वैशेषिकसूत्रोपस्कारः/नवमोऽध्यायः

विकिस्रोतः तः
← अष्टमोऽध्यायः वैशेषिकसूत्रोपस्कारः
नवमोऽध्यायः
[[लेखकः :|]]
दशमोऽध्यायः →

नवमाध्याये प्रथमाह्निकम्।[सम्पाद्यताम्]

<9-1-1>
संयोगसमवायान्यतरसन्निकर्षजलौकिकप्रत्यक्षनिरूपणानन्तरं तदितरप्रत्यासत्तिजन्यलौकिकप्रत्यक्षव्युत्पादनफलकं नवमाध्यायमाह--
क्रियागुणव्यपदेशाभावात् प्रागसत् ।। 1 ।।
कार्यमिति शेषः। प्रागिति कार्योत्पत्तेः प्राक् कार्यं घटपटादि असत् तत्‌कालीनस्वजनकाभावप्रतियोगीत्यर्थः। अत्र हेतुः क्रियागुणव्यपदेशाभावात्। यदि तदानीमपि कार्यं घटादि सदेव स्यात् तदा क्रियावत्त्वेन गणवत्वेन च व्यपदिश्येत, यथोत्पन्ने घटे घटस्तिष्ठति घटश्चलति रूपवानयं दृश्यते घट इत्यादिप्रकारेण व्यपदिश्यते न तथोत्पत्तेः प्रागपि व्यपदेशोऽस्ति। तेन गम्यते तदानीमसन्निति। स च व्यूह्यमानेषु वीरणेषु योज्यमानेषु योज्यमानेषु तन्तुषु चक्रारूढायां मृदि कुलालादिव्यापारेषु अनुवर्त्तमानेषु भविष्यत्यत्र कटः पटो घटो वेति सार्वलौकिकी प्रत्यक्षप्रतीतिः, चक्षुर्विस्फारणानन्तरं जायमानत्वात्। न च संयोगसमवायान्यतरघटिता प्रत्यासत्तिरत्र प्रभवति, तस्मादिन्द्रियसम्बद्धविशेषणता प्रत्यासत्ति रत्र तन्त्रम्। ननु चान्योन्याश्रयः सत्यां विशेषणतायां तत्प्रतीतिः प्रतीतौ च विशेषणतेति चेन्न, विशेषणता हि तदुभयस्वरूपमेव उपश्लिष्टप्रत्ययजननयोग्यम्। तच्च प्रतीतेः पूर्वमपि सदेव, तदुक्तं न्यायवार्त्तिके--"समवायेऽभावे च विशेषणविशेष्यभावः" इति। स चायं प्रागभावः प्रतियोगिजनकः न हि घटे जाते स एव घटस्तदानीमेवोत्पद्यते तत्र कारणान्तरसत्त्वेऽपि कारणवैकल्यमनुस्रियमाणं स्वप्रागभाववैकल्यमेवानुसर्त्तु मर्हति। तद्धटोत्पत्तौ स एव घटः प्रतिबन्धक इति चेत्तर्हि प्रतिबन्धकाभावत्वेन तस्य कारणत्वमवर्जनीयम्। ननु यदि घट एव तस्याभावस्तदा घटे नष्टे तदुन्मज्जनापत्तिरिति चेन्न, घटनाशस्यापि तद्विरोधित्वात्, न हि विरोधिसत्त्वकालेऽपि विरोध्यन्तरप्रादुर्भाव इति। न ह्यनयोर्देशकृतो विरोधो येन गोत्वाश्वत्ववत् समानकालीनत्वं स्यात्। किं तर्हि? कालकृतस्तथाच कथमेककालावस्थायित्वम्भवेत् ।। 1 ।।
</9-1-1>

<9-1-2>
अभावान्तरं प्रतीतिबलसिद्धमाह--
सदसत् ।। 2 ।।
यथा कारणव्यापारात् पूर्वं प्रत्यक्षानुमानाभ्यां कार्यस्यासत्त्वं प्रमीयते तथा विनाशकस्य मुद्गरादेर्व्यापारानन्तरं सदेव कार्यं घटादि इदानीमसदिति प्रत्यक्षानुनामाभ्यामेव प्रमोयते। भवति हि घटो नष्टो ध्वस्य इदानीं श्रुतपूर्वो गकारो नास्तीत्यादिधीरिति भावः ।। 2 ।।
</9-1-2>

<9-1-3>
ननु घट एवावस्थाविशेषे ध्वंसव्यवहारं करोति न तु घटादन्यस्तस्य ध्वंस इत्यत आह--
असतः क्रियागुणव्यपदेशाभावादर्थान्तरम् ।। 3 ।।
सदिति सूत्रशेषः। असतः सत् अर्थान्तरम्। कुत इत्यत आह--क्रियागुणव्यपदेशाभावादिति। न हि प्रध्वंसकालेऽपि वर्त्तते घटः--अस्ति घटः--इदानीं रूपवान् घटः--घटमानयोत्यादिव्यपदेशस्तदितो वैधर्म्यादसतः सदर्थान्तरमिति ।। 3 ।।
</9-1-3>

<9-1-4>
प्रागभावप्रध्वंसौ साधयित्वाऽन्योभावं साधयितुमाह--
यत्र सदेव घटादि असदिति व्यवह्रियते तत्र तादात्म्याभावः प्रतीयते। भवति हि असन्नश्वो गवात्मना-असन् गौरश्वात्मना-असन् पटो घटात्मना अघटः पटः-अनश्वो गौः-अगौरश्व इत्यादि प्रतीतिः। तदस्यामश्वान्याभाववान् गौः पटान्योन्याभाववात् घट इत्यन्योन्याभाव एव तादात्म्याभावापरनामा भासते। तदत्र तादात्म्यं प्रतियोगितावच्छेदकम्। प्रतियोगिसमानाधिकरणश्चायमभावः, भवतिहि घटो न भूतलमिति प्रतीतिः। नित्यश्च, कदाचिदपि घटपटयोस्तादात्मया सम्भवात् ।। 4 ।।
</9-1-4>

<9-1-5>
इदानीं चतुर्थमभावमत्यन्ताभावाख्यमाह--
यच्चान्यदसदतस्तदसत् ।। 5 ।।
अतः पूर्वोक्तादभावत्रयात्, यदन्यदसत् तदसत् तदत्यन्तासत्त्वम्। असदित्युभयत्र भावप्रधानो निर्देशः। तत्रैकमसदुद्देश्यमपरमसद्विधेयम्, तथा चोक्ताभावत्रयभिन्नो योऽभावः सोऽत्यन्ताभाव इति पर्य्यवसन्नोऽर्थः। तत्र प्रागबावस्य उत्तरावधिकत्वम्, प्रध्वंसस्य पूर्वावधिकत्वम्, अन्योन्याभावस्य प्रतियोगिसमानाधिकरणत्वमत्यन्ताभावस्य तु त्रितयवैधर्म्यमतश्चतुर्थोऽयमभावः ।। 5 ।।
</9-1-5>

