वृत्तरत्नाकरः/अध्यायः २
| ← अध्यायः १ | वृत्तरत्नाकरः अध्यायः २ |
अध्यायः ३ → |
द्वितीयोऽध्यायः
[सम्पाद्यताम्]
[ आर्या-प्रकरणम् (१-७) ]
लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः ।
षष्ठोऽयं नलघू वा प्रथमेऽर्धे नियतमार्यायाः ॥ २.१ ॥ - आर्या
षष्ठे द्वितीयलात्परके न्ले मुखलाच्च सयतिपदनियमः ।
चरमेऽर्धे पञ्चमके तस्मादिह भवति षष्ठो लः ॥ २.२ ॥ आर्यायां यतिविशेषणम्
त्रिष्वंशकेषु पादो दलयोराद्येषु दृश्यते यस्याः ।
पथ्येति नाम तस्याः प्रकीर्तितं नागराजेन ॥ २.३ ॥ आर्यायया सहिता पथ्या
संलङ्घ्य गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः ।
यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति ॥ २.४ ॥ आर्यया सहिता विपुला
उभयार्धयोर्जकारौ द्वितीयतुर्यौ गमध्यगौ तस्याः ।
चपलेति नाम तस्याः प्रकीर्तितं नागराजेन ॥ २.५ ॥ आर्यया सहिता चपला (2-4 जगणः)
आद्यं दलं समस्तं भजेय लक्ष्म चपलागतं यस्याः ।
शेषे पूर्वजलक्ष्मा मुखचपलासोदिता मुनिना ॥ २.६ ॥ आर्यया सहिता मुखचपला (1.2-4- जगणः)
प्राक्प्रतिपादितमर्धे प्रथमे प्रथमेतरे च चपलायाः ।
लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला ॥ २.७ ॥ आर्यया सहिता जघनचपला (2.2-4 - जगणः)
[ गीति-प्रकरणम् (८-११) ]
आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः ।
दलयोः कृतयतिशोभं तां गीतिं गीतवान्भुजङ्गेशः ॥ २.८ ॥ - गीतिः (आर्यायाः प्रथमार्द्धस्य लक्षणम् उभयोः दलयोः भवेत् )
आर्याद्वितीयकेऽर्धे यद्गदितं लक्षणं तत्स्यात् ।
यद्युभयोरपि दलयोरुपगीतिं तां मुनिर्ब्रूते ॥ २.९ ॥ उपगीतिः (आर्यायाः द्वितीयस्य.ल उभयोः.द भवेत् )
आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः ।
सोद्गीतिः किल गदिता तद्वद्यत्यंशभेदसंयुक्ता ॥ २.१० ॥ - उद्गीतिः (आर्यायाः प्रथमस्य.ल द्वितीये, द्वितीयस्य.ल प्रथमे भवेत्)
आर्यापूर्वार्धं यदि गुरुणैकेनाधिकेन निधने युक्तम् ।
इतरत्तद्वन्निखिलं भवति यदीयमर्द्धमुदितार्यागीतिः ॥ २.११ ॥ - आर्यागीतिः (आर्यायाः प्रथमस्य.ल उभयोः भवेत् परन्तु एकेन गुरुणा सह)
[ वैतालीय-प्रकरणम् (१२-२०) ]
षड्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः ।
न समात्र पराश्रिता कला वैतालीयेऽन्ते रलाौ गुरुः ॥ २.१२ ॥ वैताली
पर्यन्ते र्यौ तथैव शेषमौपच्छन्दसिकं सुधीभिरुक्तम् ॥ २.१३ ॥ - औपच्छन्दसिकम्
