विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायाः २६६-२६९
← अध्यायाः २६१-२६५ | विष्णुधर्मोत्तरपुराणम् अध्यायाः २६६-२६९ वेदव्यासः |
1.266
।। मार्कण्डेय उवाच ।।
ततस्तु सप्तमे प्राप्ते दिवसे युद्धदुर्मदौ ।।
समीयतुर्महात्मानौ शैलूषभरतावुभौ ।। १ ।।
ततस्तु भरतः प्राह शैलूषं युद्धदुर्मदम् ।।
आवयोः प्रस्तुतं सैन्यं किमेतैस्सैनिकैर्मृतैः ।। २ ।।
निवारयस्व सैन्यं स्वं वारयिष्याम्यहं स्वकम् ।।
आवयोर्द्वैरथं युद्धं पश्यन्तु वसुधाधिपाः ।। ३ ।।
त्वदीयाः सैनिका ये च सुरनाथाः सहामरैः ।।
हते मयि मदीयन्त सैन्यं कामं प्रयुध्यताम् ।। ४ ।।
संग्रामं वा करोत्वाजौ त्वदीयन्तु हते त्वयि ।।
एवमुक्तस्तथेत्युक्त्वा वारयामास सैनिकान् ।। ५ ।।
गन्धर्वराट् स शैलूषो भरतोऽपि तथा स्वकान् ।।
ततः प्रववृते युद्धं तयोर्देवासुरोपमम् ।। ६ ।।
पश्यतां सर्व सैन्यानां देवानामपि पश्यताम् ।।
शरजालेन महता छादितार्ककरे रणे ।। ७ ।।
ततक्षतुस्तावन्योऽन्यं शरैः सन्नतपर्वभिः ।।
परस्परशराघात विसरच्छोणितोक्षितौ ।। ८ ।।
विरेजतुस्तौ राजेन्द्र पुष्पिताविव किंशुकौ ।।
उभौ महारथौ वीरौ चोभौ विश्रुतपौरुषौ ।। ९ ।।
तथोभौ वरधानुष्कौ चोभौ समरदुर्मदौ ।।
काञ्चनाङ्गरथस्थौ तौ चोभौ सद्ध्वजशोभितौ ।। 1.266.१० ।।
वीज्यमानौ तथैवोभौ योधाभ्यां वरचामरैः ।।
छत्रयोस्तौ तदाधस्ताच्छुशुभाते महारथौ ।। ११ ।।
उभावस्त्रप्रतापेन चक्रतुस्तुमुलं रणम् ।।
अस्त्रयुद्धं चिरं कृत्वा शरयुद्धं प्रचक्रतुः ।। १२ ।।
शरयुद्धे व्यतिक्रान्ते अस्त्रयुद्धं पुनःपुनः ।।
एवं तौ दिवसं कृत्वा युद्धं संश्रान्तवाहनौ ।। १३ ।।
रोपयन्तौ श्रमं राजन्समरेषु जितश्रमौ ।।
ततो गन्धर्वराजस्तु लम्बमाने दिवाकरे ।। १४ ।।
चकार तामसीं मायां ययान्धमभवज्जगत् ।।
अन्धकारे ततो जाते वाचोऽश्रूयन्त दारुणाः ।। ।। १५ ।।
भरतो हन्यतां शीघ्रं भक्ष्यतां पात्यतां तथा ।।
अभ्यवर्तन्त भरतं सर्पवृश्चिककर्कटाः ।। १६ ।।
मर्कटा वानरा घोराः सृगाला द्वीपिनस्तथा ।।
सिंहव्याघ्रवराहाश्च क्रव्यादा ये च जातयः ।। १७ ।।
अर्द्यमानः स धर्मात्मा भरतस्तैः सुदुर्मुखैः ।।
सौरेणास्त्रेण तां मायां बभञ्ज परवीरहा ।। १८ ।।
ततस्तु महतीं मायां स चकार महाभुजः ।।
उत्तस्थौ सुमहान्मेघश्छादयित्वा नभस्तलम्।।१९।।
