वृत्रगीता २

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
२७१

[उज़नस्]
नमस्तस्मै भगवते देवाय प्रभविष्णवे।
यस्य पृथ्वी तलं तात साकाशं बाहुगोचरम्॥१॥

मूर्धा यस्य त्वनन्तं च स्थानं दानव सत्तम।
तस्याहं ते प्रवक्ष्यामि विष्णोर्माहात्म्यमुत्तमम्॥२॥

[भी]
तयोः संवदतोरेवमाजगाम महामुनिः।
सनत्कुमारो धर्मात्मा संशय छेदनाय वै॥३॥

स पूजितोऽसुरेन्द्रेण मुनिनोशनसा तथा।
निषसादासने राजन्महार्हे मुनिपुङ्गवः॥४॥

तमासीनं महाप्राज्ञमुशना वाक्यमब्रवीत्।
ब्रूह्यस्मै दानवेन्द्राय विन्सोर्माहात्म्यमुत्तमम्॥५॥

सनत्कुमारस्तु ततः श्रुत्वा प्राह वचोऽर्थवत्।
विष्णोर्माहात्म्य संयुक्तं दानवेन्द्राय धीमते॥६॥

शृणु सर्वमिदं दैत्य विन्सोर्माहात्म्यमुत्तमम्।
विष्णौ जगत्स्थितं सर्वमिति विद्धि परन्तप॥७॥

सृजत्येष महाबाहो भूतग्रामं चराचरम्।
एष चाक्षिपते काले काले विसृजते पुनः।
अस्मिन्गच्छन्ति विलयमस्माच्च प्रभवन्त्युत॥८॥

नैष दानवता शक्यस्तपसा नैव चेज्यया।
सम्प्राप्तुमिन्द्रियाणां तु संयमेनैव शक्यते॥९॥

बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितः।
निर्मली कुरुते बुद्ध्या सोऽमुत्रानन्त्यमश्नुते॥१०॥

यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत्।
बहुशोऽतिप्रयत्नेन महतात्म कृतेन ह॥११॥

तद्वज्जातिशतैर्जीवः शुध्यतेऽल्पेन कर्मणा।
यत्नेन महता चैवाप्येकजातौ विशुध्यते॥१२॥

लीलयाल्पं यथा गात्रात्प्रमृज्यादात्मनो रजः।
बहु यत्नेन महता दोषनिर्हरनं तथा॥१३॥

यथा चाल्पेन माल्येन वासितं तिलसर्षपम्।
न मुञ्चति स्वकं गन्धं तद्वत्सूक्ष्मस्य दर्शनम्॥१४॥

तदेव बहुभिर्माल्यैर्वास्यमानं पुनः पुनः।
विमुञ्चति स्वकं गन्धं माल्यगन्धेऽवतिष्ठति॥१५॥

एवं जातिशतैर्युक्तो गुणैरेव प्रसङ्गिषु।
बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन वै॥१६॥

कर्मणा स्वेन रक्तानि विरक्तानि च दानव।
यथा कर्मविशेषांश्च प्राप्नुवन्ति तथा शृणु॥१७॥

यथा च सम्प्रवर्तन्ते यस्मिंस्तिष्ठन्ति वा विभो।
तत्तेऽनुपूर्व्या व्याख्यास्ये तदिहैकमनाः शृणु॥१८॥

अनादि निधनं श्रीमान्हरिर्नारायणः प्रभुः।
स वै सृजति भूतानि स्थावराणि चराणि च॥१९॥

एष सर्वेषु भूतेषु क्षरश्चाक्षर एव च।
एकादश विकारात्मा जगत्पिबति रश्मिभिः॥२०॥

पादौ तस्य महीं विद्धि मूर्धानं दिवमेव च।
बाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च॥२१॥

तस्य तेजोमयः सूर्यो मनश् चन्द्रमसि स्थितम्।
बुद्धिर्ज्ञानगता नित्यं रसस्त्वाप्सु प्रवर्तते॥२२॥

भ्रुवोरनन्तरास्तस्य ग्रहा दानव सत्तम।
नक्षत्रचक्रं नेत्राभ्यां पादयोर्भूश्च दानव॥२३॥

रजस्तमश्च सत्त्वं च विद्धि नारायणात्मकम्।
सोऽऽश्रमाणां मुखं तात कर्मणस्तत्फलं विदुः॥२४॥

अकर्मणः फलं चैव स एव परमव्ययः।
छन्दांसि तस्य रोमाणि अक्षरं च सरस्वती॥२५॥

बह्वाश्रयो बहु मुखो धर्मो हृदि समाश्रितः।
स ब्रह्म परमो धर्मस्तपश्च सदसच्च सः॥२६॥

श्रुतिशास्त्रग्रहोपेतः षोडशर्त्विक्क्रतुश्च सः।
पितामहश्च विष्णुश्च सोऽश्विनौ स पुरन्दरः॥२७॥

मित्रश्च वरुणश्चैव यमोऽथ धनदस्तथा।
ते पृथग्दर्शनास्तस्य संविदन्ति तथैकताम्।
एकस्य विद्धि देवस्य सर्वं जगदिदं वशे॥२८॥