<9-1-6>
इदानीं प्रकरणान्तरमारभते, तत्र प्रध्वंसे तावत् प्रत्यक्षसामग्रीमाह--
असदिति भूतप्रत्यक्षाभावात् भूतस्मृतेर्विरोधिप्रत्यक्षवत् ।। 6 ।।
असदितीतिकारेण प्रत्यक्षाकारं ज्ञानमाह, तेनासन् घटः-नष्टो घटः-ध्वस्य इदानीं घट-इति प्रत्यक्षप्रतीतिरस्ति। तत्र दृष्टान्तो-विरोधिप्रत्यक्षवदिति। विरोधिनो घटादेर्यथा स्पष्टं प्रत्यक्षं तथा तत्प्रध्वंसस्यापि। तत्र कारणमाहभूतप्रत्यक्षाभावादिति। भूतस्य उत्पद्य विनष्टस्य घटादेः प्रत्यक्षाभावात्। एतेन योग्यानुपलब्धिमाह। तत्र चायं तर्कः सहकारी-यद्यत्र घटोऽभविष्यत् भतलमिवाद्रक्ष्यत न च दृश्यते तस्मान्नास्तीति। सहकार्यन्तरमाह-भूतस्मृतेरिति। भूतस्य प्रतियोगिनो घटादेः स्मृतेरिति प्रतियोगिस्मरणमुक्तम् ।। 6 ।।
</9-1-6>

<9-1-7>
प्रागभावे प्रध्वंसप्रत्यक्षताकारमतिदिशन्नाह--
तथाऽभावे भावप्रत्यक्षत्वाच्च ।। 7 ।।
सामान्यवच्यप्ययमभावशब्दः प्रकरणात् प्रागभावपरः। यथा प्रध्वंसे प्रत्यक्षज्ञानं तथा प्रागभावेऽपि। कुतः? भावप्रत्यक्षत्वात्। भावस्य व्यूह्यमामानवीरणादेः प्रत्यक्षत्वात् प्रत्यक्षेण विषयीक्रियमाणत्वात्।
यद्वा भावस्याधिकरणस्य प्रतियोगिनश्च प्रत्यक्षत्वात् योग्यत्वादित्यर्थः। संसर्गाभावग्रहेऽधिकरणयोग्यतायाः। प्रतियोगियोग्यतायाश्च तन्त्रत्वात्। चकारात् प्रतियोगिस्मरणमुक्तञ्च तर्कं समुच्चिनोति। अनादेरपि प्रागभावस्यानन्तस्यापि प्रध्वंसस्याविशेषमात्रे प्रत्यक्षत्वम् ।। 7 ।।
</9-1-7>

<9-1-8>
अन्योन्याभावस्य प्रत्यक्षतामाह--
एतेनाघटोऽगौरधर्मश्च व्याख्यातः ।। 8 ।।
एतेनेति प्रतियोगिस्मरणाधिकरणग्रहणप्रागुक्ततर्कानतिदिशति। योग्यानुपलम्भः सर्वत्र समानः। चकार उक्तसमुच्चयार्थः। अधर्म इत्यतीन्द्रियस्यपि धर्मस्य सुखज्ञानादावधिकरणेऽन्योन्याभावस्य प्रत्यक्षतां वदन् अन्योन्याभावग्रहे प्रतियोगियोग्यता न तन्त्रं किन्त्वधिकरणयोग्यतामात्रं तन्त्रमित्युपदर्शयति। कथमन्यथा स्तम्भः पिशाचो न भवतीति पिशाचान्योन्याभावः स्तम्भे गृह्येत स्तम्भात्मतया पिशाचानुपलम्भस्य तदन्योन्याभावग्राहकत्वात्, तस्याप्यनुपलम्भस्य प्रतियोगिसत्त्वविरोधित्वात् स्तम्भे पिशाचतादात्म्ये सत्यनुपलम्भानुपपत्तेः। ननु पिशाचतादात्म्यमिह न प्रतियोगि, किन्तर्हि? पिशाचः स च स्तम्भे वर्त्तमानोऽपि गुरुत्ववन्नोपलभ्यते इति तदनुपलम्भः प्रतियोगिसत्त्वविरोधी न भवतीति चेन्न, प्रतियोग्यनुपलम्भवत् प्रतियोगितावच्छेदकानुपलम्भस्याप्यभावग्रहकारणत्वात्। ननु प्रतियोगित्वग्रहाधीनोऽन्योन्याभावग्रहः, प्रतियोगित्वञ्चान्योन्याभावविरहात्मत्वं ततश्चान्योन्याभावग्रहाधीन एवान्योन्याभावग्रह इति चेन्नाधिकरणावृत्तित्वेन ज्ञायमानो धर्म एव प्रतियोगितावच्छेदकत्वेनापि तद्‌ग्रहस्तन्त्रमित्युक्तत्वात् ।। 8 ।।
</9-1-8>

<9-1-9>
अथेदानीमत्यन्ताभावप्रत्यक्षतामाह--
भूतमिदानीं नास्तीतिप्रतीतिर्ध्वंसमालम्बते भूतत्वं नोल्लिखति किन्त्विदं नास्तीतिमात्रोल्लेखिनी प्रत्यक्षप्रतीतिरत्यन्ताभावमालम्बते। अबूतमित्युत्पादविनाशालम्बनत्वं द्योतयति, अनर्थान्तरत्वमपि तदभिप्रायकमेव यथा जले पृथिवीत्वं नास्ति पृथिव्यां न जलत्वमिति। यदि हि जलावयविनि पृथिवीत्वं स्यात् उषलभ्येत न चोपलभ्यते तस्मान्नास्तीतित्तर्कपुरस्कारोऽत्रापि द्रष्टव्यः। एवञ्च यद्वस्तु यत्र न कदाऽपि भविष्यति न च कदाचिद् भूतं तस्य वस्तुनस्तत्रात्यन्ताभावो मन्तव्यः। भूतभविष्यतोश्च तत्र प्रध्वंसप्रागभावालम्बन एव तत्राधिकरणे नास्तीति प्रत्ययः। अत एवायमात्यन्तिकस्त्रैकालिक इत्यभिधीयते ।। 9 ।।
</9-1-9>

<9-1-10>
ननु गेहे घटाबावो नात्यन्ताभावः कदाचित्तत्र घटसत्त्वात्, नापि प्रागभावप्रध्वंसौ, तयोः समवायिकारणमात्रवृत्तित्वात्, नाप्युत्पादविनाशशीलोऽत्यन्ताभाव एव आत्यन्तिकश्चोत्पादविनाशशीलश्चेति विरोधात्, नापि चतुर्थ एवायं संसर्गाभावः, तस्य त्रैविध्यविभागव्याघातादित्यत आह--
नास्ति घटो गेहे इति सतो घटस्य गेहसंसर्गप्रतिषेधः ।। 10 ।।
गेहे घटस्य यः संसर्गः संयोगस्तस्य प्रतिषेधः, स च यदि कदाचिदपि न घटस्तदात्यन्ताभाव एव, भविष्यतः प्रागभावो भूतस्य प्रध्वंसाभावः। तर्हि घटसंसर्गो गेहे नास्तीति--प्रतीत्या भवितव्य, मिति चेत् प्रतीत्या भवितव्यमिति कोऽर्थः? यदि तद्विषयया प्रतीत्या भवितव्यमित्यापादनार्थस्तदेष्टापत्तिः अथ तदुल्लेखिन्येति, तदा गेहे इत्यधिकरणोल्लेखस्यैव संसर्गोल्लेखपर्य्यवसानमाधारत्वस्यैव धर्मसम्बन्धाकारत्वात्. तत् किं घटस्तत्रास्त्येव। अस्त्येवेति कोऽर्थस्तत्र समवेतः संयुक्तो वा? नाद्यः समवेतघटस्य तत्राभावात्। न द्वितीयः संयोगस्य निषेधात्। नन्वेवं घटादीनां केवलान्वयित्वप्रसङ्गः, तत्संयोगसमवायान्तरस्यैव सर्वव निषेधादिति चेन्न, तदुभयनिषेधस्यैव घटनिषेधात्मकत्वात्। तत् किं घटस्तत्संयोगश्चेत्येकं तत्त्वं, येन घटसंयोगनिषेधो घटनिषेधः स्यात्, तत् किं घटस्तत्संयोगसमवायावेकं तत्त्वं, येन तद्विधिरेव घटविधिः स्यात्, न हि तौ यत्र निषेध्येते तत्र घटान्वयो येन केवलान्वयित्वं तस्य स्यात्, तथाच यस्य यो विधिस्तन्निषेध एव तन्निषेध इति। यद्वा घटस्य समवायितया गेहेऽत्यन्ताभाव एव, स एव गेहे घटो नास्तीति प्रतीतिविषयः, कपाले संयोगितयेव। एवं सति केवलान्वय्यत्यन्ताभावप्रतियोगितया घटोऽसन् स्यादिति चेत् भवेदेवं यदि संयोगित्वसमवायित्वाभ्यां सर्वत्रासत् स्यादिति भावः ।। 10 ।।
</9-1-10>

