विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः १८१-१८३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः १७६-१८० विष्णुधर्मोत्तरपुराणम्
अध्यायाः १८१-१८३
वेदव्यासः

2.181
पुष्कर उवाच ।।
जितहस्तो जितमतिर्जितदृग्लक्ष्यसाधक ।।
नियतां सिद्धिमासाद्य ततो वाहनमारुहेत् ।। १ ।।
एष तत्रैव च विधिः कार्त्स्येन परिकीर्तितः ।।
अधिकं भ्रमतस्तस्य भागे ग्रहणमेव च ।। २ ।।
एतेषां चैव योगानां विधिर्यस्त्र्यैषुकस्य च ।।
वाहाश्रितस्य वक्ष्यामि सविशेषेण लक्षणम् ।। ३ ।।
पाशासियष्टिदण्डानां विधिर्यः परिनिष्ठितः ।।
क्षेप एव यथान्यायं तस्य वक्ष्यामि या क्रिया ।। ४ ।।
दशहस्तो भवेत्पाशो वृतः करमुखस्तथा ।।
शणकार्पासपुञ्जानां भग्न स्नाय्वस्थिचर्मणाम् ।। ५ ।।
अन्येषां सुदृढानां च सुकृतं परिवेष्टितम् ।।
त्रयस्त्रिंशत्समं चापं बुधः कुर्यात्सुवर्तितम् ।। ६ ।।
कर्तव्या शिबिकैस्तस्य स्थानं कक्ष्यासु वै तदा ।।
वामहस्तेन संगृह्य दक्षिणेनोद्धरेत्तु सः ।। ७ ।।
कुण्डलस्याकृतिं कृत्वा ग्रामैकं मस्तकोपरि ।।
क्षिपेत्तृणमये तूर्णं पुरुषे चर्मवेष्टिते ।। ८ ।।
चलिते च प्लुतं चैव तथा प्रजवितेषु च ।।
समायोगविधिं ज्ञात्वा प्रयुञ्जीत सुशिक्षितः ।। ९।।
विजित्य तु यथान्यायं ततो बन्धं समाचरेत् ।।
कट्यां बद्ध्वा ततः खड्गं वामपार्श्वावलम्बिनम् ।। 2.181.१० ।।
दृढं विगृह्य वामेन विकर्मे दक्षिणेन तु ।।
षडङ्गुलपरीणाहं समहस्तं समुच्छ्रितम् ।। ११ ।।
अयोमयशलाकाश्च चर्माणि विविधानि च ।।
अपहस्तं समं चैव तिर्यगूर्द्ध्वहतं तथा ।। १२ ।।
शोधयेद्विधिना येन तथा मे गदतः शृणु ।।
तार्णं चर्मावनद्धाङ्गं स्थापयित्वा नरं दृढम् ।। १३ ।।
करेणादाय लगुडं दक्षिणाङ्गुष्ठकान्नरः ।।
उद्यम्य घातयेद्यस्य नाम्नस्तं शिरसो दृढम् ।।
उभाभ्यामपि हस्ताभ्यां कुर्यात्तस्य निपातनम् ।। १४।।
बिम्बोयं विधि सहितो हितः सुमुक्तिः शिष्याणां हितमतिकुर्वता मया ते ।।
वाहानां श्रमरणप्रधारणार्थं योग्यार्हं प्रथमतरं बुधेन वध्यम् ।। १५ ।।
इति श्रीविष्णुधमोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने धनुर्वेदविद्याकथनो नामैकाशीत्युत्तरशततमोऽध्यायः ।। १८१ ।।
2.182
पुष्कर उवाच ।।
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं निःसृतं सृतम् ।।
संपातं समुदीर्णं च सेनापातमनाकुलम् ।। १ ।।
उद्घातमवधृतं च सव्यदक्षिणमेव च ।।
अनालक्षिरविस्फोटो करालेन्द्रमहामुखौ ।। २ ।।
विकरालविपातौ च विभीषणभयङ्करौ ।।
समग्रां वा तृतीयां वा पादपादावजारिजाः ।। ३ ।।
प्रत्यालीढमनालीढं वराहलुलितं तथा ।।
इति द्वात्रिंशधा ज्ञेया खड्गाश्चर्मविधारणाः ।। ४ ।।
ऋज्वायतविशालं च तिर्यङ्नमितमेव च ।।
पञ्चकर्म विनिर्दिष्टं व्यस्त्रे प्रासं महात्मभिः ।। ५ ।।
छेदनं तर्जनं पातो भ्रमणं भ्रामणं तथा ।।
विकर्तनं कर्तनं च चक्रभ्रमणमेव च ।। ६।।
आस्फोटक्ष्वेडनं भेदस्त्रासोल्लासितकौ तथा ।।
शूलकर्माणि जानीहि षष्ठमाघ्रातसंज्ञकम् ।। ७ ।।
