालं शब्दान्तरोपलम्भादसङ्केतिता तदर्थप्रतिपत्तिर्न स्यात्। सा चोपलभ्यत इति तदन्यथानुपपत्त्या शब्दस्य नित्यत्वं ज्ञायते। तदेतदसत्, गृहीतग्राहित्वेन प्रत्यभिज्ञानस्याप्रमाणत्वात्च `अनधिगतार्थगन्तृ प्रमाणम्' इति सामान्यलक्षणाभिधानात्। अथानधिगतार्थे प्रत्यभिज्ञानम्? तन्न, अदृष्टार्थताया मिथ्यात्वप्रसङ्गात्। अथ स्वरूपेणाधिगतार्थमपीदानीन्तनं देशकालाद्यपेक्षयानधिगतार्थञ्चेति।
नन्वेवमप्युभयदोषोपनिपातप्रसङ्गः। प्रमेयसामग्र्याञ्च देशकालादेरन्तर्भावाभ्युपगमेऽनधिगतार्थत्वम्, एतावता प्रमेयस्य पूर्वमप्रतिपत्तेः। न च श्रोत्रव्यापारेण देशकालादेर्ग्रहणं दृष्टम्। अथ प्रमाणसामग्र्यामन्तर्भावः, तर्हि प्रमाणस्यान्यत्वेऽपि प्रमेयस्य तादवस्थ्यादधिगतार्थविषयत्वमेव। तदपेक्षया चेदं विशेषणम्, अन्यथा हि व्यवच्छेद्याभावादनुपपन्नमेव स्यात्, प्रमाणसामग्र्या नियतविज्ञानजनकत्वात्। सर्वत्र प्रमेयभेदादेव विज्ञानभेद इत्यभ्युपगमे प्रतिज्ञानमन्यतायां क्षणिकताप्रसङ्गः। तस्मादनधिगतार्थगन्तृ प्रमाणमित्येवंवादिनो प्रमाणमेव प्रत्यभिज्ञानम्। सामान्यादौ चार्थतथाभावादिति द्वैविध्योपलब्धेर्विशेषानुपलब्धौ शब्दे प्रत्यभिज्ञानम्। न च व्यञ्जकानां सन्दिग्धत्वादप्रमाणत्वम्, स्वतः प्रामाण्यस्य पूर्वमेव प्रतिषेधात्; अनय्तः प्रमाणाद् अभेदप्रतिपत्त्यभ्युपगमे च तदेवास्त्वलं प्रत्यभिज्ञानेन। तथा व्यञ्जकानां क्षणिकतया शब्दज्ञानानन्तरमेव तिरोभावे शब्दस्य, निर्विषयमेव स्यात् प्रत्यभिज्ञानम्। न च व्यञ्जकानां नित्यत्वम्, सर्वदा शब्दव्यक्तिप्रसङ्गात्।
अथ प्रत्यभिज्ञानान्यथानुपपत्त्या तत्कालं यावदवस्थानम्? न, अन्यथापि तद्भावात्। अनित्यत्वेऽपि सादृश्यवशात् प्रत्यभिज्ञानमुत्पद्यत एवेति। विवादगोचरापन्नः शब्दोऽभिव्यक्तः प्रत्यभिज्ञानकालं यावन्नावतिष्ठते, शब्दप्रत्ययविषयत्वात्, पूर्वानुभूतशब्दवत्। न च प्रत्यभिज्ञानं नित्यत्वप्रतिपादनायालम्, अनित्येऽपि भावात्।
