सामग्री पर जाएँ

वैशेषिकसूत्रोपस्कारः/दशमोऽध्यायः

विकिस्रोतः तः
← नवमोऽध्यायः वैशेषिकसूत्रोपस्कारः
दशमोऽध्यायः
[[लेखकः :|]]

दशमाध्याये प्रथमाह्निकम्

[सम्पाद्यताम्]

<10-1-1>
आत्मगुणानां कारणतो भेदव्युत्पादनं दशमाध्यायार्थः। तत्र "आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्" अo 1 आo 1 सूo 9 इति गौतमीये प्रमेयविभागसूत्रे सुखस्यानभिधानात् दुःखाभिन्नमेव सुखमिति भ्रमनिरासार्थं सुखदुःखयोरेव प्रथमं भेदमाह--
इष्टानिष्टकारणविशेषाद्विरोधाच्च मिथः सुखदुःखयोरर्थान्तरभावः ।। 1 ।।
सुखदुःखयोर्मिथः परस्परमर्थान्तरभावो भेदो वैजात्यमिति यावत्। कुत इत्यत आह-इष्टानिष्टकारणविशेषात् इष्टं इष्यमाणं स्रक्‌चन्दनविनतादि अनिष्टमनिष्यमाणमहिकण्टिकादि तद्रूपं यत् कारणं तस्य विशेषाद्‌भेदात्, कारणवैजात्याधीनं कार्य्यवैजात्यमावश्यकं यतः। भेदकान्तरमाह--विरोधात् सहानवस्थानलक्षणात् न ह्येकस्मिन्नात्मन्येकदा सुखदुःखयोरनुभवः। चकारादनयोः कार्य्यभेदे भेदकं समुच्चिनोति। तथाहि--अनुग्रहाभिष्वङ्गनयनप्रसादादि सुखस्य, दैन्यमुखमालिन्यादि दुःखस्य कार्य्यमिति ततोऽप्यनयोर्भेदः. तदुक्तं प्रशस्ताचार्य्यैः-"अनुग्रहलक्षणं सुखं स्रगाद्यभिप्रेतविषयसान्निध्ये सति इष्टोत्पन्नधीन्द्रियार्थसन्निकर्षाद्धर्माद्यपेक्षादात्मनसोः संयोगाद् यदनुग्रहाभिष्वङ्गनयनादिप्रमोदजनकमुत्पद्यते तत् सुखम्" इति। तदिदमतीतेषु स्रक्‌चन्दनादिषु स्मृतिजमनागतेषु सङ्कल्पजम्। गौतमीये सूत्रे सु चापरिगणनं वैराग्याय सुखमपि दुःखत्वेन भावयतो वैराग्यं स्यादेतदर्थमिति ।। 1 ।।
</10-1-1>

<10-1-2>
नन्वास्तां सुखदुखे परस्परं भिन्ने ज्ञानादभिन्ने स्यातां स्मृत्यनुभववदित्यत आह--
संशयनिर्णयान्तराभावश्च ज्ञानान्तरत्वे हेतुः ।। 2 ।।
सुखदुःकयोर्ज्ञानान्तरत्वे ज्ञानभिन्नत्वे संशयनिर्णयाभ्यन्तरत्वाभावो हेतुर्लिङ्गमित्यर्थः। तदयमर्थः-सुखं दुःखं वा ज्ञानं भवत् संशयरूपं वा स्यात् निर्णयरूपं वा? नाद्यः कोटिद्वयानुल्लेखित्वात्। न द्वितीयः एककोट्यनुल्लेखित्वात्। तथा च यावद्विशेषबाधात् सामान्यबाधः। द्वावेव हि ज्ञानस्य विशेषौ संशयत्वं निर्णयत्वञ्च, तदुभयञ्च सुखे दुःखे च बाधितमिति ज्ञानत्वमपि तत्र बाधितम्। चकरादनुभावबाधं समुच्चिनोति। सुखदुःखयोरहं सुखी दुःखीति मानसोऽनुभवो न त्वहं जाने सन्देह्यि निश्चिनोमीत्याकारोऽनुभव इति ।। 2 ।।
</10-1-2>

