व्योमवती/सप्तमः भागः

विकिस्रोतः तः
व्योमवती
सप्तमः भागः
[[लेखकः :|]]

कर्मसाधर्म्यनिरूपणम्[सम्पाद्यताम्]

उत्क्षेपणादीनां पञ्चानामपि कर्मत्वसम्बन्धः। एकद्रव्यवत्त्वं क्षणिकत्वं मूर्तद्रव्यवृत्तित्वम् अगुणवत्त्वं गुरुत्वद्रवत्वप्रयत्नसंयोगजत्वं स्वकार्यसंयोगविरोधित्वं संयोगविभागनिरपेक्षकारणत्वम् असमवायिकारणत्वम् स्वपराश्रयसमवेतकार्यारम्भकत्वं समानजातीयानारम्भकत्वं द्रव्यानारम्भकत्वञ्च प्रतिनियतजातियोगित्वम्। दिग्‌विशिष्टकार्यारम्भकत्वञ्च विशेषः।
इदानोमितरपदार्थवैधर्म्येण स्वभेदव्यापकमुत्क्षेपणादीनां साधर्म्यं तथा परस्परव्यावृत्तं वैधर्म्यं कारणञ्च निरूपयन्नाह उत्क्षेपणादीनाम्[इति]। न परं द्वयोस्त्रयाणाञ्च। किं तर्हि? पञ्चानामपि कर्मत्वसम्बन्धः, कर्मत्वोपलक्षितः समवायः। तथा चोत्क्षेपणादीनि, इतरस्माद् भिद्यन्ते, कर्माणीति वा व्यवहर्तव्यानि, कर्मत्वाभिसम्बन्धादिति। एकद्रव्यवत्त्वमिति। एकञ्च तद् द्रव्यञ्चेत्येकद्रव्यम्, तदस्यास्तीति एकद्रव्यवत्, तस्य भाव एकद्रव्यवत्त्वम्। एकं कर्मैकस्मिन्नेव द्रव्ये वर्तते, तथैकमेवैकस्मिन्निति। कुत एतत्? एकस्मिंश्चलिते सर्वेषां चलनानुपलब्धेः। यत्रापि बहूनामेककालं चलनं तत्राप्यनेकत्वमेव, कारणस्याभिघातादेः प्रत्याश्रयं भेदात्। अन्यत्र च समवेतमभिघातादि अन्यत्र समवायिकारणमित्यभ्युपगमे चाशेषद्रव्याश्रितस्योत्पत्तिः, अविशेषात्. तथैकस्मिन् द्रव्ये संयोगाद् विनष्टे कर्मणि आश्रयान्तरेऽपि तस्यैकतायां विनाशः स्यात्। एकस्मिंश्चानेककर्माभुयगमे विरुद्धदिगभिमुखतायां परस्परं प्रतिबन्धाद् अगमनमेव स्यात्। एकदिगधिमुखतायाञ्च एकेनैव क्रमणा संयोगविभागयोर्जनितत्वात् न द्वितीयस्य सद्भावे प्रमाणमस्ति। तदुत्तरसंयोगाच्च प्राक्तनकर्मविनाशः कर्मान्तरोत्पत्तिश्च क्वचिदिष्यत एव। तस्माद्यत्र कर्मद्वयप्रतिभासस्तत्र आशुभावित्वेनैवेति द्रष्टव्यम्। अथैकद्रव्यवत्त्वं रूपादेरपीति क्षणिकग्रहणम्; तथापि बुद्ध्यादिभिर्व्यभिचारपरिहारार्थं मूर्तद्रव्यवृत्तित्वपदम्।
अथ क्षणिकत्वे सति मूर्तद्रव्येष्वेव वर्त्मानत्वात् कर्मेत्युक्ते व्यभिचाराभावः? सत्यम्, तथापि पदान्तरं साधर्म्यमात्रप्रतिपादनार्थम्, परीक्षार्थञ्चेति। गुरुत्व[द्रवत्व]प्रयत्नसंयोगेभ्यो जायत इति गुरुत्व[द्रवत्व]प्रयत्नसंयोगजम् तस्य भावस्तत्त्वमिति। उदाहरणञ्चैतत्, अनय्स्मादपि कारणात् तदुत्पत्तेः। व्यस्तञ्च गुरुत्वादिकं कायन्तिरसम्पादकमपि न समुदितं कर्मव्यतिरेकेणान्यस्य इत्यसाधारणमेव। नचैवं सकलकर्मभेदव्यापकमिति वैधर्म्यमात्रमेव। यद् वा गुरुत्वाद्यन्यतमकारणजन्यत्वं विवक्षितम्। तथा स्वकार्यसंयोगविरोधित्वमिति। संयोगमात्रेण विनाशादर्शनादिति स्वकार्यग्रहणम्। कर्मकार्यत्वञ्च विभागवेगयोरपीति[तत्र व्यभिचारवारणाय]संयोगग्रहणम्। अतः स्वकार्यसंयोगविरोधित्वमसाधारणमपि क्वचिदाश्रयविनाशेनापि विनाशान्न पक्षव्यापकमिति वैधर्म्यमात्रमेव। तथा विभागे संयोगेऽपि च कर्त्तव्ये निरपेक्षकारणत्वं कर्मणः स्वरूपम्।
ननु विभागेऽनपेक्षकारणत्वमिष्टम्, संयोगे तु पश्चाद्भाविनं प्राक्तनसंयोगविनाशमपेक्षत इत्यनपेक्षत्वमसिद्धम्? वस्तुभूतकारणापेक्षया तदुपपत्तेः। अभावव्यतिरेकेण च वस्तुभूतं कारणं नापेक्षत इत्यनपेक्षमित्युक्तम्। न चान्यस्यैतत् सम्भवतीत्यसाधारणम्।
असमवायिकारणत्वमिति असाधारणमितरस्माद् व्यावृत्तम्। गुणानां हि द्वैविध्यम् असमवायित्वं निमित्तत्वञ्च। उत्क्षेपणादीनां चासमवायिकारणत्वमेव न द्वैविध्यमस्तीति विपक्षादत्यन्तं व्यावृत्तिरेव, द्वैविध्यप्रतिषेधस्य विवक्षितत्वात्। तथा स्वपराश्रयसमवेतकार्यारम्भकत्वम्। यस्मिन्नाश्रये समवेतं कर्म, तत्र आश्रयान्तरे च समवेतं विभागं संयोगं चारभत इति। समानजातीयानारम्भकत्वम्। तथा चोत्पन्नं कर्म विभागं संयोगं चारभमाणमुपलब्धं न कर्मान्तरमिति। एकस्मिन् धऱ्मिण्यनेकस्य कर्मणः पूर्वमेव प्रतिषेधात्। द्रव्यानारम्भकत्वम्। न कर्म द्रव्यमारभते, तस्योत्तरसंयोगेन विनश्यदवस्थस्य कारणत्वासम्भवादिति स्वभेदव्यापकं साधर्म्यम्। प्रतिनियतजातियोगित्वमिति। प्रतिनियतजातिरुत्क्षेपणत्वादिका, तद्योगित्वं पञ्चानामपि। दिग्‌विशिष्टकार्यारम्भकत्वञ्च विशेषः [परस्परमिति?]।
तत्रोत्क्षेपणं शरीरावयवेषु तत्सम्बद्धेषु च यदूर्ध्वभाग्भिः प्रदेशैः संयोगकारणमधोभाग्भिश्च प्रदेशैः विभागकारणं कर्मोत्पद्यते गुरुत्वप्रयत्नसंयोगेभ्यस्तदुत्क्षेपणम्।
तद्विपरीतसंयोगविभागकारणं कर्मापक्षेपणम्।
ऋजुनो द्रव्यस्याग्रावयवानां तद्देशैर्विभागः संयोगश्च मूलप्रदेशैः, येन कर्मणावयवी कुटिलः संजायते, तदाकुञ्चनम्।
तद्विपर्ययेण संयोगविभागोत्पत्तौ येन कर्मणावयवी ऋजुः सम्पद्यते, तत्प्रसारणम्।
यदनियतदिक्‌प्रदेशसंयोगविभागकारणं तद् गमनमिति ।।
तदेवाह तत्रोत्क्षेपणम्। यदूर्द्वं भजन्त इत्यूर्ध्वभाजस्तैः संयोगकारणम्, अधोभाग्‌भिश्च विभागकारणं कर्मोत्पद्यते। केभ्यः केषु चेति? गुरुत्वद्रवत्वप्रयत्नसंयोगेभ्यः समस्तव्यस्तेभ्यः। तदुत्क्षेपणमित्युदाहरणार्थम्, वेगादेरपि तत् कारणत्वात्। शरीरावयवेषु हस्तपादादिषु तत्सुम्बद्धेषु मुसलादिष्वित्याश्रयनिरूपणम्।
तद्विपरीतसंयोगविभागकारणं कर्मापक्षेपणमिति। ऊर्द्वभाग्‌भिर्विभागकारणमधोभाग्‌भिश्च संयोगकारणमिति।
आकुञ्चनम् ऋजुनो द्रव्यस्य येऽग्रावयवास्तेषां तद्देशैस्तदुपलक्षिताकाशादिप्रदेशैर्विभागः, संयोगश्च मूलप्रदेशैरिति तदुपलक्षिताकाशादिप्रदेशैरेव।
येन कर्मणा समुत्पन्नेनावयवी कुटिलः सन् नृजुः सम्पद्यते, तत् प्रसारणमिति।
यदनियतदिग्‌देशसंयोगविभागकारणं तद् गमनमिति। उक्तप्रदेशेभ्योऽन्येऽनियतदिक्‌प्रदेशास्तैः संयोगविभागकारणमिति।
एतत् पञ्चविधमपि कर्म शरीरावयवेषु तत्सम्बद्धेषु च सत्प्रत्ययम् असत्प्रत्ययञ्च। यदन्यत् तदप्रत्ययमेव, तेषु अन्येषु च तद्गमनमिति।
उपसंहारमाह इत्येतत् पञ्चविधमपि कर्म सत्प्रत्ययम् असत्प्रत्ययञ्चेति। प्रत्ययः कारणम्, तच्च सामान्यपदेनापि सदिति विशेषणात् प्रयत्नाख्यमेव विवक्षितम्। पारम्पर्येण वा प्रत्ययकार्यत्वात् प्रयत्नः प्रत्यय इत्युक्तः। अतः सत्प्रत्ययो यस्य तत्तथोक्तं क्रम, प्रयत्नपूर्वकमिति यावत्। असत्प्रत्ययमयत्नपूर्वकम्। तच्च शरीरावयवेषु तत्सम्बद्धेषु भवतीति। एतस्माद् यदन्यत्, तदप्रत्ययमयत्नपूर्वकम्, अस्मदादिप्रयत्नस्य तत्राव्यापारात्। तच्चैतेष्वन्येषु च द्रव्येषु भवत्युत्क्षेपणादिविलक्षणत्वाद् गमनमेवेति।
कर्मणां जातिपञ्चकत्वमयुक्तम्, गमनाविशेषात्। सर्वं हि क्षणिकं कर्म गमनमात्रम् उत्पन्नं स्वाश्रयस्योर्ध्वमधस्तिर्यग् वापि अणुमात्रैः प्रदेशैः संयोगविभागान् करोति, सर्वत्र गमनप्रत्ययोऽविशिष्टस्तस्माद् गमनमेव सर्वमिति। न, वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात्। इहोत्क्षेपणं परत्रापक्षेपणमित्येवमादि सर्वत्र वर्गशः प्रत्ययानुवृत्तिव्यावृत्ती दृष्टे, तद्धेतुः सामान्यविशेषभेदोऽवगम्यते। तेषामुदाद्युपसर्गविशेषात् प्रतिनियतदिग्‌विशिष्टकार्यारम्भत्वादुपलक्षणभेदोऽपि सिद्धः।
क्रमणां जातिपञ्चत्वमयुक्तम्। कुतः? गमनाविशेषात्। गमनादभेदादित्याक्षेपः। तदेवाह सर्वं क्षणिकम्। क्षणिकत्वं नाम सर्वकर्मसु समानमिति न स्वरूपभेदाद् भेदः। चलनमात्रमुत्पन्नं स्वाश्रयस्य संयोगविभागान् करोति। कैः सह? ऊर्ध्वमधस्तिर्यक्‌परमाणुविवरमात्रैः प्रदेशैरिति। यावति प्रदेशे परमाणोरणुप्रवेशः सम्भवतीति, न कार्यभेदादपि भेदः, सर्वस्याप्येतत्कार्यजनकत्वात्। तथा सर्वत्र च गमनप्रत्ययोऽविशिष्ट इति। ऊर्ध्वं गच्छत्यग्रप्रदेशाच्च [मूल] प्रदेशं गच्छति मूलप्रदेशाच्चाग्रप्रदेशं गच्छतीति। तस्माद् गमनमेव सर्वमित्युपसंहारः। न, वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनादिति प्रतिसमाधानवाक्यम्। यदुक्तं सर्वं गमनमिति, एतन्न, उत्क्षेपणादिवर्गेषु प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात्। तदेवाह इहोत्क्षेपणम्, परत्रापक्षेपणमित्येवमादि सर्वत्र वर्गश इति वर्गे वर्गे प्रत्ययानुवृत्तिर्व्यावृत्तिश्च दृष्टा। तथाहि उत्क्षेपणमुत्क्षेपणमित्युत्क्षेपणवर्गेऽनुवर्तते, अपक्षेपणादिवर्गाच्च व्यावर्त्तते। तथा अपक्षेपणं स्ववर्गेऽनुवर्तते भेदान्तराच्च, व्यावर्त्तत इति। तद्धेतुः अनुगतव्यावृत्तज्ञानहेतुः उत्क्षेपणत्वादिसामान्यविशेषोऽवगम्यत इति। न गमनत्वमेकमेव सामान्यम्, उत्क्षेपणादिभेदानां परस्परव्यावृत्तजातिसम्बन्धिनां सद्भावात्। उदाद्युपसर्गविशेषात्तेषां परस्परविशेषः। तथाहि उत्पूर्वं क्षेपणमुत्क्षेपणम्, अपपूर्वम् अपक्षेपणम्, आत् पूर्वं कुञ्चनम् आकुञ्चनम्, प्रपूर्वं सारणं प्रसारणम्, गमनं तूपसर्गाभावादेव विशिष्यते। प्रतिनियतदिग्‌विशिष्टकार्यारम्भत्वाद् उपलक्षणभेदोऽप्युत्क्षेपणादीनां सिद्ध इति। तथा चोर्ध्वं संयोगकारणमधश्च विभागकारणमुत्क्षेपणस्योपलक्षणमित्येवमाद्युक्तम्। उपलक्षणस्य चोत्क्षेपणत्वादेर्भेद इति।
एवमपि पञ्चैवेत्यवधारणानुपपत्तिः। निष्क्रमणप्रवेशनादिष्वपि वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात्। यद्युत्क्षेपणादिषु सर्वत्र वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनाज्जातिभेद इष्यते, एवञ्च निष्क्रमणप्रवेशनादिष्वपि। कार्यभेदात् तेषु प्रत्ययानुवृत्तिव्यावृत्तिप्रसङ्गः। अथ समाने वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिसद्भावे उत्क्षेपणादीनामेव जातिभेदो न निष्क्रमणादीनामित्यत्र विशेषहेतुरस्तीति। न, जातिसङ्करप्रसङ्गात्। निष्क्रमणादीनां जातिभेदात् प्रत्ययानुवृत्तिव्यावृत्तौ जातिसङ्करः प्रसज्यते। कथम्? द्वयोर्द्रष्ट्रोरेकस्मादपवरकादपवरकान्तरं गच्छतो युगपन्निष्क्रमणप्रवेशनप्रत्ययौ दृष्टौ, तथा द्वारप्रदेशे प्रविशति निष्क्रामतीति च। यदा तु प्रतिसीराद्यपनीतं भवति, तदा न प्रवेशनप्रत्ययो नापि निष्क्रमणप्रत्ययः; किन्तु गमनप्रत्यय एव भवति। तथा नालिकायां वंशपत्रादौ पतनि बहूनां द्रष्टणां युगपद् भ्रमणपतनप्रवेशनप्रत्यया दृष्टा इति जातिसङ्करप्रसङ्गः। न चैवमुत्क्षेपणादिषु प्रत्ययसङ्करो दृष्टः। तस्मादुत्क्षेपणादीनामेव जातिभेदात् प्रत्ययानुवृत्तिव्यावृत्ती, निष्क्रमणादीनान्तु कार्यभेदादिति।
एवमपि पञ्चैवेत्यवधारणानुपपत्तिः, उत्क्षेपणादिभ्योऽतिरिच्यमानेषु निष्क्रमणं प्रेवशनिमित्यादिषु वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात्। सामान्यविशेषसद्भावे सति कर्मणाम् आनन्त्यमनिष्टमनुषज्यते। अथ कार्यभ्दान्निष्क्रमणादिषु प्रत्ययानुवृत्तिसद्भावो न, सामान्यविशषेसद्भावादिति पराशयमाशङ्क्याह उत्क्षेणादिष्वपि कार्यभेदादेव प्रत्ययानुवृत्तिव्यावृत्तिप्रसङ्ग इति।
यथा बहिर्देशेन संयोगकरणादन्र्देशेन च विभागजननात् निष्क्रमणम्, विपरीतञ्च प्रवेशनम्, एवम् उर्ध्वदेशेन संयोगजननादधोदेशेन विभागजननाच्चोत्क्षेपणमित्यादि भविष्यतोति। अथोत्क्षेपणादिषु निष्क्रमणादिषु च समाने वर्गशः प्रत्ययानुवृत्तिव्यावृत्ति[सद्]भावे सत्युत्क्षेपणादीनामेव जातिभेदो न निष्क्रमणादीनामित्यत्र न विशेषहेतुरस्तीति।
एतन्न, जातिसङ्करप्रसङ्गात्। तदाह निष्क्रमणादीनां जातिभेदात् प्रत्ययानुवृत्तिव्यावृत्तौ सत्यां जातिसङ्करो विरुद्धजातिसमावेशः प्रसज्यते। स चान्यत्रानुपलब्धेरनिष्टः। यद्यपि सत्ताद्रव्यत्वादिपरापरभेदभिन्नमेकस्यां व्यक्तावस्ति, तथापि न गोत्वाश्वत्वाद्युपलब्धम्। अत्र चैकस्यां व्यक्तौ निष्क्रमणत्वप्रवेशनत्वजातिप्रसङ्गः। कथमित्याह द्वयोर्द्रष्ट्रोरेकस्यां कर्मव्यक्तौ युगपन्निष्क्रमणप्रवेशनप्रत्ययौ दृष्टाविति। कस्य तत् क्रमेत्याह एकस्मादपवरकादपवरकान्तरं गच्छतः पुरुषस्येति। तथाहि द्वयोरपवरकयोरेकमेव द्वारमित्युभयत्र व्यवस्थितयोः पुरुषयोरन्यस्मिंश्च व्रजति पुरुषे विशिष्टसंयोगविभागोपलम्भाद् युगपन्निष्क्रमणप्रत्ययौ दृष्टावेव, तथा च द्वारप्रदेशे प्रविशति निष्क्रमतीति च। यो हि द्रष्टा स्वापवरकान्तर्देशे विभागं बहिर्देशे च संयोगमुपलभते, तस्य निष्क्रमतीति प्रत्ययो भवति। यस्तु स्वापवरकान्तर्देशे संयोगं बहिर्देशे च विभागमुपलभते, तस्य प्रवेशनप्रत्ययो भवति। यदा तु प्रतिसीरादिजवनिकाद्यपनीतं भवतीत्यादिपदेनान्यस्यापि कुड्यादेरावरणस्यापनयनस्तदा विशिष्टस्य कार्यभेदस्यानुपलब्धेर्न निष्क्रमणप्रत्ययः, नापि प्रवेशनप्रत्ययः। किं तर्हि? गमनप्रत्यय एव भवति। तस्मादेतस्यां गमनव्यक्तौ विरुद्धजातिसमावेशप्रसङ्गात् कार्यभेदादेव प्रत्ययभेद इत्युक्तम्। तथा नालिकायां वंशपत्रादौ पतति द्रष्टृणामूर्द्वाधस्तिर्यग्‌व्यवस्थितानां युगपद्‌भ्रमणपतनप्रवेशनप्रत्यया दृष्टा इति जातीनां भ्रमणत्वादीनां सङ्करप्रसङ्ग इति।
