वेदान्तपरिभाषा/प्रत्यक्षपरिच्छेदः

विकिस्रोतः तः
वेदान्तपरिभाषा
प्रत्यक्षपरिच्छेदः
धर्मराजाध्वरीन्द्रः
अनुमानपरिच्छेदः →

अथ वेदान्तपरिभाषा

यदविद्याविलासेन भूतभौतिकसृष्टयः।
तन्नौमिपरमात्मानं सच्चिदानन्दविग्रहम्।।
यदन्तेवासिपञ्चास्यैर्निरस्ता भेदवारणाः।
तं प्रणमौमि नृसिंहाख्यं यतीन्द्रं परमं गुरुम्।2।।
श्रीमद्वेङ्कटनाथाख्यान् वेलाङ्गुडिवासिनः।
जगद्गुरूनहं वन्दे सर्वतन्त्रप्रवर्तकान्।।3।।
येन चिन्तामणौ टीका दशटीकाविभञ्जिनी।
तर्कचूडामणिर्नाम कृता विद्वन्मनोरमा।।4।।
तेन बोधाय मन्दानां वेदान्तार्थावलम्बिनी।
धर्मराजाध्वरीन्द्रेण परिभाषा वितन्यते।।5।।
इह खलु धर्मार्थकाममोक्षेख्येषु चतुर्विधपुरुषार्थेषु मोक्ष एव परमपुरुषार्थः, “न स पुनरावर्तते” इत्यादिश्रुत्या तस्य नित्यत्वावधारणात्। इतरेषां त्रयाणां तु प्रत्यक्षेण, “तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते” इत्यादिश्रुत्या चानित्यत्वावगमाच्च, स च ब्रह्मज्ञानात् इति ब्रह्म तज्ज्ञानं तत्प्रमाणं च सप्रपञ्चं निरूप्यते।
तत्र प्रमाकरणं प्रमाणम्। तत्र स्मृतिव्यावृत्तं प्रमात्वमनधिगताबाधितार्थविषयकज्ञानत्वं स्मृतिसाधारणं त्वबाधितार्थविषयकज्ञानत्वम्। नीरूपस्यापि कालस्येन्द्रियवेद्यत्वाभ्युपगमेन धारावाहिकबुद्धेरपि पूर्वज्ञानाविषय-तत्तत्क्षणविशेषविशिष्टविषयत्वेन न तत्राव्याप्तिः।
किञ्च सिद्धान्ते धारावाहिकबुद्धिस्थले न ज्ञानभेदः, किन्तु यावद् घटस्फुरणं तावद् घटाकारान्तःकरणवृत्तिरेकैव, न तु नाना, वृत्तेः स्वविरोधिवृत्त्युत्पत्तिपर्यन्तं स्थायित्वाभ्युपगमात्। तथा च तत्प्रतिफलितचैतन्यरूपं घटादिज्ञानमपि तत्र तावत्कालीनमेकमेवेति नाव्याप्तिशङ्काऽपि।
ननु सिद्धान्ते घटादेर्मिथ्यात्वेन बाधितत्वात्तज्ज्ञानं कथं प्रमाणं।
उच्यते। ब्रह्मसाक्षात्कारानन्तरं हि घटादीनां बाधः, “यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्” इति श्रुतेः, न तु संसारदशायां बाधः, “यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति” इति श्रुतेः। तथा चाबाधितपदेन संसारदशायामबाधितत्वं विवक्षितमिति न घटादिप्रमायामव्याप्तिः।
तदुक्तम्-
देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः।
लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयात्।।1।। इति ।
आ आत्मनिश्चयाद्ब्रह्मसाक्षात्कारपर्यन्तमित्यर्थः। लौकिकमिति घटादिज्ञानमित्यर्थः।
तानि प्रमाणानि षट् प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यनुपलब्धिभेदात्।
तत्र प्रत्यक्षप्रमाकरणं प्रत्यक्षप्रमणम् ।
प्रत्यक्षप्रमा त्वत्र चैतन्यमेव, “यत्साक्षादपरोक्षात्” इति श्रुतेः। अपरोक्षादित्यस्यापरोक्षमित्यर्थः।
ननु चैतन्यमनादि तत्कथं चक्षुरादेस्तत्करणत्वेन प्रमाणत्वमिति। उच्यते। चैतन्यस्यानादित्वेऽपि तदभिव्यञ्जकान्तःकरणवृत्तिरिन्द्रियसन्निकर्षादिना जायत इति वृत्तिविशिष्टं चैतन्यमादिमादिमदित्युच्यते ज्ञानावच्छेदकत्वाच्च वृत्तौ ज्ञानत्वोपचारः। तदुक्तं विवरणे “अन्तःकरणवृत्तौ ज्ञानत्वोपचारात्” इति।