<10-1-3>
भेदकान्तरमाह--
तयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्याम् ।। 3 ।।
तयोः संशयनिर्णययोर्निष्पत्तिरुत्पत्तिः प्रत्यक्षाल्लिङ्गाच्च सुखं दुःखं वा न प्रत्यक्षसामग्रीजन्यं न वा लिङ्गजन्यम्। चतुर्विधं हि सुखं-वैषयिकं मानोरथिकम् आभिमानिकमाभ्यासिकञ्च। तत्र त्रयाणामन्द्रियसन्निकर्षप्रभवत्वं नास्त्येव। प्रथममिन्द्रियार्थसन्निकर्षजत्वात् ज्ञानं स्यादिति चेन्न सामग्र्येकदेशस्य कार्य्यस्य साजात्यानापादकत्वात् अन्यथा दिक्‌कालसाधारण्येन सकलकार्य्यैकजात्यापत्तेः। किञ्च इन्द्रियार्थसन्निकर्षादुत्पद्यमानं सुखं निर्विकल्पकं वा स्यात् सविकल्पकं वा? नाद्यः अतीन्द्रियत्वप्रसङ्गात्। न द्वितीयः विशेष्यविशेषणभावेन द्वयोरना कलनरूपत्वात्। किञ्च सुखदुःखयोरवश्यसंवेद्यत्वात् ज्ञानस्यावश्यसंवेद्यत्वेऽनवस्थाप्रसङ्गात्। लैङ्गिकमिति लिङ्गमेव वैषयिकवत्।
वृत्तिकृतस्तु तयोर्ज्ञानसुखयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्यां प्रत्यक्षलैङ्गिकज्ञानव्याख्यानाभ्यां व्याख्याता। प्रत्यक्षं ज्ञानमिन्द्रियजम्, लैङ्गिकन्तु लिङ्गजम्, सुखादिकन्तु नैतादृशमिति व्याचक्रुः ।। 3 ।।
</10-1-3>

<10-1-4>
लैङ्गिकज्ञानात् सुखादेः प्रकारभेदाधीनं भेदमाह--
अभूदित्यपि ।। 4 ।।
इतिशब्दः प्रकारे। अपिशब्दो भविष्यतीत्याकारान्तरसमुच्चये। तथा च पर्वते वह्निरभूद्भविष्यति वेति लैङ्गिके ज्ञानेऽतीतादिः प्रकारो दृश्यते, न चैवंप्रकारं सुखं दुःखं वोत्पद्यमानमुपलब्धम् ।। 4 ।।
</10-1-4>

<10-1-5>
भेदकान्तरं समुच्चिनोति--
सति च कार्य्यादर्शनात् ।। 5 ।।
सति इन्द्रियार्थसन्निकर्षे सति च व्याप्तिपक्षधर्मतादिप्रतिसन्धाने कार्य्यस्य सुखस्य दुःखस्य वाऽदर्शनात् न प्रत्यक्षमात्रं सुखं दुःखं वा, न लैङ्गिकमात्रं वा। तदयमर्थः--ज्ञानसामान्यं तावत् सुखदुःखे न भवत इत्युक्तम्। ज्ञानविशेषः प्रत्यक्षज्ञानं वा भवेदनुमितिरूपं वा? इन्द्रियार्थसन्निकर्षे स्रकचन्दनादिप्रत्यक्षे सुखत्वानुभवाभावात्। न द्वितीयः, चन्दनाद्यनुमितौ बन्ह्याद्यनुमितौ वा सुखत्वदुःखयोरननुभवान्न तद्विशेषोऽपीति ।। 5 ।।
</10-1-5>

<10-1-6>
भेदकान्तरमाह--
एकार्थसमवायिकारणान्तरेषु दृष्टत्वात् ।। 6 ।।
सुखदुःखयोरिति शेषः। शुखं प्रति एकार्थसमवेतानि असाधारणकारणानिधर्मः सुखे रागः सुखकारणेच्छा तदुपादानयत्नः स्रक्‌चन्दनादिज्ञानम्। दुःखं प्रति तु--अधर्मः अनिष्टकण्टकादिज्ञानम्, एषु एकार्थसमवायिषु कारणेषु दृष्टत्वादित्यर्थः। ज्ञानन्तुनिर्विकल्पकमेकार्थसमवेतमसाधारणकारणं नापेक्षत एव। सविकल्पकन्त्वपेक्षते विशेषणज्ञानं तत्तु कारणान्तरं स्वविजातीयकारणं न भवति, मनःसंयोगस्तु साधारणत्वादविवक्षितः। यद्यपि स्मृतिः संस्कारमसाधारणमपेक्षते तथापि तद्भेदास्फुटसिद्ध एवेत्यनुभवमादाय भेदचिन्तनात्। लैङ्गिके यद्यपि व्याप्तिस्मृतिपक्षधर्मतादिज्ञानापेक्षा तथाप्यन्तरशब्देनैव तद्‌व्युदासः। तदयं प्रमाणार्थः-सुखदुःखे अनुभवभिन्ने स्वसमानाधिकरणस्वजातीयासाधारणकारणजन्यत्वात् स्मृतिवदाद्यशब्दवच्च ।। 6 ।।
</10-1-6>