स्वपक्षे दोषपरिहारार्थमाह न चैवमुत्क्षेपणादिषु प्रत्ययसङ्करो दृष्टः, यस्य भयाद् विरुद्धजातिसमावेशप्रसङ्गपरिहारार्थं कार्यभेदेन भेदोऽभ्युपगम्यत इति। उपसंहारमाह तस्मादुत्क्षेपणादीनामेव जीतिभेदात् प्रत्ययानुवृत्तिव्यावृत्ती, निष्क्रमणादीनान्तु कार्यभेदादिति।
कथं युगपत्प्रत्ययभेद इति चेत्, अथ मतं यथा जातिसङ्करो नास्ति, एवमनेककर्मसङ्करोऽपि एकस्मिन् वस्तुनि नास्तीत्येकस्मिन् कर्मणि युगपद् द्रष्टॄणां भ्रमणपतनप्रवेशनप्रत्ययाः कथं भवन्तीति? अत्र ब्रूमः, न, अवयवावयविनोर्दिग्‌विशिष्टसंयोगविभागानां भेदात्। यो हि द्रष्टा अवयवानां पार्श्वतः पर्यायेण दिक्‌प्रदेशैः संयोगविभागान् पश्यति, तस्य भ्रमणप्रत्ययो भवति, यो ह्यवयविन ऊर्ध्वप्रदेशविभागमधःसंयोगञ्चावेक्षते तस्य पतनप्रत्ययो भवति। यः पुनर्नालिकान्तर्देशे संयोगं बहिर्देशे च विभागं पश्यति तस्य प्रवेशनप्रत्ययो भवतीति सिद्धः कार्यभेदान्निष्क्रमणादीनां प्रत्ययभेद इति।
परमतमाशङ्कते कथं युगपत् प्रत्ययभेद इति चेत्, इति। अस्य तु विवरणम् अथ मतं यथा जातिसङ्करो नास्त्येवमनेककर्मसङ्करोऽप्येकस्मिन् वस्तुनि नास्तीत्युक्तमेव। अतः कथमेकस्मिन् कर्मणि कारणाभावाद् युगपद् द्रष्टॄणां भ्रमणपतनप्रवेशनप्रत्ययाः परस्परव्यावृत्तात्मानो भवन्ति, कारणाभावेन कार्यस्यानुत्पत्तेरिति। अत्र ब्रूमः [इत्यादि] प्रतिसमाधानम्। यत् त्वयोक्तं कारणाभावेनानुत्पत्तिरेव भ्रमणादिप्रत्ययानामित्येत्, न। अव्यवावयविनोर्दिग्धेशसंयोगविभागभेदात् तदुपपत्तेः। अवयवश्चावयवी चेत्यवयवावयविनौ तयोर्दिग्देशविशिष्टसंयोगविभागाः, तद्भेदादिति। तदेवाह यो हि द्रष्टा अवयवानां पार्श्वतः पर्यायेण दिक्प्रदेशैः संयोगविभागान् पश्यति तस्य भ्रमणप्रत्ययो भवति। यस्त्ववयविन्यूर्ध्वप्रदेशाद् विभागमधः संयोगञ्चावेक्षते तस्य पतति पत्रमिति पतनप्रत्ययो भवति। यः पुनर्नालिकान्तर्देशे गर्त्तान्तर्देशे संयोगं बहिर्देशे च विभागं पश्यति तस्य प्रविशति पत्रमिति प्रवेशनप्रत्ययः। तस्मात् सिद्धः कार्यभेदान्निष्क्रमणादीनां प्रत्ययभेदो न जातिभेदादिति।
अन्ये तु भ्रमणरेचनस्यन्दनोर्ध्वज्वलनादिभेदेन कर्मणामसङ्ख्यातत्वान्निष्क्रमणादीनां जातिभेदात् प्रत्ययभेदसिद्धौ न किञ्चिद् बाधकमस्तीत्यतो नेदं स्वमतमिति। न च भ्रमणरेचनादीनां गमन एवान्तर्भाव इति मन्यन्ते। एतत्तु न युक्तम्, तस्य कर्मत्वपर्यायत्वेन वक्ष्यमाणत्वात्, जातिसङ्करप्रसङ्गस्य च बाधकस्य दृढत्वादिति।
भवतूत्क्षेपणादनीं जातिभेदात् प्रत्ययभेदः, निष्क्रमणादीनान्तु कार्यभेदादिति। अथ गमनत्वं किं कर्मत्वपर्यायः? आहोस्विदपरं सामान्यमिति। कुतस्ते संशयः? समस्तेषूत्क्षेपणादिषु कर्मप्रत्ययवद् गमनप्रत्ययाविशेषात् कर्मत्वपर्याय इति गम्यते। यतस्तूत्क्षेपणादिवद् विशेषसञ्ज्ञयाभिहितं तस्मादपरं सामान्यं स्यादिति? न। कर्मत्वपर्यायत्वात्। आत्मत्वपुरुषत्ववत् कर्मत्वपर्याय एव गमनत्वमिति। अथ विशेषसंज्ञया किमर्थं गमनग्रहणं कृतमिति? न, भ्रमणाद्यवरोधार्थत्वात्। उत्क्षेपणादिशब्दैरनवरुद्धानां भ्रमणपतनस्यन्दनादीनामवरोधार्थं गमनग्रहणं कृतमिति। अन्यथा हि यान्येव चत्वारि विशेषसंज्ञयोक्तानि तान्येव सामान्यविशेषसंज्ञाविषयाणि प्रसज्येरन्निति। अथवा अस्त्वपरं सामान्यं गमनत्वमनियतदिग्‌देशसंयोगविभागकारणेषु भ्रमणादिष्वेव वर्तते। गमनशब्दस्तूत्क्षेपणादिषु भाक्तो द्रष्टव्यः, स्वाश्रयसंयोगविभागकर्तृत्वसामान्यादिति।
भवतूत्क्षेपणादीनां जातिभेदाद् भेदो न निष्क्रमणादीनाम्। अथ गमनत्वं किं कर्मत्वपर्यायः `घटः कलशः' इति पर्यायवत्, आहोस्विदपरं सामान्यम्, उत्क्षेपणत्वादिवदिति चिन्त्यम्। कुतः कारणात् ते संशय इत्याचार्यस्य प्रश्नः। स चानुपपन्नः। तथाहि सन्दिग्धेन प्रश्ने कृते सति तत्प्रतिसमाधानं न्याय्यम्, न तु संशयकरणेन वचनम्, तस्य सामान्यधर्मादिभ्यः पूर्वमेवोत्पत्तिनिरूपणात्। नैष दोषः। संशयकारणज्ञाने सति तदुच्छित्तावुपायानुष्ठानम् उपलब्धव्याधिकरणस्य वैद्यस्येव अप्रयासेनैव घटत इति मन्यमानः कारणं प्रश्नयतीति। तदाह समस्तेषूत्क्षेपणादिषु भ्रमणादिषु च कर्मप्रत्ययवद् गमनप्रत्ययाविशेषात् कर्मत्वपर्याय इति गम्यते। यथा ह्युत्क्षेपणकर्मापक्षेपणकर्मेत्यादिव्यवहारोपलम्भादशेषभेदव्यापकं कर्मत्वम्, एवमूर्ध्वं गच्छत्यधोगच्छतीत्यादिव्यावहारोपलम्भाद् गमनमप्यशेषभेदव्यापकमित्यतः कर्मत्वपर्याय इति ज्ञायते।
न चात्र निश्चय निश्चय एवेत्याह यतस्तूत्क्षेपणादिवद् विशेषसंज्ञयाभिहितम्, तस्मादपरं सामान्यं स्यादिति। न हि विशेषदर्शनेन गणमायां तदवसरे सामान्यसंज्ञानिर्देशो दृष्टः। यथा पृथिव्यादिसंज्ञावसरे द्रव्यसंज्ञायाः। तस्मादुभयरूपधर्मोपलम्भाद् विशेषानुपलम्भादिभ्यश्च किं कर्मवद् गमनत्वं परं सामान्यम्, आहोस्विदुत्क्षेपणत्वादिवदपरमिति संशयः कार्यः? न संशयः कार्यः, कर्मत्वपर्यायत्वादात्मत्वपुरुषत्ववत् पर्याय एव गमनत्वमिति, सर्वत्र कर्मप्रत्ययवद् गमनप्रत्ययोपलम्भादिति न्यायात्। अथ विशेषसंज्ञया किमर्थं गमनग्रहणं कृतमिति, विशेषसंज्ञावसरे सामान्यसंज्ञोपदर्शनस्यादर्शनात्। न, भ्रमणाद्यवरोधार्थत्वात्। उत्क्षेपणादिशब्दैरनवरुद्धानामसङ्गृहीतानां भ्रमणपतनस्यन्दनादीनामवरोधार्थम्, कर्मत्वज्ञापनार्थमिति। अन्यथा हि गमनग्रहणमन्तरेण यान्येव चत्वापि विशेषसंज्ञोक्तान्युत्क्षेपणादीनि तान्येव सामान्यविशेषसंज्ञाविषयाणि प्रसज्येरन्निति। सामान्यसंज्ञा कर्मसंज्ञा, विशेषसंज्ञा चोत्क्षेपणादिसंज्ञा, तद्विषयाणि चत्वार्येव प्रसज्येरन्, न भ्रमणादीनि। कुत एतत्? विशेषसंज्ञाविषयाणामेव सामान्यसंज्ञाविषयत्वात्। तस्मादुत्क्षेपणादिवद् भ्रमणादीनामपि कर्मत्वज्ञापनार्थं गमनग्रहणं कृतमिति। न चैतस्मिन् पक्षे भ्रमणादीनामपरजातिसम्बन्धेऽपि दूषणम्, तदपेक्षया आनन्त्यस्याभ्युपगमात्। यच्च गमनग्रहणाद् भ्रमणादयः सङ्गृहीता इति वाक्यम्, तदन्यथा व्याख्यातम्।
अथवा अस्त्वपरं सामान्यं गमनत्वमनियतदिग्देशसंयोगविभागकारणेषु भ्रमणाविष्वेव वर्त्तते, नोत्क्षेपणादिषु। कथं तर्हि तेषु गमनव्यवहार इत्याह गमनशब्दस्तूत्क्षेपणादिषु भाक्तो द्रष्टव्यः। कस्मात्? उपचारबीजात् स्वाश्रयसंयोगविभागकर्तृत्वसामान्यादिति। यथा उत्पन्नमुत्क्षेपणादि स्वाश्रयस्य पदार्थान्तरैः संयोगविभागान् करोति, तथा गमनमपीति। न चैतस्मादेव निमित्तादुत्क्षेपणादिषु गमनव्यवहारवद् गमनेऽपि उत्श्रेपणादिव्यवहारप्रसङ्गः, कार्यसद्भावेन कारणकल्पनायाः प्रवर्त्तनात्। न चोत्क्षेपणादिषु गमनव्यवहारवद् गमनेऽपि उत्क्षेपणादिव्यवहारो दृष्टः, तस्मादचोद्यमेतत्। अथ पक्षद्वयोपन्यासात् किमत्राचार्यस्याभिप्रेतम्? पञ्चानां प्रतिनियतजातियोगित्वाभिधानाद् गमनत्वमपरं समान्यमित्येतत्।
अन्ये तु वास्तवदूषणस्य परसामान्यपक्षेऽनभिधानात् तदेवाभिप्रेतमिति मन्यन्ते।
सत्प्रत्ययकर्मविधिः। कथम्? चिकीर्षितेषु यज्ञाध्ययनदानकृष्यादिषु यदा हस्तमुत्क्षेप्तुमिच्छति अपक्षेप्तुं वा, तदा हस्तवत्यात्मप्रदेशे प्रयत्नः सञ्जायते, तं प्रयत्नं गुरुत्वं चापेक्षमाणादात्महस्तसंयोगाद्धस्ते कर्म भवति हस्तवत् सर्वशरीरावयवेषु पादादिषु शरीरे चेति।
पूर्वं सत्प्रत्ययमसत्प्रत्ययञ्च कर्मोक्तम्। तत्र सत्प्रत्ययकर्मविधिः कथमित्याह चिकीर्षितेषु कर्त्तुमभीष्टेषु। यज्ञाध्ययनदानकृष्यादिष्वित्यादिपदेन भोजनादेर्ग्रहणम्। यज्ञादिषु च तिलादिग्रहणार्थं यदा हस्तमुत्क्षेप्तुमिच्छति अपक्षेप्तुं वा, तदा हस्तवत्यात्मप्रदेशे प्रयत्नः सञ्जायते। तदुत्पत्तावात्मा समवायिकारणम्, आत्ममनःसंयोगोऽसमवायिकारणम्, इच्छा निमित्तकारणर्म। तत्प्रयत्नं गुरुत्वञ्चापेक्षमाणाद् आत्महस्तसंयोगादसमवायिकारणाद् हस्ते समवायिकारणए कर्मोत्पद्यते, हस्तवत् सर्वशरीरावयवेषु पदादिषु शरोरे चेति। यथा आत्महस्तसंयायोऽसमवायिकारणं प्रयत्नस्तु निमित्तकारणं हस्तकर्मोत्पत्तौ, तथा सर्वशरीरावयवेषु शरीरे च समवेतकर्मोत्पत्तौ आत्मसंयोगोऽसमवायिकारणं प्रयत्नो निमित्तकारणमित्यति देशार्थः।
तत्सम्बद्धेष्वपि कथम्? यदा हस्तेन मुसलं गृहीत्वेच्छां करोति `उत्क्षिपामि हस्तेन मुसलमिति', तदनन्तरं प्रयत्नः, तमपेक्षमाणादात्महस्तसंयोगाद् यस्मिन्नेव काले हस्ते उत्क्षेपणकर्मोत्पद्यते तस्मिन्नेव काले तमेव प्रयत्नमपेक्षमाणाद् हस्तमुसलसंयोगात् मुसलेऽपि कर्मेति। ततो दूरमुत्क्षिप्ते मुसले तदर्थेच्छा निवर्त्तते। पुनरपि अपक्षेपणेच्छोत्पद्यते, तदनन्तरं प्रयत्नः, तमपेक्षमाणाद् यथोक्तात् संयोगाद् हस्तमुसलयोर्युगपदपक्षेपणकर्मणी भवतः। ततोऽन्त्येन मुसलकर्मणा उलूखलमुसलयोरभिघाताख्यः संयोगः क्रियते। स संयोगो मुसलगतवेगमपेक्षमाणोऽप्रत्ययं मुसले उत्पतनकर्म करोति। तत् कर्म अभिघातापेक्षं मुसले संस्कारमारभते। तमपेक्ष्य मुसलहस्तसंयोगोऽप्रत्ययं हस्तेऽप्युत्पतनकर्म करोति। यद्यपि प्राक्तनः संस्कारो विनष्टः, तथापि मुसलोलूखलयोः संयोगः पटुकर्मोत्पादकः संयोगविशेषभावात् तस्य संस्कारारम्भे साचिव्यसमर्थो भवति।
अथवा प्राक्तन एव पटुः संस्कारोऽभिघातादविनश्यन्नवस्थित इति। अतः संस्कारवति पुनः संस्कारारम्भो नास्ति, अतो यस्मिन् काले संस्कारापेक्षादभिघातादप्रत्ययं मुसले उत्पतनकर्म तस्मिन्नेव काले तमेव संस्कारमपेक्षमाणात् मुसलहस्तसंयोगादप्रत्ययं हस्तेऽप्युत्पतनकर्मेति।
तत्सम्बद्धेष्वपि मुसलादिषु कथं कर्म भवतीत्यव्युत्पन्नप्रश्नानन्तरमाह हस्तेन मुसलं गृहीत्वा इच्छां करोति। किं विशिष्टम्? उत्क्षिपामि हस्तेन मुसलमित्येवं रूपाम्। तदनन्तरं हस्तवत्यात्मप्रदेशे प्रयत्नस्तदनुरूपः, तमपेक्षमाणाद् आत्महस्तसंयोगादसमवायिकरणाद् यस्मिन् काले हस्ते समवायिकारणे कर्मोत्पद्यते तस्मिन्नेव काले तमेव प्रयत्नमपेक्षमाणाद् हस्तमुसलसंयोगादसमवायिकारणान्मुसलेऽपि कारणे कर्म। ततो दूरमुत्क्षिप्ते मुसले तदर्थेच्छा उत्क्षेपणेच्छा निवर्त्तते। स्वकारणात् पुनरपि अपक्षेपेणेच्छोत्पद्यते। तदनन्तरं हस्तवत्यात्मप्रदेशेप्रयत्नः तदनुरूपः, तमपेक्षमाणाद् यथोक्तात् संयोगद्वयाद् इति आत्महस्तसंयोगान्मुसलहसत्संयोगाच्च प्रयत्नापेक्षाद् हस्तमुसलयोर्युगपद् अपक्षेपणकर्मणा भवतः। ततोऽन्त्येन आवसानिकेन मुसलकर्मणा उलूखलमुसलयोरभिघाताख्यः संयोगः क्रियते। स संयोगोऽसमवायिकारणभूतो मुसलगतं वेगमपेक्षमाणोऽप्रत्ययमप्रयत्नं मुसलेऽप्युत्पतनकर्म करोति। तत् कर्म असमवायिकरणमभिघातापेक्षं मुसले समवायिकारणे संस्कामारभते। तमपेक्ष्य मुसलहस्तसंयोगोऽप्रत्ययमप्रयत्नपूर्वकं हस्तेऽप्युत्पतनकर्म करोति।
ननु मुसलोलूखलसंयोगान्मुसले कर्मोत्पत्तिसमकालं प्राक्तनसंकारविनाशे अपेक्षाकारणभावान्न मुसले कर्म संस्कारमारभते, तदभावे च हस्तमुसलसंयोगः कथं हस्ते अप्रत्ययमुत्पतनकर्म कुर्यादित्याशङ्क्याह यद्यपि प्राक्तनः संस्कारो विनष्टः, तथापि मुसलोलूखलसंयोगः पटुकर्मोत्पादकः। कुतः? संयोगविशेषभावात्। अतस्तस्य कर्मणः संस्कारसाचिव्ये समर्थो भवति। सचिवस्य भावः साचिव्यं साहाय्यं तत्र समर्थो भवतीति।
अथवा प्राक्तन एव पटुः संस्कारोऽभिधातादविनश्यन्नवस्थित इति पक्षान्तरं दर्शयति। प्राक्तनस्य पटुसंस्कारस्यावस्थाने संस्कारवति पुनः संस्कारारम्भो नास्तीत्यतो यस्मिन् काले संस्कारापेक्षादभिघातादप्रत्ययं मुसले उत्पनकर्म तस्मिन्नेव काले तमेव संस्कारमपेक्षमाणान्मुसलहस्तसंयोगादप्रत्ययं हस्तेऽप्युत्पतनक्रमेति।
पाणिमुक्तेषु गमनविधिः। कथम्? यदा तोमरं हस्तेन गृहीत्वा उत्क्षेप्तुमिच्छोत्पद्यते तदनन्तरं प्रयत्नः, तमपेक्षमाणाद् यथोक्तात् संयोगद्वयात् तोमरहस्तयोर्युगपदाकर्मणी भवतः। प्रसारिते च हस्ते तदाक्रषणार्थः प्रयत्नो निवर्तते, तदनन्तरं तिर्यगूर्द्वं दूरमासन्नं वा क्षिपामीतीच्छा सञ्जायते, तदनन्तरं तदनुरूपः प्रयत्नः, तमपेक्षमाणस्तोमरहस्तसंयोगो नोदनाख्यः, तस्मात् तोमरे कर्मोत्पन्नं नोदनापेक्षं तस्मिन् संस्कारमारभते। ततः संस्कारनोदनाभ्यां तावत् कर्माणि भवन्ति यावद् हस्ततोमरविभाग इति। ततो विभागान्नोदने निवृत्ते संस्कारादूर्ध्वं तिर्यग् दूरम् आसन्नं वा प्रयत्नानुरूपाणि कर्माणि भवन्ति आपतनादिति।