अथावस्थायित्वं साध्यते? तत्रापि सन्ततावस्थाने तदेव दूषणम्। अवस्थानमात्रन्तु सिद्धसाधनम्, उपलम्भसङ्केतस्मरणक्रमेणार्थोपलम्भकालं यावदवस्थानाभ्युपगमात्। अथ पूर्वोपलब्धे शब्दे वर्षादिव्यवधानेनापि प्रत्यभिज्ञानाद् अन्तरालेऽवस्थानं साध्यते? न, अन्यत्वेऽपि प्रत्यभिज्ञानोपलब्धेः। यथा बालावस्थायामुपलब्धे देवदत्ते अन्यत्वेऽपि वृद्धावस्थायामुपलम्भात् प्रत्यभिज्ञानम्। न चात्रावस्थाभेदमात्रमेव शरीरस्येति वाच्यम्, अवयवरचनापरिमाणरूपादिव्यतिरेकेण तदनुपलम्भात्। बालावस्थायां हि शिथिलावयवरचना कुमारावस्थायां चान्यथाभूतेति तद्भेदात् शरीरस्य भेदोऽवश्यं भावी, असमवायिकारणविनाशेन कार्यद्रव्यस्य विनाशोपलब्धेः, परिमाणभेदोपलब्धेश्च। एतद् रुपादिष्वपि समानम्। परिमाणविनाशश्चाश्रयविनाशादेव इत्यन्यत्वमेव। बालादिशरीराणां परिमाणभेदस्य कुवलयादावन्यत्वेनैव व्याप्तत्वात्। अथ परस्परं व्यावृत्तो बालाद्यवस्थाशब्दाभिधेयो धर्मः, तस्य च व्यतिरेके वृद्धावस्थायामपि बालादीनामुपलम्भः स्यात्, तेनाविरोधात्, विरोधे वा कथमन्यत्वमसिद्धम्; अव्यतिरेकेऽपि तेषामाविर्भावतिरोभावाभ्यां धर्मिणोऽपि तथाभावप्रसङ्गः। तस्माच्छरीरभेदेऽपि सादृश्यात् स एवायं देवदत्त इति ज्ञानवच्छब्देऽपि प्रत्यभिज्ञानं भविष्यतीति शब्दोपलम्भादनन्तरं श्रोत्रव्यापारेणैव तदभावप्रतीतेरेकत्वग्राहकं प्रत्यभिज्ञानमप्रमाणम्।
कर्णशष्कुल्यभ्युपगमेऽपि क्वचिच्छब्दस्याभिव्यक्तौ तस्य व्यापकतया सर्वदेशावस्थिपुरुषाणामुपलम्भः स्यात्, निरावरणस्य व्यापकत्वाविशेषात्। तथैकदेशास्तस्याभिव्यज्यन्ते तेषामभेदे शब्दस्यैवाभिव्यक्तिरिति तदेव दूषणम्। भेदे तु तदभिव्यक्तौ कथं शब्दोऽर्थमभिदध्यात्। यदि च शब्दविशेषणश्च शब्दाभावः परिच्छिद्यते, विशेषणविशेष्यभावलक्षणेनैव सम्बन्धेनेत्युक्तं पूर्वम्।
अथ शब्दस्योपलम्भानन्तर[मु?मनु]पलब्धिर्व्यञ्जकाभावाद् नासत्त्वादिति चेत्, न, सद्भावे प्रमाणाभावाद् आवरणादेरनुपलम्भाच्च। नहि एन्द्रियकस्यातीन्द्रियामावरणं प्रमाणेन क्वचिदुपलब्धम्। अभ्युपगमेऽपि क्वचिच्छब्दस्याभिव्यक्तौ तस्य व्यापकतया सर्वदेशावस्थितपुरुषाणामुपलम्भः स्यात्, निरावरणस्य व्यापकत्वाविशेषात्। यदि च शब्दात्मकानियतार्थप्रतिपादकाश्चैकदेशाः? संज्ञाभेदमात्रमेव।