<10-1-7>
ननु यदि कारणभेदाधीनो ज्ञानात् सुखदुःखयोः सुखाच्च दुःखस्य स्तम्भकुम्भादिवदेव परस्परं भेदः, स्यात्, तत्र हि परमाणुद्व्यणुकादीनां लोहितरेतसोर्वा कारणानामविशेषादित्यत आह--
एकदेशे इत्येकस्मिन् शिरः पृष्ठमुदरं मर्माणि तद्विशेषेभ्यः ।। 7 ।।
एकदेश इति। अवयवे इत्यर्थः। एकस्मिन्निति शरीरे इत्यर्थः। शिर इत्येकदेशः उदरं पृष्ठं मर्माणि च स्नायुप्रभृतीनि तेषां विशेषो वैज्यात्यम्, तद्विशेषेभ्य स्तत्‌कारणविशेषेभ्यः। तत्रावि कारणवैजात्यादेव वैजात्यम्, न हि यज्जातीयं शिरःसमवायिकारणं तज्जातीयमेवोदरपृष्ठादेरपि, तन्तुकपालाद्‌युपादानवैजात्यात् पटघटादौ वैजात्यवत् तत्रापि वैजात्यसम्भवात्। तन्तुकपालादेरपि अंशुशर्करादिवैजात्यात्। एवं तत्र तत्राप्यन्वेष्टव्यम्। परमाणनां साधारण्येऽपि त्वत्वीपादानवैजात्यस्य सर्वत्र वैजात्यप्रयोजकत्वात्। द्रव्यत्वेन तूपादानसाजात्यं न वैजात्यप्रयोजकमिति दिक् ।। 7 ।।
</10-1-7>
इति श्रीशाङ्करे वैशेषिकसूत्रोपस्कारे दशमाध्यायस्य प्रथममाह्निकम्।।

दशामाध्याये द्वितीयाह्निकम्

[सम्पाद्यताम्]

<10-2-1>
इदानीं प्रसङ्गतस्वयाणां कारणानां विशेषविवेचनमारभते--
कारणमिति द्रव्ये कार्य्यसमवायात् ।। 1 ।।
कारण समवायिकारणमिदमिति-प्रतीतिप्रयोगौ द्रव्ये द्रष्टव्यौ। कुत एवमत आह-कार्य्यसमवायात्। कार्याणि द्रव्यगुणकर्माणि तत्रैव समवेयन्ति यतः ।। 1 ।।
</10-2-1>

<10-2-2>
तत् किं समवायिकारणत्वमात्रं द्रव्याणामत आह--
संयोगाद्वा ।। 2 ।।
पटोत्पत्तौ तन्तूनां समवायिकारणत्ववत् निमित्तकारणत्ववत् निमित्तकारणत्वमपि तुरीतन्तुसंयोगस्यापि पटकारणत्वात्, तत्‌संयोगद्वारा तुर्य्यास्तन्तोश्च पटनिमित्तकारणत्वमपि। वाकारः समुच्चये। तुरीतन्तुसंयोगं प्रति तन्तोः समवायिकारणत्वेऽपि पटं प्रति तद्‌द्वारा निमित्तकारणत्वात् ।। 2 ।।
</10-2-2>

<10-2-3>
कर्मणि यादृशकारणत्वं तदाह--
कारणे समवायात् कर्माणि ।। 3 ।।
असमवायिकारणानीति शेषः। असमवायिकारणत्वञ्च कार्यकारणभावसम्बन्ध्येकार्यसमवेतकारणत्वम्। तच कार्यैकार्थसमवायात् कारणैकार्थसमवायाद्वा। तत्राद्या लध्वी द्वितीया महतीतिवैरोषिकपरिभाषा। तत्र कया प्रत्यासत्त्या संयोगविभागसंस्कारान् प्रति कर्मणामसमवायिकारणत्वमित्यत आह-कारणे समवायात्। कारणे संयोगादिसमवायिकारणे समवायात्, तथाच कार्यैकार्यसमवायलक्षणया लध्व्या प्रत्यासत्त्या संयोगादौ कर्मणोऽसमवायिकारणत्वमित्यर्थः ।। 3 ।।
</10-2-3>