पाणिमुक्तेषु तोमरादिषु गमनविधिर्गमनप्रकारः। कथमित्याह यदा तोमरं हस्तेन गृहीत्वेच्छां करोति हस्तेन उत्क्षिपामि तोमरम् इति, तदनन्तरं तदनुरूपः प्रयत्नः, तमपेक्षमाणाद् यथोक्तसंयोगद्वयाद् इत्यात्महस्तसंयोगाद् हस्ततोमरसंयोगाच्च तोमरहस्तयोर्युगपदाकर्षणकर्मणी भवतः। प्रसारिते च हस्ते दूरमुत्क्षिप्ते, तदाकर्षणार्थः तस्य तोमरस्याकर्षणार्थः प्रयत्नो व्यावर्त्तते। तदनन्तरं तिर्यगूर्द्वमधोदूरमासन्नं वा क्षिपामीतीच्छा सञ्जयते, तिर्यक् क्षिपाम्यूर्द्वमधो दूरमासन्नं क्षिपामि इति। तदनन्तरं तदनुरूपः प्रयत्न इति आसन्ने मन्दो दूरे तीव्र एवेति। तमपेक्षमाणस्तोमरहस्तसंयोगो नोदनाख्यः, नोद्यनोदकयोः सह गमनान्नोद्यस्तोमरो नोदको हस्त इति तयोः संयोगः प्रयत्नापेक्षः। तस्मात्तोमरे कर्मोत्पन्नं नोदनापेक्षं तस्मिन् संस्कारमारभते। तोमरः समवायिकारणम्, कर्मासमवायिकारणम्, प्रयत्नो निमित्तकारणमिति। ततः संस्कारनोदनाभ्यां तावत् कर्माणि भवन्ति यावद् हस्ततोमरयोर्विमोचनार्थेन कर्मणा परस्परं विभाग इति। ततो विभागन्निवृत्ते नोदने संस्कारादसमवायिकारणात् तदनुरूपाणि कर्माणि भवन्ति आपतनात् पतनं यावदिति। संस्कारस्य तीव्रतरादिभेदभिन्नत्वात् कर्माण्यप्येवं भवन्तीति।
तथा यन्त्रमुक्तेषु गमनविधिः। कथम्? यो बलवान् कृतव्यायामो वामेन करेण धनुर्विष्टभ्य दक्षिणेन शरं सन्धाय सशरां ज्यां मुष्टिना गृहीत्वा आकर्षणेच्छां करोति `सज्येष्वाकर्षयाम्येनं धनुरिति' तदनन्तरं प्यत्नः, तमपेक्षमाणाद् आत्महस्तसंयोगाद् आकर्षणकर्म हस्ते यदैवोत्पद्यते तदैव तमेव प्रयत्नमपेक्षमाणाद् हस्तज्याशरसंयोगाद् ज्यायां शरे च कर्म, प्रयत्नविशिष्टहस्तज्याशरसंयोगमपेक्षमाणाभ्यां ज्याकोटिसंयोगाभ्यां कर्मणी भवतो धनुष्कोट्योरित्येतत् सर्वं युगपत्। एवम् आकर्णादाकृष्टे धनुषि नातः परमनेन गन्तव्यमिति यज्ज्ञानं ततस्तदाकर्षणार्थस्य प्रयत्नस्य विनाशः, ततः पुनर्मोक्षणेच्छा सञ्जायते, तदनन्तरं प्रयत्नः, तमपेक्षमाणाद् आत्माङ्गुलिसंयोगाद् अङ्गुलिकर्म, तस्माज्ज्याङ्गुलिविभागः, ततो विभागात् संयोगविनाशः, तस्मिन् विनष्टे प्रतिबन्धकाभावाद् यदा धनुषि वर्त्तमानः स्तितिस्थापकः संस्कारो मण्डलीभूतं धनुर्यथावस्थितं स्थापयति, तदा तमवे संस्कारमपेक्षमाणाद् धनुर्ज्यासंयोगाज्ज्यायां शरे च कर्मोत्पद्यते, तत् स्वकारणापेक्षं ज्यायां संस्कारं करोति, तमपेक्षमाण इषुज्यासंयोगो नोदनम्, तस्मादिषावाद्यं कर्म नोदनापेक्षमिषौ संस्कारमारभते। तस्मात् संस्कारान्नोदनसहायात् तावत्कर्माणइ भन्ति, यावदिषुज्याविभागः, विभागान्निवृत्ते नोदने कर्माण्युत्तरोत्तराणि इषुसंस्कारादेव आपतनादिति। बहूनि कर्माण इक्रमशः। कस्मात्? संयोगबहुत्वात्। एकस्तु संस्कारः, अन्तराले कर्मणोऽपेक्षाकारणाभावादिति।
तथा यन्त्रक्तेषु शरपाषाणादिषु गमनविधिः। कथम्, किं विशिष्टश्च पुरुषस्तान् प्रयुङ्क्ते, केन वा प्रकारेणेत्याह यो बलवान् कृतव्यायामो ह्यस्‌त्रयन्त्रसिद्धः, वामेव करेण धनुर्विष्टभ्य दक्षिणेन शरं सन्धायेति, बाहुल्यापेक्षयैतत्। सह शरेण वर्त्तत इति सशरा, तां ज्यां मुष्टिना गृहीत्वेच्छां करोति `सज्येषुमाकर्षयाम्येनं धनुः' इति। सह ज्यया वर्त्तत इति सज्यः, स चासाविषुश्चेति तथोक्तः, तमेनं सज्येषुमाकर्षयामि धनुश्चेति।
न च एनमिति पदं धनुःशब्देनाभिसन्धानीयम्, तस्य नपुंसकलिङ्गतयैतद्धनुरिति स्यात्। अथोऽर्द्धर्च्चादिपाठात् प्रयोगदर्शनाद् वा कथञ्चिदुभयलिङ्गतेष्यते? तथाप्येनं धनुषमिति स्यात्, नत्वेनं धनुरिति। पुंल्लिङ्गविवक्षायामपि इति शब्देन कर्मणोऽभिहितत्वात्, द्वितीयाविभक्तिर्न भवति इत्यन्ये। तदनन्तरम् इच्छानन्तरं प्रयत्नः, तमपेक्षमाणाद् आत्महस्तसंयोगाद् असमवायिकारणाद् हस्ते समवायिकारणए यदैव आकर्षणकर्मोत्पद्यते, तदैव प्रयत्नमपेक्षमाणाद् हस्तज्याशरसंयोगाद् असमवायिकारणाद् ज्यायां शरे च समवायिकारणे कर्मोत्पद्यते। प्रयत्नविशिष्टं हस्तज्यासंयोगम् अपेक्षमाणाभ्यां ज्याकोटिसंयोगाभ्याम् असमवायिकारणाभ्यां धनुष्कोट्योः समवेते कर्मणी भवतः। धनुषि च समवेतं कर्म ज्याधनुःसंयोगाद् असमवायिकारणाद् हस्तज्यासंयोगं विशिष्टमपेक्षमाणादित्येतत् सर्वं युगपदेकस्मिन् काले भवति, कारणस्य यौगपद्यात्।
एवम् आकर्णात् कर्णं यावद् आकृष्टे धनुषि नातः परमनेन गन्तव्यमिति यज्‌ज्ञानम् ततस्तदाकर्षणार्थस्य प्रयत्नस्य विनाशः, ततः पुनर्मोक्षणेच्छा सञ्जायते। तदनन्तरं तदनुरूपः प्रयत्नः, तमपेक्षमाणाद् आत्माङ्गुलिसंयोगाद् असमवायिकारणाद् अङ्गुलिषु मोचनार्थं कर्मोत्पद्यते। तस्मादङ्गुलिज्याविभागः, ततो विभागात् तत्संयोगविनाशः, तस्मिन् विनष्टे प्रतिबन्धकाभावान्मण्डलीभूतं धनुर्यथावस्थितं स्थापयतीति स्थितिस्थापकसंस्कारो धनुषि कर्मारभते। तत्र धनुः समवायिकारणं स्थितिस्थापकसंस्कारोऽसमवायिकारणमदृष्टादिर्निमित्तकारणमिति। यदैव धनुष्याकर्षणकर्मणा मण्डलीकृते स्थितिस्थापनार्थं स्थितिस्थापकसंस्कारात् कर्मोत्पद्यते तदा तमेव संस्कारमपेक्षमाणाद् धनुषः ज्यासंयोगाद् ज्याशरसंयोगाद् असमवायिकारणात् ज्यायां शरे च कर्मोत्पद्यते। तद् उत्पन्नं स्वकारणापेक्षं ज्यायां संस्कारमारभते। तमपेक्षमाण इषुज्यासंयोगो नोदनम्, तयोः सह गमनात् तस्माद् इषावाद्यं कर्मोत्पद्यते। तच्च नोदनापेक्षमिषौ संस्कारमारभते। तत्रैषुः समवायिकारणम्, कर्मासमवायिकारणम्, नोदनं निमित्तकारणमिति। तस्मात् संस्कारान्नोदनसहायात् तावत् कर्माणइ भवन्ति यावदिषुज्याविभागः, तदुत्पतौ ज्येष्वोः समवायिकारणत्वम्, इषुकर्मणोऽसमवायिकारणत्वम्, शेषं निमित्तकारणम्। ततो विभागान् निवृत्ते नोदने कर्माणि उत्तरोत्तराणि इषुसंस्कारादेव, आपतनादिति पतनं यावत् तावदिति। बहूनि कर्माणि क्रमशः। कस्मात्? संयोगबहुत्वात्। तत् सद्भावेऽपि अविनाशे सर्वदा इषोरपातः स्यात्।
अथैकमपि कर्मानेकं संयोगं कृत्वा शक्तिमान्द्याद् विनश्यतीति? तर्हि संस्कारस्यानारब्धकार्यस्यावस्थानाद् अन्यत् कर्मान्तरमित्यपात एव स्यात्। न च संस्कारस्य संयोगजनकत्वम्, येन अनेककार्यकरणे शक्तिमान्द्याद् विनाशः स्यात्। तेषां कर्मकार्यत्वात्, तत्तस्तदुत्पादे कर्मणामेव विनाशो युक्तः। न च संस्कारादभिन्नमेव कर्मेति वाच्यम्, प्रत्ययभेदस्य भेदलक्षणत्वात्। तथा च वेगेन गच्छतीति वेगानुरक्तो गमनानुरक्तश्च प्रत्ययो दृष्टः। तस्माद् वेगः संयोगवत् कर्मणोऽर्थान्तरमिति। अभेदे तु मन्दगमनादावपि वेगेन गच्छतीति प्रत्ययः स्यात्, न चैतदस्ति।
अथ संयोगविभागोपलम्भादनुमीयते कर्मेति चेत्, न, संयोगवदिन्द्रियव्यापारेणैव कर्मण्यपि अपरोक्षज्ञानसद्भावस्याविशेषात्। यथा हि वस्तुनः प्रदेशान्तरैः संय्गविभागाः प्रत्यक्षेण प्रतीयन्ते, तद्वत् कर्मापीति।
यच्च प्रदेशान्तरैः संयोगविभागोपलम्भे सति चलतीति ज्ञानम् आनुमानिकमितीष्टम् तन्न युक्तम्, नदीस्रोतस्यूर्ध्वावस्थितस्य स्थाणोस्तत्सद्भावेऽपि चलनप्रत्ययादर्शनात्। आकाशे प्रक्षिप्तस्येषोस्तदभावेऽपि तत्सद्भावदर्शनात्।
यच्चेदम् एकस्मिन् स्थाने प्रतिक्षणमुत्पादात् तिष्ठतीति व्यवहारः, देशान्तरे च तद्भावाद् गमनव्यवहार इत्युक्तम्, तन्न युक्तम्, क्षणभङ्गप्रतिषेधात्।
अथ संयोगबहुत्वाद् बहूनि कर्माणीति सत्यम्। न चैवं संस्कारस्यापि संयोगबहुत्वाद् बहुत्वम्, तस्य संयोगमात्रेणाविनाशात्। विनाशे वा कर्मान्तराणामुत्पत्तिर्न स्यात्, असमवायिकारणाभावात्। न च चात्मेषुसंयोग एव अदष्टापेक्षोऽसमवायिकारणम्, प्रत्यक्षानुमानाभ्यां कारणान्तरानुपलम्भे सति तत् कल्पनायाः समाश्रयणात्। उपलभ्यते च अक्षव्यापारेणैव वैगः, तस्य प्रत्याख्यानमशक्यम्।
अथ संस्कारादुपजातकर्मणि उत्तरसंयोगाद् वेगस्य कर्मणश्च विनश्यत्ता, अन्ययोश्च वेगकर्मणोरुत्पद्यमानता, अतस्तयोरुत्पादः प्राक्तनयोश्च विनाश इति कल्पनायां कि दूषणम्? विनश्यदवस्थस्यासमवायिकारणत्वस्याभाव इत्येतत्। तथाहि न प्राक्तनं कर्म संस्कारान्तरमारभते, नापि प्राक्तनो वेगः कर्मान्रम्, उभयोर्विनशय्दवस्थत्वेनासमवायिकारणत्वाभावात्। न चान्यदसमवायिकारणम् अन्तराले कर्मणः सम्भवतीत्युक्तम्। यच्च संस्कारादुत्पन्नं कर्म तन्न संस्कारान्तरमारभते, अपेक्षाकारणाभावात्। नापि प्राक्तनः संस्कारोऽपेक्षाकारणम्, संस्कारवति संस्कारारम्भप्रतिषेधाद् अवश्यं कर्मान्तरोत्पत्तिसमकालमुत्तरसंयोगात्, पूर्वकर्मनिवृत्तिवत् पूर्वसंस्कारस्यापि निवृत्तिर्वाच्या। न च संयोगमात्रमपेक्षाकारणं कर्मणः संस्कारारम्भे, मन्दगतावदर्शनात्। तथाहि मन्दगतौ संयोगसद्भावेऽपि न कर्म संस्कारमारभत इत्युपलब्धम्। तस्मादेवक एव संस्कारोऽन्तराले कर्मणोऽपेक्षाकारणाभावादिति।
नन्वेवं त्रिह संस्कारस्यैकरूपत्वात् कथं तीव्रतरादिभेदभिन्नानां कर्मणामुत्पत्तिः? सहकारिभेदात्। स च कार्यभेदेनैव ज्ञेयः। तत्र दृष्टस्यानुपलब्धेरदृष्टाख्यः कल्पत इति। क्षिप्तस्येषोः पातोपलम्भेन च वेगविनाशप्रसिद्धेः, तस्य सहेतुत्वादन्यस्य च विनाशहेतोरभावादनेककार्यकरणे सति शक्तिप्रक्षयाद्विनाशः कल्प्यत इति। सा च शक्तिरदृष्टविशेष एव अन्ककर्मसम्पादकः। एतच्चानेकसंस्कारवादिनाप्यभ्युगन्तव्यम्। अन्यथा हि पुनः संस्कारोत्पत्तेरिषोरपात एव स्यात्। तस्मादुक्तन्यायेनैक एव संस्कार इति।
एवमात्माधिष्ठितेषु सत्प्रत्ययमसत्प्रत्ययञ्च कर्मोक्तम्।
उसंहारमाह एवमात्माधिष्ठितेषु प्रयत्नद्वारेण अनधिष्ठितेषु प्रयत्नद्वारेण अनधिष्ठितेषु सत्प्रत्ययमसत्प्रत्ययञ्च कर्मोक्तम्।
अनधिष्ठितेषु बाह्येषु चतुर्षु महाभूतेष्वप्रत्ययं कर्म गमनमेव नोदनादिभ्यो भवति। तत्र नोदनं गुरुत्वद्रवत्ववेगप्रयत्नात् समस्तव्यस्तानपेक्षमाणो यः संयोगविशेषः, नोदनं परस्परमविभागकृतः कर्मणः कारणम्। तस्माच्चतुर्ष्वपि महाभूतेषु कर्म भवति। यथा पङ्काख्यायां पृथिव्याम्।
इदानीमनिधिष्ठितेषु बाह्येषु शरीरासम्बद्धेषु, आकाशादिनिवृत्त्यर्थं चतुर्षु, महाभूतेष्विति परमाणुनिवृत्त्यर्थम्। अप्रत्ययमप्रयत्नपूर्वकं कर्म गमनमेव नोदनादिभ्यो भवति। आदिपदेनाभिघातसंयुक्तसंयोगगुरुत्वादेर्ग्रहणम्। तत्र नोदनं व्याख्यायते, गुरुत्वद्रवत्वप्रयत्नवेगान् समस्तव्यस्तानपेक्षमाणो यः संयोगविशेषः, नोदनं परस्परमविभागकृतः कर्मणः कारणमिति। यः संयोगस्तन्नोदनमित्युक्तेऽतिप्रसङ्गः, तदर्थं कर्मणः कारणमिति। अभिघातोऽप्येवं भवतीति अविभागकृत इति पदम्। तथाप्युत्पन्नस्य कर्मणोऽवश्यं विभागजनकत्वम्, अतः परस्परमिति पदम्। तथापि परस्परं संयोगिनो विभागजनकस्य कर्मणः कारणं संयुक्तसंयोगोऽपीत्यतो गुरुत्वद्रवत्वप्रयत्नवेगान् समस्तव्यस्तानपेक्षमाण इति। तत्र यदा चुलुकेनोदकं गृहीत्वा वेगेन प्रतिक्षिपति, तदा सर्वे गुरुत्वादयः सम्भवन्तीति तदपेक्षं चुलुकोदकसंयोगो नोदनम्। व्यस्तपक्षे तु गुरुत्वमपेक्षणमाणः संयोगो नोदनम्, यथा सूक्ष्मशाशाखोपरि व्यस्थापितमतिशयेन गुरुद्रव्यमधोगतिहेतुर्भवति शाखायाः. द्रवत्वमपेक्षमाणस्तृणोदकसंयोगस्तृणे गमनमारभते। वेगमपेक्षमाणो वायुवनस्पतिसंयोगो वृक्षादिषु चलनकारणम्। प्रयत्नापेक्षस्तु हस्तमुसलसंयोगो मुसलकर्मोत्पत्तौ। यदा च प्रयत्नेन पङ्के पादमुपक्षिपति, तदा प्रयत्नगुरुत्वे चापेक्ष्यपादपङ्कसंयोगः पङ्गमधो नयतीति। यदा च पाषाणादेर्वेगेन पाते सति पङ्केन संयोगस्तदा पाषाणादिगतं गुरुत्वं वेगञ्च अपेक्षमाणं पाषाणपङ्कसंयोगो नोदनमिति। यदा कश्चिद् वेगेन कूपादौ पतति, तदा गुरुत्वप्रयत्नवेगान् अपेक्ष्यदेवदत्तोदकसंयोगोऽधोगतिहेतुर्भवति। यदा च जलधरधारासम्बन्धात् तृणादेरधोगमनम्, तदा गुरुत्वद्रवत्ववेगानपेक्षत इत्यादि द्रष्टव्यम्। तस्माद् यथोक्तान्नोदनाच्चतुर्ष्वपि महाभूतेषु कर्म भवतीत्युदाहरणमाह यथा पङ्काख्यायां पृथिव्यं पादादिसंयोगाद् यथोक्तविशेषणादिति।
वेगापेक्षो यः संयोगविशेषो विभागहेतोरेकस्य कर्मणः कारणम्, सोऽभिघातः। तस्मादपि चतुर्षु महाभूतेषु कर्म भवति। यथा पाषाणादिषु निष्ठुरे वस्तुन्यभिपतितेषु। तथा पादादिभिर्नुद्यमानायाम् अभिन्यमानायां वा पङ्काख्यायां पृथिव्यां यः संयोगो नोदनाभिघातयोरन्यतरापेक्षः, उभयापेक्षो वा, स संयुक्तसंयोगः, तस्मादपि पृथिव्यादिषु कर्म भवति। ये च प्रदेशा न नुद्यन्ते नाप्यभिहनय्न्ते तेष्वपि कर्म जायते।
अभिघातस्येतरस्माद् भेदार्थमाह वेगापेक्षो यः संयोगाविशेषः परस्परं विभागहेतोरेकस्य कर्मणः कारणम्, सोऽभिघात इति। विभागहेतुकर्मकारणं नोदनादिरपीति परस्परं विभागहेतोरिति पदम्। तथापि आत्ममनःसंयोगेन व्यभिचारपरिहारार्थं वेगापेक्ष इतिपदम्। न चात्ममनःसंयोगः परस्परविभागहेतुसम्पादको वेगापेक्ष इति।