दृष्टिघातं भुजाघातं पार्श्वघातं च भार्गव ।।
ऋज्वावक्षोपमाघातं तोमरस्य प्रकीर्तितम् ।। ८ ।।
संहताविततं वामं गोमूत्रं कमलाविलम् ।।
ततोऽर्धभागनमितं वामदक्षिणमेव च ।। ९ ।।
व्यावृत्तं च परावृत्तं पादोद्धूतमविप्लुतम् ।।
हंसमार्गविमार्गे च गदाकर्म प्रकीर्तितम् ।। 2.182.१० ।।
करालमठपातं च दशोपप्लवमेव च ।।
क्षिप्तं हस्तस्थितं शून्यं परशोस्तु विनिर्दिशेत् ।। ११ ।।
ताडनं छेदनं राम तथा चूर्णनमेव च ।।
मुद्गरस्य तु कर्माणि लगुडस्य च तान्यपि ।। १२ ।।
अन्त्यमध्यं परावृत्तं निदेशार्द्धं तथैव च ।।
वज्रस्यैतानि कर्माणि पट्टिशस्य तथैव हि ।। १३ ।।
हरणं छेदनं घातो भेदनं रक्षणं तथा ।।
कृपाणीकर्म निर्दिष्टं पातनं स्फोटनं तथा ।। १४ ।।
त्रासनं रक्षणं घातं तलोद्धरणमायतम् ।।
क्षेपणीकर्म निर्दिष्टं यन्त्रकर्मैतदेव तु ।। १५ ।।
सन्त्यागमङ्गमर्दञ्च वराहोद्धूतकं तथा ।।
हस्तार्धहस्तपालीनमेकहस्तार्धहस्तकम्।।१६।।
द्विहस्तबाहुपाशे च कोटिरेचितकोद्धते ।।
उरो ललाटघाते च भुजादिवसनं तथा ।। १७ ।।
करोद्धतविमार्गं च पादाहति विपादकम् ।।
गात्रसंश्लेषणं कान्तं तथा गोविधिपर्ययम् ।। १८ ।।
ऊर्ध्वप्रहारं घातं च गोमूत्रं सव्यदक्षिणम् ।।
पादसञ्चारकं गण्डं कबरीबन्धभाकुलम् ।। १९ ।।
तिर्यग्गतमपामार्गं भीमवेगं सुदर्शनम् ।।
सिंहक्रान्तं गजक्रातं वृषभाक्रान्तमेव व ।। 2.182.२० ।।
गदाकर्म विजानीयाद्धनुर्वेदविशारदः ।।
आकर्षणं विकर्षं च बाहुनामनमेव च ।। २१ ।।
ग्रीवाविपरिवर्तं च पृष्ठभङ्गं सुदारुणम् ।।
पर्णासनं विपर्यासः पशुपारमजाविकम् ।। २२ ।।
पादप्रहारमास्फोटं कविरेचितकं तथा ।।
गात्रश्लेषं कण्ठगतं महीत्याजनमेव च ।। २३ ।।
उरोललाटघातं च विस्पष्टकरणं तथा ।।
उद्धूतमवधूतं च तिर्यग्मार्गगतं तथा ।।२४।।
गजस्कन्धमवक्षेपमवाङ्मुखकमेव च ।।
देवमार्गमधोमार्गममार्गगमनाकुलम।।२५।।
मुष्टिवातमवक्षेपो वसुधादारणं तथा ।।
जानुबन्धं भुजाबन्धं ऊरुबन्धं सुदारुणम् ।। २६ ।।
संसृष्टं सोदरं शुभ्रं भुजावेल्लितमेव च ।।
नियुद्धकर्म जानीयान्नियुद्धकुशलो जनः ।। २७ ।।
प्रधानकर्माणि तवेरितानि न्यस्तप्रधाने पुरुषप्रवीर ।।
नामानि रूपाणि भवन्ति तानि ज्ञेयानि सर्वाणि यथानुरूपम् ।।।२८ ।।
इति श्रीविर्प्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने धनुर्वेदविद्यावर्णनो नाम द्व्यशीत्युत्तरशततमोऽध्यायः ।। १८२ ।।
2.183
।। पुष्कर उवाच ।।
सन्नद्धैश्चर्मिभिर्भाव्यं तथा बद्धकृपाणिभिः ।।
चर्माणि तत्र वैयाघ्रमाहिषाण्यृषभाणि च ।। १ ।।
खेटकाद्यथ वा राम चर्माणि प्रभवन्ति तु ।।
तथा वरणमुख्यानि खड्गानि विविधानि च ।। २ ।।
बद्धादिभिः सतूणीरैस्तथा राम सतोमरैः ।।
बद्धगोधाङ्गुलित्राणैर्बद्धादर्शैर्विभीषणैः ।। ३ ।।
तथा परश्वधोपेतै राम स्वासनयोधिभिः ।। ४ ।।
गदाधरास्तथैवात्र सकृत्पाणिपरिच्छदाः ।।
सुसंनद्धा सुमनसो भवेयुर्विपुलौजसः ।। ५ ।।
यत्र यस्य विशेषेण शस्त्रास्त्रैर्वातकौशलम् ।।