ननु निरवयवस्यान्तःकरणस्य परिणामात्मिका वृत्तिः कथम्। इत्थम्- न तावदन्तःकरणं निरवयवं, सादिद्रव्यत्वेन सावयवत्वात् । सादित्वं च "तन्मनोऽसृजत" इत्यादिश्रुतेः। वृत्तिरूपज्ञानस्य मनोर्धमत्वे च "कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्हीर्धीर्भीरित्येतत्सर्वम्मन एव" इति श्रुतिर्मानम्। धीशब्देन वृत्तिरूपज्ञानाभिधानम्। अत एव कामादेरपि मनोर्धमत्वम्।
ननु कामदेरन्तःकरणधर्मत्वेऽहमिच्छाम्यहं बिभेमीत्याद्यनुभव आत्मधर्मत्वमधर्मत्वमवगाहमानः कथमुपपद्यते। उच्यते। अयः पिण्डस्य दग्धृत्वाभावेऽपि दग्धृत्वाश्रयवह्नितादात्म्याध्यासाद्यथाऽयो दहतीति व्यवहारस्तथा सुखाद्याकारपरिणाम्यन्तःकरणैक्याध्यासादहं सुखी अहं दुःखीत्यादिव्यवहारो जायते।
नन्वन्तः करणस्येन्द्रियतयाऽतीन्द्रयत्वाकत्थं प्रत्यक्षविषयतेति। न तावदन्तःकरणमिन्द्रियमित्यत्र प्रमाणमस्ति। “मनःषष्ठानीन्द्रियाणि” इति भगवद्गीतावचनं प्रमाणमिति चेत्- न हीन्द्रियगतसंख्यापूरण-मिन्द्रियेणैवेति नियमः। "यजमानपञ्चमा इडां भक्षयन्ति" इत्यत्र ऋषित्वगतपञ्चत्वसंख्याया अनृत्विजापि यजमानेन पूरणदर्शनात्। 'वेदानध्यापयामास महाभारतपञ्चमान्' इत्यादौ वेदगतपञ्चत्वसंख्याया अवेदेनापि भारतेन पूरणदर्शनात्। 'इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः' इत्यादिश्रुत्या मनसोऽनिन्द्रियत्वावगमाच्च।
न चैवं मनसोऽनिन्द्रियत्वे सुखादिप्रत्यक्षस्य साक्षात्कारत्वं न स्यात्, इन्द्रियाजन्यत्वादिति वाच्यम्। न हीन्द्रियजन्यत्वेन ज्ञानस्य साक्षात्त्वम्, अनुमित्वादेरपि मनोजन्यतया साक्षात्त्वापत्तेः। ईश्वरज्ञानस्या-निन्द्रियजन्यस्य साक्षात्त्वानापत्तेश्च।
सिद्धान्ते प्रत्यक्षत्वप्रयोजकं किमिति चेत्--
किं ज्ञानगतस्य प्रत्यक्षत्वस्य प्रयोजकं पृच्छसि, किं वा विषयगतस्य।
आद्ये प्रमाणैतन्यस्य विषयावच्छिन्नचैतन्याभेद इति ब्रूमः। तथा हि त्रिविधं चैतन्यम्-- विषयचैतन्यं प्रमाणचैतन्यं प्रमातृचैतन्यं चेति । तत्र घटाद्यवच्छिन्नचैतन्यं विषयचैतन्यम्। अन्तः करणवृत्त्यवच्छिन्नं चैतन्यं प्रमाणचैतन्यम्। अन्तःकरणावच्छिन्नं चैतन्यं प्रमातृचैतन्यम्।
तत्र यथा तडागोदकं छिद्रार्न्निर्गत्य कुल्यात्मना केदारान् प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति, तथा चैजसमन्ततःकरणमपि चक्षुरादिद्वारा निर्गत्य घटादिविषयदेशं गत्वा घटादिविषयाकारेण परिणमिते स एव परिणामो वृत्तिरित्युच्यते। अनुमित्यादिस्थले तु नान्तःकरणस्य वह्न्यादिदेशगमनम्, वह्न्यादेश्चक्षुराद्य-सन्निकर्षात्। तथाच अयं घट इत्यादिप्रत्यक्षस्थले घटादेस्तदाकारवृत्तेश्च बहिरेकत्र देशे समवधाना-त्तदुभयावच्छिन्नं चैतन्यमेकमेव, विभाजकयोरप्यन्तःकरणवृत्तिघटादिविषययोरेकदेशस्थत्वेन भेदाजनकत्वात्। अत एव मठान्तर्वर्तिधटावच्छिन्नाकाशो न मठावच्छिन्नाकाशाद्भिद्यते। तथा चायं घट इति प्रत्यक्षस्थले घटा-कारवृत्तेर्घटसंयोगितया घटावच्छिन्नचैतन्यस्य तद्वृत्त्यवच्छिन्नचैतन्यस्य चाभिन्नतया तत्र घटज्ञानस्य घटा-कारांशे प्रत्यक्षत्वं, सुखदुःखाद्यवच्छिन्नचैतन्यस्य तद्वृत्त्यवच्छिन्नचैतन्यस्य च नियमेनैकदेशस्थितोपाधि-द्वयावच्छिन्नत्वान्नियमेनाहं सुखी दुःखीत्यादिज्ञानस्य प्रत्यक्षत्वम्।