नन्वेकस्योति पदं व्यर्थम्, अभिघातादुभयत्रापि कर्मोपलब्धेः। सत्यम्। तथाप्येकस्येति आद्यक्रमज्ञापनार्थम् उत्तरोत्तराणि वेगादेव भवन्तीति। नोदनादिश्चोत्तरकर्मणां बहूनामपि कारणमिति। अन्ये तु एकस्य कारणणमेव, न त्वेकस्यैवेत्यवधारणं मन्यनत्े। नोदनेऽप्येकस्येति विशेषणमेवं व्याख्येयम्। उदाहरणन्तु यथा पाषाणादिषु पाषाणाद्यभिघातादिति। संयुक्तसंयोगनिरूपणार्थमाह तथा पादादिभिर्नुद्यमानायामित्यादि।
परस्परमविभागकृतः कर्मणः कारणं नोदनमपीत्यतो नोदनभिघातयोरन्यतरापेक्ष उभयापेक्षो वा यः संयोगः, स संयुक्तसंयोगः। क्वचिन्नोदनापेक्षः, क्वचिदभिघातापेक्षः, क्वचिदुभयापेक्ष इति। उदाहरणन्तु यथा पङ्काख्यायां पृथिव्यां वा ये प्रदेशा न नुद्यन्ते, न साक्षात्पादेन सम्बद्ध्यन्ते नाप्यभिहन्यन्ते न साक्षात् पाषाणादिना सम्बद्ध्यन्ते, तेष्वपि कर्म सञ्जायते। प्रदेशाः समवायिकारणम्, पादादिभिश्च सम्बद्धप्रदेशैः सह संयोगो असमवायिकारणम्, पादादिसंयोगाश्च निमित्तकारणम्।
पृथिव्युदकयोर्गुरुत्वविधारकसंयोगप्रयत्नवेगाभावे सति गुरुत्वाद् यदधोगमनम्, तत्पतनम्। यथा मुसलशरीरादिषूक्तम्। तत्राद्यं गुरुत्वात्, द्वितीयादीनि तु गुरुत्वसंस्काराभ्याम्।
पतननिरूपणार्थमाह गुरुत्वाद् यदधोगमनम् तत् पतनम्। वायोरप्यधोगमनं वृक्षकोटरादिषूर्ध्वप्रदेशेन प्रविष्टस्य सम्भवतीति तद्व्यवर्च्छेदार्थं गुरुत्वादिति। पृथिव्युदकयोरित्याश्रयनिरूपणम्। पतनाश्रयः समवायिकारणम्, गुरुत्वमसमवायिकारणम्, गुरुत्वविधारकसंयोगप्रयत्नवेगाभावे सतीति निमित्तकारणं दर्शयतीति। यथा मुसलशरीरादिष्वित्युदाहरणम्। हस्तमुसलसंयोगाभावान् मुसले पतनम्, प्रयत्नाभावाच्छरीरे, वेगाभावादिषाविति। तत्राद्यं गुरुत्वादेवासमवायिकारणादुत्पद्यते पतनम्, तच्चोत्पन्नं स्वकारणापेक्षं संस्कारमारभते, तस्माद् द्वितीयादीनि तु पतनानि गुरुत्वसंस्काराभ्यामसमवायिकारणाभ्यमुत्पद्यन्ते।
स्रोतोभूतानामपां स्थलान्निम्नाभिसर्पणं यत् तद् द्रवत्वाद् स्यन्दनम्। कथम्? समन्ताद् रोधःसंयोगेनावयविद्रवत्वं प्रतिबद्धम्, अवयवद्रवत्वमप्येकार्थसमवेतं तेनैव प्रतिबद्धम्, उत्तरोत्तरावयवद्रवत्वानि संयुक्तसंयोगैः प्रतिबद्धानि। यदा तु मात्रया सेतुभेदः कृतो भवति तदाः समन्तात् प्रतिबद्धत्वादवयविद्रवत्वस्य कार्यारम्भो नास्ति। सेतुसमीपस्थस्यावयवद्रवत्वस्योत्तरोत्तरेषामवयवद्रवत्वानां प्रतिबन्धकाभावाद् वृत्तिलाभः। ततः क्रमशः संयुक्तानामेवाभिसर्पणम्। ततः पूर्वद्रव्यविनाशे सति प्रबन्धेनावस्थितैरवयवैर्दीर्घ द्रव्यमारभ्यते। तत्र च कारणगुणपूर्वक्रमेण द्रवत्वमुत्पद्यते। तत्र च कारणानां संयुक्तानां प्रबन्धेन गमने यदवयविनि कर्मोत्पद्यते तत् स्यन्दनाख्यमिति।
स्यन्दननिरूपणार्थमाह स्रोतोभूतानामपां स्थलान्निम्नाभिसर्पणं यत् तद् द्रवत्वात् स्यन्दनमिति। स्थलान्निम्नाभिसर्पणं पाषाणादेरपीति स्रोतोभूतानामिति पदम्। सर्पादेरप्येवं प्रवाहः सम्भवतीत्यपामिति ग्रहणम्। तथाप्यपां दृढहस्तपरिगृहीतानां स्थलान्निम्नाभिसर्पणं न भवतीत्यतः स्रोतोभूतानामिति। अपामिति च बाहुल्यापेक्षया, न त्वपामेवेत्यवधार्यते, तैलादावपि सद्भावात्। अतो यद् उक्तरूपमभिसर्पणम्, तत् स्यन्दनं द्रवत्वाद् भवतीति।
कथमित्यव्युत्पन्नस्य विस्तरपरिज्ञानापेक्षया प्रश्नान्तरमाह समन्ताद् रोधःसंयोगेनावयविद्रवत्वं प्रतिबद्धमित्यादि। समन्तात् सर्वतो रोधसा सह संयोगेन सेतुसंयोगेन अवयविद्रवत्वं प्रतिबद्धम् उदके क्रियां न करोति, नाप्यवयवद्रवत्वं स्यन्दनमारभत इत्याह अवयवद्रवत्वमप्येकार्थसमवेतम्, यत्र ह्यवयवद्रवत्वं तत्रैव रोधःसंयोगोऽपीत्यतस्तेनैव प्रतिबद्धम्, उत्तरोत्तरावयवद्रवत्वानि तु संयुक्तसंयोगैः प्रतिवद्धानि। रोधःसंयुक्तावयवेनान्यः संयोगः,तेनाप्यन्य इत्युत्तरोत्तरावयवसंयोगैस्तद्गतद्रवत्वानि प्रतिबद्धानि क्रियां नारभन्ते। यदा तु सेतुभेदः कृतो भवति तदा समन्तात् प्रतिबद्धत्वाद् अवयविद्रवत्वस्य कर्मारम्भो नास्तीति। अयमस्यार्तः महापरिणाणसम्बन्धित्वादवयविनो न सूक्ष्मरन्ध्रदेशनिष्क्रमणम्, सेतोस्तु समीपस्थस्यावयवद्रवत्वस्य कार्यारम्भकत्वम्, तत्प्रतिबन्धकस्य संयोगस्य व्यावृत्तेः। ततः क्रमेणोत्तरोत्तरावयवद्रवत्वानां वृत्तिलाभः कार्यजनकत्वम्। तथाहि सेतुसमीपस्थस्यावयवस्य चलने सति अवयवान्तरेण विभागात् तत्संयोगो निवर्तते, ततो द्वितीयावयवद्रवत्वंप्रतिबन्धकाभावात् क्रियामारभते, ततस्तृतीयावयवसंयोगनिवृत्तौ तद्गतं द्रवत्वं कर्मारभत इत्येवमुत्तरोत्तराणां वृत्तिलाभः, ततः संयुक्तानामेवाभिसर्पणमिति।
यद्यपि संयोगस्यप्रतिबन्धकस्य विनाशे सत्यन्यस्य सर्पणम्; तथापि तज्ज्ञापनार्थं क्रमणः संयुक्तानामेवाभिसर्पणमित्युक्तम्। ततो द्रव्यारम्भकसंयोगविनाशे सति पूर्वद्रव्यविनाशः, तस्मिन् सप्रतिबन्धेन सन्तानेनावस्थितैरवयवैर्दीर्घद्रव्यमारभ्यते, तत्र च द्रव्ये कारणगुणपूर्वक्रमेण द्रवत्वमुत्पद्यते। कारणद्रवत्वानि असमवायिकारणमवयविनि द्रवत्वोत्पत्ताविति। तत्र कारणानां प्रबन्धेन परिपाट्या गमनेऽवयविनि यत् कर्मोत्पद्यते, तत् स्यन्दनाख्यमिति।
संस्कारात् कर्म इष्वादिषूक्तम्। तथा चक्रादिष्ववयवानां पार्श्वतः प्रतिनियतदिग्देशसंयोगविभागोत्पत्तौ यदवयविनः संकारादनियतदिग्देशसंयोगविभागनिमित्तं कर्म तद्भ्रमणमिति। एवमादयो गमनविशेषाः।
उपसंहारमाह संस्कारात् क्रमेष्वादिषूक्तम्, गुरुत्वादिभ्यश्च। तथाभ्रमणं संस्कारादेव भवतीत्याह--चक्रादिषु तदवयवानाञ्च पार्श्वतः प्रतिनियतदिग्‌देशसंयोगविभागोत्पत्ताविति। प्रतिनियता हि दिग्‌देशाश्चक्रावष्टब्धाः, तैः सह संयोगे विभागे च कर्त्तव्ये यदवयविनि कर्मोत्पद्यते। कुतः? संस्कारादिति। आद्यदण्डचक्रसंयोगादसमवायिकारणाद् दण्डहस्तसंयोगापेक्षाद् उपजातं चक्रे कर्म स्वकारणविशेषापेक्षं संस्कारमारभते। ततः संस्कारनोदनाभ्यां कर्माणि पुनः पुनः संस्कारादेव। अवयवेषु चाद्यकर्मोत्पत्तौ नोदनापेक्षः संयुक्तसंयोगोऽसमवायिकारणम्, ततः संस्कारोत्पादे सति संस्कारोऽपीति। अनियतदिग्‌देश संयोगविभागनिमित्तं[कर्म] तद्भ्रमणमिति, अनियतैर्दिग्देशैः संयोगविभागान् करोतीति।
प्राणाख्ये तु वायौ कर्म आत्मवायुसंयोगाद् इच्छाद्वेषपूर्वकप्रयत्नापेक्षाद् जाग्रत इच्छानुविधानदर्शनात्, सुप्तस्य तु जीवनपूर्वकप्रयत्नापेक्षात्। आकाशकालदिगात्मनां सत्यपि द्रव्यभावे निष्क्रियत्वम्, सामान्यादिमूर्तत्वात्। मूर्तिरसर्वगतद्रव्यपरिमाणम्, तदनुविधायिनी च क्रिया, सा चाकाशादिषु नास्ति, तस्मान्न तेषां क्रियासम्बन्धोऽस्तीति।
कार्यभेदेन भेदं दर्शयति प्राणाख्ये तु वायौ कर्म कुतो भवतीत्याह आत्मवायुसंयोगादसमवायिकारणाद् इच्छाद्वेषपूर्वकप्रयत्नापेक्षादुत्पद्यते। किं विशिष्टस्येत्याह जाग्रत इति। कुत एतत्? इच्छानुविधानदर्शनादिति। रेचनेच्छातो रेचनम्, पूरणेच्छातश्च पूरणमिति। सुप्तस्य तु जीवनपूर्वकप्रयत्नापेक्षादात्मवायुसंयोगादसमवायिकारणात् प्राणाख्ये वायौ कर्मोत्पद्यत इति। किमत्र प्रमाणम्? सुप्तस्य जीवनपूर्वकात् प्रयत्नाद् वायौ कर्मेत्यनुमानम्। तथाहि सुप्तस्य वायुक्रिया, प्रयत्नकार्या, परिगृहीतवायुक्रियात्वात्, जाग्रदवस्थायां तद्वायुक्तियावत्। यत्र च प्रत्यक्षानुमानाभ्यामन्यत् कारणं नोपलभ्यते, तत्रादृष्टस्यैव कारणत्वम्। अत्र चानुमानात् प्रयत्नकार्यत्वप्रतसिद्धाविच्छाद्वेषपूर्वकप्रयत्नाभावात् सुप्तस्य जीवनपूर्वकप्रयत्नकार्यत्वं निश्चीयत इति।
एवं चतुर्षु महभूतेषु नोदनादिभ्यः कर्मव्याख्यायाम् आकाशादौ क्रियाशून्यत्वे कारणमाह आकाशकालदिगात्मनः, सत्यपि द्रव्यभावे निष्क्रियाः, सामान्यादिवद् अमूर्तत्वात्। यथाहि सामान्यादेरमूर्तत्वान्निष्क्रियत्वं तद्वदाकाशादेरपीति। मूर्तत्वेन हि क्रियावत्त्वं व्याप्तम्, तच्च व्यावर्त्तमानम् आकाशादिभ्यः स्वव्याप्तं क्रियावत्त्वं गृहीत्वा व्यावर्त्तत इति। तदेवाह मूर्तिरसर्वगतद्रव्यपरिमाणम्, तदनुविधायिनी च क्रिया। यत्र यत्र क्रिया, तत्र तत्र मूर्त्तिरिति। सा च मूर्त्तिराकाशादिषु नास्ति। तस्मान्न तेषां क्रियासम्बन्धोऽस्तीति।
सविग्रहे मनसीन्द्रियान्तरसम्बन्धार्थम्-जाग्रतः कर्म आत्ममनःसंयोगाद् इच्छाद्वेषपूर्वकप्रयत्नापेक्षात्, अन्वभिप्रायम् इन्द्रियान्तरेण विषयान्तरोपलब्धिदर्शनात्, सुप्तस्य प्रबोधकाले जीवनपूर्वकप्रयत्नापेक्षात्। अपसर्पणक्रमोपसर्पणकर्म चात्मनः संयोगाददृष्टापेक्षात्। कथम्? यदा जीवनसहकारिणोर्धर्माधर्मयोरुपभोगात् प्रक्षयः, अन्योन्याभिभवो वा, तदा जीवनसहाययोर्वैकल्यात् तत्पूर्वकप्रयत्नवैकल्यात् प्राणनिरोधे सत्यन्याभ्यां वृत्तिलभ्धधर्माधर्माभ्यामात्ममनःसंयोगसहायाभ्यां मृतशरीराद् विभागकारणमसर्पणकर्मोत्पद्यते। ततः शरीराद् बहिरपगतं ताभ्यामेव धर्माधर्माभ्यां समुत्पन्नेन आतिवाहिकशरीरेण सम्बध्यते, तत्सङ्क्रान्तञ्च स्वर्गं नरकं वा गत्वा आशयानुरूपेण शरीरेण सम्बद्ध्यते, तत्संयोगार्थं कर्मोपसर्पणमिति। योगिनाञ्च बहिरुद्रेचितस्य मनसोऽभिप्रेतदेशगमनं प्रत्यागमनञ्च। तथा सर्गकाले प्रत्यग्रेण शरीरेण सम्बन्धार्थं कर्म अदृष्टकारितम्। एवमन्यदपि महाभूतेषु यत्प्रत्यक्षानुमानाभ्यामनुपलभ्यमानकारणमुपकारापकारसमर्थञ्च भवति तदप्यदृष्टकारितम्। यथा सर्गादावणुकर्म, अग्निवाय्योरूर्द्वतिर्यग्गमने, महाभूतानां प्रक्षोभणम्, अभिषिक्तानां मणीनां तस्करं प्रतिगमनम्, अयसोऽयस्कान्ताभिसर्पणञ्चेति।
अथ यदु मूर्त्त्यनुविधायिनी क्रिया मनसः तर्हि मूर्त्तत्वात् क्रियासम्बन्धो वाच्य इत्याह सविग्रहे शरीरावरुद्धे मनसि इन्द्रियान्तरसम्बन्धार्थं यज्जाग्रतः कर्मोत्पद्यते तत् कुत इत्याह आत्ममनसोः संयोगादसमवायिकारणाद् इच्छाद्वेषपूर्वकप्रयत्नापेक्षात्। कुत एतदित्थंभूतात् प्रयत्नाज्जाग्रतो मनः क्रियेति? तदाह अन्वभिप्रायम् इन्द्रियान्तरेण विषयान्तरोपलब्धिदर्शनात्। अभिप्रायमनु इति अभिप्रायानतिक्रमेण। येनैवेन्द्रियेण विषयग्रहणाभिप्रायो भवति तेनैव विषयोपलब्धिदर्शनाद् विज्ञायते अन्तःकरणस्येच्छानुविधायिक्रियाश्रयत्वम्। तेनानधिष्ठितस्येन्द्रियस्य विषयग्राहकत्वासम्भवाद् इति मनः सम्बन्धो निश्चीयते। स चेच्छानुविधानात् तत्पूर्वकप्रयत्नजनितक्रियाकार्य इति। सुप्तस्य तु यन्मनसो निरिन्द्रियात्मप्रदेशे प्रलीनस्य इन्द्रियान्तरस्बन्धार्थं प्रबोधकाले कर्म तदात्ममनसोः संयोगादसमवायिकारणाज्जीवनपूर्वकप्रयत्नापेक्षादुपजायते। तथाहि सुप्तस्य मनःक्रिया, प्रयत्नकार्या, परिगृहीतान्तःकरणक्रियात्वात्, जाग्रदवस्थायां तत्‌क्रियावत्। अपसर्पणकर्मोपसर्पणकर्म चात्ममनसोः संयोगादसमवायिकारणाददृष्टापेक्षादुत्पद्यते इति। मृतशरीराद् विभागार्थं कर्म अपसर्पणम्, गर्भशरीरेण संयोगार्थम् उपसर्पणमिति। कदा पुनस्तदपसर्पणम्, कथं भवतीत्याह यदा जीवनसहकारिणोरित्यादि। जीवनं व्याख्यातम्। तत्सहकारिणोर्धर्माधऱ्मयोरुपभोगात् सुखदुःखसंवेदनात् प्रक्षयस्तदा तेन शरीरेण भोक्तव्यस्य कर्मणोऽभावाच्छरीरान्तरोपभोगसम्पादककर्मसद्भावेऽपि शरीरस्य पात एव। अन्योन्याभिभवो वेति सम्भाविनः पक्षान्तरस्योपन्यासः। तथाहि शरीरान्तरोपभोगदायकेन बलीयसा परिपक्वेन क्रमणा आरब्धशरीरस्योपभोगदायकत्वेन अभिप्रवृत्तस्य कर्मणोऽभिभवो भोगदानसामर्थ्यापगमस्तीव्रशब्दोपलम्भेन मन्दस्याग्रहणमिवेति। ततो जीवनसहायस्य कर्मणो वैकल्ये सति तत्पूर्वकस्य प्रयत्नस्य वैकल्याच्च प्राणनिरोधः, तन्निरोधे सति अन्याभ्यां वृत्तिलब्धधर्माधर्माभ्यामिति। वृत्तिः सहकारिकारणम्, तया लब्धौ तत्सहकृतौ यौ धर्माधर्मौ ताभ्यामात्ममनःसंयोगसहकारिभ्यां मृतशरीराद् विभागकारणम् अपसर्पणकर्मोत्पद्यते। ततस्तस्माच्छरीराद् बहिरपगतं ताभ्यामेव धर्माधर्माभ्यां सम्पादितं यद् आतिवाहिकं सूक्ष्मशरीरम्, तेनाभिसम्बद्ध्यते। तत्सङ्क्रान्तश्च स्वर्गं नरकं वा गच्छति, गत्वा चाशयानुरूपेण शरीरेण संयुज्यते, तत्संयोगार्थं कर्म उपसर्पणाख्यमिति। आतिवाहिकशरीरं चागमबलादभ्युपगतम्, अन्तःकरणस्य परिगृहीतत्वादिति। तथा न केवलमेतद् अदृष्टाद् भवति, योगिनाञ्च बहिरुद्देचितस्येति। बहिर्देशैरुद्रेचितस्य मनसोऽभिप्रेतदेशगमनं पुनः पुनः प्रत्यागमनञ्च। तथा सर्गकाले प्रत्यग्रेण शरीरेण सम्बन्धार्थं कर्म अदृष्टकारितमिति। न केवलमेतद् अन्यदपि च महाभूतेषु यत् कर्म। किं विशिष्टम्? प्रत्यक्षानुमानाभ्यामनुपलभ्यमानकारणम् उपकारापकारसमर्थमित्यर्थः। तदपि अदृष्टकारितम्। तदेवाह, यथा सर्गादौ सृष्ट्यादावणुषु कर्म शरीरादिसम्पादनार्थम्, अग्निवाय्वोरूर्ध्वतिर्यग्गमने इति। अग्नेरूर्ध्वज्वलनं वायोस्तिर्यग्गमनं प्राणिनामुपकारापकारसमर्थमिति। माहाभूतानां भूगोलकदेवकुलादीनां प्रक्षोभणं तत्‌कम्पनं मणीनां तस्करं चौरं प्रति गमनम्, अयसो लोहस्यायस्कान्ताभिमुखतया अभिसर्पणञ्चेति।
