विष्णुधर्मोत्तरपुराणम्/ खण्डः २/अध्यायाः १७६-१८०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः १७१-१७५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः १७६-१८०
वेदव्यासः
अध्यायाः १८१-१८३ →

2.176
।। राम उवाच ।। ।।
यात्राविधानमाचक्ष्व सर्वधर्मभृतांवर ।।
जिगीषूणां नरेन्द्राणां सिद्धिकारणमुत्तमम् ।। १ ।।
पुष्कर उवाच ।।
सप्ताहेन यदा यात्रा भविष्यति महीपतेः ।।
तदा दिने तु प्रथमे पूजनीयो विनायकः ।। २ ।।
मोदकैरक्षतैर्दध्ना कुसुमैश्च तथा फलैः ।।
गन्धर्वास्त्रैरलङ्कारैर्धूपैर्दीपैर्मनोहरैः ।। ३ ।।
द्वितीयेऽन्हि ततः कार्यं सर्वदिक्पालपूजनम् ।।
दिक्पालपूजनं कृत्वा तेषां च पुरतः स्थितः ।। ४ ।।
शय्यां कुशाभिः कुर्वीत सितवस्त्रोत्तरच्छदाम् ।।
विकिरेन्नागपुष्पैस्तां तथा सिद्धार्थकैः शुभैः ।। ५ ।।
तच्छीर्षके तु पूज्या श्रीर्भद्रकाली च पादयोः ।।
हरं दक्षिणपार्श्वे तु वामे ब्रह्माणमेव च ।। ६ ।।
पूजितं कलशं हृद्यं कुर्यादुष्णीषके दृढम् ।।
नीलपल्लवसंछन्नं चारुपुष्पोज्ज्वलं शुभम् ।। ७ ।।
एककालं हविष्यान्नं लघु भुक्त्वा महीपतिः ।।
स्वयं दक्षिणपार्श्वे च मन्त्रमेतदुदीरयेत् ।। ८ ।।
नमः शम्भो त्रिनेत्राय रुद्राय वरदाय च ।।
वामनाय विरूपाय स्वप्नाधिपतये नमः ।।९।।
भगवन्देवदेवेश शूलभृद्वृषवाहन ।।
इष्टानिष्टं समाचक्ष्व स्वप्ने सुप्तस्य शाश्वतम्।।2.176.१०।।
यज्जाग्रतो दूरमिति मन्त्रमावर्तयेत्ततः ।।
हृदि न्यस्य कुशान्राज्ञः प्रयतस्तु पुरोहितः ।।११।।
ततः स्वप्ने शुभे दृष्टे यात्रा देया तु नान्यथा ।।
तृतीयेऽहनि संप्राप्ते देवं दिङ्नाथमर्चयेत्।।१२।।
एकमेव महाभाग दिननाथं तथा ग्रहम् ।।
यां दिशं नृपतिर्गच्छेन्नाथं तस्यास्तथैव ताम्।।१३।।
चतुर्थेऽहनि संप्राप्ते ग्रहयागो विधीयते।।
पञ्चमेऽहनि संप्राप्ते सर्वयागस्तथैव च ।।
देवतानां स्वनगरे कृता यासां तथालयाः ।।१४।।
तासां संपूजनं कार्यं स्वपुरे ये तथा स्थिताः ।।
तत्रैव रात्रौ भूतानां कर्तव्यं च तथार्चनम् ।। १५ ।।
एकवृक्षेषु चैत्येषु चत्वराट्टालकेषु च ।।
चतुष्पथेषु रथ्यासु पर्वतानां गुहासु च ।। १६ ।।
नदीतीरेषु शैलेषु देवतायतनेषु च ।।
तेषां संपूजनं कृत्वा स्वगृहे तान्समर्चयेत् ।। १७ ।।
तत्र कृत्वा ततो वाच्याः प्रमथा भूभुजा स्वयम् ।।
वासुदेवस्य देवस्य तथा संकर्षणस्य च ।। १८ ।।
प्रद्युम्नस्यानिरुद्धस्य ब्रह्मणः शङ्करस्य च ।।
कीनाशशक्रवरुणधनेशानां तु ये गणाः ।। १९ ।।
वायोश्च निर्ऋतेर्वह्नेस्तथा चन्द्रार्कयोश्च ये ।।
ग्रहाणामथ ऋक्षाणां स्कन्दस्य च महाबलाः ।। 2.176.२० ।।
विनायकस्य देवस्य देवतानां गणाश्च ये ।।
दैत्यानां राक्षसानां च सर्वेषामनुगाश्च ये ।। २१ ।।
महाबला महाकाया महासत्त्वा महाब्रताः।।
अणिमा महिमा प्राप्तिः प्राकाम्येन च संयुताः।।२२।।
ईशित्वेन वशित्वेन प्राप्तिनाम्ना तथोदये ।।
यत्र कामावसायित्वात्तथा येषां च विद्यते ।। २३ ।।
एवमष्टगुणैश्वर्यसंयुता भीमविक्रमाः ।।
नानासत्त्वशिरोग्रीवा नानाप्रहरणायुधाः ।। २४ ।।
नानाविरागवसना नानासत्त्ववपुर्धराः ।।
तथा नानाविधाहारा महाचेष्टा महाबलाः ।। २५ ।।
भक्तानुकम्पिनो वीरा वरदाः कामरूपिणः ।।
प्रमथाः परिगृह्णन्तु उपकारं नमोऽस्तु वः ।।
सपुत्रामात्यभृत्योऽहं सदारः शरणं गतः ।। २६ ।।
रक्षन्तु मां महाभागा गृहे युद्धे तथाध्वनि ।।
चमूनां पृष्ठतो गत्वा नाशयध्वं तथा रिपून् ।। २७ ।।
स्वप्ने शुभाशुभं वापि कथयध्वं समाहिताः ।।