नन्वेवं स्ववृत्तिसुखादिस्मरणस्यापि सुखाद्यंशे प्रत्यक्षतापत्तिरिति चेत्, न। तत्र स्मर्यामाणसुखस्या-तीतत्वेन स्मृतिरूपान्तःकरणवृत्तेर्वर्तमानत्वेन तत्रोपाध्योर्भिन्नकालिकतया तत्तदवच्छिन्नचैतन्ययोर्भेदादुपाध्यो-रेकदेशस्थत्वे सति एककालिकत्वस्यैवोपधेयाभेदप्रयोजकत्वात्। यदि चैकदेशस्थत्वमात्रमुपधेयाभेदप्रयोजकं तदा पूर्वमहं ‘सुखी’ इत्यादिस्मृतावतिव्याप्तिवारणाय वर्तमानत्वं विषयविशेषणं देयम्।
नन्वेवं स्वकीयधर्माधर्मौ वर्तमानौ यदा शब्दादिना ज्ञायेते, यदा तादृशशाब्दज्ञानादावतिव्याप्तिः। तत्र धर्माद्यवच्छिन्नचैतन्यतद्वृत्त्यवच्छिन्नचैतन्ययोरेकत्वादिति चेत् न, योग्यत्वस्यापि विषयविशेषणत्वात्। अन्तः-करणधर्मत्वाविशेषेऽपि किञ्चिद्योग्यं किञ्चिदयोग्यमित्यत्र फलबलकल्प्यः स्वभाव एव शरणम्। अन्यथा न्यायमतेऽप्यात्मधर्मत्वाविशेषेऽपि सुखादिवद्धर्मादेः प्रत्यक्षत्वापत्तिर्दुर्वारा। न चैवमपि सुखस्य वर्तमानता-दशायां ‘त्वं सुखी’ इत्यादिवाक्यजन्यज्ञानस्य प्रत्यक्षता स्यादिति वाच्यम्, इष्टत्वात्। दशमस्त्वमसीत्यादौ सन्निकृष्टविषये शब्दादप्यपरोक्षज्ञानाभ्युपगमात्। अत एव पर्वतो वह्निमानित्यादिज्ञानमपि वह्न्यंशे परोक्षम्, पर्वतांशेऽपरोक्षम्। पर्वताद्यवच्छिन्नचैतन्यस्य बर्हिर्निःसृतान्तःकरणवृत्त्यवच्छिन्नचैतन्यस्य च परस्परं भेदाभावात्। वह्न्यंशे त्वन्तःकरणवृत्तिनिर्गमनाभावेन वह्न्यवच्छिन्नचैतन्यस्य प्रमाणचैतन्यस्य च परस्परं भेदात्। तथा चानुभवः ‘पर्वतं पश्यामि वह्निमनुमिनोमि’ इति। न्यायमते च ‘पर्वतमनुमिनोमि’ इत्यनुव्यवसायापत्तिः।
असन्निकृष्टपक्षकानुमितौ तु सर्वांशेऽपि ज्ञानं परोक्षम्, सुरभि चन्दनम् इत्यादि ज्ञानमपि चन्दनखण्डाशेऽपरोक्षम्, सौरभांशे परोक्षम्, सोरभ्यस्य चक्षुरिन्द्रियायोग्यतया योग्यत्वघटितस्य निरुक्तलक्षणस्याभावात्।
न चैवमेकत्र ज्ञाने परोक्षत्वापरोक्षत्वयोरभ्युपगमे तयोर्जातित्वं न स्यादिति वाच्यम्, इष्टत्वात्। जातित्वोपाधित्वपरिभाषायाः सकलप्रमाणागोचरतयाऽप्रामाणिकत्वात्। घटोऽयम् इत्यादिप्रत्यक्षं हि घटत्वादि-सद्भावे मानम्, न तु तस्य जातित्वेऽपि। जातित्वरूपसाध्याप्रसिद्धौ तत्साधकानुमानस्याप्यनस्याप्यनव-काशत्वात्। समवायासिद्ध्या ब्रह्मभिन्नसकलप्रपञ्चस्यानित्यतया च नित्यत्वसमवेतत्वघटितजातित्वस्य घटत्वादावसिद्धेश्च। एवमेवोपाधित्वं निरसनीयम्। पर्वतो वह्निमान् इत्यादौ पर्वतांशे वह्न्यंशे चान्तःकरणवृत्तिभेदाङ्गीकारेण तत्तद्वृत्त्यवच्छेदकभेदेन परोक्षत्वापरोक्षत्वयोरेकत्र चैतन्ये वृत्तौ न कश्चिद्विरोधः। तथा च तत्तदिन्द्रिययोग्यवर्तमानविषयावच्छिन्नचैतन्याभिन्नत्वं तत्तदाकारवृत्त्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्यक्षत्वम्।
द्वितीये घटादेर्विषयस्य प्रत्यक्षत्वं तु प्रमात्रभिन्नत्वम्।
ननु कथं घटादेरन्तःकरणावच्छिन्नचैतन्याभेदः, अहमिदं पश्यामीति भेदानुभवविरोधादिति चेत्। उच्यते। प्रमात्रभेदो नाम न तावदैक्यं, किन्तु प्रमातृसत्तातिरिक्तसत्ताकत्वाभावः। तथा च घटादेः स्वावच्छिन्न-चैतन्याध्यस्ततया विषयचैतन्यसत्तैव घटादिसत्ता, अधिष्ठानसत्तातिरिक्ताया आरोपितसत्ताया अनङ्गीकारात्। विषयचैतन्यञ्च पूर्वोक्तप्रकारेण प्रमातृचैतन्यमेवेति प्रमातृचैतन्यस्यैव घटाद्यधिष्ठानतया प्रमातृसत्तैव घटादिसत्ता नान्येति सिद्धं घटादेरपरोक्षत्वम्। (घटादिसत्तांशे अन्यथाख्यातिस्वीकारात् शि.म.)