।। इति श्रीव्योमशिवाचार्यविरचितायां पदार्थसङ्ग्रहटीकायां कर्मपदार्थः समाप्तः ।।

अथ सामान्यपदार्थनिरूपणम्[सम्पाद्यताम्]

सामान्यं द्विविधम्, परमपरञ्च। स्वविषयसर्वगतमभेदात्मकमनेकवृत्ति एकद्विबहुष्वात्मस्वरूपानुगमप्रत्ययकारि स्वरूपाभेदेनाधारेषु प्रबन्धेन वर्त्तमानमनुवृत्तिप्रत्ययकारणम्। कथम्? प्रतिपिण्डं सामान्यापेक्षं प्रबन्धेन ज्ञानोत्पत्तावभ्यासप्रत्ययजनिताच्च संस्कारादतीतज्ञानप्रबन्धप्रत्यवेक्षणाद् यदनुगतमस्ति तत् सामान्यमिति।
अथ सामान्यस्य लक्षणपरीक्षार्थं परमपरञ्च द्विविधं सामान्यमित्यादिप्रकरणम्। अत्र च पूर्वं विभागस्याभिधानादनियमज्ञापनेन कार्यकारणभावाशङ्काव्युदासः सामान्यलक्षणविभागयोः, यथा द्रव्यं पृथिव्यप्तेज इत्यादि प्रयोजनमित्युपदर्शयति। स्वविषयसर्वगतमिति विप्रतिपत्तिव्युदासः।
तथाहि परे मन्यन्ते सर्वं सामान्यं सर्वगतम्। गोत्वमश्वपिण्डेष्वप्यस्ति, अश्वत्वञ्च गोपिण्डादिष्वपीति। अनुपलम्भस्तु व्यञ्जकाभावात्। यत्र च व्यञ्जकसद्भावस्तत्राभिव्यक्तिः, यथा गोपिण्डोषु गोत्वस्याश्वपिण्डेऽश्वत्वस्येति।
तच्चासत्। गोत्वस्याश्वादिपिण्डेषु सद्‌भावे प्रमाणाभावाद्। व्यवस्थिते हि सद्भावेऽभिव्यञ्जकाभावाद् अनुपलब्धिः कल्प्यते। अथ सामान्यं सर्वैः सम्बध्यते, व्यापकत्वादाकाशवदित्य[स्ति?त्र किं]प्रमाणम्। तत्र सर्वैः समवाये साध्ये साध्यविकलमुदाहरणम्, आकाशस्य सर्वत्र समवायाभावात्। संयोगित्वे तु साध्ये सामान्यस्य द्रव्यरूपताप्रसङ्गः। न चैतद्युक्तम्। गुणकर्मसु समवेतस्योपलम्भाद्। द्रव्यस्य च द्रव्य एव संयोगो नान्यत्रेति, तथा युतसिद्ध्यभावाच्च। युतसिद्धानाञ्च संयोग इति। अथ सामान्येन सम्बन्धमात्रं साध्यते? तत्रापि सिद्धसाधनम्, स्वाधारेण संयुक्तसंयोगस्य सर्वत्र सद्भावात्। तथाहि गोत्वाधारेण संयुक्तमाकाशादि तेन च संयुक्तं सर्वमूर्त्तमिति। एवं व्यापकत्वमपि यदि सर्वैः संयोगित्वम्, तदसिद्धम्। पक्षे तदेव हि सर्वगतत्वमिति साध्येनाविशेष एव। तथा आकाशादेर्व्यापकत्वेऽपि न सर्वैः सम्बन्ध इत्यनेकान्तः। अथ सर्वैः सम्बन्धः साध्यते सर्वत्र सन्निहितत्वादिति हेतुना? तदप्यसत्। आकाशादेस्तद्भावे गुणकर्मादिना सम्बन्धाभावात्। न च विशिष्टसम्बन्धानभ्युपगमे भावस्य अन्यसान्निध्यं पश्यामः। अतः स्वविषयसर्वगतमेव सामान्यम्। गोत्वं गोपिण्डेष्वेवाश्वत्वमश्वपिण्डेष्वेव, तत्रैवोपलम्भात्।
अभेदात्मकमनेकवृत्तीति लक्षणं दर्शयति अभेदात्मकमेकस्वभावम्। अनेकत्र वृत्तिर्यस्य तदनेकवृत्तीति। एकत्वे सत्यनेकत्र वर्त्तमानत्वात् सामान्यम्; तथापि अवयविसंख्यादिभिर्व्यभिचारपरिहारार्थं नित्यत्वे सतीति विशेषणमर्थादि व्याख्येयम्। तथापि सलिलादिपरमाणुरूपादयो नित्याश्चानेकत्र वर्त्तन्ते, तदर्थमेकत्वे सतीति विशेषणम्। ते तु अनेकत्वे सत्यनेकत्र वर्तन्ते इति। तथापि एकत्वे नित्यत्वे च सत्यनेकत्र वर्त्तते समवायः, तदर्थं स्वव्यतिरिक्तया वृत्त्या वर्त्तमानत्वे सतीति च विशेषणमध्याहार्यम्।
सर्वमत्रैव वाक्ये लभ्यते अध्याहारो न कार्यं इति चान्ये। तथाहि न विद्यते भेदो नानात्वं विनाशश्च यस्येति तथोक्तम्, तदेवात्मा स्वरूपमस्येति अभेदात्मकमेकमविनाशि चेति लभ्यते। अनेकत्र वृत्तिर्यस्य इति बहुव्रीहिणा वृत्तेर्वृत्तिमतो भेदाऽप्युपदर्शित एव। तस्मादेकत्वे नित्यत्वे च सति समवायेन अनेकत्र वर्त्तमानत्वात् सामान्यमितरस्माद् भिद्यते।
नन्वाश्रयासिद्धमेतल्लक्षणम्, सामान्यसद्भावे प्रमाणाभावात्। यच्चानुगतज्ञानं नतत् सामान्यसत्तां दर्शयति, कल्पनाज्ञानत्वात्। तथा चानादिवासनावशादनुगतज्ञानमुत्पद्यते, न पुनर्वास्तवं सामान्यमस्ति। तदुक्तम्
पररूपं स्वरूपेण यया संवृयते धिया।
एकार्थप्रतिभासिन्या भावान्नाश्रित्य भेदिनः ।। (प्र. वा. 3।67)
अस्यार्थः। भेदिनः परस्परं व्यावृत्तात्मानो भावास्तेषां रूपं भिन्नम्, स्वरूपेणाभिन्नेन संवृयते प्रच्छाद्यते यया धिया, किं विशिष्टया? एकार्थप्रतिभासिन्येति। एकश्चार्थः प्रतिभासतेऽस्यां स्वगताकार एव बाह्यः, तस्या निर्विषयत्वादिति।
तया संवृतनानात्वाः संवृत्या भेदिनः स्वयम्।
अभेदिन इवाभान्ति भावा रूपेण केनचित् ।। (प्र. वा. 3।68)
अस्यार्थः। स्वयं भेदिनोऽपि भावास्तया संवृत्या संवृतनानात्वाः सन्तः अभेदिन इवाभान्ति, न परमार्थतः। कथं तर्हि सामान्यमुच्यते? तदाह
तदभिप्रायवशात् सामान्यं सत्प्रकीर्त्तितम्।
तदसत् परमार्थेन यथा सङ्कल्पितं तया ।। (प्र. वा. 1।71)
परमार्थतोऽसदपि सामान्यं सत् प्रकीर्त्तितम्। (प्र. वा. ??)
तदभिप्रायवशादेकाकारप्रतिभासवशादिति। न च सामान्यम्, व्यक्तीनां व्यावृत्तरूपत्वादन्यस्य चाप्रतिभासनादित्याह
व्यक्तयो नानुयन्त्यन्यदनुयायि न भासते।
ज्ञानादव्यतिरिक्तञ्चेत् कथमर्थान्तरं व्रजेत् ।। (प्र. वा. 3।70)
तस्माद् बुद्धिरेव तदन्यव्यतिरेकिणः पदार्थान् आश्रित्योत्पद्यमाना विकल्पिता स्ववासनाप्रकृतिमनुविदधातीति भिन्नमेषां रूपं तिरोधाय अभिन्नमात्मीयं रूपमध्यवस्यति संसृजन्ती संदर्शयति। सा च एकसाधनसाध्यतया बुद्धिवर्तिनामेव भावानां बहिरिव परिस्फुरन्ती सामान्यमित्युच्यते। सा च स्वव्यतिरिक्तेषु भावेषु भवतीति विशेषविषयेत्युच्यते, न परमार्थतः। तस्मादनुगतव्यावृत्तस्वरूपत्वात् सामान्यं विशेषश्च, न तु बाह्या विवेकिनः पदार्थाः। न च तेषु विकल्पवृत्तिः कथं तेषु भवतीति? परीक्षकाः खल्वेवं विवेचयन्ति जात्या, न तु व्यवहर्त्तारः, ते तु स्वालम्बनामेव बुद्धिमनुगताकारां बहीरूपतया मन्यमाना दृश्यविकल्पावर्थावेकीकृत्य प्रवर्त्तन्ते प्रतिपादयन्ति चेति। न तु नित्यमेकमनुगतं विशेषव्यतिरिक्तं सामान्यं प्रतिभासत इति।
पुनरप्युक्तम्
शब्दोऽर्थांशकमाहेति तत्रान्यापोह उच्यते।
आकारः स च नार्थेऽस्ति तं वदन्नर्थभाक्कथम् ।। इति ।।
(प्र. वा. 3। 167)
वृत्त्यनुपपत्तेश्च न वास्तवं सामान्यमस्तीति। तथा चैकत्र वर्त्तमानं सामान्यं नैकदेशेन वर्त्तते, तदभावात्; न सर्वात्मना, अन्यत्र वृत्त्यभावप्रसङ्गात्। तथा चेनैव रूपेणैकत्र वर्त्तते तेनैव अन्यत्रापीत्यभ्युपगमे सर्वपिण्डानामेकताप्रसङ्गः। अथ स्वरूपान्तरेण, तर्हि स्वरूपभेदात् तस्य नानात्वं प्रसज्यते। स्वभावान्तरनिवृत्तौ चानेकत्र वृत्तित्वं विरुध्यत इत्युक्तम्। देशकालावस्थाविशेषविनियतैकसंसर्गाव्यवच्छिन्नस्वभावान्तरविरहादनेकत्र वृत्तेरेकस्य न देशादिविशेषवता अन्येन योग इति।
तत्र देशविशेषो नगरादिः, कालविशेषो वसन्तादिः, अवस्थाविशेषो बाल्यादिः, तेषु विनियतः सर्वात्मना प्रतिष्ठितो यथोक्तस्वभावश्चासौ एकश्च, तेन संसर्गः सम्बन्धः, तत्संसर्गेण अव्यवच्छिन्नमक्रोडीकृतम् उक्तस्वभावात् स्वभावान्तरम्, तेन विरहो वियोगः, तद्रहितत्वादिति हेत्वर्थः। अनेकवृत्तेरेकस्येति धर्मिनिर्देशः, न देशादिविशेषवता अन्येन योग इति साध्यधर्मनिर्देशः, रूपादिवदिति दृष्टान्तः। प्रयोगः पुनरेवं भवति यस्य यथोक्तस्वभावान्तरविरहः, न तस्य देशादिविशेषवता अन्येन योगः, यथा रूपादिः। अस्ति च सामान्यादेरसाविति विरुद्धोपलब्धिः। यदि चैकं तेन च स्वरूपेण सर्वैः सम्बध्येत सामान्यम् सर्वपिण्डानामेकदेशकालावस्थायोगिताप्रसङ्गः, तद्देशादिविशेषितपिण्डवृत्तिस्वरूपत्वात् सामान्यस्य। यदा चैकस्मिन् पिण्डे देशादिविशेषिते समुपलभ्यते, तदैवाशेषस्याश्रयविशेषितस्योपलम्भः स्यात्, तस्यैकरूपत्वादिति। अनेकवृत्तित्वानभ्युपगमे च रूपादिवदेकाश्रयत्वात् सामान्यरूपता न स्यादिति।
न च सामान्यस्य स्वभावान्तरमस्ति येनानेकवृत्तित्वं स्यादित्युक्तम्। न च सामान्यस्य नियताश्रयेण सम्बन्धे नियमहेतुरस्तीति। तथा गोत्वं सम्बध्यमानं न गवा सम्बध्यते, गोत्वसम्बन्धात् पूर्वं पिण्डस्य तद्रूपत्वासम्भवात्। अथ अगवा सम्बध्यते, तर्िह तस्याश्वेनापि सम्बन्धः स्यात्, गोत्वाभिसम्बन्धात् पूर्वम् अगोरूपतायाः सर्वत्र साधारणत्वात्। यत्र च गोपिण्डादिर्वर्त्तते न तत्र गोत्वादिसामान्यं समवैतीति तदाश्रयिणा तु सम्बद्ध्यत इति चित्रम्।
यत्रासौ वर्त्तते भावस्तेन सम्बद्ध्यते न तु।
तद्देशिनन्तु व्याप्नोति किमप्येतन्महाद्भुतम् ।।
(प्र. वा. 1।155)
तथा पिण्डे व्रजति न सामान्यस्य गमनमस्ति, निष्क्रियत्वात्। नाप्यस्थानम्, पिण्डस्य तच्छून्यताप्रसङ्गात्। न भागेन गमनमवस्तानञ्च, निरंशत्वात्। नापि पश्चादागत्य अभिसम्बद्ध्यते, पूर्वं तच्छून्यस्यानुपलब्धेः। तदुक्तम्
न याति न च तत्रासीदस्ति पश्चान्न चांशवत्।
जहाति पूर्वं नाधारमहो व्यसनसन्तति ।।
(प्र. वा. 3।151)
तदेतदसत्। जातिप्रद्बेषान्धतया प्रमाणमार्गपरिभ्रष्टैरभिहितमिति समाधीयते। तथा हि चक्षुरादिव्यापारेण अनुगतज्ञानस्याबाध्यमानस्योपलब्धेरवश्यमनुगतं निमित्तं वाच्यम्। न च वासनैव निमित्तम्, तस्याः पूर्वमेव प्रतिषेधात्। यदि च वासना विशिष्टप्रत्ययहेतुर्बाह्या चेति, संज्ञाभेदमात्रमेव स्यात्। बोधान्तर्भावे तु बोधरूपतया तस्याः सर्वत्राविशेषाद् विकल्पवैचित्र्यं न स्यात्, गोपिण्डदर्शनाद् गवाकारो विकल्पोऽश्वपिण्डदर्शनाच्चाश्वाध्यवसायी इत्यादि। न च देशादिभेदेनापि अबाध्यमानोऽध्यवसायो निर्विषयः सम्भवतीति "पररूपं स्वरूपेण यया संव्रियत" (प्र. वा. 1।61) इत्यपास्तमेव।
यच्चेदम् `व्यक्तयो नानुयन्त्यन्यदनुयायि न भासत' इति, असदेतत्, अनुगतज्ञानेन तस्य प्रतिभासनात्। यथाहि स्वलक्षणं व्यावृत्तरूपतया प्तिभासनाद् अस्ति एवम् अनुगतस्वरूपतया प्रतिभासनात् सामान्यमप्यस्तीति। यदि च व्यावृत्तिज्ञाने सामान्यस्याप्रतिभासनाद् असत्त्वम् [स्यात्]? अनुगतज्ञानेऽपि स्वलक्षणस्याप्रतिभासनाद् अस्त्तवम् [एव स्यात्]। तस्माद् यथा अबाध्यमानज्ञाने नीलादेः प्रतिभासनात् सत्त्वम्, एवमनुगतज्ञाने प्रतिभासनात् सामान्यस्यापि सत्त्वमभ्युपगन्तव्यम्। वृत्तिविकल्पादेर्बाधकस्याप्रमाणत्वादिति। तथा हि वृत्त्यनुपपत्तेरसत्त्वमिति नेदं स्वतनत्‌रसाधनम्, अनेकान्तात्। स्वतन्त्रे हि रूपादीनां सत्त्वमनुपपद्यमानवृत्तित्वञ्चेति। एवं परपक्षेऽनुपपद्यमानवृत्तित्वेऽपि आकाशादीनां सत्त्वमिति। स्वरूपासिद्धश्च, वृत्तेः समवायस्य सत्त्वात्। एकदेशेन सर्वात्मना च न वर्त्तत इति अयुक्तो विशेषप्तिषेधः, प्रकारान्तरस्यासम्भवात्। अभिन्नस्वरूपत्वाच्च सामान्यस्य न तत्र एकदेशसर्वशब्दयोः प्रवृत्तिः, तयोर्भिन्नेष्वेव प्रवृत्तिदर्शनात्। समवायेन च वर्त्तते सामान्यम्, नैकदेशेन स्वरूपेण वा, तस्य एकदेशस्य स्वरूपस्य चावृत्तिरूपत्वादिति। यदेव चैकस्मिन् पिण्डे स्वरूपं सामान्यस्य तदेव पिण्डान्तरेऽपि, अनुगतज्ञानजनकत्वस्य सर्वत्र सम्भवात्। तदाह एकद्विबहुषु पिण्डेष्वात्मस्वरूपानुवृत्तिदर्शनात् स्वप्रत्ययकारणमिति। सामान्यस्यात्मस्वरूपमनुवृत्तमभिन्नम्, अतोऽनुवृत्तिप्रत्ययस्यानुगतज्ञानस् कारणमिति।
न च सामान्यस्याभेदे पदार्थानां तथाभावः, ततोऽन्यत्वात्। अत एव नैकस्मिन् देशादिविशेषिते पिण्डे सामान्यस्योपलम्भाद् अशेषविशेषितस्याप्युपलम्भप्रसङ्गः, तेषामनियतदिग्देशसम्बन्धित्वेनोपलम्भाभावात्। यथैव च क्रमेण विशेषा उपलभ्यन्ते तथैव तद्विशेषितं सामान्यमपीति। यदा हि प[ण्य ? ञ्च] पुरावस्थितगोपिण्डानां वसन्तसमये बालाद्यवस्थाविशेषितानामुपलम्भस्तदा तद्विशेषितं सामान्यमुपलभ्यते अन्यदा त्वन्यैर्विशेषितमिति पिण्डेष्वनुगतज्ञानजनकत्वं सामान्यस्य सर्वत्राव्यभिचारिस्वरूपम्। तस्मादभेदात्मकमनेकवृत्ति च सामान्यं प्रत्यक्षेणोपलम्भाद् अभ्युपगन्तव्यम्। यथा हि रूपमेकमेव एकत्र वर्तमानं प्रत्यक्षेणोपलब्धं तद्वदेकं सामान्यमनेकत्रेति।
यच्चेदं देशादिविशेषितस्वभावाद् अनेकवृत्तेरेकस्य न देशादिविशेषवता अन्येन योग इत्युक्तम्, तत्र व्यर्थविशेषणता हेतोर्धर्मिणश्च। तथा हि एकसंसर्गाव्यवच्छिन्नस्वभावान्तरविरहान्न सामान्यस्य विशेषान्तरेण योग इति प्रतिषेधे साध्ये व्यभिचाराभावात् साध्यसाधनयोर्देशादिविशेषणमनर्थकम्, व्यवच्छेद्यसद्भावे हि विशेषणस्यार्थवत्तोपपत्तेः।