तदेव तस्य निर्दिष्टं यथावन्मनुजोत्तम ।। ६ ।।
सखलीनाः सपर्याणास्तथा सास्तरणा हयाः ।।
कार्याः सकवचा युद्धे चामरापीडधारिणः ।। ७ ।।
अश्वी भवेत्सुसन्नद्धो रश्मिप्रग्रहकोविदः ।।
तथा सावरणो राम सकृपाणी परिच्छदः ।। ८ ।।
बद्धासिर्बद्धजीवश्च तुरगारूढपिण्डकः ।।
ससुप्रासो भवेद्राम नानायुधधरस्तथा ।। ९ ।।
रथः कार्यस्तथा युक्तः ईषादण्डकबन्धुरैः ।।
सुचक्रोपस्करयुतः सर्वरूपः पताकराट् ।। 2.183.१० ।।
त्रिवेणुसंततश्चैव वैयाघ्रपरिवारणः ।।
किंकिणीजालनिर्घोषस्तथा वै सुप्रतिष्ठितः ।। ११ ।।
उपासङ्गैर्निषङ्गैश्च तूणीरैर्वरकार्मुकैः ।।
सर्वायुधैरुपेतश्च तथा वृक्षादनीयुतः ।।१२।।
तोयजीरकपिण्डीभिर्युक्तः शृङ्गैस्तथैव च ।।
सन्नद्धः सारथिस्तत्र भवेद्राम प्रतोदवान् ।। १३ ।।
रश्मिग्रहणविच्चापि तथा मण्डलकोविदः ।।
तथाश्वहृदयज्ञश्च दूरदृष्टिः सुयन्त्रितः ।। १४ ।।
स्वासनः कालविच्चैव बद्धासिः पाशसंयुतः ।।
पार्ष्णिः स्यादायुधज्ञस्य तथैवायुधकोविदः ।। १५ ।।
चिरेण मूले यस्य स्यादवस्थानं महाभुजः ।।
पताकावरणं यस्य आयुधानां समर्पणम् ।। १६ ।।
समायान्तं महाभागं तथा सारथिरक्षणम ।।
स्यातां धनुर्धरौ तत्र तथा च रथिनावुभौ ।। १७ ।।
योधौ धनुर्भृतां श्रेष्ठ सर्वायुधविशारदौ ।।
तुरगाश्च सुसंनद्धा दान्ताः कार्यास्तथा रथे ।। ।। १८ ।।
तुल्यवेगबलाश्चैव तथा लघुपरिच्छदाः ।।
अतः परं प्रवक्ष्यामि तव नागेन्द्रकल्पनम् ।। १९ ।।
कुञ्जरः स्यात्सुसन्नद्धः सपर्याणः कुथा वृतः ।।
सर्वायुधधरश्चैव तथा योधा वरायुधाः ।।2.183.२० ।।
परश्वधकराश्चैव तोयजीरकसंयुताः ।।
सम्यग्विभाज्याश्च तथा शृङ्खलावततास्तथा ।। २१ ।।
पताका च तथा कार्या कुञ्जरस्य सुशोभना ।।
वराङ्कुशधरौ तत्र स्यातां मनुजपुङ्गवौ ।। २२ ।।
एकः पृष्ठस्थितस्तत्र द्वितीयः स्कन्धगो भवेत् ।।
योधौ द्वौ वरधानुष्कौ द्वौ च खड्गधरौ दरौ ।। २३ ।।
तयोरनुभवेतां वै तथा रक्षापरायणौ ।।
एकः पार्ष्णिस्थितस्तत्र वरशक्तिपताकधृक् ।। २४ ।।
पालयेज्जघनं यद्वत्कुञ्जरस्य महामते ।।
एवं परस्परायत्ता रक्षा तेषां यथा भवेत् ।। २५ ।।
महामात्रस्य धर्मज्ञ तथा च गजयोधिनः ।।
एवमेव तथा रक्ष्यो रथिनः स रथी भवेत् ।। २६ ।।
कुञ्जरस्य तु रक्षार्थं भवेद्रथचतुष्टयम् ।।
रथेरथे गजे वापि तुरगाणां त्रयं भवेत् ।। २७ ।।
धानुष्काणां त्रयं प्रोक्तं रक्षार्थं तुरगस्य च ।।
धन्विनो रक्षणार्थाय वर्मिणोऽपि नियोजयेत् ।। २८ ।।
कार्यं सर्वं सुसंबाधं तथा तोरणरक्षणम् ।।
योजना च तथा कार्या यथा तु स्याद्धृतिक्रमः ।। २९ ।।
संबाधश्च तथा राम न भवेच्च परस्परम् ।। 2.183.३० ।।
नागेन्द्रकल्पं तव सर्वयुक्तं संक्षेपतो भार्गववंश मुख्य।।
एतत्तु कृत्वापि नरः सयुद्धे जयत्यवश्यं समुपार्जने च ।। ३१ ।।
इति श्रीविष्णुमहापुराणे द्वितीयभागे श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने धनुर्वेदे वाहनसज्जीकरणो नाम त्र्यशीत्युत्तरशततमोऽध्यायः ।। १८३ ।। ।।

समाप्तोऽयं विष्णुधर्मोत्तरद्वितीयखण्डः ।