अथ भेरीदण्डसंयोगाद् वेगापेक्षादुत्पन्नक्रियो वायुर्वेगवांश्च्रोत्रदेशेनागत्याभिसम्बन्धते, तद्गतानि तु स्तिमितवाय्वन्तराणइ प्रेत्यासयति, ततः प्रतिबन्धकाभावे सति श्रोत्रं शब्दस्य ग्राहकमिति? नन्वेवमपि अशेषशब्दोपलम्भप्रसङ्गः, संस्कृते हि श्रोत्रे सर्वेषां सान्निध्यम्। न च गोशब्दाभिव्यक्त्यर्थं प्रेरितो वायुर्नाश्वशब्दं व्यनक्तीति वाच्यम्, व्यञ्जकेषु नियमानुपलब्धेः। यथा घटाभिव्यक्त्यर्थमुत्पादितः प्रदीपः समानेन्द्रियग्राह्समानदेशावस्थितपदार्थाभिव्यञ्जक इति। तथाहि न श्रोत्रं प्रतिनियतसंस्कारकसंस्कार्यम्, समानेन्द्रियग्राह्यसमानदेशावस्थितवस्तुप्रकाशकत्वात्, चक्षुर्वत्। प्रदीपावष्टब्धदेशव्यतिरेकताज्ञानं प्रदीपसंस्कृतं न चक्षुषा ग्रहणमिति समानदेशावस्थितपदम्। एवंविधाश्च रूपरसादयो न गृह्यन्त इति समानेन्द्रियग्राह्यग्रहणम्। शब्दा वा विवादविषयाः प्रतिनियतव्यञ्जकव्यङ्ग्या न भवन्ति, समानेन्द्रियग्राह्यसमानदेशावस्थित्वात्, घटादिवत्। अत्र च ये प्रतिनियतसंस्कारकसंस्कार्या न भवन्ति चक्षुर्घटादयस्ते सपक्षास्तत्र हेतोः सद्भावः। तद्‌विपरीतास्तु विपक्षास्तस्मादत्यन्तं व्यावृत्तिरिति। प्रदीपेन च संस्कृतं चक्षुर्युगपद् घटादिप्रकाशकमिति दृष्टम्। एवं श्रोत्रमप्यशेषशब्दोपलम्भकं स्यात्। अत्र चापेक्षाबुद्धिवदनेकपदार्थालम्बनमेवैकं ज्ञानमाशुभावेन वा युगपच्छब्दप्रयोग इति। नन्वेकस्यामपि पृथिव्यां शुक्लादिभेदानां संस्कृतेनापि चक्षुषा न युगपत् प्रकाशनम्, एवं घ्राणादिना गन्धादेरिति। एवमपि न हेतोर्व्यभिचारः, सपक्षैकदेशवृत्तेरपि गमकत्वात्।
अथ यथा चक्षुः समानेन्द्रियग्राह्यसमानदेशावस्थितानामपि शुक्लादिभेदानां न युगपत् प्रकाशकमेवं श्रोत्रमपि स्यात्। इष्टञ्च पृथिव्यामनेकरूपाधिकरणत्वमपि चित्ररूपसर्थनावसरे। सत्यमेतत्; तथापि रूपर्भेदानामग्रहणं सहकार्यभावात्। तथा च नानारूपावयवोपलम्भसहकारीन्द्रियमवयविन्यनेकरूपग्राहकमित्युक्तम्। तत्सद्‌भावे विचित्रप्रतिभासनात्। न चैवं श्रोत्रस्य वायुना संस्कृतस्य सर्वशब्दानां तत्र सान्निध्यादग्रहणे कारणमस्तीति। सामान्यानि तु प्रतिनियतव्यञ्जकव्यङ्ग्यानि, न तु समानदेशानि स्वविषयसर्वगतत्वादेवेति व्यभिचाराभावः। तथा आतपसम्पर्कात्तैले गन्धाभिव्यक्तिः, ग्रीष्मावसाने तु दग्धस्थलीषु प्रथमजलधरधारासम्पर्कात्, न च समानदेशत्वम्। यद् वा जलधरधारासम्पर्काद् भूगतानिलोद्भवे सत्यवयवक्रियाक्रमेण पूर्वद्रव्यनिवृत्तावुत्पन्नपाकैर्द्व्यणुकादिप्रक्रमेण द्रव्यान्तरोत्पादे सति गन्धोऽभिव्यज्यत इति। यच्चाभिव्यज्यते सामान्यरूपादि, तद् आश्रयस्थमेवेति दृष्टम्, एवं शब्देऽपि स्यात्। तत्तु नास्तीति व्यक्ति धर्मकत्वाभावः।