<9-1-11>
प्रकरणान्तरमारभते--
आत्मन्यात्ममनसोः संयोगविशेषादात्मप्रत्यक्षम् ।। 11 ।।
ज्ञानमुत्पद्यते इति शेषः। द्विविधास्तावद्योगिनः समाहितान्तःकरणा ये युक्ता इत्यभिधीयन्ते, असमाहितान्तःकरणाश्च ये वियुक्ता इत्यभिधीयन्ते। तत्र युक्ताः--साक्षात्‌कर्त्तव्ये वस्तुन्यादरेण मनो विधाय निदिध्यासनवन्तः, तेषामात्मनि स्वात्मनि परमात्मनि च ज्ञानमुत्पद्यते। आत्मप्रत्यक्षमिति। आत्मा प्रत्यक्षः साक्षात्‌कारविषयो यत्र ज्ञाने तत्तथा। यद्यप्यस्मदादीनामपि कदाचिदात्मज्ञानमस्ति तथाप्यविद्यातिरस्कृतत्वात् तदसत्‌कल्पमित्युक्तमात्ममनसोः सन्निकर्षविशेषादिति। योगजधर्मानुग्रह आत्ममनसोः सन्निकर्षे विशेषस्तस्मादित्यर्थः ।। 11 ।।
</9-1-11>

<9-1-12>
तत् किमात्मन्येव युक्तानां ज्ञानं तत् कुतः सार्वज्ञ्यमित्यत आह--
ज्ञानमुत्पद्यत इति प्रकरणायातम्। तथेति योगजधर्मानुगृहीतेनैव मनसा, द्रव्यान्तरेषु चतुर्ष्वणुषु मनसि वायुदिक्‌कालाकाशेषु, द्रव्यपदेन तद्गतगुणकर्मसामान्यानां विशेषपदार्थस्य समवायस्य प्रत्यक्षगतस्यापि गुरुत्वस्थितिस्थापकादेरात्मगतस्यापि जीवनयोनियत्ननिर्विकल्पकभावनाधर्माधर्मादेः सङ्ग्रहः सामग्र्या योगजधर्मोपग्रहस्य तुल्यत्वात् अन्यथा सार्वज्ञ्यमुक्तं न भवेत् ।। 12 ।।
</9-1-12>

<9-1-13>
युक्तानां प्रत्यक्षं ज्ञानमभिधायेदानीं वियुक्तानामाह--
असमाहितान्तःकरणा उपसंहृतसमाधयस्तेषाञ्च ।। 13 ।।
असमाहितान्तःकरणा इत्यस्यैव व्याख्यानमुपसंहृतसमाधय इति। यद्वा कथमसमाहितान्तःकरणा इत्यत आह-उपसंहृतसमाधय इति। उपसंहृतो दूरीकृतः समाधिर्निदिध्यासनात्मको यैस्ते तथा। ते हिसमाधिप्रभावाद्विकरणधर्मा- अणिमाद्याः शरीरसिद्धीर्दूरश्रवणाद्याश्चेन्द्रियसिद्धीराप्तवन्तः समाधावप्यलंप्रत्ययमासादयन्तः "तावदेवास्य चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये" इत्यादि श्रतिसमधिगतकृत्यान्तराभावाः भोगमात्रस्य कर्त्तव्यतामाकलय्य तेषु तेषु प्रदेशेषु द्वीपोपद्वीपादिषु तेन तेन जन्मना तुरङ्गमातङ्गविहङ्गभुजङ्गादिना (यावदेव- चिरं यावत्) देवर्षिमानुषभावेन च पूर्वोपात्तान् कमशियानुपभुञ्ज्महे तावत् प्राप्तैव निरपाया भूमिरित्याकलयन्तः सकलमर्थजातं योगजधर्मबलोपबृंहितेन्द्रियशक्तयो व्यवहितं विप्रकृष्टञ्च प्रत्यक्षीकुर्वन्ति ।। 13 ।।
</9-1-13>

<9-1-14>
ननु न तावत्तेषु मानसं ज्ञानं मनसो बहिरस्वातन्त्र्यात्, नापि बहिरिन्द्रियजन्यम् तेषां सम्बद्धवर्त्तमानार्थग्राहित्वात् यथायोगं रूपोद्भवादिसापेक्षत्वात् आलोकादिसव्यपेक्षत्वाच्चेत्याशङ्क्यकेषुचित् पदार्थेषु प्रत्यासत्तिमुपपादयन्नाह--
तत्‌समवायात् कर्मगुणेषु ।। 14 ।।
प्रत्यक्षज्ञानं जायते इति शेषः। भौतिकानीन्द्रियाणि यदि सन्निकर्षमपेक्षन्ते तदा परमाण्वाकाशदिक्कालसमवेतेषु स्वमनःसंयोगिसमवायात् इतरद्रव्येषु च कायव्यूहोपभोगार्थोपगृहीतनानापण्डमनःसंयोगात् तत्संयुक्तसमवायात् तत्तद्‌द्रव्यगुणादिषु ज्ञानमुत्पद्यते। एतच्चोपपत्तिसौकर्यमनुरुध्योक्तम्।
वस्तुतो बाह्येन्द्रियेषु मनसि च योगज एव धर्मः प्रत्यासत्तिस्तत एव सर्वानुपपत्तिशान्तेः, अगस्त्यसमुद्रपानं दण्डकारण्यनिर्माणञ्चेति दृष्टान्तः ।। 14 ।।
</9-1-14>

<9-1-15>
सत्तिः, नेत्याह--
आत्मसमवायादात्मगुणेषु ।। 15 ।।
योगिनां प्रत्यक्षं ज्ञानमुत्पद्यते इति प्रकृतम्। आत्मसमवेतानान्तु बुद्ध्यादीनां संयुक्तसमवायादेव प्रत्यक्षे ज्ञानमुत्पद्यतेऽस्मदादीनामिवेति न तत्र सन्निकर्षान्तरापेक्षेत्यर्थः। तत्रेन्द्रियार्थसन्निकर्षोत्पन्नमव्यभिचारिज्ञानं लौकिकालौकिकप्रत्यक्षम्, अर्थजं वा। साक्षात्त्वयोगिज्ञानं प्रत्यक्षमिति लौकिकालौकिकसाधारणम् ।। 15 ।।
</9-1-15>
इति श्रीशाङ्करे वैशेषिकसूत्रोपस्कारे नवमाध्यायस्य प्रथमाह्निकम्।

नवमाध्याये द्वितीयाह्निकम्।[सम्पाद्यताम्]