अनुमित्यादिस्थलेऽन्तःकरणस्य वह्न्यादिदेशनिर्गमनाभावेन वह्न्यवच्छिन्नचैतन्यस्य प्रमातृचैतन्याना-त्मकतया वह्न्यादिसत्ता प्रमातृसत्तातो भिन्नेति नातिव्याप्तिः।
नन्वेवमपि धर्माधर्मादिगोचरानुमित्यादिस्थले धर्माधर्मयोः प्रत्यक्षत्वापत्तिः, धर्माद्यवच्छिन्नचैतन्यस्य प्रमातृचैतन्याभिन्नतया धर्मादिसत्तायाः प्रमातृसत्ताऽनतिरेकादिति चेत्, न, योग्यत्वस्यापि विषयविशेषणत्वात्। नन्वेवमपि रूपी घट इति प्रत्यक्षस्थले घटगतपरिणामादेः प्रत्यक्षत्वापत्तिः, रूपावच्छिन्नचैतन्यस्य परिमाणा-द्यवच्छिन्नचैतन्यस्य चैकतया रूपावच्छिन्नचैतन्यस्य प्रमातृचैतन्याभेदे परिमाणाद्यवच्छिन्नचैतन्यस्यापि प्रमात्रभिन्नतया परिमाणादिसत्तायाः प्रमातृसत्तातिरिक्तत्वाभावादिति चेत्, न , तत्तदाकारवृत्त्युपहितत्वस्यापि प्रमातृविशेषणत्वात्। रूपाकारवृत्तिदशायां परिमाणाद्याकारवृत्त्यभावेन परिमाणाद्याकारवृत्त्युपहितप्रमातृ-चैतन्याभिन्नसत्ताकत्वाभावेनातिव्याप्त्यभावात्।
नन्वेवं वृत्तावव्याप्तिः, अनवस्थाभिया वृत्तिगोचरवृत्त्यनङ्गीकारेण तत्र स्वाकारवृत्त्युपहितत्वघटितोक्त-लक्षणाभावादिति चेत्-- न। अनवस्थाभिया वृत्तेर्वृत्त्यन्तराविषयत्वेऽपि स्वविषयत्वाभ्युपगमेन स्वविषयवृत्त्यु-पहितप्रमातृचैतन्यसत्ताकत्वस्य तत्रापि सम्भवात्।
एवं चान्तःकरणतद्धर्मादीनां केवलसाक्षिविषयत्वेऽपि तत्तदाकारवृत्त्युपगमेनोक्तलक्षणस्य तत्रापि सत्त्वात् नाव्याप्तिः। न चान्तःकरणतद्धर्मादीनां वृत्तिविषयत्वाभ्युपगमे केवलसाक्षिवेद्यत्वाभ्युपगमविरोध इति वाच्यम्। नहि वृत्तिं विना साक्षिविषयत्वं केवलसाक्षिवेद्यत्वं, किं त्विन्द्रियानुमानादिप्रमाणव्यापारमन्तरेण साक्षिविषयत्वम्। अत एव अहङ्कारटीकायामाचार्य्यैरहमाकारान्तःकरणवृत्तिरङ्गीकृता। अत एव च प्रातिभासिकरजतस्थले रजताकाराविद्यावृत्तिः साम्प्रदायिकैरङ्गीकृता। तथा चान्तःकरणतद्धर्मादिषु केवलसाक्षिवेद्येषु वृत्त्युपहितत्वघटितलक्षणस्य सत्त्वान्नाव्याप्तिः।
तदयं निर्गलितोऽर्थः-- स्वाकारवृत्त्युपहितप्रमातृचैतन्यसत्तातिरिक्तसत्ताकत्वशून्यत्वे सति योग्यत्वं विषयस्य प्रत्यक्षत्वम्। तत्र संयोग-संयुक्ततादात्म्यादीनां सन्निकर्षाणां चैतन्याभिव्यञ्जकवत्तिजनने विनयोगः।
साच वृत्तिश्चतुर्विधा-- संशयो निश्चयो गर्वः स्मरणमिति। एवं सति वृत्तिभेदेनैकमप्यन्तःकरणं मन इति बुद्धिरिति अहङ्कार इति चित्तमिति चाख्यायते। तदुक्तम्-
मनोबुद्धिरहङ्कारश्चित्तं करणमन्तरम्।
संशयो निश्चय गर्वः स्मरणं विषया इमे।।१।।
तच्च प्रत्यक्षं द्विविधं- सविकल्पकनिर्विकल्पकभेदात्।
तत्र सविकल्पकं वैशिष्ट्यावगाहि ज्ञानम्, यथा घटमहं जानामीत्यादि ज्ञानम्। निर्विकल्पकं तु संसर्गानवगाहि ज्ञानम्। यथा ‘सोऽयं देवदत्तः’, ‘तत्त्वमसि’ इत्यादिवाक्यजन्यं ज्ञानम्।
ननु शाब्दमिदं ज्ञानं न प्रत्यक्षमिन्द्रियाजन्यादिति चेत्, न। नहीन्द्रियजन्यत्वं प्रत्यक्षत्वे तन्त्रं, दूषित्वात्। किन्तु योग्यवर्तमानविषयकत्वे सति प्रमाणचैतन्यस्य विषयचैतन्याभिन्नत्वमित्युक्तम्। तथा च सोऽयं देवदत्त इति वाक्यजन्यज्ञानस्य सन्निकृष्टविषयतया बर्हिर्निःसृतान्तकरणवृत्त्यभ्युपगमेन देवदत्ताव-च्छिन्नचैतन्यस्य वृत्त्यवच्छिन्नचैतन्याभेदेन सोयं देवदत्तः इति वाक्यजन्यज्ञानस्य प्रत्यक्षत्वम्।