तथा वीणाशब्दाभिव्यञ्जकेन रासभशब्दस्याप्यभिव्यक्तत्वाद् ग्रहणे वीणाशब्दस्य सर्वदानुपलम्भ एव स्यात्। न चैतदस्ति। क्वचिदेव रासभशब्देन वीणाशब्दादिशब्दानामभिभवोपलब्धेः। न चायं नित्यपक्षे अभिभाव्याभिभावकभावो घटते, तीव्रतरादिभेदासम्भवात्। तीव्रस्य च ध्वनेर्ग्रहणान्मन्दस्याग्रहणमभिभवः। न च तीव्रेण व्यञ्जकेनैकस्य ग्रहणादन्यस्याग्रहणमुपपद्यते, व्यञ्जकेषु नियमानुपलब्धेरित्युक्तम्। शब्दप्रत्ययसमानाधिकरणश्चायं तीव्रः शब्दो मन्दः शब्द इति प्रत्ययः, न व्यञ्जकप्रत्ययेनेति कथं तीव्रतरादिर्व्यञ्जकध्रमः। तदेवं तीव्रादिभेदभिन्नत्वात् सुखादिवदनित्यत्वं शब्दानाम्। व्यञ्जकानुपलब्धौ चाभूत्वा भवनस्योपलब्धेः कार्यत्वादनित्यत्वं घटादिवत्। तथा परमात्मगुणान्यत्वे सति व्यापकविशेषगुणत्वात् सुखादिवत्। तच्चोक्तमाकाशाधिकारे। अनित्यविशेषगुणमाकाशम्, सलिलादिपरमाणुव्यतिरेके सति भूतत्वात् क्षित्यादिवत्। पारिमाण्डल्याधारपरत्वानुमेयपरमात्मान्यत्वे सति समवायिकारणत्वात् क्षित्यादिवदेव।
अथ गुणत्वे शब्दस्यानुमानम्; न द्रव्यकर्मजातीयः शब्दः, श्रोत्रग्रहणयोग्यत्वात्, शब्दत्वादिवत्। गुणः, शब्दः, द्रव्यकर्मान्यत्वे सति सत्तासम्बन्धित्वात्, रूपादिवत्। यच्चेदम् अर्थप्रतिपत्त्यन्यथानुपपत्त्या शब्दानां नित्यत्वं विज्ञायत इत्युक्तम्, तदसत्, अनित्यत्वेऽपि सादृश्योपादाने सत्यर्थप्रतिपत्तेर्भावात्। यत्र यत्र गकारौकारविसर्जनीयानामित्थम्भूतानुपूर्वीमुपलभसे, तत्र तत्र गोत्वविशिष्टोऽर्थः प्रतिपत्तव्यः, प्रतिपादयितव्यश्चेति सङ्केतग्रहे सति तथाविधं शब्दमुपलभमानस्तमर्थं प्रतिपद्यते प्रतिपादयति चेति।
तदेवमनित्यत्वे व्यवस्थिते विनाशकारणमाह कार्यकारणोभयविरोधीति। आद्यः शब्दः कार्येण विरुध्यते। अन्त्यस्तु कारणं विरुणद्धि। मध्यगतास्तु कार्येण विरुध्यन्ते, कारणञ्च विरुन्धन्तीति।
संयोगविभागशब्दज इत्युत्पत्तिकारणम्। `संयोगाद् विभागाच्छब्दाच्च शब्दनिष्पत्तिः' इति (वै. सू.)