अथ यथोक्तस्वभावान्तरविरहे कथमन्ययोगः सामान्यादेः, अन्ययोगे वा कथं यथोक्तस्वभावान्तरविरहः? तयोरन्यत्र रूपादौ प्रतिबन्धसिद्धिरिति चेत्, न, व्यभिचारात्। तथा हि रूपाश्रयस्य रूपसंसर्गाव्यवच्छिन्नस्वभावान्तरविरहेऽपि रसादिभिर्योगो दृष्टः; तद्वत् सामान्यस्याप्याश्रयान्तरेण योगः केन वार्यते, रूपाश्रयवत् सामान्येऽपि यथोक्तस्वभावान्तरासत्त्वस्याविशेषादिति। अस्ति च रूपस्याश्रयो द्रव्यमित्युक्तम्।
अथैकत्वात् सामान्यस्य अनेकत्र समवायः प्रतिषिध्ध्यते? तर्हि यदनेकत्र समवेतम्, तदनेकमेवेत्यभ्युपगमे हेतोर्व्यतिरेकाव्यभिचारेणैव गमकत्वाद् एकत्र समवेतानां रूपादीनामेकता प्रसज्येत, न चैतदस्ति। अथ एकत्वादेकत्रैव समवायः साध्यते? तदप्यनैकान्तिकम्। आकाशादेरेकत्वेऽप्येकत्रैव समवायाभावात्। यद्यनेकत्र समवायादनेकत्वप्रसङ्गोऽभिधीयते,् तथापि यदेकं तदेकत्र समवेतमिति व्यतिरेकाभावः, सत्यपि आकाशादावेकत्वे तदभावात्। एक्तर समवायादेकत्वम् इत्येतदपि रूपशब्दादिभिरनैकान्तिकम्। एकत्वस्य सामान्यविशेषरूपत्वात् तस्मिन् साध्ये हेतोरन्वयव्यतिरेकाभावादगमकत्वम्। एवं निर्विशेषणस्य हेतोरन्तरः साध्यसाधनभावप्रकारो निरस्तः। तथा सविशेषणस्यापि हेतोराकाशादिनानैकान्तिकत्वम्, तस्य हि देशादिविशेषवता अन्येन योगेऽपि तथोक्तस्वभावान्तरविरहोपलब्धेः।
यच्चेदं प्रदीपप्रभाया देशादिविशेषणविशिष्टाया न देशादिविशेषवता अन्येन योग इत्युदाहरणम्, तत्रापि उत्पत्तेरूर्ध्वमवयवक्रियाक्रमेण विनाशाभ्युपगमाद् अनेककालव्यवधाने देशादिविशेषवता अन्येनापि योगः सम्भवत्येव। न च प्रदीपप्रभायां साध्यसाधनसद्भावेऽपि हेतोर्व्यभिचारोपदर्शनाद् गमकत्वम्। तथा सामान्यस्य स्वभावान्तरविरहोऽसिद्धः, तदाधारान्तरस्य तद्विशेषकत्वेन तत्स्वबावान्तरत्वात्। प्रतीयते चाधाराधेययोर्विशेषणविशेष्यभावः, यथा सद्द्रव्यम्, द्रव्यस्य सत्तेति। तस्मात् स्वभावान्तरविरहोऽपि साध्य एवेति। तथानेकवृत्तेरेकस्य न देशादिविशेष[व]ता अन्येन योग इति प्सङ्गनिर्देशे स्ववचनविरोधः। तथाहि अन्ययोगप्रतिषेधे न अनेकवृत्तित्वं भवतीति। अथ सामान्यादिपर्यायोऽयमनेकत्र वृत्तिरिति। तथाप्यनेकवृत्ति[त्व] प्रतिषेधोऽनुपपन्नः, सामान्यस्व नित्यत्वैकत्वे सत्यनेकवृत्तित्वलक्षणत्वात्। प्रत्यक्षेण च सामान्यस्य अनेकवृत्तित्वप्रसिद्धेः, तेन बाध्यत्वादनुमानमप्रमाणम्। तथा हि, एकद्विबहुषु पिण्डेष्वक्षव्यापारादनुगतज्ञानमुत्पद्यमानं दृष्टम्। न चदं भ्रान्तम्, प्रत्यक्षागमसंवादेन विसंवादनिवृत्तौ तद्‌व्याप्तस्य भ्रान्तत्वस्य निवृत्तेरिति।
न च अपोहादेवानुगतज्ञानम्, तस्य व्यावृत्तिरूपतायामवस्तुत्वेनाजनकत्वात्, जनकत्वे वा तस्य अर्थक्रियाकारित्वात् वस्तुत्वप्रसङ्गः। अथ व्यावृत्तादन्या व्यावृत्तिर्नेष्यते? तर्हि तेषां परस्परव्यावृत्तस्वरूपतया अनुगतज्ञानजनकत्वं न स्यात्।
यच्चेदम् अगोव्यावृत्तिर्गोत्वम् इत्युक्तम्, तत्र गवां स्वरूपप्रतिपत्तिमन्तरेण ततोऽन्येषामगोरूपतायामप्रसिद्धिः, तदप्रसिद्धौ च न गवां स्वरूपप्रतिपत्तिरित्यन्योन्याश्रयत्वं स्यात्। यदि चैकस्माद् गोपिण्डादन्येषामगोरूपता तर्हि गोपिण्डानामप्यन्येषामगोरूपताप्रसङ्गः, तेषामप्येकस्माद् गोपिण्डादन्यत्वात्।
अथ सर्वस्माद् गोपिण्डादन्येषामगोत्वम्, तदसत्, वर्गीकरणनिमित्तासम्भवे सर्वेषां गोपिण्डनामप्रतिपत्तौ ततोऽन्येषां प्रतिपत्तुमशक्यत्वात्। येषाञ्च अनुगतमभिन्नं निमित्तमस्ति तेषां गोस्वरूपप्रसिद्धौ ततोऽन्यव्यावृत्तिः प्रतीयत एव। अथ अर्थक्रियासामान्यादनुवृत्तिप्रत्यय इति चेत्, न, अर्थक्रियाणामपि परस्परं व्यावृत्ततया अनुगतज्ञानाजनकत्वात्। अथ अर्थक्रियाणामनुगतमभिन्नं निमित्तमुपग्राहकमिष्येत, तदेव तर्हि सामान्यम्।
का चेयमर्थक्रिया यत्साम्यादनुगतज्ञानमिति वाच्यम्। यदि वाहादिरूपा? सा च मनुष्यादावपि सम्भवतीति तत्रापि गौर्गौरित्यनुगतज्ञानप्रसङ्गः। न च पक्षे सर्वत्रैतदस्तीत्यनुगतज्ञानाभावप्रसङ्गः।
अथ ज्ञानमेवानुगतव्यावृत्ताकारं सामान्यमिति चेत्, सोऽयम् `अश्वारूढस्य विस्मृतोऽश्वः' इति न्यायः, न ह्यनुगतनिमित्तं विना अनुगतज्ञानं सम्भवति, वासनादेर्निमित्तस्य प्रतिषेधात्।
यदपीदं सामान्यस्याधारे व्रजति, गमने क्रियावत्त्वम्, अवस्थाने चानाधारत्वमिति। तदसत्. बाधकोपपत्तौ गमनप्रत्ययस्य भाक्तत्वात्। तथा च मूर्त्तत्वेन क्रियावत्त्वं व्याप्तम्, तच्च सामान्यादिभ्यो व्यावर्त्तमानं स्वव्याप्तं क्रियावत्त्वं गृहीत्वा व्यावर्त्तत इति निष्क्रियं सामान्यादि, मूर्त्तत्वे सत्येव अन्वयव्यतिरेकाभ्यामर्थेषु क्रियोपलब्धेः। सैव योग्यता, तदभावाच्चाकाशादौ क्रियाभावो न विभुत्वप्रतिबन्धात्, तदभावे हि गुणक्रमादावपि क्रियावत्त्वप्रसङ्गात्। यदि च कस्यचित् सामान्याधारस्य गमनात् सामान्यस्यापि गमनम्, तर्हि तस्यावस्थानेऽवस्थानञ्चेति `न गच्छेन्नापि तिष्ठेत्' इति दुरुद्धरं व्यसनमापद्येत। तस्मात् संयोगविभागैकार्यसमवायाद् आधारगतं गमनमाधेयेऽप्यारोप्य प्रतिपद्यते सामान्यं गच्छति इति।
यच्चेदम् `न याति न च तत्रासीदस्ति पश्चान्न चांशवत्' इत्युक्तम्, तत्सामान्यस्वरूपोपवर्णनम्, न तस्य प्रतिषेधपरम्। द्रव्यस्वरूपानुपलम्भेन सामान्यस्यासत्त्वे सर्वस्याप्यसत्त्वं स्यात्, तदितरासत्त्वस्य सर्वत्राविशेषात्। सामान्यञ्च विशेषेष्वनुवर्त्तमानं प्रत्यक्षेणैव प्रसिद्धमिति तस्यानुपलम्भोऽसिद्धः। यदि च असत्त्वं सामान्यस्य, कथं स्वलक्षणविषयं प्रत्यक्षं सामान्यविषयमनुमानमिति स्यात्। अथ
अतद्रूपपरायत्तवस्तुमात्रप्रकाशनात्।
सामान्यं सदिति प्रोक्तं लिङ्गभेदाप्रतिष्ठितेः ।। (धर्मकीर्त्तिः?) इति।
अयमस्यार्थः, दाहपाकादिसमर्थाग्निव्यतिरेकिणो जलादयोऽतद्रूपाः, तेभ्यो व्यावृत्तस्य तार्णपार्णादिविशेषरहितस्याग्निमात्रस्य ज्ञापनात् सामान्यविषयो धूमः, तथा धूमज्ञानमपि अधूमव्यावृत्ततार्णादिविशेषरहितधूममात्रविषयमिति।
नैतद्युक्तम्। सामान्यानभ्युपगमे मात्राभिधानस्य अर्थासम्भवात्। न चापोह एव मात्राभिधानस्यार्थः, तस्य अवस्तुत्वेनाजनकत्वात्। वस्तुत्वे च वास्तवमेव सामान्यमभ्युपगतमिति कः प्रतिकूलोऽनुकूलमाचरतीति? न चाग्निव्यक्तीनां सामर्थ्यम्, तद्ग्राहकाविनाभावस्यैवाप्रसिद्धेः। न च धूमोपलम्भादिग्निसामस्त्यप्रतिपत्तिर्दृष्टेति। अथ तार्णादीनामन्यतमो विशेषो मात्राभिधानिविषयः? तर्हि कथं सामान्यविषयमनुमानम्। न चाग्निव्यक्तिषु विशिष्टार्थक्रियाकारितया समाना बुद्धिः, क्रियाणामपि परस्परं व्यावृत्तत्वादित्युक्तन्यायात्। एतेन यदुक्तम्
लिङ्गलिङ्गिधियोरेव पारम्पर्येण वस्तुनि।
प्रतिबन्धात् तदाभासशून्ययोरप्यवञ्चनम् ।। (प्र. वा. 2।82)
इत्येतदपास्तं भवतीति। तयोर्द्वयोः सामान्याभावे पारम्पर्येणापि वस्तुप्रतिबन्धाभावात्।
न च अधूमव्यावृत्ताकाराद् विकल्पाद् अनग्निव्यावृत्ताकारो विकल्पः, तयोरविनाभावस्याप्रसिद्धेः। अग्निप्रतिपत्तिमन्तरेणानग्नयो न प्रतीयन्ते, तदप्रतिपत्तौ नाग्निप्रतिपत्तिरितरेतराश्रयत्वप्रसङ्गात्। न च कार्यत्वेन धूमस्य गमकत्वमित्युक्तं व्याप्तिसमर्थनावसरे। तस्मात् सामान्यवतामविनाभावप्रसिद्धेरनुमानमिच्छता अवश्यं सामान्यमभ्युपगन्तव्यम्। अन्यथा हि वास्तवसामान्यं विना भावस्याप्रसिद्धौ सङ्केताप्रतिपत्तेश्च नानुमानशब्दयोः प्रमाणता स्यादिति। अस्ति च तयोः प्रामाण्यम्। तस्मादर्थप्रतिपत्तौ प्रवर्त्तमानस्य अर्थक्रियासंवादेन विसंवादिनिवृत्तौ तद्व्याप्तस् भ्रान्तत्वस्य निवृत्तिरित्युक्तं पूर्वम्। अतः स्वात्मरूपानुवृत्तिप्रत्ययकारणमिति।
सङ्ग्रहवाक्यस्य विवरणमाह स्वरूपाभेदेनैकरूपेणाधारेषु शाबलेयादिपिण्डेषु प्रबन्धेनानुपरमेण पूर्वपिण्डापरित्यागेन समवायवृत्त्या वर्त्तमानमनुवृत्तिबुद्धिकारणमिति। एकद्विबहुष्वित्यस्य विवरणमाधारेष्विति। अभेदात्मकपदस्य तु स्वरूपाभेदेनेति। कथम् इत्यव्युत्पन्नप्रश्नः, विपर्यस्ताक्षेपो वा। तथा चैकपिण्डोपलम्भकाले नानुगतं सामान्यं प्रतिभाति। द्वितीयपिण्डोपलम्भकालेऽपि प्रथमपिण्डस्याग्रहणादनुगतज्ञानाभाव एव। यत्रापि एवं ज्ञानमनेकपिण्डालम्बनम्, तत्राप्यनुगज्ञानस्यानुपलम्भ एव इत्याक्षेपे सति प्रतिसमाधानमाह प्रतिपिण्डं सामान्यापेक्षमित्यादि।
पिण्डं पिण्डं [प्रति] प्रबन्धेन सातत्येन ज्ञानानामुत्पत्तिः, तस्याञ्च सत्यां पूर्वपूर्वानुभवजनितसंस्कारापेक्ष उत्तरोत्तरप्रत्ययोऽभ्यासः, तेन जनितः संस्कारः, तस्माच्चातीतज्ञानप्रबन्धप्रत्यवेक्षणं भवति। अतीतश्चासौ ज्ञानप्रबन्धश्च, तस्मिन् प्रत्यवेक्षणं स्मरणं भवति। ज्ञायत इति ज्ञानम्, ज्ञप्तिश्च ज्ञानम् इत्युभयविषयं स्मरणं भवतीति। एतत् सदृसे मया प्रागुपलब्ध इत्येवं स्मरणात् समनुगतं यदस्तीति ज्ञायते, तत् सामान्यमिति। तत्सदृशोऽयमिति प्रत्यभिज्ञानाच्च यत् तत्सादृश्यं भिन्नेष्वभिन्नप्रत्ययजनकम् तत्सामान्यमिति व्यवस्थितम्।
तत्र सत्ता परं सामान्यमनुवृत्तिप्रत्ययकारणमेव। यथा परस्परविशिष्टेषु चर्मवस्त्रकम्बलादिष्वेकस्मान्नीलद्रव्याभिसम्बन्धाद् नीलं नीलमिति प्रत्ययानुवृत्तिः, तथा परस्परविशिष्टेषु द्रव्यगुणकर्मस्वविशिष्टा सत्सदिति प्रत्ययानुवृत्तितः, सा चार्यान्तराद् भवितुमर्हतीति यत् तदर्थान्तरं सा सत्तेति सिद्धा। सत्तासम्बन्धात् सत्सदिति प्रत्ययानुवृत्तिः, तस्मात् सामान्यमेव।
भेदं निरूपयति तत्र सत्ता परं सामान्यम्। अत्र च महाविषयत्वादित्युक्तमेव साधनम्। सा तु सत्ता सामान्यमेव। कुतः? यतोऽनुवृत्तिप्रत्ययस्यैव कारणम्। यद्यपि अभावादिभ्यो व्यावृत्तिज्ञानस्यापि हेतुः, तथापि सामान्यवत्सु अनुवृत्तामेव बुद्धिं जनयति, न व्यावृत्ताम्। अतः सामान्यमेवेति।
तत्र सामान्यमात्रस्य सद्भावे व्यवस्थापिते विस्पष्टार्थं सत्तायाः सद्भावानुमानमाह; यद्वा पूर्वं प्रत्यक्षमुक्तमिदानीमनुमानमुच्यते। तत्र व्याप्तिसमर्थनार्थं दृष्टान्तं व्याचष्टे, यथा परस्परविशिष्टेषु व्यावृत्तेषु चर्मवस्त्रकम्बलादिषु अन्यस्मादर्थान्तरभूताद् नीलद्रव्यसम्बन्धान्नीलं नीलमिति प्रत्ययानुवृत्तिः तथा परस्परविशिष्टे द्रव्यगुणक्रमसु अविशिष्टा सत् सदिति प्रत्ययानुवृत्तिरिति दार्ष्टान्तिकनिरूपणम्। सा च प्रत्ययानुवृत्तिरर्थान्तरसम्बन्धाद् भवितुमर्हति, यत्तदर्थान्तरं सा सत्तेति सिद्धा। सत्तासम्बन्धात् सत्सदिति प्रत्ययानुवृत्तिः, तस्मात् सामान्यमेव। प्रयोगस्तु द्रव्यगुणक्रमसु सत्सदिति प्रत्ययः, विशेष्यव्यतिरिक्तानुगतनिमित्तनिबन्धनः, भिन्नेष्वनुगतप्रत्ययात्, कम्बलादिषु नीलद्रव्यसम्बन्धान्नीलं नीलमित ज्ञानवत्। सामान्येन च विशेष्यव्यतिरिक्तानुगतनिमित्तनिबन्धनत्वे साध्येन पाचकादिज्ञाने पचिक्रियानिमित्तम्, तदभिज्ञता वा, तत्सद्भावे क्रियोपरमेऽपि पाचक इति व्यवहारात्। एवं दण्डीति ज्ञाने दण्डो निमित्तम्, शुल्क इति ज्ञाने च गुणो निमित्तमिति सर्वत्र व्यतिरिक्तमेव निमित्तम्। दण्डीदेस्तु परस्परं विलक्षणत्वाद् अनुगतज्ञानोत्पत्तौ एकमभिन्नं निमित्तमुपग्राहकमभ्युपगन्तव्यम्। अन्यथा ह्यनुगतज्ञानाजनकत्वमेव स्यात्। अतो दण्डेषु दण्डत्वम्, शुक्लादिषु च तत्सामान्यमिति वाच्यम्।
यच्चेदं सामान्यं सामान्यमित्यनुगतज्ञानम् अत्राप्येकत्वे नित्यत्वे सत्यनेकत्र समवायो निमित्तम्। एवं सर्वत्र निमित्तान्तरमभ्यूह्यम्।
अपरं द्रव्यत्वगुणत्वकर्मत्वादि अनुवृत्तिव्यावृत्तिहेतुत्वात् सामान्यं विशेषश्च भवति। तत्र द्रव्यत्वं परस्परविशिष्टेषु पृथिव्यादिष्वनुवृत्तिहेतुत्वात् सामान्यम्, गुणकर्मभ्यो व्यावृत्तिहुत्वाद् विशेषः। तथा गुणत्वं परस्परविशिष्टेषु रूपादिष्वनुवृत्तिहेतुत्वात् सामान्यम्, द्रव्यकर्मभ्यो व्यावृत्तिहेतुत्वाद् विशेषः। तथा कर्मत्वं परस्परविशिष्टेषूत्क्षेपणादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्यं द्रव्यगुणेभ्यो व्यावृत्तिहेतुत्वाद् विशेषः।
एवं पृथिवीत्वरूपत्वोत्क्षेपणत्वगोत्वघटत्वपटत्वादीनामपि प्राण्यप्राणिगतानामनुवृत्तिहेतुत्वात् सामान्यविशेषभावः सिद्धः। एतानि तु द्रव्यत्वादीनि प्रभूतविषयत्वात् प्राधान्येन सामान्यानि, स्वाश्रयविशेषकत्वाद् भक्त्या विशेषाख्यानीति।
