वेदान्तपरिभाषा/अनुमानपरिच्छेदः

विकिस्रोतः तः
← प्रत्यक्षपरिच्छेदः वेदान्तपरिभाषा
अनुमानपरिच्छेदः
धर्मराजाध्वरीन्द्रः
उपमानपरिच्छेदः →

।।अथानुमानपरिच्छेदः।।

अथानुमानं निरूप्यते। अनुमितिकरणमनुमानम्। अनुमितिश्च व्याप्तिज्ञानत्वेन व्याप्तिज्ञानजन्या। व्याप्तिज्ञानानुव्यवसायादेस्तत्त्वेन तज्जन्यत्वाभावात् नानुमितित्वम्। अनुमितिकरणञ्च व्याप्तिज्ञानम्, तत्संस्कारोऽवान्तरव्यापारः। न तु तृतीयलिङ्गपरामर्शोऽनुमितौ करणं, तस्यानुमितिहेतुत्वासिद्ध्या तत्करणत्वस्य दूरनिरस्तत्वात्। न च संस्कारजन्यत्वेनानुमितेः स्मृतित्वापत्तिः, स्मृतिप्रागभावजन्यत्वस्य संस्कारमात्र-जन्यत्वस्य वा स्मृतित्वप्रयोजकतया संस्कारध्वंससाधारणसंस्कारजन्यत्वस्य तदप्रयोजकत्वात्। न च यत्र व्याप्तिस्मरणादनुमतिस्तत्र कथं संस्कारो हेतुरिति वाच्यम्। व्याप्तिस्मृतिमूलेऽपि तत्संस्कारस्यैवानुमितिहेतुत्वात्। नहि स्मृतेः संस्कारनाशकत्वनियमः, स्मृतिधारादर्शनात्। न चानुद्बुद्धसंस्कारादप्यनुमित्यापत्तिः, तदुद्बोधस्यापि सहकारित्वात्।
एवं चायं धूमवानिति पक्षधर्मताज्ञानेन धूमो वह्निव्याप्य इत्यनुभवाहितसंस्कारोद्बोधे च सति वह्निमानित्यनुमितिर्भवति, न तु मध्ये व्याप्तिस्मरणं तज्जन्यं वह्निव्याप्यधूमवानयमित्यादिविशेषणविशिष्टज्ञानं वा हेतुत्वेन कल्पनीयं, गौरवान्मानाभावाच्च।
तच्च व्याप्तिज्ञानं वह्निविषयकज्ञानांश एव करणं, न तु पर्वतविषयज्ञानं प्रति, पर्वतो वह्निमानिति ज्ञानस्य वह्न्यंश एवानुमितित्वं न पर्वतांशे, तदंशे प्रत्यक्षत्वस्योपपादितत्वात्।
व्याप्तिश्चाशेषसाधनाश्रयाश्रितसाध्यसमानाधिकरण्यरूपा।
सा च व्यभिचारज्ञाने सति सहचारदर्शनेन गृह्यते। तच्च सहचारदर्शनं भूयोदर्शनं सकृद्दर्शनं वेति विशेषो नादरणीयः, सहचारदर्शनस्यैव प्रयोजकत्वात्।
तच्चानुमानमन्वयिरूपमेव, न तु केवलान्वयि। सर्वस्यापि धर्मस्यास्मन्मते ब्रह्मनिष्ठात्यन्ताभावप्रति-योगित्वेन, अत्यन्ताभावाप्रतियोगिसाध्यकत्वरूपकेवलान्वयित्वस्यासिद्धेः।
नाप्यनुमानस्य व्यतिरेकिरूपत्वं, साध्याभावे साधनाभावनिरूपितव्याप्तिज्ञानस्य साधनेन साध्यानु-मितावनुपयोगात्।
कथं तर्हि धूमादावन्वयव्याप्तिमविदुषोऽपि व्यतिरेकव्याप्तिज्ञानदनुमितिः? अर्थापत्तिप्रमाणादिति वक्ष्यामः। अत एवानुमास्य नान्वव्यतिरेकिरूपत्वम्। व्यतिरेकव्याप्तिज्ञानस्यानुमित्यहेतुत्वात्।