प्रववर्ष च घोराणि शस्त्रजालान्यनेकशः ।।
नाराचानर्धनाराचाँस्तथैव चषकाननान् ।। 1.266.२० ।।
वत्सदन्ताँस्तथा वल्लान्कर्णिनालीकगोमुखान् ।।
क्षुरप्रानर्धचन्द्रांश्च वराहवदनांस्तथा ।। २१ ।।
गदाभुशुण्डीः प्रासांश्च भिण्डिपालान्परश्वधान् ।।
हुडान्गुडान्सलगुडाँश्चक्रखड्गांस्तथा परान् । ।। २२ ।।
एतानन्यांश्च विविधान्ववर्ष परमायुधान्।।
पतद्भिरायुधैर्घोरैर्वाध्यमानः स राघवः ।। २३ ।।
वायव्यास्त्रेण तां मायां नाशयामास शत्रुहा ।।
ततो बभूव राजेन्द्र गन्धर्वः पर्वतो महान् ।। २४ ।।
क्षरत्प्रस्रवणो घोरः शिखरैश्च समुच्छ्रितैः ।।
मायां तां पार्वतीं श्रीमान्वज्रास्त्रेण रघूद्वहः ।। २५ ।।
नाशयामास राजेन्द्र सर्वसैन्यस्य पश्यतः ।।
हन्यमानासु मायासु रूपाँश्चक्रे सुदारुणान् ।। २६ ।।
यक्षाणां राक्षसानां च पिशाचानां पतत्त्रिणाम् ।।
सिंहव्याघ्रतरक्षूणां कुञ्जराणां तथैव च ।। २७ ।।
बभञ्ज तस्य मायास्ता दिव्यास्त्रैर्भरतो रुषा ।।
हन्यमानासु मायासु लाघवाद्भरतं रणे ।। २८ ।।
मोहयामास राजेन्द्र शैलूषो रणदर्पितः ।।
भरतोऽपि धनुष्कोट्यां शराग्रे च निलीयते।।२९।।
ध्वजाग्रे च रथाग्रे च तुरगाग्रे पुनः पुनः ।।
सायकान्भारताञ्शैघ्र्याद्ध्वंसयामास यादव ।। 1.266.३०।।
राघवास्तुतुषुस्तस्य देवदैत्याश्च संघशः ।।
असुरा मुमुचुर्घोरमट्टहासं सुदारुणम ।।३१।।
दैत्यानामट्टहासेन भरतः कुपितो भृशम् ।।
नारायणास्त्रं संयोज्य शरेणानतपर्वणा।।३२।।
इयेष हन्तुं तं क्रोधाद्गन्धर्वं रणगर्वितम् ।।
अस्त्रं तत्संहृतं ज्ञात्वा जगाम स्वं रथं त्वरन् ।।३३।।
इयेष हन्तुं तं चास्त्रं रुद्रास्त्रेण तु दारुणम्।।
एतस्मिन्नेव काले तु मुमोच भरतः शरम्।।३४।।
कालानलसमप्रख्यं सपुङ्खं सफलं तथा ।।
राजितं वैनतेयस्य पक्षैः शत्रुविनाशनम् ।। ३५ ।।
हत्वा रुद्रास्त्रवेगन्तु रथस्थस्य महीपतेः ।।
बिभेद हृदयं राजन्वर्म भित्त्वाथ काञ्चनम् ।। ३६ ।।
राज्ञश्च हदयं भित्त्वा भित्त्वा च वसुधातलम् ।।
स्नात्वा रसातलाम्भःसु तूणं पुनरुपागमत् ।।३७।।
गन्धर्वराजोऽभिहतः शरेणा नतपर्वणा ।।
रथनीडे धनुस्त्यक्त्वा ममार परवीरहा ।। ३८ ।।
पितरं निहतं दृष्ट्वा शैलूषतनया रणे ।।
क्रोधदुःखपरीतान्ते भरतं रणकर्कशम् ।। ।। ३९ ।।