स द्विविधः। केन रूपेण? वर्णलक्षणोऽवर्णलक्षणश्चेति। अकारादिहाकारापर्यन्तो वर्णलक्षणः। शङ्खादिनिमित्तं यस्यासौ तन्निमित्तोऽवर्णलक्षण इति। आदिपदेनान्येषामपि निमित्तकारणानामवरोधः।
तत्र वर्णलक्षणस्योत्पत्तिरभिधीयते। आत्ममनसोः संयोगादसमवायिकारणात् स्मृत्यपेक्षाद्वर्णोच्चारणेच्छा भवति। तदनन्तरं प्रयत्नः। तमपेक्षमाणाद् आत्मवायुसंयोगादसमवायिकारणाद् वायौ समवायिकारणे कर्म। स चोत्पन्नकर्मा वायुरूर्ध्वं गच्छन् कण्ठादीनिहन्तीति। आदिपदेन ताल्वोष्ठादेर्ग्रहणम्। ततः स्थानवायुसंयोगापेक्षात् स्थानाकाशसंयोगाद्वर्णोत्पत्तिरिति। आकाशं समवायिकारणं स्थानाकाशसंयोगोऽसमवायिकारणं स्थानवायुसंयोगश्चापेक्षाकारणमिति।
अवर्णलक्षणोऽपि भेर्याकाशसंयोगादुत्पद्यते। भेरीदण्डसंयोगाद्यपेक्षाद् इत्यादिपदेन दिक्कालादेर्ग्रहणम्। अत्राप्याकाशं समवायिकारणम्। भेर्याकाशसंयोगोऽसमवायिकारणं भेरीदण्डसंयोगादिर्निमित्तकारणमिति। तथा वेणुपर्वविभागापेक्षात् पर्वाकाशविभागादसमवायिकारणादाकाशे शब्दो निष्पद्यत इति।
शब्दजं शब्दमुपदर्शयति। एवं संयोगाद् विभागाच्च परिनिष्पन्नः शब्दः समन्तात् शब्दान्तराण्यारभते। तस्मादप्यसमवायिकारणात् स्वकारणप्रत्यासत्त्यपेक्षादाकाशेऽन्यः शब्द इति वीचीसन्तानवच्छब्दसन्तानः। यथा हि महतः पाषाणाद्यभिघातादुपजाता वीची वीच्यन्तरमारभते, सापि पुनर्वीच्यन्तरमिति सन्तानास्तद्वच्छब्दसन्तान इत्येवं सन्तानन्यायेन श्रोत्रदेशमागतस्य ग्रहणम्।
एतच्च कल्प्यते; अन्यथा क्रमशष्कुल्याकाशसंयोगोपलक्षितनभप्रदेशव्यतिरेकेण प्रदेशान्तरसमवायात्तेषामव्याप्यवृत्तित्वेन विशिष्टप्रत्यासत्तेरभावादग्रहणमेव स्यात्। तदाह श्रोत्रशब्दयोर्गमनासम्भवात् सन्तानानभ्युपगमे न परस्परं प्रप्तस्य चोपलम्भ इति सन्तानः कल्प्यते।
नन्वेतस्मिन् पक्षे शब्दाः स्वावरुद्धनभोदेश एव यदि शब्दान्तरमारभेरन्, न कस्याप्युपलम्भः स्यात्, सर्वेषामेकत्रैवोपक्षयात्। अथ प्रदेशान्तरे, तर्हि ब्रह्मभाषितस्याप्युपलम्भोऽस्मदादिश्रोत्रदेशे शब्दान्तरारम्भात्।
अथाणुविवरणात्रे स्वदेशानन्तरमारभते। तर्हि तेषां क्षणशतादिव्यवधानेन ग्रहणं स्यात्। तत्तु न कस्याप्युपलम्भः स्यात्, सर्वेषामेकत्रैवोपक्षयात्। अथ प्रदेशान्तरे, तर्हि ब्रह्मभाषितस्याप्युपलम्भोऽस्मदादिश्रोत्रदेशे शब्दान्तरारम्भात्।