आपातलिका कथितेयं भाद्गुरुकावथ पूर्ववदन्यत् ॥ २.१४ ॥ - आपतलिका
तृतीययुग्दक्षिणान्तिका समस्तपादेषु द्वितीयलः ॥ २.१५ ॥ दक्षिणान्तिका
उदीच्यवृत्तिर्द्वितीयलः सक्तोऽग्रेण भवेदयुग्मयोः ॥ २.१६ ॥ उदीच्यवृत्तिः
पूर्वेण युतोऽथ पञ्चमः प्राच्यवृत्तिरुदितेति युग्मयोः ॥ २.१७ ॥ प्राच्यवृत्तिः
यदा समावोजयुग्मकौ पूर्वयोर्भवति तत्प्रवृत्तकम् ॥ २.१८ ॥ प्रवृत्तकम्
अस्य युग्मरचिताऽपरान्तिका ॥ २.१९ ॥ अपरान्तिका
अयुग्भवा चारुहासिनी ॥ २.२० ॥ चारुहासिनी
[ वक्त्र-प्रकरणम् (२१-३०) ]
वक्त्रं नाद्यान्नसौ स्यातामब्धेर्योऽनुष्टुभि ख्यातम् ॥ २.२१ ॥ - वक्त्रम्
युजोर्जेन सरिद्भर्तुः पथ्यावक्त्रं प्रकीर्तितम् ॥ २.२२ ॥ पथ्यावक्त्रं
ओजयोर्जेन वारिधेस्तदेव विपरीतादि ॥ २.२३ ॥ विपरीतपथ्यावक्त्रम्
चपलावक्त्रमयुजोर्नकारश्चेत्पयोराशेः ॥ २.२४ ॥ चपलावक्त्रम्
यस्या लः सप्तमो युग्मे सा युग्मविपुला मता ॥ २.२५ ॥ युग्मविपुला
सैतवस्याऽखिलेष्वपि ॥ २.२६ ॥ सैतवम्
भेनाऽब्धितो भाद्विपुला ॥ २.२७ ॥ भविपुला
इत्थमन्या रश्चतुर्थात् ॥ २.२८ ॥ रविपुला
नोऽम्बुधेश्चेन्नविपुला ॥ २.२९ ॥ नविपुला
तोऽब्धेस्तत्पूर्वान्या भवेत् ॥ २.३० ॥ तविपुला
[ मात्रासमक-प्रकरणम् (३१-३८) ]
द्विगुणितवसुलघुरचलधृतिरिति ॥ २.३१ ॥ अचलधृतिः
मात्रासमकं नवमो ल्गान्तम् ॥ २.३२ ॥ मात्रासमकम्
जो न्लावथाम्बुधेर्विश्लोकः ॥ २.३३ ॥ विश्लोकः
तद्युगलाद्वानवासिका स्यात् ॥ २.३४ ॥ वानवासिका
बाणाष्टनवसु यदि लश्चित्रा ॥ २.३५ ॥ चित्रा
उपचित्रा नवमे परयुक्ते ॥ २.३६ ॥ उपचित्रा
यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् ।
अनियतवृत्तपरिमाणयुक्तं प्रथितं जगत्सु पादाकुलकम् ॥ २.३७ ॥ पादाकुलकम्
वृत्तस्य ला विना वर्णैर्गा वर्णा गुरुभिस्तथा ।
गुरुवो लैर्दले नित्यं प्रमाणमिति निश्चितम् ॥ २.३८ ॥
शिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम् ।
सगुरु शकलयुगलकमपि सुपरिघटितललितपदवितति भवति शिखा ॥ २.३९ ॥ शिखा
विनिमयविनिहितशकलयुगलकलितपदविततिविरचितगुणनिचया ।
श्रुतिसुखकृदियमपि जगति ञि जशिर उपगतवति सति भवति खजा ॥ २.४० ॥ खजा
अष्टावर्धे गा द्वयभ्यस्ता यस्याः साऽनङ्गक्रीडोक्ता ।
दलमपरमपि वसुगुणितसलिलनिधिलघु कविरचितं पदवितति भवति ॥ २.४१ ॥
त्रिगुणनवलघुरंवसितिगुरुरितिदलयुगकृततनुरतिरुचिरा ॥ २.४२ ॥