तच्चानुमानं स्वार्थपरार्थभेदेन द्विविधम्, तत्र स्वार्थं तूक्तमेव। परार्थं तु न्यायसाध्यम्। न्यायो नाम अवयवसमुदायः।
अवयवाश्च त्रय एव प्रतिज्ञाहेतूदाहरणरूपा, उदाहरणोपनयनिगमनरूपा वा। न तु पञ्चावयवरूपाः, अवयवत्रयेणैव व्याप्तिपक्षधर्मतयोरुपदर्शनसम्भवेनाधिकावयवद्वयस्य व्यर्थत्वात्।
एवम् अनुमाने निरूपिते तस्माद् ब्रह्मभिन्ननिखिलप्रपञ्चस्य मिथ्यात्वसिद्धिः। तथा हि-- ब्रह्मभिन्नं सर्वं मिथ्या, ब्रह्मभिन्नत्वात्, यदेवं तदेवं, यथा शुक्तिरुप्यम्। न च दृष्टान्तासिद्धिः, तस्य साधितत्वात्। न चाप्रयोजकत्वं, शुक्तिरूप्यरज्जुसर्पादीनां मिथ्यात्वे ब्रह्मभिन्नत्वस्यैव लाधवेन प्रयोजकत्वात्। मिथ्यात्वं च स्वाश्रयत्वेनाभिमतयावन्निष्ठात्यन्ताभावप्रतियोगित्वम्। अभिमतपदमसम्भववारणाय। यावत्पदमर्थान्तरवार-णाय। तदुक्तम्-
सर्वेषामपि भावानां स्वाश्रयत्वेन सम्मते।
प्रतियोगित्वमत्यन्ताभावं प्रति मृषात्मता।। इति।
यद्वा-- अयं पटः एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी, पटत्वात्पटान्तरवदित्याद्यनुमानं मिथ्यात्वे प्रमाणम्। तदुक्तम्-
अंशिनः स्वांशगात्यन्ताभावस्य प्रतियोगिनः।
अंशित्वादितरांशिवद्दिगेषैव गुणादिषु।। इति।
न च घटादेर्मिथ्यात्वे सन् घट इति प्रत्यक्षबाधः. अधिष्ठानब्रह्मसत्तायास्तत्र विषयतया घटादेः सत्यत्वासिद्धेः। न च नीरूपस्य ब्रह्मणः कथं चाक्षुषादिज्ञानविषयतेति वाच्यम्। नीरूपस्यापि रूपादेः प्रत्यक्षत्वात्। न च नीरूपस्य द्रव्यस्य चक्षुराद्ययोग्यत्वमिति नियमः, मन्मते ब्रह्मणो द्रव्यत्वासिद्धेः। गुणाश्रयत्वं समवायिकारणत्वं वा द्रव्यत्वमिति तेऽभिमतम्, नहि निर्गुणस्य ब्रह्मणो गुणाश्रयता, नापि समवायिकारणता, समवायासिद्धेः। अस्तु वा द्रव्यत्वं ब्रह्मणः, तथापि नीरूपस्य कालस्येव चाक्षुषादिज्ञानविषयत्वे न विरोधः।
यद्वा त्रिविधं सत्त्वम्। पारमार्थिकसत्त्वं ब्रह्मणः, व्यावहारिकं सत्त्वमाकाशादेः, प्रतिभासिकं सत्त्वं शुक्तिरजतादेः। तथाच घटः सन्निति प्रत्यक्षस्य व्यावहारिकसत्त्वविषयत्वेन प्रामाण्यम्। अस्मिन् पक्षे च घटादेर्ब्रह्मणि निषेधो न स्वरूपेण, किन्तु पारमार्थिकत्वेनैवेति न विरोधः । अस्मिन् पक्षे च मिथ्यात्वलक्षणे पारमार्थिकत्वावच्छिन्नप्रतियोगिताकत्वमत्यन्ताभावविशेषणं द्रष्टव्यम्। तस्मादुपपन्नं मिथ्यात्वानुमानमिति।
इति श्रीमद्वेदान्तपरिभाषायामनुमानपरिच्छेदः।।२।।