विव्यधुर्भूपतिश्रेष्ठ बाणैराशीविषोपमैः ।।
आयुधैर्विविधाकारैस्तदा ते वै रणाजिरे ।। 1.266.४० ।।
मायाश्च विविधाश्चक्रुर्भरतस्य विपत्तये ।।
अन्तरिक्षं च तैर्व्याप्तं नानाहेतिप्रवर्षिभिः ।। ४१ ।।
अस्त्रैश्च केचिद्भरतं प्रववर्षुर्महारथाः ।।
भूरिभावात्स योधानां महास्त्राणां महाबलात् ।। ४२ ।।
प्रतापादस्त्रजालानां संशयं परमं गताः ।।
कालास्त्रमथ सांवर्तं मुमोच भरतस्तदा ।। ४३ ।।
तस्मादस्त्रात्सहस्राणि शस्त्राणां निर्ययुस्तदा ।।
गन्धर्वसैन्यं सकलमस्त्रैस्तैः प्रत्यहन्यत ।। ४४ ।।
शस्त्रैः केचिद्विशिरसः कृत्वा गन्धर्वसत्तमाः ।।
विवाहाश्च कृताः कैचित्केचिद्राजन्द्विधा कृताः ।। ४५ ।।
केचिद्विवाहवश्चैव केचिद्व्यङ्गाश्च यादव ।।
गन्धर्वाणां च ताः कोट्यस्तिस्रः संग्रामशालिनाम् ।। ४६ ।।
क्षणेनास्त्रप्रपातेन भरतेन निपा तिताः ।।
गन्धर्वसैन्ये निहते प्रववुर्मारुताः शिवाः ।। ४७ ।।
पुष्पवर्षं पपाताथ भरतस्य तु मूर्धनि ।।
दिशश्च निर्मलीभूता देवानां विगतं भयम् ।। ४८ ।।
ततो देवः सहस्राक्षः सर्वैः सुरगणैः समम् ।।
विमानस्थो बभाषेदं भरतं धर्मवत्सलम् ।। ४९ ।।
इन्द्र उवाच ।। ।।
पितामहवरोद्रेकादवध्यं देवतागणैः ।।
हतवानसि शैलूषं देवब्राह्मणकण्टकम् ।। 1.266.५० ।।
यस्मात्तस्माद्वरं मत्तो गृहाण रघुनन्दन ।।
।। मार्कण्डेय उवाच ।। ।।
शतक्रतोर्निशम्यैतद्भरतो वाक्यमब्रवीत् ।। ५१ ।।
।। भरत उवाच ।। ।।
त्वमीशः सर्वदेवानां तवेदं सकलं जगत् ।।
अचिरेणैव मरणं त्वदाज्ञाभङ्गकारणाम ।। ५२ ।।
भवंतीह सदा लोके निमित्तं मद्विधो जनः ।।
प्रजापतिकृतं भेदं को मोक्तुं जगति क्षमः ।। ५३ ।।
वरश्च यदि मे देयस्त्वया देव प्रदीयताम ।।
सिन्धोरुभयकूलेषु करिष्यामि पुरद्वयम् ।। ५४ ।।
गंधर्वरक्षिते देशे पुत्रयोरुभयोः कृते ।।
निर्वेशं तदवाप्नोतु प्रसादेन शतक्रतो ।। ५५ ।।
।। मार्कण्डेय उवाच ।। ।।
एवमस्त्वित्यथोक्त्वैव स्वर्लोकं वासवो ययौ ।।
वासवे तु गते नाकं राजा चित्ररथस्ततः ।। ५६ ।।
गंधर्वाणां महातेजा भरतं वाक्यमब्रवीत् ।।
।। चित्ररथ उवाच ।। ।।
गंधर्वा निहता वीरा मदाज्ञाभङ्गकारिणः ।। ५७ ।।
त्वया ते धर्मनित्येन देवब्राह्मणकण्टकाः ।।
तन्मे समुद्धृतं शल्यं देवानाञ्च प्रियं कृतम् ।। ५८ ।।
तस्मात्सभाजयित्वा त्वां यास्यामि त्रिदिवं पुनः ।।