विनिवृत्तश्च दास्यामि दत्तादभ्यधिकं बलिम् ।। २८ ।।
विनिवृत्तेन दातव्यः स च यत्नेन भूभुजा ।।
पूर्ववच्च तथा रात्रौ स्वप्नप्रार्थनमिष्यते ।। ।। २९ ।।
षष्ठेऽहनि जयस्नानं कर्तव्यं च तथा भवेत् ।।
विधिरस्याभिषेकार्थः सर्व एव विधीयते ।। 2.176.३० ।।
ततो यात्रादिने प्राप्ते क्षौरकर्म विवर्जयेत् ।।
मुद्रणं भेदनं चैव तथा च नखकृन्तनम् ।। ३१ ।।
अभ्यङ्गं गृहकार्यं च क्रोधशोकौ च कङ्कतम् ।।
यातव्यं येन तेनाथ तदुक्तं स्नानमाचरेत् ।। ३२ ।।
स्नातः शुक्लाम्बरः स्रग्वी तथा श्वेतानुलेपनः ।।
चित्राभरणवान्राजा दूर्वापल्लवलाच्छनः ।। ३३ ।।
पूजयित्वा महाभागं देवदेवं त्रिविक्रमम् ।।
जुहुयाच्च तथा वह्नौ सुसमिद्धे पुरोहितः ।। ३४ ।।
आयुष्यमभयं चैव तथा स्वस्त्ययनं गणम् ।।
शर्मवर्मगणं चैव तथा प्रतिरथं शुभम ।। ३५ ।।
शकुनं च तथा सूक्तं सूक्तं वैष्णवमेव च ।।
तथाग्निलक्षणोत्पत्तौ शुभे यायान्महीपतिः ।। ३६ ।।
नक्षत्रस्य दिशश्चैव नैवेद्यं यत्प्रकीर्तितम् ।।
तदेव नृपतिः प्राश्य यात्रां विद्याद्यथाविधि ।। ३७ ।।
अहृद्यं मक्षिकाकेशकीटयुक्तं विवर्जयेत् ।।
दग्धे च वर्जयेद्यात्रां देया भवति चान्यथा ।। ३८ ।।
ततस्तु राजलिङ्गानां चायुधानां तथैव च ।।
नीराजनोक्तमन्त्रैस्तु सर्वांस्तानभिमन्त्रयेत् ।। ३९ ।।
दैववित्प्रयतो भूत्वा राजा वाथ पुरोहितः ।।
तेषां संपूजनं कृत्वा दैवज्ञं सपुरोहितम् ।। 2.176.४० ।।
धनेन पूजयेद्राजा दक्षिणाभिर्द्विजोत्तमान् ।।
ततः पुण्याहघोषेण द्विजानां हतकल्मषः ।। ४१ ।।
मङ्गलालम्भनं कृत्वा मन्त्रमेतं निशामयन् ।।
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ।। ४२ ।।
लोकपालाः सगन्धर्वा नद्यः शैला मही द्विजाः ।।
अग्निः स्वाहा स्वधा होमः स्कन्दो ब्रह्मा प्रजापतिः ।। ४३ ।।
मुहूर्तास्तिथयो भानि वेदाः सायनवत्सराः ।।
गावः सरस्वती देवी दीर्घमायुर्दिशन्तु ते ।।४४ ।।
जगत्सृजोऽथ या सिद्धिर्बभूव ब्रह्मणः पुरा ।।
जगज्जिष्णोश्च या विष्णोः सिद्धिर्यासीत्त्रिविक्रमे ।। ४५ ।।
असुरैश्वर्यनाशे च बभूव त्र्यम्बकस्य या ।।
सिद्धिस्त्रिदर्शवृद्ध्यर्थं त्रिपुरान्तकृतः पुरा ।। ४६ ।।
शक्रे वृत्रवधे यावत्स्कन्दे देवारिसंक्षये ।।
तां प्राप्नुहि सदा सिद्धिं सा च यात्रास्तु ते सदा ।। ४७ ।।
रक्षन्तु सर्वतः सर्वे देवाः शक्रपुरोगमाः ।।
इति चोक्त्वा शुभां वाचं गृहीत्वा सशरं धनुः ।। ।। ४८ ।।
धन्वनागेतिमन्त्रेण दैवज्ञस्य करात्स्वयम् ।।
तद्विष्णोः परमित्येव शृण्वन्मन्त्रमनुत्तमम् ।। ४९ ।।
पैष्टे रिपुमुखे दद्यात्प्रथमं दक्षिणं पदम् ।।
पदद्वात्रिंशकं गत्वा विष्णुप्राच्यादिषु त्वथ ।। 2.176.५० ।।
नागं रथं हयं चैव युञ्जाने चारुहेत्क्रमात ।।
आरुह्य सुमना गच्छेद्वाद्यघोषेण भूरिणा ।। ५१ ।।
स निष्क्रम्य महानीशो न पृष्ठमवलोकयेत् ।।
मङ्गलानि ततः पश्यन्स्पृञ्छृण्वञ्शनैर्व्रजेत् ।। ५२ ।।
क्रोशमात्रं ततो गच्छेन्नाधिकं तु कदाचन ।।
गत्वा देशे शुभे तिष्ठेत्पूजयित्वा सुरद्विजान् ।। ५३ ।।
ततः क्रमेण गच्छेच्च परदेशं महीपतिः ।।
आत्मसैन्यानुरूपेण कृतरक्षः पथा द्विज ।। ५४ ।।
त्रिरात्रमुषितो गच्छेद्भूयो नक्षत्रसम्पदा ।।
यवसैन्धवतोयानां रक्षको विषदूषणात् ।। ५५ ।।
परानभिमुखो गच्छेत्प्रभूतयवसैन्धवः ।।
स्वैरचंक्रमणं शय्यां भाण्डप्रक्षेपणं तथा ।। ५६ ।।
भोजन तं सुखं कुर्यात्प्रतिलोमं न चाचरेत ।।
राजाप्यमित्रदेशे तु देशाचारं न लंघयेत् ।। ५७ ।।