एवं तत्त्वमसि इत्यादिवाक्यजन्यज्ञानस्यापि। तत्र प्रमातुरेव विषयतया तदुभयाभेदस्य सत्त्वात्।
ननु वाक्यजन्यज्ञानस्य पदार्थसंसर्गावगाहितया कथं निर्विकल्पकत्वम्। उच्यते। वाक्यजन्यज्ञान-विषयत्वे हि न पदार्थसंसर्गत्वं तन्त्रम्। अनभिमतसंसर्गस्यापि वाक्यजन्यज्ञानविषयत्वापत्तेः। किन्तु तात्पर्य-विषयत्वम्। प्रकृते च "सदेव सोम्येदमग्र आसीत्" इत्युपतक्रम्य 'तत्सत्त्यं स आत्मा तत्त्वमसि श्वेतकेतो' इत्युपसंहारेण विशुद्धे ब्रह्मणि वेदान्तानां तात्पर्यमवसितमिति कथं तात्पर्याविषयं संसर्गमवबोधयेत्। इदमेव तत्त्वमस्यादिवाक्यानामखण्डार्थत्वं यत्संसर्गानवगाहियथार्थज्ञानजनकत्वमिति। तदुक्तम्-
संसर्गासङ्गिसम्यधीहेतुता या गिरामियम्।
उक्ताखण्डार्थता यद्वा तत्प्रातिपदिकार्थता।।१।।
प्रातिपदिकार्थमात्रपरत्वमखण्डार्थत्वमिति चतुर्थपादार्थः।
तच्च प्रत्यक्षं पुनर्द्विविधं-- जीवसाक्षि ईश्वरसाक्षि चेति।
तत्र जीवो नामान्तःकरणावच्छिन्नचैतन्यम्। तत्साक्षि त्वन्तःकरणोपहितचैतन्यम्। अन्तःकरणस्य विशेषणत्वोपाधित्वाभ्यामनयोर्भेदः।
विशेषणं च कार्य्यान्वयि व्यावर्तकम्। उपाधिश्च कार्यानन्वयी व्यावर्तको वर्तमानश्च। यथा "रूपविशिष्टो घटोऽनित्यः" इत्यत्र रूपं विशेषणम्। ‘कर्णशष्कुल्यच्छिन्नं नभः श्रोत्रम्’ इत्यत्र कर्णशष्कुली उपाधिः। अमेवोपाधिः नैयायिकैः परिचायक इत्युच्यते। प्रकृते चान्तःकरणस्य जडतया विषयभासकत्वायोगेन विषयभासकचैतन्योपाधित्वम्।
अयं च जीवनसाक्षी प्रत्यात्मं नाना, एकत्वे चैत्रावगते मैत्रस्याप्यनुसन्धानप्रसङ्गः।
ईश्वरसाक्षी तु मायोपहितं चैतन्यम्। तच्चैकं, तदुपाधिभूतमायाया एकत्वात्। "इन्द्रो मायाभिः पुरुरूप ईयते" इत्यादिश्रुतौ मायाभिरिति बहुवचनस्य मयागतशक्तिविशेषाभिप्रायतया, मायागतसत्त्वरजस्तमोरूप-गुणाभिप्रायतया चोपपत्तेः।
“मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्”
“तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते।
योगी मायामयेयाय तस्मै विद्यात्मने नमः।।“
“अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजा सृजमानां सरूपाः।
अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः।।“
इत्यादि श्रुतिषु एकवचनबलेन लाघवानुगृहीतेन मायाया एकत्वं निश्चीयते।
ततश्च तदुपहितं चैतन्यमीश्वरसाक्षि। तच्चानादि, तदुपाधेर्मायाया अनादित्वात्। मायावच्छिन्नं चैतन्यं परमेश्वरः। मायाया विशेषणत्वे ईश्वरत्वम्, उपाधित्वे साक्षित्वमितीश्वरत्व-साक्षित्वयोर्भेदः, न तु धर्मिणोरीश्वर-साक्षिणोर्भेदः।
स च परमेश्वर एकोऽपि स्वोपाधिभूतमायानिष्ठसत्त्वरजस्तमोगुणभेदेन ब्रह्मविष्णुमहेश्वरादिशब्द-वाच्यतां भजते।
नन्वीश्वरसाक्षिणोऽनादित्वे "तदैक्षत बहु स्यां प्रजायेय" इत्यादिना सृष्टिपूर्वसमये परमेश्वरस्यागन्तुकमीक्षणमुच्यमानं कथमुपपद्यते। उच्यते। यथा विषयेन्द्रियसन्निकर्षादिकारणवशेन जीवोपाध्यन्तःकरणस्य वृत्तिभेदा जायन्ते, तथा सृज्यमानप्राणिकर्मवशेन परमेश्वरोपाधिभूतमायाया वृत्तिविशेषाः “इदमिदानीं स्रष्टव्यम्, इदमिदानीं पालयितव्यम्, इदमिदानीं संहर्तव्यम्” इत्याकारा जायन्ते। तासां च वृत्तीनां सादित्वात्तत्प्रतिबिम्बितचैतन्यमपि सादीत्युच्यते।
