वृत्तरत्नाकरः/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १ वृत्तरत्नाकरः
अध्यायः २
अध्यायः ३ →

द्वितीयोऽध्यायः[सम्पाद्यताम्]


[ आर्या-प्रकरणम् (१-७) ]

लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः ।
षष्ठोऽयं नलघू वा प्रथमेऽर्धे नियतमार्यायाः ॥ २.१ ॥

षष्थे द्वितीयलात्परके न्ले मुखलाच्च सयतिपदनियमः ।
चरमेऽर्धे पञ्चके तस्मादिह भवति षष्ठो लः ॥ २.२ ॥

त्रिष्वङ्केषु पादो दलयोराद्येषु दृश्यते यस्याः ।
पथ्येति नाम तस्याः प्रकीर्तितं नागराजेन ॥ २.३ ॥

संलङ्घ्य गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः । [सं(अनुनासिक)-लङ्घ्य]
यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति ॥ २.४ ॥

उभयार्धयोर्जकारौ द्वितीयतुर्यौ गमध्यगौ तस्याः ।
चपलेति नाम तस्या प्रकीर्तितं नागराजेन ॥ २.५ ॥

आद्यं दलं समस्तं भजेय लक्ष्म चपलागतं यस्याः ।
शेषे पूर्वजलक्ष्मा मुखचपलासोदिता मुनिना ॥ २.६ ॥

प्राक्प्रतिपादितमर्धे प्रथमे प्रथमेतरे च चपलायाः ।
लक्ष्माश्रयते सोक्ता विशुद्धधीभिर्जघनचपला ॥ २.७ ॥

[ गीति-प्रकरणम् (८-११) ]

आर्याओरथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः ।
दलयोः क्र्टयतिशोभां तां गीतिं गीतवान्भुजङ्गेशः ॥ २.८ ॥

आर्याद्वितीयकेऽर्धे यद्गदितं लक्षणं तत्स्यात् ।
यद्युभयोरपि दलयोरुपगीतिं ता मुनिर्ब्रूते ॥ २.९ ॥

आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः ।
सोद्गीतिः किल गदिता तद्वद्यत्यंशभेदसंयुक्ता ॥ २.१० ॥

आर्यापूर्वार्धं यदि गुरुणैकेनाधिकेन निधने युक्तम् ।
इतरत्तद्वन्निखिलं भवति यदीयमर्द्धमुदितार्यागीतिः ॥ २.११ ॥

[ वैतालीय-प्रकरणम् (१२-२०) ]

षड्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः ।
न समात्र पराश्रिता कला वैतालीयेऽन्ते रला गुरुः ॥ २.१२ ॥

पर्यन्ते र्यौ तथैव शेषमौपच्छन्दसिकं सुधीभिरुक्तम् ॥ २.१३ ॥

आपातलिका कथितेयं भाद्गुरुकावथ पूर्ववदन्यत् ॥ २.१४ ॥

तृतीययुग्दक्षिणान्तिका समस्तपादेषु द्वितीयलः ॥ २.१५ ॥

उदीच्यवृत्तिर्द्वितीयलः सक्तोऽग्रेण भवेदयुग्मयोः ॥ २.१६ ॥

पूर्वेण युतोऽथ पञ्चमः प्राच्यवृत्तिरुदितेति युग्मयोः ॥ २.१७ ॥

यदा समावोजयुग्मकौ पूर्वयोर्भवति तत्प्रवृत्तकम् ॥ २.१८ ॥

अस्य युग्मरचिताऽपरान्तिका ॥ २.१९ ॥

अयुग्भवा चारुहासिनी ॥ २.२० ॥

[ वक्त्र-प्रकरणम् (२१-३०) ]

वक्त्रं नाद्यान्नसौ स्यातामब्धेर्योऽनुष्टुभि ख्यातम् ॥ २.२१ ॥

युजोर्जेन सरिद्भर्तुः पथ्यावक्त्रं प्रकीर्तितम् ॥ २.२२ ॥

ओजयोर्जेन वारिधेस्तदेव विपरीतादि ॥ २.२३ ॥

चपलावक्त्रमयुजोर्नकारश्वेत्पयोराशेः ॥ २.२४ ॥

यस्या लः सप्तमो युग्मे सा युग्मविपुला मता ॥ २.२५ ॥

सौतवस्याऽखिलेष्वपि ॥ २.२६ ॥

भेनाऽब्धितो भाद्विपुला ॥ २.२७ ॥

इत्थमन्या रश्चतुर्थात् ॥ २.२८ ॥

नोऽम्बुधेश्चेन्नविपुला ॥ २.२९ ॥

तोऽब्धेस्तत्पूर्वान्या भवेत् ॥ २.३० ॥

[ मात्रासमक-प्रकरणम् (३१-३८) ]

द्विगुणितवसुलधुरचलधृतिरिति ॥ २.३१ ॥

मात्रासमकं नवमो ल्गान्तम् ॥ २.३२ ॥

जो न्लावथाम्बुधेर्विश्लोकः ॥ २.३३ ॥

तद्युगलाद्वानवासिका स्यात् ॥ २.३४ ॥

बाणाष्टनवसु यदि लश्चिता ॥ २.३५ ॥

उपचित्रा नवमे परयुक्ते ॥ २.३६ ॥

यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् ।
अनियतवृत्तपरिमाणयुक्तं प्रथितं जगत्सु पादाकुलकम् ॥ २.३७ ॥

वृत्तस्य ला विना वर्णैर्गा वर्णा गुरुभिस्तथा ।
गुरुवो लैर्दले नित्यं प्रमाणमिति निश्चितम् ॥ २.३८ ॥

शिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम् ।
सगुरु शकलयुगलकमपि सुपरिघटितललितपदवितति भवति शिखा ॥ २.३९ ॥

विनिमयविनिहितशकलयुगलकलितपदविततिविरचितगुणनिचया ।
श्रुतिसुखकृदियमपि जगति ञि जशिर उपगतवति सति भवति खजा ॥ २.४० ॥

अष्टावर्धे गा द्वयभ्यस्ता यस्याः साऽनङ्गक्रीडोक्ता ।
दलमपरमपि वसुगुणितसलिलनिधिलघु कविरचितं पदवितति भवति ॥ २.४१ ॥

त्रिगुणनवलघुरंवसितिगुरुरितिदलयुगकृततनुरतिरुचिरा ॥ २.४२ ॥