देवतापूजनं कुयार्न्नोच्छिंद्याद्दावमत्र तु ।।
कुलस्त्रियं च तन्वीं च वृद्धां नैवापमानयेत ।। ५८ ।।
कुलीनमभिनिन्देत्तु न वै नृपतिवंशजम् ।।
न कर्णनासाच्छेदांश्च न तथा नेत्रभेदनम् ।।
कालविन्मन्त्रिभिषजोर्वाक्यं कुर्यान्महीपतिः ।। ५९ ।।
ततः क्रमात्प्राप्य पुरीं स्वकीयां बलिं तु दद्यादधिकां पुरोक्ताम् ।।
कुर्यान्महीं यूपसुरालयांकां स्वर्लोकमिच्छन्पृथिवीं समग्राम् ।। 2.176.६० ।।
इति श्रीविप्णु० द्वि० मा० व० स० यात्राविधिनाम षट्सप्तत्युत्तरशततमोऽध्यायः ।। १७६ ।।
2.177
राम उवाच ।।
सांग्रामिकमहं त्वत्तः श्रोतुमिच्छामि भूभुजः ।।
सर्वं वेत्सि महाभाग त्वं देव परमेष्ठिवत् ।। १ ।।
पुष्कर उवाच ।।
द्वितीयेऽहनि संग्रामो भविष्यति यदा तदा ।।
गजाश्वान्स्नापयेद्राजा सर्वौषधिजलैः शुभैः ।। २ ।।
गन्धमाल्यैरलंकुर्यात्पूजयेच्च यथाविधि ।।
नृसिंहं पूजयेद्विष्णुं राजलिङ्गान्यशेषतः ।। ३ ।।
छत्रं ध्वजं पताकाश्च धर्माश्चैव महाभुज ।।
आयुधानि च सर्वाणि तथा पूज्यानि भूभुजा ।। ४ ।।
तेषां सम्पूजनं कृत्वा रात्रौ प्रमथपूजनम् ।।
कृत्वा तु प्रार्थयेद्राजा विजयायेतरो यथा ।। ५ ।।५।।
प्रमथांश्च सहायार्थे धरणीं च महाभुज ।।
भिषक्पुरोहितामात्यमन्त्रिमध्ये तथा स्वपेत् ।। ६ ।।
संयतो ब्रह्मचारी च नृसिंहं संस्मरन्हरिम्।।
रात्रौ दृष्टे शुभे स्वप्ने समरारम्भमाचरेत् ।। ७ ।।
रात्रिशेषे समुत्थाय स्नातः सर्वौषधी जलैः ।।
पूजयित्वा नृसिंहं तु वाहनाढ्यमशेषतः ।। ८ ।।
पुरोधसा हुतं पश्येज्ज्वलितं जातवेदसम् ।।
पुरोधाः पूर्ववत्तत्र मन्त्रांस्तु जुहुयात्ततः ।।९ ।।
दक्षिणाभिः शुचिर्विप्रान्पूजयेत्पृथिवीपतिः ।।
ततोनुलिम्पेद्गात्राणि गन्धद्वारेति पार्थिवः ।। 2.177.१०।।
चन्दनागुरुकर्पूरकान्ताकालीयकैः शुभैः ।।
मूर्तिं कण्ठे समालभ्य रोचनां च तथा शुभाम्।।११।।
आयुष्यं वर्चसं चैव मन्त्रेणानेन मन्त्रितमम्।।
अलङ्करणमाबद्ध्याच्छ्रियं धातुरिति स्रजम् ।। १२।।
या ओषधय इत्येवं धारयेदोषधीः शुभाः ।।
नवो नवेति वस्त्रं च कार्पासं बिभृयाच्छुभम् ।।१३।।
ऐन्द्राग्नेति ततो चर्म धन्वनागेति वै धनुः।।
ततो राज्ञः समादद्यात्सशरन्त्वभिमन्त्रितम्।।१४।।
कुञ्जरं वा रथं चाश्वमारुहेदभिमन्त्रितम्।।
आरुह्य शिबिराद्राजा निष्क्रम्य समये शुभे।।१५।।
देशे त्वदृश्यः शत्रूणां कुर्यात्प्रकृतिकल्पनाम् ।।
संहतान्योधयेदल्पा कामं विस्तारयेद्बहून् ।।१६।।
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह ।।
व्यूहाः प्राण्यङ्गरूपाश्च द्रव्यरूपाश्च कल्पिताः।।१७।।
गारुडो मकरव्यूहश्चक्रं श्येनस्तथैव च।।
अर्धचन्द्रश्च चन्द्रश्च शकटव्यूह एव च।।१८।।
व्यूहश्च सर्वतोभद्रः सूचीव्यूहस्तथैव च ।।
पद्मश्च मण्डलव्यूहः प्राधान्येन प्रकीर्तिताः।।१९।।
व्यूहानामथ सर्वेषां पञ्चधा सैन्यकल्पना ।।
द्वौ पक्षौ बन्धपक्षौ द्वावौरस्यः पञ्चमो भवेत्।।2.177.२०।।
अनेन यदि वा द्वाभ्यां भागाभ्यां युद्धमाचरेत्।।
भागत्रयं स्थापयेत्तु तेषां रक्षार्थमेव च।।२१।।
न व्यूहे कल्पना कार्या राज्ञो भवति कर्हिचित् ।।
पत्रच्छेदे फलच्छेदे वृक्षच्छेदावकल्पने।।२२।।
पुनः प्ररोहमायाति मूलच्छेदे विनश्यति ।।
स्वयं राज्ञा न योद्धव्यमपि सर्वास्त्रशालिना।।२३।।
नित्यं लोके हि दृश्यन्ते शक्तेभ्यः शक्तिमात्तराः ।।
सैन्यस्य पश्चात्तिष्ठेत्तु क्रोशमात्रे महीपतिः।।२४।।
भग्नसन्धारणं तत्र योधानां परिकीर्तितम् ।।
प्रधानभङ्गे सैन्यस्य नावस्थानं विधीयते ।। २५ ।।