नाना भूतस्य दैत्येन्द्र तस्यैकत्वं वदत्ययम्।
जन्तुः पश्यति ज्ञानेन ततः सत्त्वं प्रकाशते॥२९॥

संहार विक्षेपसहस्रकोतीस् तिष्ठन्ति जीवाः प्रचरन्ति चान्ये।
प्रजा विसर्गस्य च पारिमाण्यं वापी सहस्राणि बहूनि दैत्य॥३०॥

वाप्यः पुनर्योजनविस्तृतास्ताः क्रोशं च गम्भीरतयावगाधाः।
आयामतः पञ्चशताश्च सर्वाः प्रत्येकशो योजनतः प्रवृत्थाः॥३१॥

वाप्या जलं क्षिप्यति वालकोत्या त्वह्ना सकृच्चाप्यथ न द्वितीयम्।
तासां क्षये विद्धि कृतं विसर्गं संहारमेकं च तथा प्रजानाम्॥३२॥

सो जीव वर्गाः परमं प्रमाणं कृष्णो धूम्रो नीलमथास्य मध्यम्।
रक्तं पुनः सह्यतरं सुखं तु हारिद्र वर्णं सुसुखं च शुक्लम्॥३३॥

परं तु शुक्लं विमलं विशोकं गतक्लमं सिध्यति दानवेन्द्र।
गत्वा तु योनिप्रभवानि दैत्य सहस्रशः सिद्धिमुपैति जीवः॥३४॥

गतिं च यां दर्शनमाह देवो गत्वा शुभं दर्शनमेव चाह।
गतिः पुनर्वर्णकृता प्रजानां वर्णस्तथा कालकृतोऽसुरेन्द्र॥३५॥

शतं सहस्राणि चतुर्दशेह परा गतिर्जीव गुणस्य दैत्य।
आरोहणं तत्कृतमेव विद्धि स्थानं तथा निःसरणं च तेषाम्॥३६॥

कृष्णस्य वर्णस्य गतिर्निकृष्टा स मज्जते नरके पच्यमानः।
स्थानं तथा दुर्गतिभिस्तु तस्य प्रजा विसर्गान्सुबहून्वदन्ति॥३७॥

शतं सहस्राणि ततश्चरित्वा प्राप्नोति वर्णं हरितं तु पश्चात्।
स चैव तस्मिन्निवसत्यनीशो युगक्षये तमसा संवृतात्मा॥३८॥

स वै यदा सत्त्वगुणेन युक्तस् तमो व्यपोहन्घतते स्वबुद्ध्या।
स लोहितं वर्णमुपैति नीलो मनुष्यलोके परिवर्तते च॥३९॥

स तत्र संहार विसर्गमेव स्वकर्मजैर्बन्धनैः क्लिश्यमानः।
ततः स हारिद्रमुपैति वर्णं संहार विक्षेपशते व्यतीते॥४०॥

हारिद्र वर्णस्तु प्रजा विसर्गान् सहस्रशस्तिष्ठति सञ्चरन्वै।
अविप्रमुक्तो निरये च दैत्य ततः सहस्राणि दशापरानि॥४१॥

गतीः सहस्राणि च पञ्च तस्य चत्वारि संवर्तकृतानि चैव।
विमुक्तमेनं निरयाच्च विद्धि सर्वेषु चान्येषु च सम्भवेषु॥४२॥

स देवलोके विहरत्यभीक्ष्णं ततश्च्युतो मानुषताम् उपैति।
संहार विक्षेपशतानि चाष्टौ मर्त्येषु तिष्ठन्नमृतत्वमेति॥४३॥

सोऽस्मादथ भ्रश्यति कालयोगात् कृष्णे तले तिष्ठति सर्वकस्ते।
यथा त्वयं सिध्यति जीवलोकस् तत्तेऽभिधास्याम्यसुरप्रवीर॥४४॥

दैवानि स व्यूह शतानि सप्त रक्तो हरिद्रोऽथ तथैव शुक्लः।
संश्रित्य सन्धावति शुक्लमेतम् अस्तापरानर्च्यतमान्स लोकान्॥४५॥

अष्टौ च षष्टिं च शतानि यानि मनो विरुद्धानि महाद्युतीनाम्।
शुक्लस्य वर्णस्य परा गतिर्या त्रीण्येव रुद्धानि महानुभाव॥४६॥

संहार विक्षेपमनिष्टमेकं चत्वारि चान्यानि वसत्यनीशः।
सस्थस्य वर्णस्य परा गतिर्या सिद्धा विशिष्टस्य गतक्लमस्य॥४७॥

सप्तोत्तरं तेषु वसत्यनीशः संहार विक्षेपशतं सशेषम्।
तस्मादुपावृत्य मनुष्यलोके ततो महान्मानुषताम् उपैति॥४८॥

तस्मादुपावृत्य ततः क्रमेण सोऽग्रे स्म सन्तिष्ठति भूतसर्गम्।
स सप्तकृत्वश्च परैति लोकान् संहार विक्षेपकृतप्रवासः॥४९॥