<10-2-4>
रूपादीनां गुणानामवयववर्त्तिनामवयविगुणादिषु कीदृशी कारणतेत्यपेक्षायामाह--
तथा रूपे कारणैकार्थसमवायाच्च ।। 4 ।।
रूप इति। रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्‌त्वगुरुत्वस्नेहाद्युपलक्षयति। तथेत्यसमवायिकारणत्वमतिदिशति। कारणैकार्थसमवायादिति। अवयविरूपादीनां समवायिकारणं यदवयवि तेन सहैकार्थसमवायेन महत्या प्रत्यासत्त्याऽवयविरूपादिकमारभते, तद् यथा कपालरूपादि घटे रूपादिकमारभते इति सर्वत्रद्रष्टव्यम्। चकारादमीषां क्वचिन्निमित्तत्वमपि समुच्चिनोति ।। 4 ।।
</10-2-4>

<10-2-5>
द्रव्यारम्भे संयोगस्यासमवायिकारणस्य लध्वीं प्रत्यासत्तिमाह--
कारणसमवायात् संयोगः पटस्य ।। 5 ।।
कारणे समवायिकारणे समवायात् संयोगोऽपि पटादौ कार्य्ये कार्य्यैकार्थसमवायलक्षणया प्रत्यासत्त्याऽसमवायिकारणमित्यर्थः। पटपदेन कार्य्यद्रव्यकारणैकार्थसमवायोऽपीति कश्चित् ।। 5 ।।
</10-2-5>

<10-2-6>
संयोगस्य क्वचित् महत्या प्रत्यासत्त्या कारणत्वमित्याह--
कारणकारणसमवायाच्च ।। 6 ।।
तूलपिण्डावयवे वर्त्तमानः प्रचयाख्यः संयोगस्तूलकपिण्डे महत्त्वमारभते तत्र कारणैकार्थसमवायः प्रत्यासत्तिरित्यर्थः ।। 6 ।।
</10-2-6>

<10-2-7>
एवं समवायिनिरूपितां कारणतां निरूप्य निमित्तकारणतां निरूपयितुं प्रकरणान्तरमारभते--
संयुक्तसमवायादग्नेर्वैशेषिकम् ।। 7 ।।
अग्नेर्वैशेषिकं विशेषगुणमौष्ण्यं संयुक्तसमवायात् पाकजेषु निमित्तकारणम्। उपलक्षणञ्चैतत् ज्ञानं प्रतिसर्वेषां निमित्तकारणत्वं, बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनानां निमित्तकारणत्वमेव। सुखादीनां बेदप्रतिपादनाय प्रपञ्चोऽयंद्रष्टव्यः ।। 7 ।।
</10-2-7>