न भग्नान्पीडयेच्छत्रूनेकायनगता हि ते ।।
मरणे निश्चिताः सर्वे हन्युः शत्रूंश्चमूरपि ।। २६ ।।
शटाभङ्गच्छलेनापि नयति स्वभुवं पराम् ।।
तेषां स्वभूमिसंस्थानां वधः स्यात्सुकरस्तदा ।। २७ ।।
न संहतार्तविरलान्योधान्व्यूहे प्रकल्पयेत् ।।
आयुधानां तु संमर्दो यथा न स्यात्परस्परम् ।। २८ ।।
तथा तु कल्पना कार्या योधानां भृगुनन्दन ।।
भेत्तुकामः परानीकं संहतैरेव भेदयेत्।।२९।।
भेदरक्षापरेणापि कर्तव्या संहता तथा ।।
स्वेच्छया कल्पयेद्व्यूहं ज्ञात्वा वा रिपुकल्पितम्।।2.177.३०।।
व्यूहे भेदावहं कुर्याद्रिपुव्यूहस्य पार्थिवः ।।
गजस्य देया रक्षार्थं चत्वारस्तु रथा द्विज।।३१।।
रथस्य चाश्वाश्चत्वारोऽश्वस्य तस्य च वर्मिणः ।।
वर्मिभिश्च समास्तत्र धन्विनः परिकीर्तिताः।।३२।।
पुरस्ताच्चर्मिणो देया देयास्तदनु धन्विनः ।।
धन्विनामनु चाश्वीयं रथांस्तदनु योजयेत् ।।३३।।
रथानां कुञ्जराश्चानु दातव्याः पृथिवीक्षिता ।।
पदातिकुञ्जराश्वानां वर्म कार्यं प्रयत्नतः ।।३४।।
अवर्मयित्वा यो वाहं चात्मानं वर्मयेन्नरः ।।
स राम नरकं याति स्वकृतेनापि कर्मणा ।। ३५ ।।
शूराः प्रमुखतो देया न देया भीरवः क्वचित् ।।
शूरान्वा मुखतो दत्त्वा स्कन्दमात्रप्रदर्शनम् ।। ३६।।
कर्तव्यं भीरुसंघेन शत्रुविद्रावकारकम् ।।
दारयन्ति पुरस्तात्तु विद्रुता भीरवः पुरः ।। ३७ ।।
प्रोत्सारयन्ते वरुणी भीरूञ्शूरान्पुनः स्थिताः ।।
प्रांशवः शुकनासाश्च ये च जिह्वेक्षणा नराः ।। ३८ ।।
संहतभ्रूयुगाश्चैव क्रोधनाः कलहप्रियाः ।।
नित्यं हृष्टाश्च ह्रस्वाश्च शूरा ज्ञेयाश्च कामिनः ।। ३९ ।।
दाक्षिणात्याश्च विज्ञेयाः कुशलाः खड्गवर्मिणः ।।
वङ्कला धान्विनो ज्ञेयाः पार्वतीयास्तथैव च ।। 2.177.४० ।।
पाषाणयुद्धकुशलास्तथा पर्वतवासिनः ।।
पांचालाः शूरसेनाश्च रथेषु कुशला नराः ।। ४१।।
काम्बोजा ये च गांधाराः कुशलास्ते हयेषु च ।।
प्रायशश्च तथा म्लेच्छा विज्ञेयाः पाशयोधिनः ।। ४२ ।।
अङ्गा वङ्गा कलिङ्गाश्च ज्ञेया मातङ्गयोधिनः ।।
आहतानां हतानां च रणापनयनक्रिया ।। ४३ ।।
पत्तियोधगजानाञ्च तोयदानादिकं च यत् ।।
आयुधानयनं चैव पत्तिकर्म विधीयते ।। ।। ४४ ।।
रिपूणां भेदकामानां स्वसैन्यस्य तु रक्षणम् ।।
भेदनं संहतानां च कर्मणां चर्म कीर्तितम् ।। ४५ ।।
विमुखीकरणं युद्धे धन्विनां च तथोच्यते ।।
चर्मिभिः क्रियते शूरैर्भिन्नानामपि संहतिः ।। ४६ ।।
शूरापसरणं यावत्साश्वीयस्य तथोच्यते ।।
त्रासने रिपुसैन्यानां रथकर्म तथोच्यते ।। ४७ ।।
प्राकारगोमुखाट्टालद्रुमभंगाश्च भार्गव ।।
गजानां कर्म निर्दिष्टं यदसह्यं तथा परैः ।। ४८।।
पत्तिभूविषमाजेया रथाश्वस्य तथा समा।।
शर्माद्रुमा च नागानां युद्धभूमिरुदाहृता ।। ४९ ।।
एवं विरचितव्यूहः कृतपृष्ठदिवाकरः ।।
तथानुलोमशुक्रो वा दिक्पालबुधमारुताः ।। 2.177.५० ।।
योधानुत्तेजयेत्सर्वान्रामगोत्रापदाननः ।।
भोगप्राप्तिश्च विजये स्वर्गप्राप्तिर्मृतस्य च ।। ५१ ।।
धन्यानि तु निमित्तानि वदन्ति विजयं द्विज ।।
स्पन्दनं शुभगात्राणां शुभस्वप्ननिदर्शनम् ।। ५२ ।।
निमित्तं च गजाश्वस्य सर्वतो दृश्यते शुभम् ।।
शकुना मङ्गलाश्चैव दृश्यन्ते हि मनोऽनुगा।। ।। ५३ ।।
विपरीतसरीसर्पान्मृत्युः स्पृशति नान्यथा ।।
भवन्तोऽपि कुले जाताः सर्वशस्त्रास्त्रपारगाः ।। ५४ ।।
गान्धर्वे च परा नित्यं नित्यं सन्मार्गमाश्रिताः ।।
अनाहार्याः परैर्नित्यं कथं न स्याज्जयो मम ।। ५५ ।।
राजश्रीर्भवतामेव भवद्भिः केवलं मम ।।