<9-2-1>
तदेवं पूर्वाह्निके योगिप्रत्यक्षमयोगिप्रत्यक्षञ्च कारणतः स्वरूपतो लक्षणतश्च निरूपितम्। प्रमाणं द्विविधं प्रत्यक्षं लैङ्गिक़्चेति यद्विभक्तं तत्र लैङ्गिरुमिदानीं निरूपयितुमुपक्रमते--
अस्येदं कार्य्यं कारणं संयोगि विरोधि समवायि चेति सैङ्गिकम् ।। 1 ।।
ज्ञानमिति प्रकृतम्। लिङ्गाज्जातं लैङ्गिकं व्याप्तिविशिष्टः पक्षधर्मो लिङ्गम्। तत्र व्याप्तिरुक्ता, यत्सिषाधयिषाविरोधिप्रमाणाबावो यत्र स तं प्रति पक्षः। तादृशं प्रमाणं साधकं भाधक़्च, तदुभयाभाववतः पक्षत्वात्। न हि साधके बाधके वा प्रमाणे सतिकस्यचित् संशयः सिषाधयिषा वा। अत एव सन्दिग्ध साध्यधर्मा धर्मी सिषाधयिषितसाध्यधर्मा धर्मी वा पक्ष इति प्राञ्चः।
उत्पाद्यसाध्यवत्तानिर्णयनिवर्त्यसंशयोत्पत्तिप्रतिबन्धकमानत्वावच्छिन्नाभावो यत्र स पक्ष इति जीवनाथमिश्राः। सिषाधयिषाविरहसहकृतसाधकमानाभावो यत्र स पक्ष इति केचित्। एतन्मते तु बाधस्थलेऽपि पक्षता। तदेतदनुमानमयूखे द्रष्टव्यम्। तदेतस्य पक्षस्य धर्मो लिङ्गमित्युक्तं भवति। लिङ्गञ्च दृष्टमनुमितं श्रुतं वा यदनुभवरूपं ज्ञानं जनयति तल्लैङ्गिकम्। तदुक्तम्--
अनुमेयेन सम्बद्धं प्रसिद्धञ्च तदन्विते।
तदभावे तु नास्त्येव तल्लिङ्गमनुमापकम् ।। इति।
एतेन लिङ्गमेवानुमितिकरणं न तु तस्य परामर्शः, तस्य निर्व्यापारत्वेनाकरणत्वात्, लिङ्गस्य तु स एव व्यापार। यत्र धूमादेरतीतत्वमनागतत्वं वा तत्र कथमनुमितिरिति चेन्न, साध्यस्याप्यतीतानागतत्वयोस्तत्रानुमानात्, तत्रैव प्रतिबन्धात्. अतीतत्वमनागतत्वं वर्त्तमानत्वञ्च धूमादेर्यत्र न निश्चितं तत्र कथमनुमितिरिति चेत्, न कथञ्चित् तत्र साध्यस्यापि सन्देहात्। पूर्वापरदिनयोः सत्त्वनिश्चये मध्यन्दिने तु सन्देहे कथमनुमितिरिति चेत् तद्दिनावच्छिन्नधूमादिना तद्दिनावच्छिन्नवह्न्यादेरनुमानात्, तथैव व्याप्तेः कारणत्वावधारणात्। धूलीपटलात् कथं धूमभ्रमादनुमितिरिति चेत् व्याप्तत्वेन ज्ञातस्यैव लिङ्गत्वात् ज्ञानस्य च यायार्थ्यायाथार्थ्याभ्यामनुमितेस्ताद्रूप्यात्, अन्यथा तवापि कथं तत्र परामर्शः करणं स्यात्। अतीन्द्रियलिङ्गस्थले परामर्शस्य तदजन्यतया कथं तद्व्यापारत्वमिति चेत् तत्सत्तानिर्वाहकत्वरूपक्षैमिकसाधनतायास्तत्र व्यापारत्वघटकत्वात्, अन्यथा समवायस्य श्रवणादेर्व्यापारत्वानुपपत्तेरिति। कार्य्याल्लिङ्गात् धूमालोकादेरग्न्याद्यनुमानम्। कारणादपि यथा बधिरस्य भेरीदण्डसंयोगविशेषात् शब्दानुमानम्, यथा वा धार्मिकस्य यथाविधियागस्नानाद्यनुष्ठानाद्धर्मस्वर्गाद्यनुमानम्, यथाविधि कारीर्य्याद्यनुष्ठानाद्वा वर्षानुमानम्, पयःपूर्णनद्यादौ खन्यमानप्रवाहाद्वा जलनिःसरणानुमाम्, उपरिवृष्टिदर्शनाद्वा नदीवृद्ध्यनुमानम्। स चायं कार्य्यकारणभावलक्षणेकसम्बन्धः प्रकारद्वयेनोक्तः। संयोगिनः शरीरस्य दर्शनात्त्वगिन्द्रियानुमानम्। विरोधिनो विस्फूर्जतोऽहेर्दर्शनाज्‌झाटाद्यन्तरितनकुलानुमानम्। समवायिना जलौष्ण्येन तत्सम्बन्धतेजोऽनुमानम् ।। 1 ।।
</9-2-1>

<9-2-2>
नन्वव्यापकमिदं परिसङ्ख्यानम्। न हि चन्द्रोदयेन समुद्रजलवृद्धेःजलप्रसादेनागस्त्योदयस्य-कुमुदप्रकाशेन चन्द्रोदयस्य-चतुर्दशनक्षत्रोदयेनापरचतुर्दशनक्षत्रास्तमयस्य-रसेन रूपस्य-रूपविशेषेण वा रसविशेषस्यानुमानमनेन संगृह्यते इत्यत आह--
अस्येदं कार्य्यकारणसम्बन्धश्चावयवाद्भवति ।। 2 ।।
अस्येदमित्येतावदेव प्रयोजकं भवतीति, अस्य साधनस्य धूमादेरिदं साध्यं वह्न्यादि। यद्वाऽस्य वह्नयादेरिदं व्याप्यं धूमादि। तथाच व्याप्यत्वग्रहमात्रं तन्त्रं न तु कार्यकारणभावादिरपि। ननु पूर्वसूत्रे तर्हि परिसह्ख्यानमतन्त्रमत आह - कार्य्यकारणसम्बन्ध इति। अनेन चोक्तं सम्बन्धान्तरमप्युपलक्षयति। सम्बन्धपदे च विषयिलक्षणा, तेन सम्बन्ध इति सम्बन्धोपन्यास इत्यर्थः। कुतस्तदुपन्यास इत्यत आह-अवयवात् एकदेशात् उदाहरणमात्रात् ल्यब्‌लोपे पञ्चमी। तेनोदाहरणमनुरुध्य कार्य्यकारणभावादेः सम्बन्धस्योपन्यास इह दर्शने साङ्ख्यादिदर्शने च भवतीत्यर्थः।
एवं च स्वाभाविकसम्बन्धशालित्वं व्याप्यत्वम्। स्वाभाविकत्वं चानौपाधिकत्वम्। तच्च प्रत्यक्षाणां केषांचित् साध्याव्यपकत्वनिश्चयात्, केषांचित् साधनेव्यापकत्वनिश्चयादेवानुपाधित्वं ज्ञेयम्। अतीन्द्रियाणां च प्रमाणसिद्धानां केषांचिदुभयव्यापकत्वम् उभयाव्यापकत्वं साधनमात्रव्यापकत्वं साध्यमात्रव्यापकत्वं वा। तत्राद्ये साधनव्यापकत्वात् द्वितीये साध्याव्यापकत्वात् चतुर्थेऽपि साधनव्यापकत्वादेवानुपाधित्वं निश्येयम्। तृतीयेऽपि व्यापकस्य तन्मात्रव्यापकत्वानुपपत्तिरितरस्य तु कथं तन्मात्रव्यापकत्वमित्यत्र तर्कोऽनुसन्धेय इति तुल्ययोगक्षेमत्वादिनाऽनुपाधित्वमध्यवसेयम्। भविष्यति कश्चिदत्रोपाधिरितिशङ्कापिशाची सकलविधिनिषेधव्यवहारानास्कन्दतीत्यनादेयेत्यनौपाधिकत्वनिश्चयसम्भवात्। उपाधिलक्षणं व्याप्तिलक्षणं चोक्तम्।
तच्चानुमानं द्विविधं--स्वार्थं परार्थञ्च। तत्र स्वार्थं स्वयगेव व्याप्तिपक्षधर्मतयोरनुसन्धानात्। परार्थञ्च परोदीरितन्यायजन्यव्याप्तिपक्षधर्मताज्ञानात्। न्यायश्च तृतीयलिङ्गपरामर्शप्रयोजकशब्दज्ञानजनकवाक्यम्। तदवयवाश्च पञ्च। तत्रावयवत्वं तृतीयलिङ्गपरामर्शप्रयोजकशाब्दज्ञानज्ञनकशाब्दज्ञानजनकवाक्यत्वम्। तानि च वाक्यानि प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि।
तत्र प्रतिज्ञा- उद्देश्यानुमित्यन्यूनानतिरिक्तविषयकशाब्दज्ञानजनकं न्यायावयववाक्यम्। हेतुश्च प्रकृतसाधनगतपञ्चम्यन्तो न्यायावयवः। उदाहरणन्तु प्रकृतसाध्यसाधनाविनाभावप्रतिपादको न्यायावयवः। उपनयश्चाविनाभावविशिष्टस्य हेतोः पक्षवैशिष्ट्यप्रतिपादको न्यायावयवः। निगमनन्तु पक्षे प्रकृतसाध्यवैशिष्ट्यप्रतिपादको न्यायावयवः। एवं च प्रवर्त्तते न्याय-शब्दोऽनित्यः कृतकत्वात्, यद् यत् कृतकं तदनित्यम्, अनित्यत्वव्याप्यकृतकत्ववांश्चायम्, तस्मादनित्यः।
एतेषामेव प्रतिज्ञापदेशनिदर्शनानुसन्धानप्रत्याम्नाया इत्यन्वर्था वैशेषिकाणां सज्ञाः। अत्र च वादजल्पवितण्डानां प्रवृत्तिप्रकारश्छलजातिनिग्रहस्थानलक्षणानि च वादिविनोदेऽन्वेष्टव्यानि ।। 2 ।।
</9-2-2>

