वृत्तरत्नाकरः/अध्यायः १

विकिस्रोतः तः
Jump to navigation Jump to search
वृत्तरत्नाकरः
अध्यायः १
अध्यायः २ →

[श्रीः]

[वृत्तरत्नाकरः]

प्रथमोऽध्यायः[सम्पाद्यताम्]

सुखसन्तानसिद्ध्यर्थं नत्वा ब्रह्माऽच्युताऽर्चितम् । गौरीविनायकोपेतं शङ्करं लोकशङ्करम् ॥ १.१ ॥

वेदार्थशैवशास्त्रज्ञः पव्येकोऽभूद्लोकशङ्करम् । तस्य पुत्रोऽस्ति केदारः शिवपादार्चने रतः ॥ १.२ ॥

तेनेदं क्रियते छन्दो लक्ष्यलक्षणसंयुतम् । वृत्तरत्नाकरं नाम बालानां सुखसिद्ध्ये ॥ १.३ ॥


पिङ्गलादिभ्राचार्यैर्यदुक्तं लौकिकं द्विधा । मात्रावर्णविभेदेन च्छन्दस्तदिह कथ्यते ॥ १.४ ॥

षडध्यायनिबद्धस्य च्छन्दसोऽस्य परिस्फुटम् । प्रमाणमपि विज्ञेयं षड्त्रिंशदधिकं शतम् ॥ १.५ ॥

म्यरस्तजभ्नगैर्लान्तैरेभिर्दशभिरक्षरैः । समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥ १.६ ॥

सर्वगुर्मो मुखान्तर्लौ यरावन्तगलौ सतौ । ग्मध्याद्यौ ज्भौ त्रिलो नोऽष्टौ भवन्त्यत्र गणास्त्रिकाः ॥ १.७ ॥

ज्ञेयाः सर्वान्तमध्यादिगुरवोऽत्र चतुष्कलाः । गणाश्चतुर्लघूपेताः पञ्चार्यादिषु संस्थिताः ॥ १.८ ॥

सानुस्वारो विसर्गान्तो दीर्घो युक्तपरश्च यः । वा पादान्ते त्वसौ ग्वक्रो ज्ञेयोऽन्यो मात्रिको लृजुः ॥ १.९ ॥

पादादाविह वर्णस्य संयोगः क्रमसंज्ञकः । पुरःस्थितेन तेन स्याल्लघुताऽपि क्वचिद्गुरोः ॥ १.१० ॥

तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि । अल्पव्ययेन सुन्दरि (!) ग्राम्यजनो मिष्टमिश्नाति ॥ १.११ ॥

अब्धिभूतरसादीनां ज्ञेयाः संज्ञास्तु लोकतः । ज्ञेयः पादश्चतुर्थाशो यतिर्विच्छेदसंज्ञितः ॥ १.१२ ॥

युक्समं विषमं चालूक्स्थानं सद्भिर्निगद्यते । सममर्धसमं वृत्तं विषमं च तथापरम् ॥ १.१३ ॥

अङ्घ्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः । तच्छन्दःशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते ॥ १.१४ ॥

प्रथमाङ्घ्रिसमो यस्य तृतीयश्चरणो भवेत् । द्वितीयस्तुर्यवद्वृत्तं तदर्धसममुच्यते ॥ १.१५ ॥

यस्य पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम् । तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः ॥ १.१६ ॥

आरभ्यैकाक्षारात्पादादेकैकक्षरवद्धितैः । पृथक्छन्दो भवेत्पादैर्यावत्षड्विंशतिं गतम् ॥ १.१७ ॥

तदूर्ध्वं चण्डवृष्ट्यादिदण्डकाः परिकीर्तिताः । शेषं गाथास्त्रिभिः षड्भिश्चरणैश्चोपलक्षिताः ॥ १.१८ ॥

उक्ताऽत्युक्ता तथा मध्या प्रतिष्ठाऽन्या सुपूर्विका । गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च ॥ १.१९ ॥

त्रिष्टुप्च जगती चैव तथाऽतिजगती मता । शक्वरी साऽतिपूर्वा स्यादष्ट्यत्यष्टी ततः स्मृते ॥ १.२० ॥

धृतिश्चाऽतिधृतिश्चैव कृतिः प्रकृतिराकृतिः । विकृतिः सङ्कृतिश्चैव तथाऽतिकृतिरुत्कृतिः ॥ १.२१ ॥

इत्युक्ताश्छन्दसां संज्ञाः क्रमतो वच्मि साम्प्रतम् । लक्षणं सर्ववृत्तानां मात्रावृत्ताऽनुपूर्वकम् ॥ १.२२ ॥

इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे संज्ञाभिधानो नाम प्रथमोऽध्यायः ।