द्वे चामरेऽधिके शूराच्छत्रं चर्माभमेव च ।। ५६ ।।
जित्वरीन्भोगसंप्राप्तिर्मृतस्य च परा गतिः ।।
निष्कृतिः स्वामिपिण्डस्य नास्ति युद्धसमा गतिः ।। ५७ ।।
शूराणां यद्विनिर्याति रक्तमाबाधतः क्वचित् ।।
तेनैव सह पाप्मानं सर्व त्यजति धार्मिक ।। ५८ ।।
तथा बाधचिकित्सायां वेदनासहिते तथा ।।
ततो नास्त्यधिकं लोके किञ्चित्परमदारुणम् ।। ५९ ।।
मृतस्य नाग्निसंस्कारो नाशौचन्नोदकक्रिया ।।
कर्तुमिच्छति यस्येह संग्रामादधिकं नु किम् ।। 2.177.६० ।।
तपस्विनो दानपरा यज्वानो बहुदक्षिणाः ।।
शूराणां गतिमिच्छन्ति दृष्ट्वा भोगाननुत्तमान् ।।६१ ।।
वराप्सरःसहस्राणि शूरमायोधने हतम् ।।
अभिद्रवन्ति कामार्ता मम भर्ता भविष्यति ।। ६२ ।।
स्वामी सुकृतमादत्ते भग्नानां विनिवर्तताम् ।।
ब्रह्महत्याफलं तेषां तथा प्रोक्तं पदेपदे ।। ६३ ।।
यः सहायान्परित्यज्य स्वस्तिमान्गन्तुमिच्छति ।।
अस्वस्ति तस्य कुर्वन्ति देवाः शक्रपुरोगमाः ।। ६४ ।।
अश्वमेधफलं प्रोक्तं भग्नानामनिवर्तताम् ।।
पदेपदे महाभागा संमुखानां महात्मनाम् ।। ६५ ।।
देवस्त्रियस्तथा लक्ष्मीः पाप्मानमयशस्तथा ।।
प्रतीक्षन्ते महाभाग संग्रामे समुपस्थिते ।। ६६ ।।
पराङ्मुखा मया ग्राह्या जीवन्तोप्यभवा मृताः ।।
इत्येवमयशस्तस्य पाप्मना सह तिष्ठति ।। ६७ ।।
लक्ष्मीः सन्तिष्ठते तस्य जीवतः कृतकर्मणः ।। ६८ ।।
मृतस्य चापि तिष्ठन्ति विमानस्था सुरस्त्रियः ।।
एवमुद्घोषणं कृत्वा धर्मेणेच्छेज्जयं रणे ।। ६९ ।।
अधर्मविजयो राज्ञो नृपलोके भयावहः ।।
अधर्मविजयादर्थैर्यच्छिद्रमुपधीयते ।। 2.177.७० ।।
छिद्रादेव परं छिद्रं तस्य स्यान्नात्र संशयः ।।
न कर्णी न तथा दिग्धः शरः स्याद्धर्मयोधिनाम् ।। ७१ ।।
नास्थिशल्यः शरः कार्यो दारुशल्यश्च भार्गव ।।
समः समेन योद्धव्यो नापचारो रणे द्विज ।। ७२ ।।
सन्नद्धेन च सन्नद्धः साश्वश्चाश्वगतेन तु ।।
रथी च रथिना राम पदातिश्च पदातिना ।। ७३ ।।
कुञ्जरस्थो गजस्थेन योद्धव्यो भृगुनन्दन ।।
विमुखो भग्नशस्त्रश्च स्त्रीबालपरिरक्षिता ।। ७४ ।।
व्यायुधो भग्नगात्रश्च तथैव शरणागतः ।।
परेण युद्ध्यमानश्च युद्धप्रेक्षक एव च ।। ७५ ।।
आर्तस्तोयप्रदाता च दण्डपाणिस्तथैव च ।।
एते रणे न हन्तव्या क्षत्रधर्ममभीप्सता ।। ७६ ।।
पापिष्ठो कूटयुद्धे च कर्तव्यमपि चाहवे ।।
श्रान्तेन वाभिभूतेन अर्धोत्तीर्णबलेन च ।। ७७ ।।
दुर्दिने न च युद्धानि कर्तव्यानि महाबल ।। ७८ ।।
प्रवृत्ते समरे राम परेषां नामकारणात् ।।
बाहू प्रगृह्य विक्रोशेद्भग्ना भग्नाः परे त्विति ।।
प्राप्तं मित्रबलं भूरि नायकोऽत्र निपातितः ।। ७९ ।।
सेनानीर्निहतश्चायं सर्वा सेनापि विद्रुता ।।
एवं चित्रासनं कुर्यात्परेषां भृगुनन्दन ।। 2.177.८० ।।
विद्रुतानां तु योधानां सुविघातो विधीयते ।।
धनुर्वेदविधानेन कल्पना च तथा भवेत् ।। ८१ ।।
पापाश्च देया धर्मज्ञ तथैव परमोहनाः ।।
पताकाभ्युच्छ्रयः कार्यः स्वबले च तथा शुभः ।। ८२ ।।
संस्कारश्चैव कर्तव्यो वादित्राणां भयावहः ।।
एतस्य वर्षं वक्ष्यामि तवोपनिषदि द्विज ।। ८३ ।।
संप्राप्य विजयं युद्धे कार्यं दैवतपूजनम् ।।
पूजयेद्ब्राह्मणांश्चात्र गुरूनपि च पूजयेत् ।। ८४ ।।
रत्नानि राजगामीनि चर्म वाहनमायुधम् ।।
सर्वमन्यद्भवेत्तस्य यद्येनैव रणे हृतम् ।। ८५ ।।
कुलस्त्रियस्तु विज्ञेयास्तथा राम न कस्यचित् ।।
स्वदेशे परदेशे वा साध्वीं यत्नान्न दूषयेत् ।। ८६ ।।
अन्यथा संकरो घोरो भवतीह क्षयावहः ।।