एवं साक्षिद्वैविध्येन प्रत्यक्षज्ञानद्वैविध्यम्। प्रत्यक्षत्वं च ज्ञेयगतं च निरूपितम्।
तत्र ज्ञप्तिगतप्रत्यक्षत्वस्य सामान्यलक्षणं चित्त्वमेव। पर्वतो वह्निमानित्यादावपि वह्न्याद्याकार-वृत्त्युपहितचैतन्यस्य स्वात्मांशे स्वप्रकाशतया प्रत्यक्षत्वात्। तत्तद्विषयांशे प्रत्यक्षत्वं तु पूर्वोक्तमेव।
तस्य च भ्रान्तिरूपप्रत्यक्षे नातिव्याप्तिः। भ्रमप्रमासाधारणप्रत्यक्षत्वसामान्यनिर्वचनेन तस्यापि लक्ष्यत्वात्। यदा तु प्रत्यक्षप्रमाया एव लक्षणं वक्तव्यं, तदा पूर्वोक्तलक्षणे अबाधितत्वं विषयविशेषणं ज्ञेयम्। शुक्तिरूप्यादिभ्रमस्य संसारकालीनबाधविषयप्रातिभासिकरजतादिविषयकत्वेनोक्तलक्षणाभावान्नातिव्याप्तिः।
ननु विसंवादिप्रवृत्त्या भ्रान्तिज्ञानसिद्धावपि तस्य प्रातिभासिकतत्कालोत्पन्नरजतादिविषयकत्वे न प्रामाण्यं, देशान्तरीयरजतस्य क्लृप्तस्यैव तद्विषयत्वसम्भवादिति चेत्, न। तस्यासन्निकृष्टतया प्रत्यक्षविषयत्वा-योगात्। न च ज्ञानं प्रत्यासत्तिः। ज्ञानस्य प्रत्यासत्तित्वे तत एव वह्न्यादेः प्रत्यक्षत्वापत्तावनुमानाद्युच्छेदापत्तेः।
ननु रजतोत्पादकानां रजतावयवादीनामभावे शुक्तौ कथं तवापि रजतमुत्पद्यत इति चेत्, उच्यते। नहि लोकसिद्धसामग्री प्रातिभासिकरजतोत्पादिका, किन्तु विलक्षणैव। तथाहि-- काचादिदोषदूषितलोचनस्य पुरोवर्तिद्रव्यसंयोगात् इदमाकारा चाकचक्याकारा काचिदन्तःकरणवृत्तिरुदेति। तस्यां च वृत्ताविदमंशावच्छिन्नं चैतन्यं प्रतिबिम्बते। तत्र पूर्वोक्तरीत्या वृत्तेर्बहिर्निर्गमनेनेदमंशावच्छिन्नचैतन्यं वृत्त्यवच्छिन्नचैतन्यं प्रमातृचैतन्यं चाभिन्नं भवति। ततश्च प्रमातृचैतन्याभिन्नविषयचैतन्यनिष्ठा शुक्तित्वप्रकारिकाऽविद्या चाकचक्यादिसादृश्य-सन्दर्शनसमुद्बोधितरजतसंस्कारसध्रीचीना काचादिदोषसमवहिता रजतरूपार्थाकारेण रजतज्ञानाभासाकारेण च परिणमते।
परिणामो नामोपादानसमसत्ताककार्य्यापत्तिः। विवर्तो नामोपादानविषमसत्ताककार्यापत्तिः। प्रातिभासिकं रजतं चाविद्यापेक्षया परिणामः, चैतन्यापेक्षया विवर्त इति चोच्यते। अविद्यापरिणामस्वरूपं च तद्रजतम् अविद्याधिष्ठाने इदमवच्छिन्नचैतन्ये वर्त्तते। अस्मन्मते सर्वस्यापि कार्य्यस्य स्वोपादानाविद्याधिष्ठानाश्रितत्वनियमात्।
ननु चैतन्यनिष्ठरजतस्य कथम् इदं रजतम् इति पुरोवर्तिना तादात्म्यम्। उच्यते। यथा न्यायमते आत्मनिष्ठस्य सुखादेः शरीरनिष्ठत्वेनोपलम्भः, शरीरस्य सुखाद्यधिकरणतावच्छेदकत्वात्, तथा चैतन्यमात्रस्य रजतं प्रत्यनधिष्ठानतया इदमवच्छिन्नचैतन्यस्य तदधिष्ठानत्वेन इदमवच्छेदकतया रजतस्य पुरोवर्तिसंसर्गप्रत्यय उपपद्यते। तस्य च विषयचैतन्यस्य तदन्तःकरणोपहितचैतन्याभिन्नतया विषयचैतन्याध्यस्तमपि रजतं साक्षिण्यध्यस्तं “केवलसाक्षिवेद्यम्” “सुखादिवदनन्यवेद्यम्” इति चोच्यते।