<9-2-3>
प्रमाणान्तराणि लैङ्गिकेऽन्तर्भावयितुं प्रकरणान्तरमारभते--
एतेन साब्दं व्याख्यातम् ।। 3 ।।
शाब्दं शब्दकरणकं ज्ञानमिदमिति यन्नैयायिकादीनामभिमतं तदप्येतेन लैङ्गिकत्वेन लिङ्गप्रभवत्वेनैव व्याख्यातम्। यथा व्याप्तिपक्षधर्मताप्रतिसन्धानापेक्षं लैङ्गिकं तथा शाब्दमपि। तथाहि एते पदार्थाः मिथः संसर्गवन्तः आकाङ्क्षादिमद्भिः स्मारितत्वात् गामभ्याजेति पदार्थसार्थवत्। तत्र हि आकाङ्क्षादिमत्‌त्पदकदम्बमारिस्तत्वं पदार्थानां मिथः संसर्गवत्त्वव्याप्यं गृहीत्वैव संसर्गवत्त्वमनुमिनोति किं कल्पनीयप्रमाणभूवेन शब्देन। ननु नदीतीरे पंच फलानि सन्तीत्यनाप्तवाक्ये व्यभिचारान्नेदमनुमानमिति चेन्न, आप्तोक्तत्वेनापि विशेषणात्, आप्तत्वं हि प्रकृतवाक्यार्थगोचरयथार्थवाक्यार्थज्ञानवत्त्वं न त्वप्रतारकत्वमात्रम्, तच्च वाक्यार्थप्रतीतेः पूर्वं दुर्ग्रहमिति चेन्न, शब्दप्रामाण्यवादिभिरपि व्यभिचारिशब्दव्यावर्त्तकस्याप्तोक्तत्वस्य ग्राह्यत्वेनाभिमतत्वात्। तेषां प्रामाण्यग्रहणार्थं तदपेक्षा, शाब्दन्तु ज्ञानं तद्‌ग्रहमनत्रेणाप्युपपद्यते, तव तु यादृशं लिङ्गं तादृशग्रहणमावश्यकम्, व्याप्यन्त्वाप्तोक्तत्वविशिष्टमिति चेन्न, अयमत्राभ्रान्त इति सामान्यतो ग्रहणसम्भवात्। नन्वत्रेति प्रकृतसंसर्गे इत्येव पर्य्यवस्यति तथाच पूर्वमशक्यमेव तद्‌ग्रहणमिति चेन्न, प्रकरणसमभिव्याहारादिमाहात्म्यात् सामान्यत आप्तत्वनिश्चयसम्भवेन लिङ्गनिश्चयसम्भवात्, कदाचित्तत्र विसंवादेऽपि वाष्पादौ धूमधर्मेणेवानुमानप्रवृत्तेः।
नन्वेते पदार्थाः संसृष्टा एवेति वा साध्यम् सम्भावितसंसर्गा इति वा? नाद्यः, अनाप्तोक्ते व्यभिचारात्, न द्वितीयः, योग्यतामात्रसिद्धावपि संसर्गानिश्चयान्निष्कम्पप्रवृत्त्यनुपपत्तेः, योग्यतायाश्च पूर्वमेव हेतुविशेषणत्वेन ज्ञातत्वात् किमनुमानेनेति चेन्न, नियमस्यैव साध्यत्वात् आप्तोक्तत्वेन विशेषणाच्च न व्यभिचार इत्युक्तत्वात्।
नन्वाकाङ्क्षा श्रोतरि तदुत्पाद्यसंसर्गावगमप्रागभावः, स च स्वरूपसन्नेव हेतुस्तज्‌ज्ञाने च संसर्गज्ञानस्य पूर्वमेव भावादनुमानवैयर्थ्यमिति चेन्न, न हि संसर्गावगमप्रागभावमात्रमाकाङ्क्षां ब्रूमः। किं तर्हि? स्मारिततदाक्षिप्ताविनाभावविशिष्टम्, तथा च विशेषणांशज्ञानादेवाकाङ्क्षाया ज्ञानात्। तर्हि तावदेवाकाङ्क्षाऽस्त्विति चेन्न, विमल जलं नद्याः कच्छे महिषश्चरतीत्यत्रापि नदीकच्छयोरविनाभावसत्त्वेनान्वयबोधापत्तेः, नीलमुत्पलमित्यत्र नीलोत्पलयोरविनाभावाभावेऽपि तदाक्षिप्तयोर्द्रव्यगुणयोरविनाबावसम्भवात्।
यद्वा पदस्मारितगोचरा जिज्ञासैवाकाङक्षा अभिधानापर्य्यवसानं वा। तथापि तज्‌ज्ञानमावश्यकं ज्ञायमानकारणे ज्ञानोपयुक्तव्यभिचारिवैलक्षण्यात् व्याप्तवत्। अत एवानन्वयनिश्चयविरहो वा, बाधकप्रमाणाभावो वा, सजातीये दर्शनं वा, इतरपदार्थसंसर्गेऽपरपदार्थनिष्ठात्यन्ताभावाप्रतियोगित्वप्रमाविशेष्यत्वं वा योग्यताऽस्तु, तज्‌ज्ञानमावश्यकम्। आसत्तेरप्यव्यवधानेन स्मरणरूपाया ज्ञानं तन्त्रम्। संसर्गे च संसृज्यमानविशेषादेव विशेष इति नानभिमतविशेषसिद्धिः।
यद्वा एतानि पदानि स्मारितार्थसंसर्गज्ञानपूर्वकाणि आकाङ्क्षायोम्यतासत्तिमत्पदकदम्वत्वात् गामभ्याजेति पदकदम्बवदित्यनुमानात् ज्ञानावच्छेदकतयाऽबिमतविशेषसिद्धिः।
यत्तु एतानि पदानि स्मारितार्थसंसर्गवन्तीति साध्यम्, तत् पदानां पदार्थसंसर्गवत्त्वं बाधितमित्युपेक्षणीयम्। न च लिङ्गतया संसर्गज्ञापकत्वमेव पदानां संसर्गवत्त्वम्, तस्यानुमानात् पूर्वमसिद्धत्वेन व्याप्तेरग्रहात्।
केचिच्चेष्टा प्रमाणान्तरामिति वदन्ति।
तत्रोच्यते--चेष्टा द्विविधा कृतसमयाऽकृतसमया च। तत्र कृतसमया अभिप्रायस्थं शब्दं स्मारयति न तु संसर्गप्रमामपि जनयति लिपिवत्, स्मृत्यारूढः शब्द एव तत्र प्रमाणं शब्दस्य च लिङ्गत्वमुक्तम्। न च शब्दस्मरणं चेष्टाया अवान्तरव्यापारः, चेष्टामन्तरेणापि शब्दार्थप्रत्ययात् व्यापारत्वे तु चेष्टानैयत्यापत्तेः। नन्वेवं कथमेडमूकस्य चेष्टाधीनो व्यवहारः? तस्य तत्रसमयग्रहाभावादिति चेन्न, तस्य चेष्टातः कथमर्थेऽपि संप्रत्यय इति चिन्तनीयत्वात् तस्यार्थेऽपि सङ्गतिग्रहाभावात्। व्यवहारस्तु तस्याविनाभावग्रहात् करितुरगयोरिव कशाङ्कुशाभिघातात्तत्तद्व्यवहारपाटवोपपत्तेः।
अकृतसमया तु या कृत्यान्वयिनी सा प्रयोजकाभिप्रायं स्मारयन्ती प्रयोज्यं प्रवर्त्तयति, न तु कुत्रचित् प्रमां जनयति। यथा शङ्खध्वनौ त्वया गन्तव्यमिति श्रुतशङ्खध्वनिः प्रतिष्ठते, तता यदा मया तर्जन्यूर्ध्वीक्रियते तदा त्वयाऽसौ ताडनीय इति तदा ताडयति, न तु किञ्चित् प्रमिणोति। ज्ञप्त्यन्वयिनी त्वकृतसमया यथा-दशानामङ्गुलीनामूर्ध्वकरणेन दश सङ्ख्या मुद्राणां पुराणानां वा त्वया ज्ञातव्येति-कारकप्रधाना। हस्ताकुञ्चनदर्शनात्त्वया समागन्तव्यमिति क्रियाप्रधाना। तथाचानया चेष्टया पदार्था एव स्वतन्त्राः परं स्मार्य्यन्ते न तु तेषां परस्परमन्वयोऽपि बोध्यते, तद्‌बोधककर्तृकर्मादिविभक्तिवत् प्रकृते चेष्टैकदेशानां नियतानामभावात्। तर्हि संसर्गबोधमन्तरेण चेष्टातः कथं प्रवृत्तिनिवृत्ती इति चेत् संशयप्रतिभयोरन्यतरस्मादिति गृहाण। तस्मान्न चेष्टाऽपि प्रमाणमितिं ।। 3 ।।
</9-2-3>