अपरं द्रव्यत्वगुणत्वकर्मत्वादि इत्यादिपदेन पृथिवीत्वादेर्ग्रहणम्। अनुवृत्तिव्यावृत्तिप्रत्ययहेतुत्वात् सामान्यं विशेषश्च भवतीति तदेवाह तत्र द्रव्यत्वं परस्परविशिष्टेषु व्यावृत्तस्वरूपेषु पृथिव्यादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्यम्, गुणकर्मभ्यो व्यावृत्तिप्रत्ययहेतुत्वाद् विशेषः। यथा द्रव्यत्वम् तथा गुणत्वमपि परस्परविशिष्टेषु रूपादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्यं द्रव्यकर्मभ्यो व्यावृत्ति[प्रत्यय]हेतुत्वाद् विशेषः। तथा कर्मत्वं परस्परविशिष्टेषूत्क्षेपणादिष्वनुवृत्ति [प्रत्यय]हेतुत्वात् सामान्यम्, द्रव्यगुणेभ्यो व्यावृत्ति [प्रत्यय]हेतुत्वाद्‌विशेषः। एवं पृथिवीत्वरूपत्वोक्षेपणत्वगोत्वघटत्वपटत्वादीनामपि प्राण्यप्राणिगतानामनुवृत्तिव्यावृत्ति[प्रत्यय]हेतुत्वात् सामान्यविशेषभावः सिद्ध इत्यतिदेशः। प्राणसम्बन्धिनि पिण्डे गतानि गोत्वाश्वत्वादीनि, अप्राणिगतानि पृथिवीत्वादीनि प्राणशून्याधारगतानि, स्वभेदेऽनुवृत्तित्ययहेतुत्वाद् भेदान्तराद् व्यावृत्तिप्रत्ययहेतुत्वाच्च[तेषां]सामान्यविशेषभावः सिद्ध इति।
न चैकस् वस्तुनो द्वैरूप्यानुपलब्धेः कथं तदेव सामान्यं विशेषश्चेति? अथैकमत्र पारमार्थिकम्, अन्यच्चोपचरितमित्यविरोधः। तत्र किं मुख्यवृत्त्या सामान्यानि, विशेषा वेत्याह एतानि द्रव्यत्वादीनि प्रभूतविषयत्वात् प्राधान्येन मुख्यवृत्त्या सामान्यानि। न हि विशेषाणां प्रभूतविषयत्वं सम्भवति, एकैकद्रव्यवृत्तित्वात्। स्वाश्रयविशेषकत्वाद् भक्त्या उपचारेण विशेषाख्यानीति। व्यावृत्तिप्रत्ययजनकत्वं विशेषाणां स्वरूपम्, तस्येहाप्युपलब्धेरुपचारः प्रवर्त्तत एव। तथाहि द्रव्यत्वादि सामान्यं स्वाश्रयमाश्रयान्तराद् व्यावृत्तं विशिनष्टि व्यावर्त्तयतीति इत्यतो विशेषाख्यामपि लभते।
लक्षणभेदादेषां द्रव्यगुणक्रमभ्यः पदार्थान्तरत्वं सिद्धम्। अत एव च नित्यत्वम्। द्रव्यादिषु वृत्तिनियमात् प्रत्ययभेदाच्च परस्परतश्चान्यत्वम्। प्रत्येकं स्वाश्रयेषु लक्षणाविशेषाद् विशेषलक्षणाभावाच्चैकत्वम्। यद्यप्यपरिच्छिन्नदेशानि सामान्यानि भवन्ति, तथाप्युपलक्षणनियमात् कारणसामग्रीनियमाच्च स्वविषयसर्वगतानि। अन्तराले च संयोगसमवायवृत्त्यभावादव्यपदेश्यानीति।
अथ द्रव्यत्वादीनि द्रव्यगुणकर्मभ्योऽर्थान्तरम् स्वरूपाणि वा इत्याह लक्षणभेदादेषां द्रव्यगुणकर्मभ्यः पदार्थान्तरत्वं सिद्धम्। तच्चोक्तमभेदात्मकमनेकवृत्तीति पदेन। अत एव च नित्यत्वम्। यत एव द्रव्यादिभ्यः पदार्थान्तरत्वम्, अत एव च नित्यत्वम्। द्रव्यगुणकर्मात्मकस्य भावस्यानित्यत्वोपलब्धेः।
ननु चानुत्पत्तिमत्त्वेन नित्यत्वम्, न द्रव्यादिभ्यः पदार्थान्तरत्वेन, सामान्यादित्रयस्यापि नित्यत्वेन साध्यत्वात्। नैतदेवम्। यतो द्रव्यादिभ्यो विभिन्नस्वरूपसम्बन्धित्वेन प्रतिभासनाद् अर्थान्तरत्वम्, अत एव च नित्यत्वम्, उत्पत्तिविनाशकारणासम्भवात्। तथाहि सामान्यस्योत्पत्तिकारणं नास्ति, तदाधाराणां युगपदसम्भवेन, समवायिकारणाभावादित्येवं निर्णीतं पदार्थसङ्करे।
अथैकमेव सामान्यं सत्तालक्षणमुपाधिभेदाद् भिन्नप्रत्ययसम्पादकमित्येतस्य निरासार्थमाह द्रव्यादिषु वृत्तिनियमात् प्रत्ययभेदाच्च परस्परतश्चान्यत्वमिति। [ए?द्रव्ये]ष्वेव द्रव्यत्वम्, गुणेष्वेव गुणत्वमित्यादिवृत्तिनियमः। प्रत्ययभेदस्तु द्रव्येष्वेव द्रव्यं द्रव्यमिति द्रव्यत्ववशाज्‌ज्ञानम्, गुणेषु च गुणत्वयोगाद् गुणो गुण इत्यादि। तस्मात् प्रत्ययभेदाद् द्रव्यादिषु वृत्तिनियमाच्च परस्परतोऽप्यन्यत्वम्। अन्यथा हि सर्वपदार्थेष्वेकत्वात् सामान्यस्य वृत्तिनियमः प्रत्ययभेदश्च न स्यात्।
अथास्तु परस्परतोऽन्यत्वम्, तथापि स्वाश्रयेषु द्रव्यमिति द्रव्यत्ववशाज्‌ज्ञानं गुणेषु च गुण इत्यादि यस्मात् तत् किमेकमनेकं वेत्याशङ्कानिरासायाह प्रत्येकं स्वाश्रयेष्वेकं द्रव्यत्वम्, गुणेष्वेकं गुणत्वम्, इत्येवं शेषेष्वपीति। कुत एतत्? लक्षणाविशेषात्, अनुगतस्वरूपाविशेषात्। यद् वा लक्ष्यतेऽनेनेति वा लक्षणम्, द्रव्यं द्रव्यमित्याद्यनुगतज्ञानम्, तस्य अविशेषा[द्] एव द्रव्येषु द्रव्यत्वम्; गुणेषु गुणत्वमन्यथा ह्य[न] नुगतज्ञानमेव स्यात्।
अथ रूपभेदानामनेकत्वेऽपि रूपं रूपमिति ज्ञानमस्ति। सत्यमेतत्। नीलादिज्ञानस्य भेदव्यवस्तापकस्योपपत्तेः। न चैवमत्र भेदव्यवस्थापकं प्रमाणमस्तीत्याह विशेषलक्षणाभावाच्चैकत्वमिति। अथैकस्मिन्नेव देशे समुत्पद्यमानस्य घटादेः प्रतिनियतसामान्यसम्बन्धे हेतुर्वाच्यः, अन्यथा ह्यनियतदेशत्वात् सामान्यानां नियतेन धर्मिणा सम्बन्धो न स्यादित्याह यद्यपि अपरिच्छिन्नदेशानि सामान्यानि, तथापि उपलक्षणनियमात् कारणसामग्रीनियमाच्च स्वविषयसर्वगतानीति। उपलक्ष्यतेऽनेनेत्युपलक्षणमनुगतज्ञानमेव। तथाहि द्रव्यं द्रव्यमित्यनुगतं ज्ञानं द्रव्येष्वेव, न गुणादौ, अतः स्वविषयसर्वगतमेव द्रव्यत्वम्, विषयान्तरे तत् सद्भावे प्रमाणाभावात्। एवं गुणत्वादावपीति। उपलक्षणं सामान्याभिव्यञ्जकं वा तन्नियमात् स्वविषयसर्वगतम्। तथाहि सास्नाद्युपलक्षितपिण्डस्य गोत्वेनाभिसम्बन्धः, केसराद्युपलक्षितस्याश्वत्वेनाभिसम्बन्ध इत्येवं सर्वत्र नियतं सद् व्यञ्जकमभ्यूह्यम्।
अथास्तु व्यञ्जकनियमात् स्वविषय एवोपलम्भात् स्वविषयसर्वगतत्वमत्र कारणं वाच्यम्, नियामकाभावे नियताश्रयसम्बन्धस्यैवाभावप्रसङ्गादित्याह कारकसामग्रीनियमाच्च स्वविषयसर्वगतमिति। तथाहि गोत्वजातिसम्बन्धोपभोगित्वप्रापकादृष्टोपलक्षितसामग्रीसम्पादितो गोपिण्डो नाश्वादि इतरः, तन्नियमात् स एव गोत्वेनाभिसम्बध्यते नान्यः, तथा अश्वत्वजातिसम्बन्धोपभोगप्रापकादृष्टोपलक्षितसामग्रीजन्यत्वाद् अश्वपिण्डोऽश्वत्वेनाभिसम्बद्ध्यत इति। एवमन्यत्राऽपीति। अतो युक्तं `यत्रासौ वर्त्तते भावस्तेन सम्बद्ध्यते न तु' इत्यादि, तदपास्तम्। नियताश्रयसमवेतस्यैवोपलम्भसिद्धौ नियमकारणस्यानभिधानात्।
यच्चेदं किं गौर्गोत्वेनाभिसम्बध्यते अथागौरिति चोद्यम्, तन्न प्रतिसमाधानार्हम्, निष्ठासम्बन्धयोरेककालत्वादिति। स्वकारणैः सत्तादिभिश्च पिण्डस्याभिसम्बन्ध एवात्मलाभः, न पूर्वं तस्य गोरूपताऽगोरूपता वा, तत्सत्त्वस्यैवासम्भवात्।
अथ यया मणिमन्त्रौषधादीनि विशिष्टार्थक्रियासम्पादनसमर्थानि स्वकारणादुत्पन्नानि एवं गोपिण्डा गौरितिज्ञानोत्पादनसमर्थाः स्वकारणादेवोत्पन्ना न अश्वादिज्ञानमुत्पादयन्तीति चेत्, तर्हि यत् तत् सामर्थ्यं येन सता गौरित्यनुगतज्ञानमुत्पादयन्ति, तद् यद्यर्थान्तरं संज्ञाभेदमात्रम्। अव्यतिरेके त्वनुगतज्ञानाभावप्रसङ्गः। तस्मादनुगतस्य वस्तुनः प्रत्यक्षेण प्रतिभासनात् सामान्यनिराकरणे सर्वं दूषणमसाधनमेवेति।
अथ स्वविषयसर्वगतत्वे गोपिण्डयोरन्तरालेऽपि सामान्यमुपलभ्येत, न चैतत्त[त्?दस्ति] तस्मात् कथं स्वविषयसर्वगतमित्याशङ्क्याह अन्तराले च संयोगसमवायवृत्त्यभावाद् अव्यपदेश्यानीति। संयुक्तसमवायेन गोत्वादिसामान्यस्योपलम्भाद् गोत्वमिति व्यपदेशो न चासाविहास्ति, अतोऽव्यपदेश्यानीति। तथा किमिदमन्तरालं नाम यत्र सामान्यस्योपलम्भप्रसङ्गश्चोद्यते? यदि मूर्त्तद्रव्याभावः? न तत्र गोत्वादिसामान्यम्, अभावत्वादेव। अथ शब्दानुमेयमतीनद्रियमाकाशम्, अन्तरालावस्थितं वा घटादि द्रव्यम् तत्रापि न गोत्वादेः समवाये प्रमाणमस्तीत्यनुपलम्भो घटत इत्यलम्।
।। इति श्रीव्योमशिवाचार्यविरचितायां पदार्थशङ्ग्रहटीकायां सामान्यपदार्थः ।।

अथ समवायदार्थनिरूपणम्[सम्पाद्यताम्]

अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इह प्रत्ययहेतुः स समवायः। द्रव्यगुणकर्मसामान्यविशेषाणां कार्यकारणभूतानामकार्यकारणभूतानां वा अयुतसिद्धानामाधार्याधारभावेनावस्थितानामिहेदमिति बुद्धिर्यतो भवति, यतश्चासर्वगतानामधिगतान्यत्वानाम् अविष्वग्भावः स समवायाख्यः सम्बन्धः। कथम्? यथेह कुण्डे दधीतिप्रत्ययः सम्बन्धे सति दृष्टः, तथेह तन्तुषु पटः, इह वीरणेषु कटः, इह द्रव्ये गुणकर्मणी, इह गुणे गुणत्वम्, इह कर्मणि कर्मत्वम्, इह नित्यद्रव्येऽन्त्या विशेषा इति प्रत्ययदर्शनादस्त्येषां सम्बन्ध इति ज्ञायते।
न चासौसंयोगः सम्बन्धिनामयुतसिद्धत्वाद् अन्यतरकर्मादिनिमित्तासम्भवाद् विभागान्तत्वादर्शनादधिकरणाधिकर्त्तव्ययोरेव भावादिति।
स च द्रव्यादिभ्यः पदार्थान्तरं भाववल्लक्षणभेदात्। यथा भावस्य द्रव्यत्वादीनां स्वाधारेषु आत्मानुरूपप्रत्ययकर्तृत्वात् स्वाश्रयादिभ्यः परस्परतश्चार्थान्तरभावः तथा समवायस्यापि पञ्चसु पदार्थेष्विहेतिप्रत्ययदर्शनात् तेभ्यः पदार्थानत्रत्वमिति। न च संनोगवन्नानात्वं भाववल्लिङ्गाविशेषादि विशेषलिङ्गाभावाच्च। तस्माद् भाववत् सर्वत्रैकः समवाय इति।
ननु यद्येकः समवायः, द्रव्यगुणक्रमणां द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैः सह सम्बन्धैकत्वात् पदार्थसङ्करप्रसङ्ग इति, न, आधाराधेयनियमात्। यद्यप्येकः समवायः सर्वत्र स्वतन्त्रस्तथाप्याधाराधेयनियमोऽस्ति। कथम्? द्रव्येष्वेव द्रव्यत्वम्, गुणेष्वेव गुणत्वम्, कर्मष्वेव कर्मत्वमित्येवमादि। कस्मात्? अन्वयव्यतिरेकदर्शनात्, इहेति समवायनिमित्तस्य ज्ञानस्यानव्यदर्शनात् सर्वत्रैकः समवाय इति गम्यते, द्रव्यत्वादिनिमित्तानां व्यतिरेकदर्शनात् प्रतिनियमो ज्ञायते। यथा कुण्डधघ्नोः संयोगैकत्वे भवत्याश्रयाश्रयिभावनियमस्तथा द्रव्यत्वादीनामपि समवायैकत्वेऽपि व्यतिरेकदर्शनात् प्रतिनियमो ज्ञायते। यथा कुण्डदघ्नोः संयोगैकत्वे भवत्याश्रयाश्रयिभावनियमस्तथा द्रव्यत्वादीनामपि समवायैकत्वेऽपि व्यङ्ग्यव्यञ्जकशक्तिभेदादाधाराधेयनियम इति।
सम्बन्ध्यनित्यत्वेऽपि न संयोगवदनित्यत्वम्, भाववदकारणत्वात्। यथा प्रमाणतः कारणानुपलब्धेर्नित्यो भाव इत्युक्तम् तथा समवायोऽपीति। न ह्यस्य किञ्चित् कारणं प्रमाणत उपलभ्यत इति। कया पुनर्वृत्त्या द्रव्यादिषु समवायो वर्त्तते, न संयोगः सम्भवति, तस्य गुणत्वेन द्रव्याजितत्वाद् नापि समवायः, तस्यैकत्वात्, न चान्या वृत्तिरस्तीति? न, तादात्म्यात्। यथा द्रव्यगुणक्रमणां सदात्मकस्य भावस्य नायिः सत्तायोगोऽस्ति, एवमविभागिनो वृत्तात्मकस्य समवायस्य नान्या वृत्तिरस्ति, तस्मात् स्वात्मवृत्तिः। अत एवातीन्द्रियः, सत्तादीनामिव प्रत्यक्षेषु वृत्त्यभावात्, स्वात्मगतसंवेदनाभावाच्च। तस्मादिह बुद्ध्यनुमेयः समवाय इति।
योगाचारविभूत्या यस्तेषयित्वा महेश्वरम्।
चक्रे वैशेषिकं शास्त्रं तस्मै कणभुजे नमः ।।
।। इति प्रशस्तपादाचार्यविरचितं द्रव्यादिषट्‌पदार्थभाष्यं समाप्तम् ।।
अथ समवायस्य लक्षणपरीक्षार्थमयुतसिद्धानामित्यादिप्रकरणम्। अयुतसिद्धानामेव आधार्याधारभूतानामेव यः सम्बन्धः, स समवाय इति लक्षणं व्याख्यातमेव। अथ केषामयुतसिद्दानामसौ सम्बन्धस्तदाहद्रव्यगुणक्रमसामान्यविशेषाणाम्। अनियमोपदर्शनार्थं कार्यकारणभूतानान्तु पटादीनाम्, [न?अ] कार्यकारणभूतानाञ्च सामान्यादितद्वतामिति। अयुतसिद्धानामाधार्याधारभूता[वस्थान?ना]मिति चायं नियमः। इहेदमिति बुद्धिर्यतो निमित्ताद् भवति, स समवायाख्यः सम्बन्धः। तथा च सूत्रम् `इहेदमिति यतः कार्यकारणयोः स समवायः' (वै. सू. 7।2।26) इति। इह इत्यधिकरणम्, इदमित्याधेयम्, तयोः सम्बन्धं विना `इहेदम्' बुद्धिर्न भवतीति। यतश्चासर्वगतानामिति नियमाशङ्कानिरासार्थम्। तथा हि सर्वगतानामप्याकाशादीनां स्वगुणादिभिः समवायोपलब्धेः असर्वगतानाम् इति वाक्यं नियमासङ्कानिरासार्थं व्याख्येयम्। तथा च सर्वगतानामेव समवाय इत्ययं नियमो न घटते, यतश्चासर्वगतानामपि समवायो दृश्यत इति। `च' शब्दस्य चानुक्तसमुच्चयार्थत्वाद् असर्वगतानां सर्वगतानाञ्चेति लभ्यते। अधिगतान्यत्वानामिति। अधिगतमन्यत्वं नानात्वं येषां ते तथोक्ताः, तेषामिति तादात्म्यव्युदासः। तथाप्यधिगतान्यत्वागवाश्वादयो भवन्ति इति अविष्वग्भावेनावस्थितानामिति पदम्। अविष्वग्भावोऽपृथग्भावो देशापृथक्त्वम्, न त्वभेदः, स्वरूपभेदस्योपलब्धेः। तथाहि तन्तवो विभिन्नजातिसम्बन्धिनो विभिन्नस्वरूपाश्च पृथक्त्वे पटोऽप्येवमिति परस्परतोऽन्यत्वमेव, विरुद्धधर्माध्यासात्, प्रतिभासभेदाच्चेति। तथा च रूपादयोऽपि विरुद्धधर्माध्यासाच्च भिद्यन्ते। स च तन्तुपटादीनामस्ति इत्यन्यत्वमेव। सूतर्मप्येवं व्याख्येयम्। कार्यकारणयोरेकत्वपृथक्त्वाभावाद् परस्परं प्रतिभासभेदाद् एकत्वपृथक्तेव न विद्येते। तस्मादधिगतान्यत्वानामविष्वग्भावेनावस्थितानाम् इहेदमिति बुद्धिर्यतः सम्बन्धाद् भवति, स समवायाख्यः सम्बन्धः। कथमित्यव्युत्पन्नप्रश्नः, विपर्यस्ताक्षेपो वा। तथा च न समवायसद्भावे प्रमाणमस्तीति।
सर्वमेतदसम्बद्धम्। अथेहबुद्धिः प्रमाणम्? न तस्याः समवायालम्बनत्वमाधारविषयत्वात्। तदुक्तम्--र
इहेति चानया बुद्ध्या समवायो न गृह्यते।
आधरग्राहिणी चैषा समवायाप्रतिष्ठिता ।। (?)
