वैराग्यशतकम् (पद्मानन्दप्रणीतम्)
वैराग्यशतकम् पद्मानन्दः १९२६ |
श्रीपमानन्दकविप्रणीतं वैराग्यशतकम् । त्रैलोक्यं युगपत्कराम्बुजलुउन्मुक्तावदालोकते जन्तूनां निजया गिरा परिणमयः सूक्तमाभाषते । स श्रीमान्भगवान्विचित्रविधिभिर्देवासुरैरर्चितो बीतत्रासविलासहासरमसः पायाजिनानां पतिः ॥१॥ यैः क्षुण्णाः प्रसरद्विवेकपैविना कोपादिभूमीभृतो योगाभ्यासपरश्वधेन मथितो यैर्मोहधात्रीरुहः । बद्धः संयमसिद्धमत्रविधिना यैः प्रौढकामज्वर- स्तान्मोक्षकसुखानुषङ्गरसिकान्वन्दामहे योगिनः ॥ २॥ यैस्त्यक्ता किल शाकिनीवदसमप्रेमाञ्चिता प्रेयसी लक्ष्मी प्राणसमापि पन्नगवधूवत्प्रोज्झिता दूरतः । ७२ काव्यमाला। भुक्तं चित्रगवाक्षराजिरुचिरं वल्मीकवन्मन्दिरं निःसङ्गत्वविराजिताः क्षितितले नन्दन्तु ते साधवः ॥ ३ ॥ यः परवादे मूकः परनारीवक्रवीक्षणेऽप्यन्धः । पङ्गुः परधनहरणे स जयति लोके महापुरुषः ॥ ४ ॥ आक्रोशेन न दूयते न च चटुप्रोक्त्या समानन्धते दुर्गन्धेन न बाध्यते न च सदामोदेन संघीयते । स्त्रीरूपेण न रज्यते न च मृतश्चानेन विद्वेष्यते माध्यस्थ्येन विराजितो विजयते कोऽप्येष योगीश्वरः ॥ ५ ॥ मित्रे नन्दति नैव नैव पिशुने वैरातुरो जायते भोगे लुभ्यति नैव नैव तपसि क्लेशं समालम्बते । रले रज्यति नैव नैव दृषदि प्रद्वेषमापद्यते येषां शुद्धहृदां सदैव हृदयं ते योगिनो योगिनः ॥ ६ ॥ सौन्दर्यैकनिधेः कलाकुरुविधेळवण्यपाश्रोनिधेः पीनोत्तुङ्गपयोधरालसगतेः पातालकन्याकृतेः। कान्ताया नवयौवनाञ्चिततनोरुज्झितः संगमः सम्यध्यानसगोचरे चरति किं तेषां हताशः सरः ॥ ७ ॥ शृङ्गारामृतसेकशावलरुचिर्वक्रोक्तिपन्नान्विता प्रोगच्छल्लुमनोभिषासुभगा स्त्रीणां कथावल्लरी । यैर्ब्रह्मव्रतपावकेन परितो भसावशेषीकृता किं तेषां विषमायुधः प्रकुरुते शेषप्रकर्षेऽपि रे ॥ ८॥ आताम्रायतलोचनाभिरनिशं संतमं संतर्ण्य च क्षिप्तस्तीक्ष्णकटाक्षमार्गणगणो मत्वाङ्गनामिभृशम् । तेषां किं नु विधास्यति प्रशमितप्रद्युम्नलीलात्मनां येषां शुद्धविवेकवज्रफलकं पार्श्वे परिभ्राम्यति ॥९॥ अग्रे सा गंजगामिनी प्रियतमा पृष्ठेऽपि सा दृश्यते धान्यां सा गगनेऽपि सा किमपरं सर्वत्र सा सर्वदा । १. नागकन्यातुल्यायाः वैराग्यशतकम् । आसीद्यावदनङ्गसंगतिरसस्तावत्तवेयं स्थितिः संप्रत्यास्यपुरःसरामपि न तो द्रष्टासि कोऽयं लयः ॥ १० ॥ योगे पीनपयोधराञ्चिततनोविच्छेदने विभ्यतां मानस्यावसरे चक्तिविधुरं दीनं मुखं बिनताम् । विश्लेषस्सरवह्निनानुसमयं दन्दह्यमानात्मनां प्रातः सर्वदशासु दुःखगहनं धिकामिनां जीवितम् ॥ ११ ॥ मध्ये खां कृशतां कुरङ्गकदृशो भ्रूनेत्रयोर्वक्रतां कौटिल्य चिकुरेषु रागमधरे मान्धं गतिप्रक्रमे । काठिन्यं कुचमण्डले तरलतामणोनिरीक्ष्य स्फुटं वैराग्यं न भजन्ति मन्दमतयः कामातुरा ही नराः ॥ १२ ॥ पाण्डत्वं गमितान्कचान्प्रतिहतां तारुण्यपुण्यश्रियं चक्षुः क्षीणबलं कृतं श्रवणयोर्बाधिर्यमुत्पादितम् । स्थानभ्रंशमवापिताश्च जरया दन्तास्थिमांसत्वचः पश्यन्तोऽपि जड़ा हहा हृदि सदा ध्यायन्ति तां प्रेयसीम् १३ अन्यायार्जितवित्तवत्वचिदपि भ्रष्टं समस्तै रदै- तापक्रान्ततमालपत्रवदभूदङ्गं वलीभङ्गुरम् । केशेषु क्षणचन्द्रवद्धवलिमा व्यक्तं श्रितो यद्यपि खैरं धावति मे तथापि हृदयं भोगेषु मुग्धं हहा ॥ १४ ॥ उहणन्ति प्रपञ्चेन योषितो गद्दां गिरम् । तामामनन्ति प्रेमोक्ति हेलचेतसः ॥ १५॥ यावद्दुष्टरसक्षयाय नितरां नाहारलौल्यं जितं सिद्धान्तार्थमहौषधेर्निरुपमश्चू! न जीर्णो हृदि । पीतं ज्ञानलघूदकं न विधिना तावत्सरोत्थो ज्वरः शान्ति याति न तात्त्विकी हृदय हे शेषैरलं भेषजैः ।। १६ ।। शृक्षारद्रुमनीरदे प्रसमरक्रीडारसस्रोतसि प्रद्युम्नप्रियवान्धवे चतुरवाचुक्ताफलोदन्वति । ७ का० स०० काव्यमाला। तन्वीनेत्रचकोरपार्वणविधौ सौभाग्यलक्ष्मीनिधौ धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ १७ ॥ सम्यक्परिहृता येन कामिनी गजगामिनी। किं करिष्यति रुष्टोऽपि तस्य वीरवरः स्मरः ॥ १८॥ लज्जेयं प्रलयं प्रयाति झटिति ब्रह्मव्रतं अश्यति ज्ञानं संकुचति सारज्वरवशात्पश्यामि यावत्प्रियाम् । यावतु स्मृतिमेति नारकगतेः पाकक्रमो मीषण- स्तावत्तत्त्वनिरीक्षणात्प्रियतमाप्येषा विषौघायते ॥ १९ ॥ कारुण्येन हता वघव्यसनिता सत्येन दुर्वाच्यता संतोषेण परार्थचौर्यपटुता शीलेन रागान्धता । नैर्ग्रन्थ्येन परिग्रहगहिलता यैर्योवनेऽपि स्फुटं पृथ्वीय सकलापि तैः सुकृतिभिर्मन्ये पवित्रीकृता ॥२०।। यत्रानोऽपि (1) विचित्रमञ्जरिभरज्याजेन रोमाञ्चितो दोलारूढविलासिनीविलसितं चैत्रे विलोक्याद्भुतम् । सिद्धान्तोपनिषनिषण्णमनसां येषां मनः सर्वथा तसिन्मन्मथबाघया न मथितं धन्यास्त एव ध्रुवम् ॥ २१॥ साध्यावोत्तमगीतिसंगतिजुषः संतोषपुष्पाञ्चिताः सम्यग्ज्ञानविलासमण्डपगताः सद्ध्यानशय्यां श्रिताः । तत्त्वार्थप्रतिबोधदीपकलिकाः क्षान्त्यङ्गनासङ्गिनो निर्वाणैकसुखाभिलाषिमनसो धन्या नयन्ते निशाम् ॥ २२ ॥ किं लोलाक्षि कटाक्षलम्पटतथा किं स्तम्भजृम्भादिभिः किं प्रत्यङ्गनिदर्शनोत्सुकतया कि प्रोल्लसच्चाटुभिः । आत्मानं प्रतिबाधसे त्वमधुना व्यर्थ मदर्थ यतः शुद्धध्यानमहारसायनरसे लीनं मदीयं मनः ॥ २३ ॥ सज्ज्ञानमूलशाली दर्शनशाखश्च येन वृत्ततहः । श्रद्धाजलेन सिक्तो मुक्तिफलं तस्य स ददाति ॥ २४॥ वैराग्यशतकम् । क्रोधाधुग्रचतुष्कषायचरणो व्यामोहहस्तः सखे रागद्वेषनिशातदीर्घदशनो दुरिमारोद्धरः । सज्ज्ञानाङ्कुशकौशलेन स महामिथ्यात्वदुष्टद्धिपो नीतो येन वशं वशीकृतमिदं तेनैव विश्वत्रयम् ॥ २५ ॥ दृश्यन्ते बहवः कलासु कुशलास्ते च स्फुरत्कीर्तये सर्वखं वितरन्ति ये तृणमिव क्षुद्वैरपि प्रार्थिताः । धीरास्तेऽपि च ये त्यजन्ति झटिति प्राणान्कृते स्वामिनो द्वित्रास्ते तु नरा मनः समरस येषां सुहृद्वैरिणोः ॥ २६ ॥ हृदयं सदयं यस्य भाषितं सत्यभूषितम् । कायः परहितोपायः कलिः कुर्वीत तस्य किम् ॥ २७ ॥ नास्त्यसद्भाषितं यस्य नास्ति भङ्गो रणाङ्गनात् । नास्तीति याचके नास्ति तेन रनवती क्षितिः ॥ २८ ।। आनन्दाय न कस्य मन्मथकथा कस्य प्रिया न प्रिया लक्ष्मीः कस्य न वल्लमा मनसि नो कस्याङ्गजः क्रीडति । ताम्बूलं न सुखाय कस्य न मतं कस्यान्नशीतोदकं सर्वाशाद्रुमकर्तनैकपरशुर्मूल्युन चेत्स्याजनोः ॥ २९ ॥ भार्येयं मधुराकृतिर्मम मम प्रीत्यन्वितोऽयं सुतः वर्णस्वैष महानिधिर्मम ममासौ बन्धुरो बान्धवः । रम्यं हर्म्यमिदं ममेत्थमनया व्यामोहितो मायया मृत्युं पश्यति नैव दैवहतकः क्रुद्धं पुरश्चारिणम् ॥ ३० ॥ कष्टोपार्जितमत्र वित्तमखिलं द्यूते मया योजितं विद्या कष्टतरं गुरोरधिगता व्यापारिता कुस्तुतौ । पारम्पर्यसमागता च विनयो वामेक्षणायां कृतः सत्पात्रे किमहं करोमि विवशः कालेऽद्य नेदीयसि ॥ ३१॥ आत्मा यद्विनियोजितो न विनये नोग्रं तपः प्रापितो न क्षान्त्या समलंकृतः प्रतिकलं सत्येन न प्रीणितः । काव्यमाला। तत्त्वं निन्दसि नैव कर्महतकं प्राप्ते कृतान्तक्षणे दैवायैव ददासि जीव नितरां शापं विमूढोऽसि रे ।। ३२ ।। बालो यौवनसंपदा परिगतः क्षिप्रंक्षितौ लक्ष्यते वृद्धत्वेन युवा जरापरिणतो व्यक्तं समालोक्यते। सोऽपि कापि गतः कृतान्तवशतो न ज्ञायते सर्वथा पश्यैतद्यदि कौतुकं किमपरैस्तैरिन्द्रजालैः सखे ॥ ३३ ॥ द्वारं दन्तिमदप्रवाहनिवहैर्येषामभूत्पङ्किलं आसाभाववशान्न संचरति यद्रकोऽपि तेषां पुनः (१)। येऽभूवन्विमुखाः खकुक्षिभरणे तेषामकरसादहो यञ्च श्रीरिह दृश्यतेऽतिविपुला तत्कर्मलीलायितम् ॥ ३४ ॥ नापत्यानि न वित्तानि न सौधानि भवन्त्यहो । मृत्युना नीयमानस्य पुण्यपापे परं पुरः ॥ ३५ ॥ ब्रूतेऽहंकृतिनिग्रहं मृदुतया पश्चात्करिष्याम्यहं प्रोद्यन्मारविकारकन्दकदनं पञ्चेन्द्रियाणां जयात् । व्यामोहप्रसरावरोधनविधि सद्ध्यानतो लीलया नो जानाति हरिष्यतीह हतकः कालोऽन्तराले किल ॥ ३६॥ बद्धा येन दशाननेन नितरां खट्दैकदेशे जरा द्रोणाद्रिश्च समुद्धृतो हनुमता येन खदोलीलया । श्रीरामेण च येन राक्षसपतित्रैलोक्यवीरो हतः सर्वे तेऽपि गताः क्षयं विधिवशात्काऽन्येषु तद्भोः कथा ॥ ३७॥ सर्वभक्षी कृतान्तोऽयं सत्यं लोक निगद्यते । रामदेवादयो धीराः सर्वे काप्यन्यथा गताः ॥ ३८ ॥ मिथ्यात्वानुचरे विचित्रगतिभिः संचारितस्योद्भटै- रत्युपश्रममुद्राहतिवशात्संमूर्छितस्यानिशम् । संसारेऽत्र नियन्त्रितस्य निगडैायामयैधोरख- न्मुक्तिः स्यान्मम सत्वरं कथमतः सद्वृत्तवित्तं विना ॥ ३९ ॥ वैराग्यशतकम् । ७७ दुष्मापं मकराकरे करतलाद्नं निमनं यथा संसारेऽत्र तथा नरत्वमथ तत्प्राप्त मया निर्मलम् । प्रातः पश्य विमूढतां मम हहा नीतं यदेतन्मुधा कामक्रोधकुबोधमत्सरकुधीमायामहामोहतः ॥ ४० ॥ येनेह क्षणभङ्गुरेण वपुषा क्लिन्नेन सर्वात्मना सयापारवियोजितेन परमं निर्वाणमप्याप्यते। प्रीतिस्तेन हहा सखे प्रियतमाक्वेन्दुरागोद्भवा क्रीता खल्पसुखाय मूढमनसा कोट्या मया काकिणी ॥ ४१॥ क्रीडाकारि परोपहासवचनं तुष्टयै परव्यसनं कान्ता काञ्चनसुन्दराङ्गलतिका कान्तैव पृथ्वीतले । भन्यो द्रव्यसमजेने किल महारम्भोधमः किं तु रे भेदच्छेदनताडनादिविधिना रौद्रो महारौरवः ॥ ४२ ॥ कंदर्पप्रसरप्रशान्तिविधये शीलं न संशीलितं लोभोन्मूलनहेतवे स्खविभवो दत्तो न पात्रे मुदा । व्यामोहोन्मथनाय सद्गुरुगिरां तत्त्वं न चाङ्गीकृतं दुष्पापो नृभवो मया हतधिया हा हारितो हारितः ॥ १३ ॥ सौख्यं मित्रकलत्रपुत्रविभवमंशादिभिर्भहुरं कासवासभगंदरादिभिरिदं व्याप्तं वपुर्व्याधिभिः । प्रातस्तूर्णमुपैति संनिधिमसौ कालः करालाननः कष्टं किं करवाण्यहं तदपि यचित्तस्य पापे रतिः ॥४४॥ संसारे गहनेऽत्र चित्रगतिषु प्रान्त्यानया सर्वथा रे रे जीवन सोऽस्ति कश्चन जगन्मध्ये प्रदेशो ध्रुवम् । यो नाप्तस्तव भूरिजन्ममरणैस्तत्किं न तेऽद्यापि ही निर्वेदो हृदि विद्यते यदनिशं पापक्रियायां रतिः ॥ ४५ ॥ नो स्कन्धेन समुन्नतेन धरसे चारित्रगझ्या धुरं पृष्ठेनोपचितेन नैव बहसे प्रोच्चैरहिंसाभरम् । काव्यमाला। मिथ्या त्वन्निवयं (1) पदाहतिवशाद्भो गाहसे त्वं यत- श्वेतस्तद्तशङ्क साकवृषवन्निन्धं परिनाम्यसि ॥ ४६॥ प्राप्ते सत्कुलजन्ममानवभवे निर्दोषरत्नोपमे नीरोगादिसमस्तवस्तुनिचये पुण्येन लब्धे सति । नोपा किमपि प्रमादक्शतस्तत्त्वं त्वया मुक्तये रे जीवात्र ततोऽतिदुःखविषमे संसारचके भ्रमः ।। ४७ ।। कोधो न्यकृतिभाजनं न विहतो नीतो न मानः क्षयं माया नैव हता हताश नितरां लोभो न संक्षोभितः । रे तीवोत्कटकूटचित्तक्शग खान्त त्वया हारितं हस्तातं फलमाशु मानवभवश्रीकल्पवृक्षोद्भवम् ॥ १८ ॥ बाल्ये मोहमहान्धकारगहने मग्नेन मूढात्मना तारुण्ये तरुणीसमाहृतहृदा भोगैकसंगेच्छुना । वृद्धत्वेऽपि जराभिभूतकरणयामेण निःशक्तिना मानुष्यं किल दैवतः कथमपि प्राप्तं हतं हा मया ॥ १९ ॥ यसै त्वं लघु लङ्घसे जलनिधि दुष्टाटवीं गाहसे मित्र वञ्चयसे विलुम्पसि निजं वाक्यक्रम मुञ्चसि । तद्वित्तं यदि दृश्यते स्थिरतया कस्यापि पृथ्वीतले रे रे चञ्चलचित्त वित्तहतक व्यावर्तता (१) मे तदा ॥ ५० ॥ अज्ञानाद्रितटे वचित्कचिदपि प्रद्युम्नगर्तान्तरे मायागुल्मतले क्वचित्कचिदहो निन्दानदीसंकटे । मोहव्याघ्रमयातुरं हरिणवत्संसारघोराटवी- मध्ये धावति पश्य सत्वरतरं कष्टं मदीयं मनः ॥ ५१ ॥ सच्चारित्रपवित्रदारूरचितं शीलध्वजालंकृतं गुर्वाज्ञागुणगुम्फनादृढतरं सद्बोधपोतं श्रितः । मोहग्राहभयंकरं तर महासंसारवारांनिधि यावन्न प्रतिभिद्यते स्तनतटाघातैः कुरङ्गीदृशाम् ॥ ५२ ।। वैराग्यशतकम् । किं भस्मप्रतिलेपनेन वपुषो धूमस्य पानेन किं वस्त्रत्यागजुगुप्सया किमनया किं वा त्रिदण्डाप्यहो। किं स्कन्धेन नतेन कम्बलभराज्जापस्य किं मालया वामाक्षीमभिधावमानमनिशं चेतो न चेदक्षितम् ॥ ५३ ॥ रोद्धं बालमृणालतन्तुभिरसौ मत्तेभमुज्जृम्भते भेत्तुं वनमणीशिरीषकुसुमप्रान्तेन संनयति । माधुर्य मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते नेतुं वाञ्छति यः सतां पथि खलान्सूक्तैः सुधास्यन्दिभिः ॥५४॥ मुक्त्वा दुर्मतिमेदिनी गुरुगिरा संशील्य शीलाचलं बद्धा क्रोधपयोनिधि कुटिलतालङ्कां क्षपित्वा क्षणात् । नीत्वा मोहदशाननं निधनतामाराध्य वीरव्रतं श्रीमद्राम इव द्युमुक्तिवनितायुक्तो भविष्याम्यहम् ॥ ५५ ॥ आहारैर्मधुरैर्मनोहरतरैदोहोरैर्वरैः केयूरैमणिरत्नचारुशिखरैर्दारैरुदौरैश्च किम् । प्राणान्पद्मदलामवारितरलाञ्ज्ञात्वा जवाजीव रे दानं देहि विधेहि शीलतपसी निर्वेदमाखादय ॥ ५६ ॥ ज्ञात्वा बुद्बुदभङ्गुरं धनमिदं दीपप्रकम्यं वपु- स्तारुण्यं तरलेक्षणाक्षितरलं विद्युचलं दोर्बलम् । रेरे जीव गुरुप्रसादवशतः किंचिद्विधेहि द्रुतं दानध्यानतपोविधानविषयं पुण्यं पवित्रोचितम् ॥ ५७ ॥ श्रीखण्डपादपेनेव कृतं स्वं जन्म निष्फलम् । जिह्मगानां द्विजिह्वानां संबन्धमनुरुन्धता ।। ५८॥ किं तर्केण वितर्कितेन शतशो ज्ञातेन किं छन्दसा किं पीतेन सुधारसेन बहुधा खाध्यायपाठेन किम् । अभ्यस्तेन च लक्षणेन किमहो ध्यानं न चेत्सर्वथा लोकालोकविलोकनैककुशलज्ञाने हृदि ब्रह्मणः ५९ ॥ काव्यमाला। मां बाल्यादपि निर्निमित्तनिबिडमोद्भूतसल्यश्रियं दम्भारम्भ विहाय सत्वरतरं दूरान्तरं गम्यताम् । पश्योन्मीलति मेऽधुना शुभवशाज्ज्ञानोष्णरश्मिप्रभा पालेयोत्करवद्धबन्त (द्धत्तं त) मनया द्रक्षाम्यहं त्वां कथम् ॥६॥ कारुण्यान्न सुधारसोऽस्ति हृदय द्रोहान हालाहलं वृत्तादस्ति न कल्पपादप इह क्रोधान्न दावानलः । संतोषादपरोऽस्ति न प्रियसुहृल्लोभान्न चान्यो रिपु- युक्तायुक्तमिदं मया निगदितं यद्रोचते तत्त्यज ॥ ६१ ।। औचित्यांशुकशालिनी हृदय हे शीलारागोज्वलां श्रद्धाध्यानविवेकमण्डनवतीं कारुण्यहाराकिताम् । सबोधाञ्जनरञ्जिनीं परिलसच्चारित्रपत्राङ्कुरां निर्वाणं यदि वाञ्छसीह परमशान्तिप्रियां तद्भज ॥ ६२ ।। यत्रातिर्न मतिभ्रमो न न रतिः ख्यातिने नैवोन्नति- न व्याधिन धनं तथैव न वधो ध्यानं न नाध्येषणा। नो दासं न विलासरम्यवदनं हास्यं च लास्यं च नो तत्सांसारिकपुण्यपापरहितं ध्येयं पदं धीधनाः ॥ ६३ तावद्भानुकराः प्रकाशनपरा यक्षेश्वरोऽप्यर्थवा- न्संपूर्णेन्दुमुखीप्रिया प्रियमहीमाधुर्यहृया तथा । ॥ ६४॥ "हृदये। मन्त्ररहस्योद्वारी मंत्रीव स दूरतस्त्याज्यः ।। ६५ ।। धर्मोऽयं निहतः प्रमादवशतः प्राप्तेऽपि मानुष्यके कार्पण्येन विडम्बितौ सति धने थैरर्थकामावपि । अत्यन्त चलचित्तनिग्रहपरैरप्याप्यते वा न वा मोक्षः शाश्वतिकः प्रसादसदनं तेषां दवीयान्यूनः ।। ६६ ॥ वैराग्यशतकम् । आकाशेऽपि चिराय तिष्ठति शिला मन्त्रेण तन्त्रेण वा बाहुभ्यामपि तीर्यते जलनिधिर्वेधाः प्रसन्नो यदा । दृश्यन्ते ग्रहयोगतः सुरपथे प्राहेऽपि ताराः स्फुटं हिंसायां पुनराविरस्ति नियतं गन्धोऽपि न श्रेयसः ॥ ६७ ॥ निशानां च दिनानां च यथा ज्योतिर्विभूषणम् । सतीनां च यतीनां च तथा शीलमखण्डितम् ॥ ६८ ॥ मायया राजते वेश्या शीलेन कुलबालिका । न्यायेन मेदिनीनाथः सदाचारतया यतिः ॥ ६९॥ यावयाधिविवाधया विधुरतामङ्गं न संसेवते यावच्चेन्द्रियपाटवं न हरति क्रूरा जरा राक्षसी । तावन्निष्कलनिश्चलामलपदं कर्मक्षयायाधुना ध्येयं ध्यानविचक्षणः स्फुटतरं हृत्पद्मसमोदरे ।। ७० ।। अज्ञानावृतचेतसो मम महाव्यामूढतां कृत्वा धर्मधनं हृतं यदनिशं वाराणसीधूर्तवत् । युक्तं तद्विहितं त्वयेदमपि ते युक्तं भवेद्धि द्रुतं मां पुण्याप्तगुरुप्रसादमधुना संत्यज्य निर्गच्छ रे ।। ७१ ॥ तन्नो नागपतेर्मुजंगवनिताभोगोपचारैः परै- स्तन्नो श्रीसविलाससंगमशतैः सारैर्मुरारेः किल । तन्नो वज्रघरस्य देववनिताक्रीडारसैनिभेरै- यत्सौख्यं बत वीतकाममनसा तत्त्वार्थतो योगिनाम् ॥ ७२ ॥ मध्यक्षामतया योषितपःक्षामतथा यतिः। मुखक्षामतया चाश्वो राजते न तु भूषणैः ।। ७३ ।। तन्व्या श्रोत्ररसा[यनेन वचसा] सप्रेम संभाषितः सर्पकोपविपाकपाटलरुचा संवीक्षितश्चक्षुषा । सद्योगान तिलाममात्रमपि यः संक्षोभितुं शक्यते रागद्वेषविवर्जितो विजयते कोऽप्येष योगीश्वरः ॥ ७४ ॥ काव्यमाला। आताम्रायतलोचनातुरमिदं न्यकारवानिन्दितं बभ्रकुटिभालभीममधरमस्पन्बदुर्दर्शनम् । व्यालोलालकसंकुलं कृशतनोः कोपेऽपि कान्तं मुखं पश्यन्ति स्मरविहलीकृतहृदो ही कामिनां मूढता ।। ७५ ।। कौशल्यं प्रविलीयते विकलता सर्वाङ्गमाश्लिष्यते ज्ञानश्रीः प्रलयं प्रयाति कुमतिः प्रागल्भ्यमभ्यस्यति । धर्मोऽपि प्रपलायते कलयति स्थेमानमहः परं यसाच्छोकवशात्कथं स विदुषां संसेवितुं युज्यते ॥ ७६ ॥ क कफात मुखं नार्याः क पीयूषनिधिः शशी । आमनन्ति तयोरैक्यं कामिनो मन्दबुद्धयः ॥ ७७ ॥ पाशे कुरङ्गनिवहो न पतत्यविद्वा- न्दाहात्मतामकलयशलभः प्रदीये । जाननहं पुनरमून्करिकर्णलोला- भोगांस्त्यजामिन तथापि क एष मोहः ।। ७८ ॥ ज्ञानमेव परं मित्रं काम एव परः परः । अहिंसैव परो धर्मो योघिदेव परा जरा ॥ ७९ ॥ धिक्कंदर्प जगत्रयीविजयिनो दोःखामविस्फूर्जितं विद्वान्कः किल तावकीनमधुना व्यालोकतामाननम् । दृष्ट्वा यौवनमित्र ...."भवान्सर्पजराराक्षसी- वक्रान्तः पतितं विमुञ्चति न यः कोदण्डकेलिकमम् ॥ ८॥ तृष्णावारितरङ्गभङ्गविलसत्कौटिल्यकल्लीरुह- स्तिर्यक्प्रेक्षितवाक्प्रपञ्चकबरीपाशवः पल्लवाः । यसो मान्ति न तुच्छके हृदि ततः स्थानं बहिः कुर्वते कस्ताश्चञ्चलचक्षुषः कुशलधीः संसेवितुं वाञ्छति ।। ८१ ॥ रेरे मोहहताश तावकमिदं धिक्यौरुषौज्जृम्भितं विस्रब्धं भवसागरे किल भवान्संयम्य मां क्षिप्तवान् । वैराग्यशतकम् । संप्रत्याप्तगुरूपदेशफलकः पारं प्रयातोऽस्म्यहं शौटीयं तव विद्यते यदधुना दोष्णोस्तदा दर्शय ॥ ८२ ।। रे कंदर्प किमाततज्यमधुना धत्से धनुस्त्वं मुधा किं भ्रूलास्यकलासु पक्ष्मलदृशः प्रागल्भ्यमभ्यस्यथ । वैराग्याम्बुजिनीप्रबोधनपटुः प्रध्वस्त्रदोषाकरः खेलत्येष विवेकचण्डकिरणः कस्त्वाशामुत्सवः ।। ८३ ॥ अन्यं प्रियालापपथं नयन्ते किंचित्कटाक्षरपरं स्पृशन्ति । अन्यं हृदा कंचन मन्त्रयन्ते विग्योषितां चञ्चलचित्रवृत्तिम् ॥ ८४ ।। याच्यायै वचनक्रम रचयतः पादौ परिभ्रान्तये नेत्रे रोषकषायितानि वदनान्यालोकितुं स्वामिनाम् । धातश्चेन्न दयालुता तव हृदि स्थान बबन्ध क्षणं तत्किं हन्त परिश्रमोऽपि निकटीभूय(१) न संपन्नवान् ॥ ८५ ॥ रक्षाकृते धनलवस्य विमूढचेता लो[भाजनः] किमपि संतनुते प्रयत्नम् । तल्लक्षकोटिभिरनाप्यमपीदमायुः कालो निकृन्तति न तन्ननु शकतेऽपि ।। ८६ ।। बन्धो क्रोध विधेहि किंचिदमरं स्वस्याधिवासास्पदं आतर्मान भवानपि प्रचलतु त्वं देवि माये ब्रज । हहो लोभ सखे यथाभिलषितं गच्छ द्रुतं वश्यतां नीतः शान्तरसस्य संप्रति लसद्वाचा गुरूणामहम् ॥ ८७ ॥ मनो न वैराग्यतरङ्गितं चेद्वृथा तदा दानतपःप्रयासः । लावण्यमङ्गे यदि नागनानां मुधा तदा विश्रमवल्गितानि ॥ ८८ ॥ विश्वाः कला परिचिता यदि तास्ततः किं तप्तं तपो यदि तदुतरं ततः किम् । कीर्तिः कलङ्कविकला यदि सा ततः कि- मन्तर्विवेककलिका यदि नोल्ललास, ॥ ८९.३॥ ... काव्यमाला । स्फूर्जल्लोभकरालवत्रकुहरो हुंकारगुञ्जारवः कामक्रोधविलोललोचनयुगो मायानखश्रेणिभाक् । खैरं यत्र स बम्भ्रमीति सततं मोहायः केसरी तां संसारमहाटवीं प्रतिवसन्को नाम जन्तुः सुखी ॥९॥ एकः स वैवखत एव देवः शौटीर्यशाली च महाव्रती च । पशौच गीर्वाणपतौ च यस्या विभिन्नमुद्रस्य दृशः पतन्ति ।। ९१ ।। एतानि तानि मदनज्वलनेन्धनानि दूरीकुरुष्व मयि वक्रविलोकितानि । उन्मीलति स ललितायधुना स एवं मन्मानसे शुचिविवेककलाविलासः ॥ ९२ ।। प्रत्यक्षो नरकः स एष वसुधापीठे परायत्तते- त्येवं पूत्कुरुते जनः प्रतिकलं सर्वोऽपि विद्वानिह । तन्नारी()वशवर्तिनोऽपिविषयान्कण्डूतिकल्पानयं रोमाञ्चाङ्करचर्विताङ्गलतिकः किं नाम नैवोज्झति ।। ९३ ॥ ता एवैताः कुवलयदृशः सैष कालो वसन्त- स्खा एवान्तः शुचिवनभुवस्ते वयं ते वयस्याः । किंतूद्भूतः स खलु हृदये तत्त्वदीपप्रकाशो येनेदानी हसति हृदयं यौवनोन्मादलीलाः ॥ ९४ ॥ को देवो वीततमाः कः सुगुरुः शुद्धमार्गसंभाषी । किं परमं विज्ञानं खकीयगुणदोषविज्ञानम् ॥ ९५ ॥ यत्कारुण्यहिरण्यजं न न च यत्सन्मार्गसाम्रोद्भवं नो यत्संयमलोहजन्म न च यत्संतोषमृत्लामयम् । यद्योम्यं न तपोविधानदहनज्वालावलीतेजसां सिद्धिं याति कथं नृपान्यनिकरस्तस्मिन्कुपात्रे श्रितः ॥ ९६ । हे मोहाहत जीव हुं शृणु वचः श्रद्धाति चेत्कथ्यता प्राधे किंचन सत्फलं भवमहाटव्यां त्वया मान्यता । वैराग्यशतकम् । भात व तथाविधं किमपि तन्निर्वाणदं तर्हि किं शून्यं पश्यसि पङ्गुवननु गतं नोपक्रमे तिष्ठति ॥ ९७ ॥ शौक्ल्ये हंसबकोटयोः सति समे यद्गतावन्तरं काष्ण्ये कोकिलकाकयोः किल यथा भेदो भृशं भाषिते । प्रत्ये हेमहरिद्रयोरपि यथा मूल्ये विभिन्नार्धता मानुष्ये सदृशे तथार्यखलयोर्दूर विभेदो गुणैः ॥ १८ ॥ त्वदृष्टिपातनिहताः खलु तेऽन्य एव धैर्यव्रतं सुतनु ये परिमार्जयन्ति । अन्ये त्वमी शुचिविवेकपवित्रचित्ता- स्तत्कि विडम्बयसि मन्मथविभ्रमैः स्वम् ॥ ९९ ॥ संपत्स्यते मम कदाचन तदिनं किं सध्यानरूढमनसः सततं भवेयुः । आनन्दबिन्दुविशदानि सुधामयानि यनेक्षितानि मयि मुक्तिमृगेक्षणायाः ॥१०॥ ललितं सत्यसंयुक्तं सुव्यक्तं सततं मितम् । ये वदन्ति सदा तेषां स्वयं सिद्धैव भारती ॥ १०१ ॥ सिक्तः श्रीजिनवल्लभस्य सुगुरोः शान्तोपदेशामृतैः श्रीमन्नागपुरे चकार सदनं श्रीनेमिनाथस्य यः । श्रेष्ठी श्रीधनदेव इत्यभिषया ख्यातच तस्याङ्गजः पद्मानन्दशतं(इति) व्यत्ति सुवियामानन्दसंपत्तये ॥ १०२ ॥ संपूर्णेन्दुमुखीमुखे न च न च श्वेतांशुबिम्बोदये श्रीखण्डद्वलेपने न च न च द्राक्षारसाखादने । आनन्दः स सखे न च कचिदसौ किं भूरिभिर्भाषितैः पद्मानन्दशते श्रुते किल मया यः खादितः खेच्छया ॥१०॥ इति श्रीपमानन्दप्रणीतं चैराग्यशतकम् । ८ का० स० गु०