शक्रः प्राप्य रणे मुक्तः पुत्रस्तस्य प्रकीर्तितः ।। ८७ ।।
पुरस्तेनास्य योद्धव्यं तस्य धर्मं विजानता ।।
देशेदेशे य आचारः पारम्पर्यक्रमागतः ।। ८८ ।।
स एव परिपाल्यः स्यात्प्राप्य देशं महीक्षिता ।।
नृणां प्रदर्शयेद्राजा समरेऽपि हते रिपौ ।। ८९ ।।
न मे प्रियं कृतं तेन येनायं समरे हतः ।।
किन्तु पूजा करोम्यस्य स्वच्छन्दमविजानतः ।। 2.177.९० ।।
हतोऽयं मद्धितार्थाय प्रियं यद्यपि नो मम ।।
अपुत्राश्च स्त्रियश्चैव नृपतिः परिपालयेत् ।। ९१ ।।
ततस्तु स्वपुरं प्राप्य नृपतिः प्रविशेद्गृहम् ।।
यात्राविधानविहितं भूयो दैवतपूजनम् ।। ९२ ।।
पितॄणां पूजनं चैव तथा कुर्याद्विशेषवत् ।।
संविभागं परावाप्तेः कुर्याद्भृत्यजनस्य तु ।। ९३ ।।
अवाप्य धर्मेण नृपस्तु पृथ्वीमारामयूपादिसुरालयाङ्काम् ।।
कृत्वा तथान्यां द्विजसाच्च शक्त्या लोकं जयंत्यस्य नराधिपस्य ।। ९४ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० व० सं० रामं प्रति पुष्करोपाख्याने शत्रुप्रत्यभिगमनो नाम सप्तसप्तत्युत्तरशततमोऽध्यायः ।। १७७ ।।
2.178
राम उवाच ।।
धनुर्वेदं समाचक्ष्व संक्षेपात्सुरनन्दन ।।
सर्वं त्वमेव जानासि यथा देवः पितामहः ।। ।। १ ।।
पुष्कर उवाच ।।
चतुष्पादो धनुर्वेदस्तथा पञ्चविधो द्विज ।।
रथनागाश्वपत्तीनां पादानाश्रित्य कीर्तितः ।। २ ।।
यन्त्रमुक्तं प्राणिमुक्तं मुक्तसन्धारितं तथा ।।
अमुक्तं बाहुयुद्धं च पञ्चधा तत्प्रकीर्तितम् ।। ३ ।।
तच्च शस्त्रास्त्रसंपत्त्या द्विविधं परिकीर्तितम् ।।
दण्डमायाविभेदेन भूयो द्विविधमुच्यते ।।
ऋजुमायाविभेदेन भूयो द्विविधमुच्यते ।। ४ ।।
क्षेपणीचापयन्त्राद्यं यन्त्रमुक्तं प्रकीर्तितम् ।। ५ ।।
शिलातोमरचक्राद्यं पाणिमुक्तं तथैव च ।।
मुक्तसन्धारितं ज्ञेयं पाशाद्यमपि यद्भवेत् ।। ६ ।।
खड्गादिकमनुक्तं च तथा ज्ञेयं महाभुज ।।
नियुद्धं व्यायुधं ज्ञेयं पाणिप्रहरणादिकम् ।। ७ ।।
तत्रादावेव योग्यत्वं गात्राणां तु विधीयते ।।
तथा व्यायामचारित्वं भारकर्षणमेव च ।। ८ ।।
जितश्रमो हि युद्धेषु कर्मयोग्यत्वमाप्नुयात् ।।
रथाश्वगजपृष्ठेषु तानि शस्त्राणि चाभ्यसेत्।।।।
तानि वै खड्गमुख्यानि बाहुप्रत्यवराणि च।।
धनुर्वेदे गुरुर्विप्रः प्रोक्तो वर्णद्वयस्य च।।2.178.१०।।
10
वैश्यस्य गुरुतां कुर्यान्न वा कुर्यात्तथा द्विजम् ।।
धनुर्वेदे न गुरुतां शूद्रः कुर्यात्कदाचन ।। ११ ।।
स्वयमेव तु शूद्रं च कर्तव्या कर्मयोग्यता ।।
तस्मायुद्धाधिकारोस्ति शूद्रस्यापि विशांपते ।। १२ ।।
सङ्गराणामपि तथा हितः स्यात्स स्वयं प्रभोः ।।
सर्वरत्नैर्महाराज राजा रक्ष्यः प्रयत्नतः ।। १३ ।।
श्रद्धावतो भक्तिमतः सुशीलान्नम्रान्विनीतान्क्षमयोपपन्नान् ।।
स्निग्धान्नरेशान्सुदृढान्मनोज्ञानध्यापनीयांस्तु वदन्ति सन्तः ।। १४ ।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे धनुर्वेदवर्णनो नामाष्टसप्तत्युत्तरशततमोऽध्यायः ।। १७८ ।।
2.179
।। पुष्कर उवाच ।।
पाणिपादतले पृष्ठं सर्वे स्युः संहिता यदि ।।
दृष्टं सामपदं स्थानमेतल्लक्षणतस्तधा ।। १ ।।
बाह्यांगुलिः स्फिचौ पादौ स्तब्धजानुबलावुभौ ।।
त्रिवितस्त्यन्तरायाममेवं वैशाखमुच्यते ।। २ ।।
मण्डलाकारपादाभ्यामुद्यते यत्र जानुनी ।।
चतुर्विधं त्रिविच्छिन्नं तदेवं मण्डलं स्मृतम् ।।३।।
फलाकृतिसमं यच्च स्तब्धजानूरुदक्षिणम्।।
वितस्तिपञ्चविस्तारन्तदालीढं प्रकीर्तितम्।।४।।
नमिता पूर्वजङ्घा च सदालीढविधीयते।।
तिर्यग्गतो भवेद्वामो दक्षिणोऽपि भवेदृजुः ।। ५।।