अथ सम्बन्धनिमित्ता? स तु तादात्म्यलक्षण एव भविष्यति, समवायपक्षे बाधकोपपत्तेः। तथ हि न अनष्पन्नयोः समवायो घटते, सम्बध्यभावे सम्बन्धस्यादर्शनात्। अथ निष्पन्नयोः सम्बन्धः समवायः? तर्हि युतसिद्धिः स्यात्। तथा समवायस्यापि सम्बन्धानभ्युपगमे सर्वतोऽनय्त्वाविशेषाद् अनयोः सम्बन्धिनोः सम्बन्धः, न पदार्थान्तराणामिति प्रतिनियमे हेतुर्नास्तीति। अथवा गृहीतं विशेषणं विषेष्यज्ञानोत्पत्तौ, लिङ्गञ्च लिङ्गिज्ञानोत्पत्तौ व्याप्रियते, समवाये तु तद्रूपता नास्तीति तद्ग्रहणे प्रमाणाभावः। तथा हि इह तन्तुषु पट इति ज्ञानमाधेयानुरक्ताधारं विशेषयन् न समवायानुरक्तमिति स्वात्मगतसंवेदनाभावाद् इह बुद्धौ अप्रत्यक्ष एव समवायः। निर्विकल्पके तु अवयवावयविनोः संश्लेषज्ञाने समवायः प्रत्यक्ष एव, केवलमिहेति बुद्धेः सम्बन्धनिमित्तत्वेनान्यत्रोपलब्धेरिहापि तदुपलम्भादनुमानं प्रवर्त्तते। यत एवं तस्मादिहबुद्ध्यनुमेयः समवायो न त्विहबुद्धौ प्रत्यक्ष इत्युपसंहारः ।।
ग्रन्थपरिसमाप्तौ च सन्तोषादाचार्यः पुनरपरस्य गुरोर्नमस्कारं करोति-
योगाचारविभूत्या यस्तोषयित्वा महेश्वरम्।
चक्रे वैशेषिकं शास्त्रं तस्मै कणभुजे नमः ।। [इति]
इति विरचितमेतद् व्योमनाम्ना शिवेन
प्रतिहतपरपक्षं स्वार्थसिद्धौ समर्थम्।
कणचरमतवृत्तेर्वर्तनं बाध x x x x
x x x x x x x x x x x x ।।
।। इति श्रीव्योमशिवाचार्यविरचिता पदार्थसंग्रहटीका व्योमवती समाप्ता ।।

अथ विशेषपदार्थनिरूपणम्[सम्पाद्यताम्]

अन्तेषु भवा अन्त्याः, स्वाश्रयविशेषकत्वाद्विशेषाः। विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनस्सु प्रतिद्रव्यमेकैकशो वर्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः।
यथा अस्मदादीनां गवादिष्वश्वादिभ्यस्तुल्याकृतिगुणक्रियावयवसंयोगनिमित्ता प्रत्ययव्यावृत्तिर्दृष्टा, गौः शुक्लः शीघ्रगतिः पीनककुद्‌मान् महाघण्ट इति। तथा अस्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनस्सु च अन्यनिमित्तासम्भवाद् येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिः, देशकालविप्रकर्षे च परमाणौ स एवायमिति प्रत्यभिज्ञानञ्च भवति, तेऽन्त्या विशेषाः।
यदि पुनरन्त्यविशेषमन्तरेण योगिनां योगजाद्धर्मात् प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानञ्च स्यात् ततः किं स्यात्, नैवं भवति। यथा चा[] योगजाद्धर्मादशुक्ले शुक्लप्रत्ययः सञ्जायते, अत्यन्तादृष्टे च प्रत्यभिज्ञानम्, यदि स्यान्मिथ्या भवेत्। तथेहाप्यन्त्यविशेषमन्तरेण योगिनां न योगजाद्धर्मात् प्त्ययव्यावृत्तिः प्रत्यभिज्ञानं वा भवितुमर्हति।
अथान्त्यविशेषेष्विव परमाणुषु कस्मान्न स्वतः प्रत्ययव्यावृत्तिः कल्प्यत इति चेत्, न, तादात्म्यात्। इह अतदात्मकेष्वन्यनिमित्तः प्रत्ययो भवति यथा घटादिषु प्रदीपात्, न तु प्रदीपे प्रदीपान्तरात्। यथा गवाश्वमांसादीनां स्वत एवानुचित्वं तद्योगादन्येषाम्, तथेहापि तादात्म्यादन्त्यविशेषेषु स्वत एव प्रत्ययव्यावृत्तिः तद्योगात् परमाण्वादिष्विति।%
विशेषाणां परीक्षार्थमाह अन्तेषु भवा अन्त्याः स्वाश्रयविशेषकत्वाद् विशेषा इति। उत्पत्तिविनाशयोरन्ते व्यवस्थितत्वाद् अन्तशब्दवाच्यनि नित्यद्रव्याणीति। तथा हि परमाणून् अवधिं कृत्वा द्व्यणुकादिकार्यस्योत्पत्तिः, तथा पृथिव्यादीनामपि तावदुत्पादो यावदाकाशादीति पाठापेक्षया तस्याप्यन्तशब्दवाच्यत्वम्। एवं विनाशान्ते व्यवस्थानं परमाण्वादीनाम्। तथा च तावद् द्रव्यं विनश्यति यावत् परमाणवः, पाठापेक्षया पृथिव्यादीनामप्याकाशादिकं यावद् विनाश इति। तेषु भवाः तद्वृत्तयोऽन्त्या इत्यपदिश्यन्ते। तथा हि भूरित्ययं धातुः सत्ता[यां]वाप्युपलब्धौ, यथेदानीं देवदत्तो गृहे भवत्यास्त इति। सङ्ग्रहोक्तेर्विवरणमाह विनाशारम्भरहितेष्वित्यादि। तत्रान्तपदस्य विवरणं विनाशारम्भरहितेष्वित्यादि। तत्रान्तपदस्य विवरणं विनाशारम्भरहितेषु नित्यद्रव्येष्वेव, [अण्वा]काशकालदिगात्मनस्स्विति विशेषसंज्ञाया निर्देशः स्पष्टार्थम्। प्रत्ययार्थं व्याचष्टे प्रतिद्रव्यमेकैकशो वर्त्तमाना इति। द्रव्यं द्रव्यं प्रत्येकैको विशेषो वर्त्तते, नैकस्मिन्ननेकः, वैयर्थ्यप्रसङ्गात्। तथा चैकेनैव विशेषेण व्यावृत्तप्रत्ययस्य जनितत्वाद् विशेषान्तरवैयर्थ्यमेव। नाप्येकोऽनेकस्मिन्, सामान्यरूपताप्रसङ्गादिति। द्वितीयपदस्य तु विवरणम् अत्यन्तव्यावृत्तिबुद्धिहेतव इति। नित्यद्रव्येष्वेव वर्त्तन्त एव इत्ययोगान्ययोगव्यवच्छेदेन नित्येषु वर्त्मानत्वाद् विशेषा इतरस्माद् भिद्यन्त इति। लक्षणं पूर्वमेवोक्तम्।
अथ विशेषाणां सद्भावे किं प्रमाणम्? अनुमानम्। तत्र व्याप्तिसमर्थनार्थं दृष्टान्तं निरूपयति। यथा अस्मदादीनां गवादिष्वश्वादिभ्यः प्रत्ययव्यावृत्तिर्दृष्टा तुल्याकृतिगुणादपि सजातीयाद् व्यावृत्ततत्क्रियावयवसंयोगनिमित्ता। तत्र जातिनिमित्ता प्रत्ययव्यावृत्तिः, यस्माद् गौरयम्, अतोऽश्वादिविलक्षण इति। सजातीयत्वेऽपि कृष्णादिगुणसम्बन्धिभ्यः शुक्ल इति प्रत्ययव्यावृत्तिः। तथा शीघ्रगतिरिति क्रियाविशेषनिमित्ता। तेन हि सता समानगुणादपि सजातीयाद् व्यावर्त्तत इति। पीन इत्यवयवोपचयनिमित्ता, तेन सता समानगुणक्रियादपि समानजातीयाद् व्यावर्त्तते। ककुद्‌मान् इत्यवयवविशेषनिमित्ता, तेन सता अन्यस्माद् विलक्षणप्रत्ययजननादिति। महाघणअट इति संयोगनिमित्ता, तत्सद्भावे व्यावृत्तप्रत्ययजननात्।
तद्दार्ष्टान्तिकव्याख्यार्थमाह अस्मद् विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनस्सु च प्रत्ययव्यावृत्तिः, एतस्माद् विलक्षणोऽयं विलक्षणोऽयमिति दृष्टा। सा चान्यनिमित्तासम्भवाद् विशेषसम्बन्धादेव भवतीति। तथा च तुल्याकृतिगुणक्रियाधाराः परमाणवः, विशेषसम्बन्धिनः, व्यावृत्तज्ञानविषयत्वात्, गवादिवत्। न च गवादिष्विव जातिगुणक्रियात्मका एव विशेषा भविष्यन्तीति वाच्यम्, समानजातिगुणक्रियाधारत्वेन विशेषितत्वादिति। तथाऽपि सर्वे तैजसाः परमाणवः तेजस्त्वसम्बन्धिनः समानगुणाधाराः समानाक्रियासम्बन्धिनश्च पक्षीकृता इति न तेषु तन्निमित्ता प्रत्ययव्यावृत्तिः। तथा च भास्वरं रूपमुष्णस्पर्शः परिमाणमेकत्वैकपृथक्त्वादयः साधारणत्वान्न व्यावृत्तज्ञानहेतवः। क्रियापि वाताहतानामेकदिगभिमुखतया गमनात् साधारणतया वैलक्षण्यप्रतिपत्तौ न कारणम्। अतो द्रव्यादिस्वरूपस्य विसेषस्यासम्भवाद् यतो निमित्तात् प्रत्ययव्यावृत्तिस्तेऽन्त्या विशेषाः। तथा मुक्तात्मानो मुक्तमनांसि च व्यावृत्तज्ञानविषयत्वाद् विशेषमपेक्षन्ते। शरीरसम्बन्धस्य चात्यन्तं व्यावृत्तेर्न आत्मनि बुद्ध्यादिविशेषो व्यावृत्तज्ञानहेतुः, असम्भवात्। मनसोऽपि शरीरसम्बन्धशून्यस्य संख्यादिगुणानां साधारणत्वाद् विशेषं विना न व्यावृत्तज्ञानोत्पत्तौ कारणमस्तोति। यथोक्तविशेषणाध्यासितेषु व्यावृत्तप्रत्ययः, विशेषकार्यः, व्यावृत्तप्रत्ययत्वाद्, गवादिव्यावृत्तप्रत्ययवत्।
अथातीनद्रियत्वात् परमाण्वादेः व्यावृत्तज्ञानविषयत्वे किं प्रमाणम्? अनुमानमेव। तथाहि परमाण्वादयः, व्यावृत्तज्ञानविषयाः, द्रव्यत्वात्, गवादिवत्। संशयविषयत्वञ्च परमाण्वादेः सत्तासम्बन्धित्वात् स्थाण्वादिवत्। यत्र च संशयस्तत्रावश्यं निर्णय इति। परमाण्वादयः, विशेषसम्बन्धिनः, निर्णयविषयत्वात्, स्थाण्वादिवदेव। अत इदमाह अन्यनिमित्तासम्भवाद् येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिस्ते अन्त्या विशेषाः। तथा देशकालविप्रकृष्टेऽदृष्टे परमाणौ स एवायमिति प्रत्ययः प्रमाणम्, विशेषसम्बन्धे सति प्रत्यभिज्ञानस्य देवदत्तादावुपलब्धेः. अतो व्यावृत्तप्रत्ययविषयत्वात् प्रत्यभिज्ञायमानत्वाच्च परमाण्वादेर्विशेषसम्बन्धित्वम्। अस्ति च योगिनां पूर्वोपलब्धे परमाणौ स एवायं परमाणुः यः पञ्चपुरावस्थितो वसन्तसमयोपलब्ध इति।
अथ इतरेतराभावात् पृथक्त्वाद् वा प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानं वेति, न ततोऽन्यो विशेष इति चेत्, न, तदुपलम्भेऽपि स्थाण्वादौ संशयदर्शनात्। तथाहि इतरेतराभावोपलब्धौ पृथक्त्वोपलम्भे च सति सामान्यदर्शनादिभ्यः किमयं स्थाणुः पुरुषो वेति संशयो दृष्टः, तद्व्यतिरिक्तशिरःपाण्यादिविशेषोपलम्भे च सति पुरुष एवायमिति च निर्णयदर्शनाद् इतरेतराभावपृथक्त्वान्य एव विशेषः परमाण्वादौ वाच्य इति।
अन्ये तु इतरेतराभावस्य निषिध्यमानज्ञानजनकत्वमेव, व्यावृत्तज्ञानञ्च तस्माद् विलक्षणम्, अतो निमित्तान्तरकार्यमिति मन्यन्ते। पृथक्त्ववशाच्च पृथगिति व्यवहारः, न विलक्षणण इति।
अथ योगिनां योगजधर्मादेः प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानञ्चेति। तदेवाह यदि पुनः अन्त्यविशेषमन्तरेण योगिनां योगजधर्मात् प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानञ्च स्यात् को दोषः? तदाह एवं नैव भवतीति। यथा चायोगजाद् धर्माद् अशुक्ले शुक्लप्रत्ययः सञ्जायते, अत्यन्तादृष्टपूर्वे च प्रत्यभिज्ञानञ्चेति। यदि कदाचित् स्याद् योगिनामशुक्ले शुक्लप्रत्ययः, प्रत्यभिज्ञानञ्च, मिथ्या भवेत्। तथेहाप्यन्त्यविशेषमन्तरेण योगजधर्मान्न प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानं वा भवितुमर्हतीति।
अथ अन्त्यविशेषाणां परमाणूनामिव व्यावृत्तज्ञानविषयत्वाद् विशेषान्तरसम्बन्धे तत्राप्यन्यो विशेषस्तत्राप्यन्य इत्यनवस्था स्यात्। न च व्यावृत्तप्रत्ययविषयत्वे समानेऽपि परमाणूनामेवायं विषयसम्बन्धो न विशेषाणामिति विशेषहेतुरस्तीति। अभ्युपगमे वा, विशेषेषु विशेषान्तरसम्बन्धं विना व्यावृत्तप्रत्ययवत् परमाणुष्वपि स्यादित्याह अथान्त्यविशेषेष्विव परमाणुषु कस्मान्न स्वतः प्रत्ययव्यावृत्तिः कल्प्यत इति। अस्य प्रतिषेधार्थमाह यदुक्तं परमाणुषु विशेषाभावो विशेषेषु च विशेषान्तरमित्येतन्न, कुत एतत्? तादात्म्यात्, तत्स्वरूपत्वाद् विशेषाणाम्। ये हि अविशेषस्वरूपास्ते व्यावृत्तज्ञानजन्मनि विशेषमपेक्षन्ते, यथा परमाण्वादयः। न चैवं विशेषास्तदात्मका न भवन्ति, अतस्तादात्म्याद् विशेषाः, समानलक्षणं विशेषं नापेक्षन्ते। तथा चेह अतदात्मकेष्वतत्स्वरूपेष्वन्यनिमित्तः प्रत्ययो दृष्टो यथा घटादिषु प्रदीपात्। तथाहि घटादिष्वप्रकाशस्वरूपेष्वन्वयव्यतिरेकाभ्यां प्रदीपाद् विज्ञानं दृष्टम्, न तु प्रदीपे प्रदीपात्, तस्य प्रकाशरूपतया प्रदीपं विनापि प्रकाशनात्। न चैवं घटादिष्वपि प्रकाशं विनैव प्रकाशोऽस्तु, अदर्शनात्। आगमिकमुदाहरणं दर्शयति यथा गवाश्वमांसादीनां स्वत एवाशुचित्वं तद्योगादन्येषां मोदकादीनाम्। न तु श्वमांसस्यापि अशुच्यन्तरसम्बन्धाद् अशुचित्वम्, अदर्शनात्। नापि श्वमांसवत् भक्तादीनामपि स्वत एवाशुचित्वमदर्शनादेव। तथेहापि तादात्म्याद् विशेषस्वरूपत्वाद् अन्त्यविशेषेषु स्वत एव प्रत्ययव्यावृत्तिस्तद्योगात् परमाणुष्वित्युपसंहारः।
अथ विशेषाणां नित्यत्वमुतानित्यत्वम्? उत्पत्तिविनाशकारणानुपलब्धेर्नित्यत्वमेव। तथाहि विशेषाणां स्वाश्रयः समवायिकारणम्, असमवाय्यादिकारणञ्च नास्ति इति, विनाशाभ्युपगमेऽपि विशेषाणां पुनर्व्यावृत्तिज्ञानेत्पत्तौ न कारणमस्तीति। अथ विशेषान्तराद्व्यावृत्तज्ञानम्, तन्न, अन्यत्वे प्रमाणाभावादित्यलमतिविस्तरेण।
।। इति श्रीव्योमशिवाचार्यविरचितायां पदार्थसङ्ग्रहटीकायां विशेषपदार्थः ।।

"https://sa.wikisource.org/w/index.php?title=व्योमवती/सप्तमः_भागः&oldid=399094" इत्यस्माद् प्रतिप्राप्तम्