<9-2-4>
ननु शब्दः कथं लिङ्गं शब्दस्यापदेशस्वभावत्वेन लिङ्गभिन्नत्वादित्याशङ्क्याह--
हेतुरपदेशो लिङ्गं प्रमाणं करणमित्यनर्थान्तरम् ।। 4 ।।
अपदिश्यते कथ्यतेऽनेनार्थ इत्यपदेशः शब्दः, स च हेतुलिङ्गपर्य्याय एव प्रमाणमिति। लिङ्गविधया प्रमाकरणमित्यर्थः। एवं करणशब्दोऽपि लैङ्गिकज्ञानकरणे लिङ्ग एव वर्त्तते। द्वयी करणगतिः, किञ्चित् सन्निकर्पाधीनप्रवृत्ति किञ्चिच्चाविनाभावबलप्रवृत्ति। शब्दस्य तु अर्थेन न सन्निकर्षो नाप्यविनाभाव इति कथमर्थं गमयेत्। सङ्केताद् गमयतीति चेत् सङ्केतो हि पदार्थे न तु तत्संसर्गे। तत्रापि सङ्केत इति चेन्न, तस्यानेकविधत्वेन सङ्केतविषयभावानुपपत्तेः। पदार्थसङ्केतबलादेव वाक्यार्थोऽपि भासते इति चेन्न, अन्यसङ्केतेनान्योपस्थितावतिप्रसङ्गात्, शब्दस्मारितसंसर्गत्वेन नियम इति चेत् तथाचैतन्नियमबलेनानुमानस्यैव लब्धावसरत्वात्। सङ्केतस्यापि इच्छामात्रत्वेनाति प्रसक्तत्वात्। ईश्वरेच्छा नातिप्रसक्तेति चेन्न, तदिच्छामन्तरेणापि गङ्गादिपदात्तीराद्युपस्थितेरित्यलं नैयायिकेषु धृष्टतयेति ।। 4 ।।
</9-2-4>