ननु साक्षिण्यध्यस्तत्वे “अहं रजतम्” इति प्रत्ययः स्यात्, ”अहं सुखी” इतिवदिति चेत्, उच्यते। नहि सुखादीनामन्तःकरणावच्छिन्नचैतन्यनिष्ठाविद्याकार्य्यत्वप्रयुक्तम् “अहं सुखी” इति ज्ञानं, सुखादीनां घटादिवच्छुद्धचैतन्ये एवाध्यासात्, किन्तु यस्य यदाकारानुभवाहितसंस्कारसहकृताविद्याकार्य्यत्वं तस्य तदाकारानुभवविषयत्वम् इत्येवानुगतं नियामकम्। तथा च इदमाकारानुभवाहितसंस्कारसहकृताविद्या-कार्य्यत्वात् घटादेरिदमाकारानुभवविषयत्वम्, अहमाकारानुभवाहितसंस्कारसहकृताविद्याकार्य्यत्वात् अन्तः-करणादेः अहमनुभवविषयत्वं, शरीरेन्द्रियादेः उभयविधानुभवाहितसंस्कारसहकृताविद्याकार्य्यत्वात् उभयविधानुभवविषयत्वम्। तथा चोभयविधानुभवः “इदं श्रोत्रम्” ”अहं बधिर” इति। प्रकृते च प्रातिभासिक-रजतस्य प्रमातृचैतन्याभिन्नेदमवच्छिन्नचैतन्यनिष्ठाविद्याकार्य्यत्वेऽपि “इदं रजतम्” इति सत्यस्थलीयेदमाकारा-नुभवाहितसंस्कारजन्यत्वात् इदमाकारानुभवविषयता, न तु अहं रजतम् इत्यहंकारानुभवविषयतेत्यनुसन्धेयम्।
नन्वेवमपि मिथ्यारजतस्य साक्षात्साक्षिसम्बन्धतया भानसम्भवे रजतगोचरज्ञानाभासरूपाविद्या-वृत्तेरभ्युपगमः किमर्थ इति चेत्-- उच्यते। स्वगोचरवृत्त्युपहितचैतन्यभिन्नसत्ताकत्वाभावस्य विषयापरोक्ष-रूपतया रजतस्यापरोक्षत्वसिद्धये तदभ्युपगमात्।
नन्विदंवृत्तेः रजताकारवृत्तेश्च प्रत्येकमेकैकविषयत्वे गुरुमतवद्विशिष्टज्ञानाभ्युपगमे कुतो भ्रमज्ञानसिद्धिरिति चेत्-- न। वृत्तिद्वयप्रतिबिम्बितचैतन्यस्यैकस्य सत्यमिथ्यावस्तुतादात्म्यावगाहित्वेन भ्रमत्व-स्वीकारात्। अत एव साक्षिज्ञानस्य सत्त्यासत्त्यविषयतया प्रमाण्यानियमादप्रमाण्योक्तिः साम्प्रदायिकानाम्।
ननु सिद्धान्ते देशान्तरीयरजतमप्यविद्याकार्य्यमध्यस्तं चेति कथं शुक्तिरूप्यस्य ततो वैलक्षण्यमिति चेत्-- न। त्वन्मते सत्यत्वाविशेषेऽपि केषाञ्चित्क्षणिकत्वं, केषाञ्चित् स्थायित्वमित्यत्र यदेव नियामकं तदेव स्वभावविशेषादिकं ममापि।
यद्वा घटाद्यध्यासेऽविद्यैव दोषत्वेन हेतुः, शुक्तिरूप्याध्यासे तु काचादयोऽपि दोषाः। तथा चागन्तुक-दोषजन्यत्वं प्रतिभासिकत्वे प्रयोजकम्। अत एव स्वप्नोपलब्धरथादीनामागन्तुकनिद्रादोषजन्यत्वात्प्राति-भासिकत्वम्।
ननु स्वप्नस्थले पूर्वानुभूतरथादेः स्मरणमात्रेणैव व्यवहारोपपत्तौ न रथादिसृष्टिकल्पनं गौरवादिति चेत्-- न। रथादेः स्मृतिमात्राभ्युपगमे “रथं पश्यामि” “स्वप्ने रथमद्राक्षम्” इत्याद्यनुभवविरोधापत्तेः। “अथ रथान् रथयोगान्पथः सृजते” इति रथादिसृष्टिप्रतिपादकश्रुतिविरोधापत्तेश्च। तस्माच्छुक्तिरूप्यवत्स्वप्नोपलब्ध-रथादयोऽपि प्रातिभासिकाः यावत्प्रतिभासमवतिष्ठन्ते।
ननु स्वप्नरथाद्यधिष्ठानतयोपलभ्यमानदेशविशेषस्यापि तदा सन्निकृष्टतया अनिर्वचनीयप्रातिभासिक-देशोभ्युपगन्तव्यः, तथा चाध्यासः कुत्रेति चेत्-- चैतन्यस्य स्वयंप्रकाशस्य रथाद्यधिष्ठानत्वात्। प्रतीयमानो हि रथादिः अस्ति इत्येव प्रतीयत इति सद्रूपेण प्रकाशमानं चैतन्यमेवाधिष्ठानम्। देशविशेषोऽपि चिदध्ययस्तः प्रातिभासिकः, रथादाविन्द्रियग्राह्यत्वमपि प्रातिभासिकं, तदा सर्वेन्द्रियाणामुपरमात्। अहं गज इति प्रतीत्यापादनं तु पूर्वन्निरसनीयम्।
स्वप्नगजादयः साक्षान्मायापरिणामा इति केचित्। अन्तःकरणद्वारा तत्परिणाम तत्परिणामा इत्यन्ये।