<10-2-8>
इदानीमाम्नायप्रामाण्यं द्रढयितुमुक्तमेवार्थमाह--
दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युदयाय ।। 8 ।।
दृष्टानां-प्रमाणत उपलब्धानां कर्मणां यागदानस्नानादीनां, दृष्टप्रयोजनानां-दृष्टमुपदिष्टं प्रयोजनं येषां, तथाहि "स्वर्गकामो यजेत" "अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्यादौ विधिसमभिव्याहृतमेव फलम्, क्वचिदार्थवादिकं यथा "य एता रात्रीरधीयीत तस्य पितरो, घुतकुल्या मधुकुल्याः क्षरन्ति" इत्यादौ, क्वचिच्चौपादानिकम् यथा "विश्वजिता यजेत" इत्यादौ, अत्र हि न विधिसमभिव्याहृतं नार्थवादोरस्थितमित्यौपादानिकं--काल्पनिकं स्वर्गस्यैव त्वतःसुन्दरस्य फलस्य कल्पनीयत्वात्, तथा चाशुतरविनाशितामेतेषां कर्मणां चिरभाविने फलाय कारणत्वमनुपपद्यमानमत एवेषां प्रयोगोऽनुष्ठानमभ्युदयायापूर्वायेत्यर्थः। ननु श्रुतुप्रामाण्ये सति स्यादेवं तदेव तु दुर्लभम्, न हि मीमांसकानामिव नित्यनिर्दोषत्वेन श्रुतिप्रामाण्यं त्वयेष्यते, गैरुषेयत्वेनाभ्युपगमात्, पुरुषस्य च भ्रमप्रमादविप्रलिप्सादिसम्भवादत् आह-दृष्टाभाव इति। दृष्टं पुरुषान्तरेऽस्मदादौ, भ्रमप्रमादविप्रलिप्सादिकं पुरुषदूषणं तदभावे सतीत्यर्थः। क्षितिकर्तृत्वेन वेदवक्तृत्वेन वाऽनुमितस्य पुरुषधौरेयस्य निर्दोषत्वेनैवोपस्थितेः। तताच तद्वचसां न निरभिधेयता न विपरीताभिधेयता न निष्प्रयोजनाभिधेयता, भूतेन्द्रियमनसां दोषात् भ्रमप्रमादकरणापाटवादिप्रयुक्ता एव वचनसामविशुद्धयः सम्भाव्यन्ते. न चेश्वरवचसि तासां सम्भवः, तदुक्तम्
रागाज्ञानादिभिर्वक्ता ग्रस्तत्वादनृतं वदेत्।
ते चेश्वरे न विद्यन्ते स ब्रूयात् कथमन्यथा ।। इति ।। 8 ।।
</10-2-8>

<10-2-9>
ननु तेनेश्वरेण वेदः प्रणीत इत्यत्रैव विप्रतिपत्तिरत आह--
तद्वचनादाम्नायस्य प्रामाण्यमिति ।। 9 ।।
इति शास्त्रपरिसमाप्तौ। तद्वचनात्तेनेश्वरेण वचनात् प्रणयनादाम्नायस्य वेदस्य प्रामाण्यम्। तथाहि वेदास्तावत् पौरुषेया वाक्यत्वदिति साधितं न चास्मदादयस्तेषां सहस्रशाखावच्छिन्नानां वक्तारः सम्भाव्यन्ते, अतीन्द्रियार्थत्वात्, न चातिन्द्रियार्थदर्शिनोऽस्मदादयः। किञ्चाप्तोक्ता वेदा महाजनपरिगृहीतत्वात्, यन्नाप्तोक्तं न तन्महाजनपरिगृहीतं महाजनपरिगृहीत़ञ्चेद तस्मादाप्तोक्तम्। स्वतन्त्रपुरुषप्रणीतत्वञ्चाप्तोक्तत्वम्। महाजनपरिगृहीतत्वञ्च सर्वदर्शंनान्तःपातिपुरुषानुष्ठीयमानार्थत्वाम्। क्वचित् फलाभावः कर्मकर्तृसाधनवेगुण्यादित्युक्तम्। कर्तृस्मरणाभावान्नैवमिति चेन्न, कर्तृस्मरणस्य पूर्वमेव साधितत्वात्। तत्‌प्रणीतत्वञ्च स्वतन्त्रपुरुषप्रणीतत्वादेव सिद्धम्, न त्वस्मदादीना सहस्रसाखवेदप्रणयने स्वातन्त्र्यं सम्भवतीत्युक्तत्वात्। किञ्च प्रमाया गुणजन्यत्वेन वैदिकप्रमाया अपि गुणजन्यत्वमावश्यकम्। तत्र च गुणो वक्तृयथार्थवाक्यार्थज्ञानमव वाच्यः, तथा च तादृश एव वेदे वक्ता, यः स्वर्गापूर्वादिविषः यकसाक्षात्‌कारवात्, तादृशश्च नेश्वरान्य इति सुष्ठु ।। 9 ।।
</10-2-9>
अकृत भवानीतनयो भवनाथसुतो भवार्चने निरतः।
पतं कणादसूत्रोपस्कारं शङ्करः श्रीमान्।।
श्लाघास्पदं यद्यपि नेतरेषामियं कृति- स्यादुपहासयोग्या।
तथापि शिष्यैर्गुरुगौरवेण परस्सहस्रैः समुपासनीया।।
इति श्रीशाङ्करे वैशेषिकसूत्रोपस्कारे दशमाध्यायस्य द्वितीयमाह्निकम्। समाप्तश्चायं दशमाध्यायः।
समाप्तञ्चेदं शास्त्रम्।
--------------