<9-2-5>
उपमानादीनामपि पराभिमतानाम् अविनाभावबलप्रवृत्तिकानां लैङ्गिक एवान्तर्भाव इति प्रतिपादयितुमाह--
अस्येदमिति बुद्ध्यपेक्षितत्वात् ।। 5 ।।
उपमानार्थापत्तिसम्भवाभावानामिति शेषः। अस्य व्यापकस्य इदं व्याप्यमित्याकारा या बुद्धिः सा जनकत्वेनापेक्षिता येषां ते तदपेक्षितास्तस्य भावस्तदपेक्षितत्वं तस्मादित्यर्थः। आहिताग्निपाठात् क्तान्तेन बहुव्रीहिः, तारकादिपाठादितो वा ।।
तत्रोपमानं तावदनुमानमेव शब्दद्वारा। तथाहि गोसदृशो गवय इति वाक्यन्तावत् आरण्यकेन कीदृक् गवय इति नागरिकजिज्ञासायामभिधीयते तत्र यो गोसदृशः स गवयशब्दवाच्य इति सामानाधिकरण्यबलात् अतिदेशवाक्यश्रवणानन्तरमेव परिच्छिनत्ति, वनं गतस्तु तादृश पिण्डमुपलभ्यायमसौ गवयशब्दवाच्य इति प्रतिसन्धत्ते। अतिदेशवाक्यश्रवणसमये गवयत्वं प्रवृत्तिनिमित्तं न ज्ञातमतः कथं संज्ञापरिच्छेद इति चेत् लक्षणया तत्प्रतीतिसम्भवात्। गोसदृशो गवय इति वाक्येऽन्वयानुपपत्तिविरहात् कथं लक्षणेति चेत् तात्पर्य्यानुपपत्तेः सत्त्वात्, न हि व्युत्पित्सुं प्रति गोसादृश्यस्य सखण्डस्य प्रवृत्तिनिमित्तत्वेनोपदर्शनमनुचितं तस्मादखण्डजातिविशेषे तात्पर्यमस्येति लक्षणामम्भवात्।
यद्वा गवयशब्दो गवयवाचकः असति वृत्त्यन्तरे शिष्टैस्तत्र प्रयुज्यमानत्वात्, असति वृत्त्यन्तरे यः शब्दो यत्र शिष्टेः प्रयुज्यते स तस्य वाचको यथा गोशब्दो गोरित्यनुमानादेव गवयसंज्ञां परिच्छिनत्ति। तर्कश्च यस्त्वयोपमानसहकारी वाच्यः स वरमनुमाने क्लृप्तप्रमाणभावेऽस्तु किं कल्पनीयप्रमाणभावेनोपमानेनेति, अनुमानमयूखे विस्तरोऽत्रान्वेष्टव्यः।
अर्थापत्तिरप्यनुमानमेव। तथाहि दृष्टाथषित्तिस्तावज्जोवतश्चैत्रस्य गृहासत्त्वेन दृढतरप्रमाणावधृतेन बहिःसत्त्वं कल्पयति। तत्रोपपाद्योपपादकयोर्व्याप्यव्यापकभावावधारणाधीनैव बहिःसत्त्वप्रतीतिः, भवति हि जीवतो गृहीसत्त्वं बहिःसत्त्वेन सहचरितं, बहिःसत्त्वं विना जीवतो गृहासत्त्वमनुपपन्नमिति वा ज्ञानम्। तत्राद्येऽन्वयव्याप्तिरेवान्त्ये तु व्यतिर्कव्याप्तेरेव ग्रह इति। व्याप्तिरस्ति न तस्य ग्रहणमिहोपयुज्यते इति चेत् व्याप्तिग्रहमन्तरेणार्थापत्त्याभासानवकाशात्, स्वरूपसत्या व्याप्त्या वस्तुतो यदुपपादकं तस्यैव कल्पना स्यादिति दिक्। संशयकरणिकाया विरोधकरणिकायाश्चानुमानान्तर्भाव ऊहनीयः। विरोधस्यापि सहानवस्थाननियमलक्षणस्य व्याप्तिघटितत्वात्। श्रुतार्थापत्तिरप्यनुमितानुमानं-पीनो देवदत्तो दिवा न भुङ्क्ते इत्यनेन वाक्येन पीनत्वमनुमितं तेन च पीनत्वेन रात्रिभोजनानुमानम्-देवदत्तो रात्रौ भुङ्क्ते दिवाऽभोजित्वे सति पीनत्वासम्भवादिति।
सम्भवोऽप्यनुमानमेव, तदुदाहरणं हि--सम्भवति खार्य्यां द्रोणः सम्भवति द्रोणे आढकम् सम्भवति सहस्रे शतमित्यादि तत्रेयं खारी द्रोणवती तद्धटितत्वात् यद्येन घटितं तत्तेन तद्वत्, यथाऽवयववान् घटः। एवमन्यदप्यूह्यम्। यत्तु सम्भवति ब्राह्मणे विद्या-सम्भवति क्षत्रिये शौर्य्यमित्यादि, तत्प्रमाणमेव न भवति अनिश्चायकत्वात्।
अभावोऽपि न मानान्तरं कार्य्येण कारणानुमानवत् कार्य्याभावेन कारणाभावानुमानस्य व्याप्तिमूलकत्वेनानुमान एवान्तर्भवात्।
भट्टमते तु भूतलादावभावग्राहकं प्रमाणमनुपलम्भाख्यम्। यत् क्वचित् प्रत्यक्षे क्वचिच्चानुमानेऽन्तर्भूतं चक्षुरादिनैवाभावग्रहात्। न चेन्द्रियमधिकरणग्रह एवोपक्षीणम्, अभावग्रहपर्य्यन्तं तद्व्यापारसत्त्वात्।
ऐतिह्यमविज्ञातप्रवक्तृकं प्रवादपारम्पर्य्यम्। इति हेति निपातसमुदायः पुरावृत्ते वर्त्तते, तस्य भाव एतिह्यम्। तत् यदि बाधितार्थं न भवति तदा शब्दान्तर्निवेशादनुमानम्। यदिह वटे यक्षो मधूकतरौ गौरीत्यादि, तद् यद्याप्तोक्तं तदा पूर्ववत्। नाप्तोक्त्चेत्तदा न प्रमाणम्। तदेवं प्रत्यक्षमनुमानञ्चेति सिद्धं द्वयमेव प्रमाणमिति ।। 5 ।।
</9-2-5>

<9-2-6>
लैङ्गिकं व्याख्याय इदानीं प्रकरणान्तरमारभते--
आत्ममनसोः संयोगविशेषात् संस्काराच्च स्मृतिः ।। 6 ।।
उत्पद्यत इति शेषः। संयोगविशेषः प्रणिधानादिसन्निधानम्। एतस्मादसमवायिकारणादात्मनि समवायिनि स्मृतिर्विद्याविशेष उत्पद्यते। निमित्तकारणमाह--संस्कारादिति। चकारेण व्यापारी पूर्वानुभवः समुच्चीयते। अनुभवयाथार्थ्यायाथार्थ्यमियमनुविधत्ते, रज्जुं भुजङ्गतयोपलभ्य पलायितस्य तथैव स्मृतेः। न च सततं स्मृतिप्रसङ्गः, संस्कारोद्‌बोधाधीनत्वात् तदुक्तं प्रशस्तदेवपादैः--"लिङ्गदर्शनेच्छानुस्मरणाद्यपेक्षादात्ममनसोः संयोगविशेषात् पट्‌वभ्यासादरप्रत्ययजनिताच्च संस्काराद्‌दृष्ट श्रुतानुभूतेषु शेषानुव्यवसायस्मरणेच्छाद्वेषहेतुरतीतविषया स्मृतिः" इति।
आर्षं ज्ञानं सूतर्कृता पृथङ् न लक्षितं योगिप्रत्यान्तर्भावितम्। पदार्थप्रदेशाख्ये तु प्रकरणे तदुक्तं तद्यथा-"आम्नायविधातॄणामृषीणामतीतानागतवर्त्तमानेष्वतीन्द्रियेष्वर्थेषु धर्मादिषु ग्रन्थोपनिबद्धेषु लिङ्गाद्यनपेक्षादात्ममनसोः संयोगाद्धर्मविशेषाच्च प्रातिभं ज्ञानं यदुत्पद्यते तदार्षम्" इति। तच्च कदाचिल्लौकिकानामपि भवति यथा `कन्यका वदति श्वो मे भ्राताऽऽगन्तेति हृदयं मे कथयतीति' ।। 6 ।।
</9-2-6>