ननु गजादेः शुद्धचैतन्याध्यस्तत्वे इदनीं तत्साक्षात्काराभावेन जागरणेऽपि स्वप्नोलब्धगजादय अनुवर्तेरन्। उच्यते। कार्य्यविनाशो हि द्विविधः। कश्चिदुपादानेन सह, कश्चित्तु विद्यमाने एवोपादाने । आद्यो बाधः, द्वितीयस्तु निवृत्तिः। आद्यस्य कारणमधिष्ठानतत्त्वसाक्षात्कारः, तेन विनोपादानभूताया अविद्याया अनिवृत्तेः। द्वितीये विरोधिवृत्युत्पत्तिर्दोषनिवृत्तिश्च। तदिह ब्रह्मसात्काराभावात् स्वाप्नप्रपञ्चो मा बाधिष्ठ, मुसलप्रहारेण घटादेरिव विरोधिप्रत्ययान्तरोदयेन स्वजनकीभूतनिद्रादिदोषनाशेन वा गजादिनिवृत्तौ को विरोधः। एवं च शुक्तिरूप्यस्य शुक्त्यवच्छिन्नचैतन्यनिष्ठतूलाविद्याकार्य्यत्वपक्षे शुक्तिरिति ज्ञानेन तदज्ञानेन सह रजतस्य बाधः।
मूलाविद्याकार्य्यत्वपक्षे तु मूलाविद्याया ब्रह्मसाक्षात्कारमात्रनिवर्त्त्यतया तत्र शुक्तिज्ञानान्निवृत्तिमात्रं मुद्गरप्रहारेण घटस्येव ।
ननु शुक्तौ रजतस्य प्रतिभासमये प्रतिभासिकसत्ताभ्युपगमे “नेदं रजतम्” इति त्रैकालिकनिषेधज्ञानं न स्यात्, किन्तु “इदानीमिदं न रजतम्” इति, “इदानीं घटः श्यामो न” इतिवदिति चेत्, न । नहि तत्र रजतत्त्वावच्छिन्नप्रतियोगिताकाभावो निषेधधीविषयः। किन्तु लौकिकपारमार्थिकत्वावच्छिन्नप्रातिभासिक-रजतप्रतियोगिताकः व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावाभ्युपगमात्।
ननु प्रातिभासिके रजते पारमार्थिकत्वमवगतं न वा। अनवगते प्रतियोगितावच्छेदकावच्छिन्नज्ञाना-भावादभावप्रत्यक्षानुपपत्तिः। अवगते अपरोक्षावभाससस्य तात्कालिकविषयसत्तानियतत्वात्।
रजते पारमार्थिकत्वमप्यनिर्वचनीयं रजतवदेवोत्पन्नमिति तदवच्छिन्नरजतसत्त्वे तदवच्छिन्नाभावस्तत्र कथं वर्तत इति चेत्-- न। पारमार्थिकत्वस्याधिष्ठाननिष्ठस्य रजते प्रतिभासम्भवेन रजतनिष्ठपारमार्थिकत्वो-त्पत्त्यनभ्युपगमात्। यत्रारोप्यमसन्निकृष्टं तत्रैव प्रातिभासिकवस्तूत्पत्तेरङ्गीकारात्। अत एवेन्द्रियसन्निकृष्टतया जपाकुसुमगतलौहित्योत्पत्तिः।
नन्वेवं यत्र जपाकुसुमं द्रव्यान्तरव्यवधानादसन्निकृष्टं तत्र लौहित्यप्रतीत्या प्रातिभासिकं लौहित्यं स्वीक्रियतामिति चेत्, न, इष्टत्वात्। एवं प्रत्यक्षभ्रमान्तरेष्वपि प्रत्यक्षसामान्यलक्षणानुगमे यथार्थप्रत्यक्षलक्षण-सद्भावश्च दर्शनीयः।
उक्तं प्रत्यक्षं प्रकारान्तरेण द्विविधं इन्द्रियजन्यं तदजन्यं चेति । तत्रेन्द्रियाजन्यं सुखाजिप्रत्यक्षं मनस इन्द्रियजन्यं सुखादिप्रत्यक्षं मनस इन्द्रियत्वनिराकरणात्।
इन्द्रियाणि पञ्च घ्राणरसनचक्षुःश्रोत्रत्वगात्मकानि। सर्वाणि चेन्द्रियाणि स्वस्वविषयसंयुक्तान्येव प्रत्यक्षज्ञानं जनयन्ति। तत्र घ्राणरसनत्वगात्मकानीन्द्रियाणि स्वस्थानस्थितान्येव गन्धरसस्पर्शोपलम्भान् जनयन्ति। चक्षुःश्रोत्रे तु स्वत एव विषयदेशं गत्वा स्वस्वविषयं गृह्णीतः। श्रोत्रस्यापि चक्षुरादिवत्परिच्छिन्नतया भेर्यादिदेशगमनसम्भवात्। अत एवानुभवो “भेरीशब्दो मया श्रुत” इति। वीचितरङ्गादिन्यायेन कर्णशष्कुलीप्रदेशेऽनन्तशब्दोत्पत्तिकल्पनाया गौरवं, भेरीशब्दो मया श्रुत इति प्रत्यक्षस्य भ्रमत्वकल्पनागौरवं च स्यात्।
तदेवं व्याख्यातं प्रत्यक्षम्।
इति श्रीमद्वेदान्तपरिभाषायाः प्रत्यक्षपरिच्छेदः।।२।।