गुल्फौ पार्णिस्थितावेव स्थिरौ पञ्चाङ्गुलान्तरौ ।।
स्थानजातं भवेदेतद्द्वादशाङ्गुलमायतम् ।। ६ ।।
एतदेव विपर्यस्तं प्रत्याख्यातं प्रकीर्तितम् ।।
कुब्जजानुर्भवेद्वामो दक्षिणस्तु प्रसारितः ।।७।।
अथ वा दक्षिणं जानुं कुब्जं भवति निश्चलम् ।।
भवेद्दण्डायतो वामश्चरणः सह जानुना ।। ८ ।।
एवं विकच्छमुद्दिष्टं द्विहस्तान्तरमायतम् ।।
जानुनी द्विगुणौ स्यातां ह्युत्तानौ चरणावपि ।। ९ ।।
अनेन विनियोगेन सम्पुटं परिकीर्तितम् ।।
किञ्चिद्विवर्तितौ पादौ समदण्डायतौ स्थिरौ ।। 2.179.१० ।।
दृष्टिमेव यथान्यायं षोडशाङ्गुलमायतम् ।।
स्वस्तिकेनात्र कुर्वीत प्रणामं प्रथमं द्विजः ।। ११ ।।
कार्मुकं भृगुवामेन वामं दक्षिणकेन वा ।।
वैशाखेप्यथ वा जाते स्थितो वा प्यथ वायते ।। १२ ।।
गुणाग्रं तु ततः कृत्वा कार्मुके प्रियकार्मुकः।।
अधःकोटिं तु धनुषः फलदेशे च पत्रिणः ।।१३।।
धरण्यां स्थापयित्वा तु लालयित्वा तथैव च।।
भुजाभ्यामत्र कुब्जाभ्यां प्रकोष्ठाभ्यामरिंदम।।१४।।
न्यस्य बाणं धनुःश्रेष्ठं पुङ्खदेशे च पत्रिणः ।।
विन्यासो धनुषश्चैव द्वादशाङ्गुलमन्तरः।।१५।।
तयोर्भार्गव कर्तव्यो नातो हीनो न चाधिकः ।।
निवेश्य कार्मुकं कण्ठे नितम्बे शरसङ्करम्।।१६।
उत्क्षिपेदस्थिरंहस्तमन्तरेणाक्षिकर्णयोः ।।
पूर्वेण मुष्टिना ग्राह्यः स्तनाग्रं दक्षिणः शरः ।। १७ ।।
हरणं तु ततः कृत्वा शीघ्रं पूर्वां प्रसारयेत्।।
नात्यन्तरा नैव बाह्या नोर्ध्वगा नाधरास्तथा ।। १८ ।।
न च कुब्जा न चोत्ताना न चला नातिवेष्टिताः ।।
समाः स्थैर्यगुणोपेताः पूर्वे दण्डमिव स्थिताः ।। १९ ।।
छादयित्वा ततो लक्ष्यं पूर्वेणानेन मुष्टिना ।।
तरसा तूत्थितो यत्नात्त्रिकोणविनतिस्थितः ।।2.179.२०।।
स्रस्तांसो निश्चलग्रीवो मयूरांचितमस्तकः ।।
ललाटनासावक्त्रांसः कूर्परश्च समं भवेत् ।। २१ ।।
अन्तरं त्वङ्गुलं ज्ञेयं चिबुकस्यांसकस्य च ।।
प्रथमे त्र्यङ्गुले विन्द्याद्द्वितीये द्व्यङ्गुलं स्मृतम् ।। २२।।
तृतीयेऽङ्गुलमुद्दिष्टं चायतं चिबुकांसयोः ।।
गृहीत्वा सायकं तत्र तर्जन्यङ्गुष्ठमेव च ।। २३ ।।
अनामया ततो गृह्य पुनर्मध्यमयापि च ।।
तावदाकर्षयेद्योगाद्यावद्बाणः सुपूरितः ।। २४ ।।।
एवंविधमुपक्रम्य मोक्तव्यो विधिवत्खगः ।।
दृष्टिमुष्टिहतं लक्ष्यं भिन्द्याद्बाणेन भार्गव।।२५।।
मुक्त्वा चापं वामहस्तं क्षिपेद्वेगेन पृच्छतः ।।
एतदुच्छेदमिच्छन्ति ज्ञातव्यं हि त्वया द्विज ।। २६ ।।
कूर्परं त्रिविधं कार्यमाकृष्टन्तु धनुष्मता ।।
तत्रापि मुक्तके कार्यमक्षश्लिष्टस्तु मध्यमम् ।। २७ ।।
ज्येष्ठं प्रकृष्टं विज्ञेयं धनुःशास्त्रविशारदाः ।।
ज्येष्ठस्तु पावको ज्ञेयो भवेद्द्वादशमुष्टयः ।। २८ ।।
एकादश तथा साध्यः कनीयान्दशमुष्टयः ।।
चतुर्हस्तं धनुःश्रेष्ठं प्रयोगं चास्य मध्यमम् ।। २९ ।।
कनीयसं त्रयः प्रोक्तं नित्यमेव पदातिना ।।
अश्वे रथे गजे ज्येष्ठं तदेव परिकीर्तितम् ।। 2.179.३० ।।
तदेव हीनं खलु मध्यमं स्यात्तदेव हीनं च तथा कनीयः ।।
पूर्णायुधस्यैष विधिर्मया ते प्रोक्तः समासाद् भृगुवंशमुख्य ।।३१।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० वज्र सं० रामं प्रति पुष्करोपाख्याने धनुर्वेदो नामैकोनाशीत्युत्तरशततमोऽध्यायः ।।१७९।।
2.180
पुष्कर उवाच ।।
पूर्णायुधो भृतिं कृत्वा ततो मांसैर्गतायुषाम् ।।
वराहमृगमेषाणां माहिषाद्यैस्तथा द्विज ।। १ ।।
मुनिधौतं ततः कुर्याद्युग्यं भूपैर्विधानवित् ।।