<9-2-7>
तदेवं चतुर्विधां विद्यां व्युत्पाद्य इदानीमविद्यां व्युत्पादयितुमर्हति। तत्र संशयविपर्य्ययौ प्रसङ्गात् पूर्वमेव निरूपितौ, स्वप्नं निरूपयितुमाह--
तथा स्वप्नः ।। 7 ।।
यथाऽऽत्ममनसोः संयोगविशेषात् संस्काराच्च स्मृतिस्तथा स्वप्नज्ञानमपीत्यर्थः। उपरतेन्द्रियग्रामस्य प्रलीनमनस्कस्य इन्द्रिण्द्वारेण यदनुभवनं मानसम्, तत् स्वप्नज्ञानम्।
तच्च त्रिविधम्। किञ्चित् संस्कारपाटवात् कामी क्रुद्धो वा यमर्थमादृतश्चिन्तयन् स्वपिति तस्य तस्यामवस्थायां प्रत्यक्षाकारं ज्ञानं पुराणादिश्रवणजनितसंस्कारवशाज्जायते कर्णार्जुनीयं युद्धमिदमित्याकारम्। किञ्चिद्धातूनां वातपित्तश्लेष्मणां दोषात्। तत्र वातदोषादाकाशगमनः वसुन्धरापर्य्यटन-व्याग्रादिभयपलायनादीनि पश्यति। पित्तोपचयदोषमहिम्ना वह्निप्रवेश-वह्निज्वालालिङ्गन-कनकपर्वत-विद्युल्लताविस्फुरण-दिग्दाहादिकं पश्यति। श्लेष्मदोषप्राबल्यात्तु समुद्रसन्तरण-नदीमज्जन-धारासारवर्षण-रजतपर्वतादि पश्यति। अदृष्टवशादपि तज्जन्मानुभूतेषु जन्मान्तरानुभूते वा सिद्धोप्लुतान्तःकरणस्य यज्‌ज्ञानमुत्पद्यते, तत्र शुभावेदकं धर्मात् गजारोहण-पर्वतारोहण-छत्रलाभपायसभक्षण-राजसन्दर्शनादिविषयकम्। अधर्मात्तु तैलाभ्यञ्जनान्धकूपपतनोष्ट्रारोहण-पङ्कमज्जन-स्वविवाहदर्शनादिविषयकं स्वप्नज्ञानमुत्पद्यते। त्रयाणां मिलितानामेवात्र कारणत्वं गुणप्रधानभावमाश्रित्यायं विभागो द्रष्टव्यः ।। 7 ।।
</9-2-7>

<9-2-8>
ननु यज्‌ज्ञानं स्वप्नमध्ये स्वप्नज्ञानानुभूतस्यैवार्थस्य स्मृतिरूपं जायते तत्र स्वप्नत्वं न वर्त्तते स्वप्नस्यानुभवरूपत्वात् तथा च कस्मात् कारणात्तदुत्पत्तिरित्यत आह--
स्वप्नान्तिकम् ।। 8 ।।
तथेति पूर्वसूत्रादनुवर्त्तते। तेनात्ममनसोः संयोगविशेषात् संस्काराच्च यथा स्वप्नस्तथा स्वप्नान्तिकमपीत्यर्थः। एतावानेव विशेषो यत् स्वप्नज्ञानं पूर्वानुभवजनितात् संस्करात्, स्वप्नान्तिकन्तु तत्‌कालोत्पन्ननुभवजनितसंस्कारादेव। तदुक्तं प्रशस्तदेवाचार्य्यैः--"अतीतज्ञानप्रत्यवेक्षणात् स्मृतिरेव"
इति। उक्तञ्च वृत्तिकारैः--"अनुभूतवस्तुस्फुरणार्थतया न स्मरणादर्थान्तरं स्वप्नज्ञानम्" इति।
स्वप्नमध्ये प्रमाभूतं यज्‌ज्ञानं तत् त्वप्नान्तिकमिति केचित्। यथा शय्यायां शयानोऽस्मीत्यादि ।। 8 ।।
</9-2-8>

<9-2-9>
स्वप्नस्वप्नान्तिकयोः कारणं समुच्चिनोति--
धर्माच्च ।। 9 ।।
अधर्मसमुच्चयार्थश्चकारः। कृतव्याख्यानमेतत् ।। 9 ।।
</9-2-9>

<9-2-10>
इदानीं पर्य्यायमधिकृत्याह--
इन्द्रियदोषात् संस्कारदोषाच्चाविद्या ।। 10 ।।
अविद्येति सामान्यवाच्यपि पदं विपर्य्यये वर्त्तते प्रकरणात् संशयस्वप्नानध्यवसायानामुक्तत्वात्। तत्रेन्द्रियदोषो वातपित्ताद्यभिभवकृतमपाटवम्। संस्कारदोषो विशेषादर्शनसाहित्यं तदधीनं हि मिथ्याज्ञानं जायते ।। 10 ।।
</9-2-10>

<9-2-11>
अविद्यासामान्यलक्षणमाह--
तदित्यव्ययपदं सर्वनामसमानार्थकमविद्यां परामूशति। साऽविद्या दुष्टज्ञानं--व्यभिचारिज्ञानमतस्मिंस्तदिति ज्ञानं-व्यधिकरणप्रकारावच्छिन्नं--विशेष्यावृत्तिप्रकारकमिति यावत्। दोषश्च ज्ञानस्यानिश्चयरूपत्वमपि। तेनैककोटिसत्त्वेऽपि संशयो दुष्ट एवानवधारणात्मकत्वात्। तदनेन संशयविपर्य्ययस्वप्नानध्यवसायानाञ्चतुर्णामप्युपग्रहः ।। 11 ।।
</9-2-11>

<9-2-12>
अदुष्टं विद्या ।। 12 ।।
ज्ञानमित्यनुवर्त्तते। अदुष्टमदुष्टेन्द्रियजन्यं यत्र यदस्ति तत्र तदनुभवो वा समानाधिकरणप्रकारानुभवो वा विशेष्यावृत्त्यप्रकारकानुभवो वा विद्येत्यर्थः। तच्चाध्यक्षं लैङ्गिकञ्च द्वयमेव ।। 12 ।।
</9-2-12>

<9-2-13>
नन्वार्षमपि ज्ञानं समानाधिकरणप्रकारकमेव तच्च नेन्द्रियजन्यमसन्निकृष्टार्थगोचरत्वात्। न लैङ्गिकं लिङ्गानुसन्धानमन्तरेण जायमानत्वात्। तथा चैतत्करणं तृतीयं प्रमाणमायातसत आह--
आर्षं सिद्धदर्शनञ्च धर्मेभ्यः ।। 13 ।।
ऋषीणां गालवप्रभृतीनां यदतीतानागतविषयकं ज्ञानं तदार्षम्। यच्च सिद्धानां मन्त्रौषधिगुटिकाञ्जनादिना व्यवहितविप्रकृष्टार्थगोचरज्ञानं प्रतिसिद्धिगतानां यद्दर्शनं तदुभयं धर्मेभ्यो यथार्थसाक्षात्‌कारि ज्ञानं जायते। तद्योगिप्रत्यक्षेऽन्तरमिति वृत्तिकृतः। आर्षं ज्ञानं चतुर्थी विद्यैव, सा च ऋषीणां लौकिकानाञ्च भवति। तच्च मानसं प्रत्यक्षमेव उत्प्रेक्षासहकृतेन मनसा जनितं नियमसन्दर्शनादि-लिङ्गजनितं वा। प्राग्भवीयसंस्काराधीनैवात्र व्याप्तिधीः, स्तनपानेष्टसाधनताव्याप्तिग्रहवत्।
प्रशस्ताचार्य्यास्तु सिद्धदर्शनं न ज्ञानान्तरमित्याहुः। तथा हि यदि सिद्धानां गुटिकाञ्जनादिसिद्धिनिमित्तप्रभवं व्यवहितविप्रकृष्टविषयं तदुच्यते तदा प्रत्यक्षमेव। यदि तु दिव्यान्तरीक्षभौमानां ग्रहनक्षत्रसञ्चारादिनिमित्ताधीनं तदा तल्लैङ्गिकमेव तथा सहचारदर्शनेन व्याप्तिपरिच्छेदादिति ।। 13 ।।
</9-2-13>
इति श्रीशाङ्करे वैशेषिकसूत्रोपस्कारे नवमाध्यायस्य द्वितीयामाह्निकम्।
समाप्तश्चायं नवमोऽध्यायः।