सप्तैव संहारमुपप्लवानि सम्भाव्य सन्तिष्ठति सिद्धलोके।
ततोऽव्ययं स्थानमनन्तमेति देवस्य विष्णोरथ ब्रह्मणश् च।
शेषस्य चैवाथ नरस्य चैव देवस्य विष्णोः परमस्य चैव॥५०॥

संहार काले परिदग्ध काया ब्रह्माणमायान्ति सदा प्रजा हि।
चेष्टात्मनो देवगणाश् च सर्वे ये ब्रह्मलोकादमराः स्म तेऽपि॥५१॥

प्रजा विसर्गं तु सशेषकालं स्थानानि स्वान्येव सरन्ति जीवाः।
निःशेषाणां तत्पदं यान्ति चान्ते सर्वापदा ये सदृशा मनुष्याः॥५२॥

ये तु च्युताः सिद्धलोकात्क्रमेण तेषां गतिं यान्ति तथानुपूर्व्या।
जीवाः परे तद्बलवेषरूपा विधिं स्वकं यान्ति विपर्ययेन॥५३॥

स यावदेवास्ति सशेषभुक्ते प्रजाश्च देवौ च तथैव शुक्ले।
तावत्तदा तेषु विशुद्धभावः संयम्य पञ्चेन्द्रिय रूपमेतत्॥५४॥

शुद्धां गतिं तां परमां परैति शुद्धेन नित्यं मनसा विचिन्वन्।
ततोऽव्ययं स्थानुमुपैति ब्रह्म दुष्प्रापमभ्येति स शाश्वतं वै।
इत्येतदाख्यातमहीनसत्त्व नारायणस्येह बलं मया ते॥५५॥

[व्र्त्र]
एवङ्गते मे न विषादोऽस्ति कश् चित् सम्यक्च पश्यामि वचस्तवैतत्।
श्रुत्वा च ते वाचमदीनसत्त्व विकल्मषोऽस्म्यद्य तथा विपाप्मा॥५६॥

प्रवृत्तमेतद्भगवन्महर्षे महाद्युतेश्चक्रमनन्व वीर्यम्।
विष्णोरनन्तस्य सनातनं तत् स्थानं सर्गा यत्र सर्वे प्रवृत्ताः।
स वै महात्मा पुरुषोत्तमो वै तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितम्॥५७॥

[भी]
एवमुक्त्वा स कौन्तेय वृत्रः प्रानानवासृजत्।
योजयित्वा तथात्मानं परं स्थानमवाप्तवान्॥५८॥

[य्]
अयं स भगवान्देवः पितामह जनार्दनः।
सनत्कुमारो वृत्राय यत्तदाख्यातवान्पुरा॥५९॥

[भी]
मूलस्थायी स भगवान्स्वेनानन्तेन तेजसा।
तत्स्थः सृजति तान्भावान्नानारूपान्महातपः॥६०॥

तुरीयार्धेन तस्येमं विद्धि केशवमच्युतम्।
तुरीयार्धेन लोकांस्त्रीन्भावयत्येष बुद्धिमान्॥६१॥

अर्वाक्स्थितस्तु यः स्थायी कल्पान्ते परिवर्तते।
स शेते भगवानप्सु योऽसावतिबलः प्रभुः।
तान्विधाता प्रसन्नात्मा लोकांश्चरति शाश्वतान्॥६२॥

सर्वाण्यशून्यानि करोत्यनन्तः सनत्कुमारः सञ्चरते च लोकान्।
स चानिरुद्धः सृजते महात्मा तत्स्थं जगत्सर्वमिदं विचित्रम्॥६३॥

[य्]
वृत्रेण परमार्थज्ञ दृष्टा मन्येऽऽत्मनो गतिः।
शुभा तस्मात्स सुखितो न शोचति पितामह॥६४॥

शुक्लः शुक्लाभिजातीयः साध्यो नावर्ततेऽनघ।
तिर्यग्गतेश्च निर्मुक्तो निरयाच्च पितामह॥६५॥

हारिद्र वर्णे रक्ते वा वर्तमानस्तु पार्थिव।
तिर्यगेवानुपश्येत कर्मभिस्तामसैर्वृतः॥६६॥

वयं तु भृशमापन्ना रक्ताः कस्त मुखेऽसुखे।
कां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमाम् अथ॥६७॥

[भी]
शुद्धाभिजनसम्पन्नाः पाण्डवाः संशितव्रताः।
विहृत्य देवलोकेषु पुनर्मानुष्यमेष्यथ॥६८॥

प्रजा विसर्गं च सुखेन काले प्रत्येत्य देवेषु सुखानि भुक्त्वा।
सुखेन संयास्यथ सिद्धसङ्ख्यां मा वो भयं भूद्विमलाः स्थ सर्वे॥६९॥

॥इति वृत्रगीता समाप्ता॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. वृत्रगीता
    1. वृत्रगीता १
    2. वृत्रगीता २
  2. गीता

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=वृत्रगीता_२&oldid=17653" इत्यस्माद् प्रतिप्राप्तम्