मृदुसंस्तरणोपेतं मृदु वल्गु च योजयेत् ।। २ ।।
ततो वाहं समारुह्य दंशितः सुसमाहितः ।।
तूर्णमारुह्य बध्नीयाद्दृढां कक्षां च दक्षिणाम् ।।३।।
वैकक्ष्यमपि तच्चापं धारयेद्यन्त्रसंस्थितम् ।।
ततो समुद्धरेद्बाणं ऋणाद्दक्षिणपाणिना ।। ४ ।।
तज्जवः सहितं सर्वं मध्ये संगृह्य धारयेत् ।।
वामहस्तेन वै कक्ष्याद्धनुस्तस्मात्समुद्धरेत् ।। ५ ।।
सुनिषण्णमणिर्भूत्वा गुणे पुङ्खं निवेशयेत् ।।
संपीड्य सिंहकर्णेन पुंखेनापि समे दृढम् ।। ६ ।।
वामकर्णोपरिस्थं च फलं व्यामस्य धारणात् ।।
बलामध्यमया तत्र वामांगुल्या च धारयेत् । ७ ।।
मनोलक्ष्यगतं कृत्वा दृष्टिं च सुविधानवित् ।।
दक्षिणे गात्रभागे तु बलामाशु विमोक्षयेत् ।। ८ ।।
ललाटपुटसंस्थानं दाणीं लक्ष्ये निवेशयेत् ।। ९ ।।
आकृष्य ताडयेत्तत्र दण्डकं षोडशांगुलम् ।।
मुक्त्वा बाणं ततः पश्चाद्बलां शिक्षेत्तदातदा ।। 2.180.१० ।।
विगृह्णीयान्मध्यमया ततोंगुल्या पुनःपुनः ।।
अभिलक्ष्याक्षिपेत्तूणांश्चतुरस्रं च दक्षिणम् ।। ११ ।।
चतुरस्रगतं वैध्यमभ्यसेदादितः स्थितः ।।
तस्मादनन्तरं तीक्ष्णं परावृत्तगतं च यत् ।। १२ ।।
निश्रमुन्नतवेद्यन्तमभ्यसेत्तुष्यकं ततः ।।
वेध्यस्थानेष्वथैतेषु सन्यस्तपुटकं धनुः ।। १३ ।।
हस्तावापगतैः स्रस्तैर्जपेद्धस्तकरैरपि ।।
तस्मिन्वेध्यगते राम द्वे वेध्ये दृढसंज्ञिते ।। १४ ।।
द्वे वेध्ये पुष्करे विद्धि द्वे तथा चित्रपुष्करे ।।
चतुरस्रं च तीक्ष्णं च दृढवेध्ये प्रकीर्तिते ।। १५ ।।
चतुरस्रं स्थूलतीक्ष्णं...... ।।
निम्नं पुष्करमुद्दिष्टं वेध्यमूदूर्ध्वगतं च यत् ।। १६ ।।
पुष्करेऽधमवेध्ये तु चित्रपुष्करसंज्ञके ।।
एवं वेध्यगणं कृत्वा दक्षिणेनेतरेण च ।। १७ ।।
आरोहेत्प्रथमं धीरो जितलक्ष्यस्ततो नरः ।।
एष एव विधिः प्रोक्तस्तत्र दृष्टः प्रयोक्तृभिः ।। १८ ।।
आदिकं भ्रमणं तस्य तस्माद्विद्वन्प्रकीर्तितम् ।।
लक्ष्यं संयोजयेत्तत्र प्रतियन्त्रगतं दृढम् ।। १९ ।।
भ्रान्तं प्रचलितं चैव स्थितं यच्च भवेदिति ।।
समन्ताच्छादयेत्पश्चाच्छेदयेच्छ्लथयेदपि ।। 2.180.२० ।।
कर्मयोगविधानज्ञो ज्ञात्वैवं विधिमाचरेत् ।।
मनसा चक्षुषा दृष्ट्या योगं शिक्षन्न्यसंजयेत् ।। २१ ।।
दत्त्वा प्रयुक्तं सुकृतं प्रमाणान्न्यसेत्समन्तात्पुटकान्विचित्रान् ।।
अप्यङ्गुलीयप्रतिमां जपेच्च वालङ्गताः काष्ठगतं प्रलम्बम् ।। २२ ।।
सिद्धार्थकान्गुञ्जयवांश्च तस्मिन्न्यसेद्विधिज्ञो भ्रमरीरिकाञ्च ।।
मृत्पिण्डसंस्थान्फलकांक्षितांश्च कबन्धनिष्पावकपेलवाश्च ।। २३ ।।
हंसान्मयूरान्कुररांस्तथा च कारण्डवांश्चैव शिलीमुखांश्च ।।
गृध्रानुलूकानथ वापि चाषान्कपोतगोधाशुकसारिकाश्च ।। २४ ।।
पलाशमूलोर्णवपूर्ण देहांश्चर्मावबद्धां मृदुचित्रगात्राम् ।।
वस्त्रयन्त्रैर्विविधैः सुयुक्तां काष्ठावसक्तैर्बहुभिः प्रकारैः ।। २५ ।।
चलान्स्थिरांश्चाप्रगतांश्च विद्धान्न्यसेद्यथान्यायमथोर्ध्वसंस्थान् ।।
व्याघ्रान्मृगेन्द्रान्पृषतान्रुरूंश्च मृगान्सगोकर्णवराहवक्त्रान् ।। २६ ।।
गोमायुमार्जारशशांस्तथान्यानृक्षान्मृगाश्चन्द्रमयेन्दुपूर्णान् ।।
अन्यान्समीपोपगतान्मृगांश्च विधानवित्तान्प्रतियन्त्रसंस्थान् ।। २७ ।।
जातांस्तथान्यांश्च बहुप्रकाराननेकसंस्थानविबद्धदेहान् ।।
नानाविधैस्तैर्विशिखभ्रमस्थः सन्धानयोगैस्त्रिविधश्च हन्यात्।।२८।।
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेय वज्रसंवादे रामं प्रति पुष्करोपाख्याने धनुर्वेदो नामाशीत्युत्तरशततमोऽध्यायः ।।१८०।।