अथाणुविवरमात्रे स्वदेशानन्तरमारभते। तर्हि तेषां क्षणशतादिव्यवधानेन ग्रहणं स्यात्। तत्तु न दृष्टं क्षणद्वयादिव्यवधानेन श्रवणात्। तथा आद्यः शब्दः शब्दान्तरं नारभते, शब्दत्वादन्त्यशब्दवत्। अन्त्यशब्दो वा शब्दान्तरमारभते शब्दत्वादाद्यशब्दवत्। अतः सन्तानप्रतिषेधे शब्दोपलम्भान्यथानुपपत्त्या वायोर्व्यञ्जकस्याघमनं कल्प्यत इति मन्यन्ते।
न चैतद्युक्तम्। व्यक्तिपक्षस्य पूर्वमेव प्रतिषेधाद्वायारागमने प्रमाणाभावाच्च। न च शब्दोपलब्धिरेव प्रमाणम्, सन्तानन्यायेनापि तदुपपत्तेः। यच्चात्र दूषणमुपन्यस्तं तद्वीचीनिदर्शनोपन्यासान्निरस्तम्। यथा हि महतः पाषाणाभिघातादुपजाता वीची स्वदेशानन्तरदेश एव वीच्यन्तरमारभते, न तटादावेवं शब्दोऽपि स्वकारणप्रत्यासत्तिमपेक्ष्यानन्तरदेश एव शब्दान्तरमारभत इति। न च क्षणशतादिव्यवधानेन ग्रहणप्रसङ्गः, षण्णामेव शब्दानां तीव्रादिभेदानामुत्पत्तेः। तथाहि भेरीदण्डाभिघातादुपजाते शब्दे सन्निहितस्य तीव्रतमः शब्द इति ज्ञानम्, तदनन्तरं व्यवहितस्य च तीव्रतरः शब्द इति ज्ञानम्, ततस्तीव्रो मन्दो मन्दतरो मन्दतमश्चेति षड्भेदाः क्रमेणानुभूयन्त इति न आनन्त्यपक्षोक्तो दोषः। तथाहि भेरीदण्डाभिघातादेक एव शब्दः कल्पितं भूयांसं प्रदेशं व्याप्योपजायत इत्यनेकैरप्युपलभ्यत एवेति न सर्वत्र सन्तानः। यच्चेदमुक्तम्--नाद्यः शब्दः शब्दान्तरमारभते शब्दत्वादन्त्यशब्दवद् इति, तन्न स्वतन्त्रसाधनम्, स्वयमाद्यन्तशब्दाप्रसिद्धेः। न च दृष्टान्तदार्ष्टान्तिकधर्मिणोरप्रसिद्धौ हेतोः पक्षधर्मत्वं बहिर्व्याप्तिर्वा सम्भवतीति। अथ परव्याप्त्या परस्यानिष्टापादनमेतत्। तन्न। यदि प्रमाणपूर्विका परव्याप्तिस्तयैव वाध्यमानत्वाद् विपरीतानुमानस्यानुत्थानम्। अथाप्रमाणपूर्विका? त्रहि प्रमेयाप्रसिद्धेराश्रयासिद्धं साधनम्, धर्म्यासिद्धश्च दृष्टान्त इति, शब्दस्य शब्दान्तरारम्भप्रतिषेधे स्वयमाद्यन्तविशेषणाप्रसिद्धेः। तस्माद् व्यक्तिपक्षप्रतिषेधे शब्दोपलम्भान्यथानुपपत्त्या सन्तानकल्पना तस्माद् व्यक्तिपक्षप्रतिषेधे शब्दोपलम्भान्यथानुपपत्त्या सन्तानकल्पना क्रियत इति। न चान्त्यशब्दस्यारम्भकत्वपरिकल्पनायां प्रमाणमस्ति, सर्वदोपलम्भप्रसङ्गात्। अतोऽन्त्यशब्दस्य स्पर्शवद्द्रव्यसंयोगैकार्थसमवायेन प्रलयः स्वज्ञानादुपभोगप्रापकादृष्टापक्षयाद् वेति विनाशस्य प्रमाणेनोपलब्धेः, तस्य च निर्हेतुकत्वप्रतिषेधादुक्तकारणादेव विनाशः कल्प्यत इत्यलम्।
।। इति श्रीव्योमशिवाचार्य विरचितायां पदार्थधर्मसङ्ग्रहटीकायां व्योमवत्यां गुणपदार्थः ।।

"https://sa.wikisource.org/w/index.php?title=व्योमवती/षष्ठः_भागः&oldid=399088" इत्यस्माद् प्रतिप्राप्तम्