।। मार्कण्डेय उवाच ।। ।।
भरतस्तमुवाचाथ गन्धर्वा निहता मया ।। ५९ ।।
तत एनं जनं तेषां स्त्रियश्च परिपालय ।।
गन्धर्वाः परिपाल्यास्ते तेषां त्वं परिपालकः ।। 1.266.६० ।।
मदीयेनानुरोधेन विशेषात्कर्तुमर्हसि ।।
सर्वेषाञ्च तथा स्थानं पर्वते गन्धमादने ।। ६१ ।।
प्रयातास्तव तत्रस्थाः पालयिष्यन्ति शासनम् ।।
एवं करिष्य इत्युक्त्वा परिष्वज्य च पीडितम् ।। ६२ ।।
सर्वज्ञं भरतं श्रीमान्गन्धर्वस्त्रिदिवं ययौ ।। ६३ ।।
रघुप्रवीरोऽपि रणे मघोनः शत्रून्निहत्वा वरदानयुक्तम ।।
विराजमानो यशसा परेण जगाम राजन्स्वपुरं प्रहृष्टः ।।६४।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शैलूषवधो नाम षट्षट्युत्तरद्विशततमोऽध्यायः ।। २६६ ।।
1.267
।। मार्कण्डेय उवाच ।।
आदित्येऽस्तमनुप्राप्ते सन्ध्याकाले सुदारुणे ।।
निवर्तयामास रथं युधाजिद्भरतस्य च ।। १ ।।
निवर्तयानश्च रथं भरतं वाक्यमब्रवीत् ।।
संग्राममेदिनीं पश्य स्वकृतां रघुनन्दन ।। २ ।।
गन्धर्वाङ्गसमाकीर्णां हतकुञ्जरभूषणाम ।।
तुरङ्गमगणाकीर्णां वरायुधधरां धराम् ।। ३ ।।
संपूर्णचन्द्रप्रतिमैर्दष्टोष्ठै श्चारुकुण्डलैः ।।
भृकुटीतटदुष्प्रेक्ष्यैर्मस्तकैर्भाति मेदिनी ।। ४ ।।
पञ्चशीर्षोरगाकारैर्वराङ्गदविभूषणैः ।।
बाहुभिर्भाति शूराणां वसुधा वसुधाधिप ।। ५ ।।
पद्मपत्रदलाकारैर्गेन्धर्वाणां तथा करैः ।।
भाति सायकविच्छिन्नैः सपद्मेव वसुन्धरा ।। ६ ।।
हस्तिहस्तसमाकारैर्गन्धर्वाणां तथा करैः ।।
विभाति वसुधाकीर्णा वरचन्दनभूषितैः ।। ७ ।।
त्वदेकशरनिर्भिन्नैर्गण्डशैलोपमैर्गजैः ।।
उद्भ्रान्तजीवितैः पश्य विनिकीर्णधरातलम् ।। ८ ।।
आविष्कृतरदैश्चाश्वैर्विवृताक्षैस्तथैव च ।।
पतितैरावृता पश्य तुरङ्गैर्मेदिनी रणे ।। ९ ।।
आतपत्रेः शशाङ्काभैश्चामरैश्च विराजिताम्।।
योक्त्रैः खलीनैः पल्याणैः कुथाभिः कम्बुभिस्तथा ।। 1.267.१० ।।
केशैर्दण्डैस्तथा चापैः प्रासैः खडगैः परश्वधैः ।।
शरैर्नानाप्रकारैश्च नानानामाङ्कितैः शुभैः ।। ११ ।।
मुकुटैरङ्गदैर्हारैः कुण्डलैरपि शोभिताम् ।।
रघुनाथ भुवं पश्य कारुण्येऽपि मनोहराम् ।। १२ ।।
गन्धर्वान्भक्ष्यमाणांश्च क्रव्याद्भिर्मृगपक्षिभिः ।।
पश्य त्वं चारुसर्वाङ्गं सर्वाभरणभूषितम ।। १३ ।।
आकृष्यमाणं निम्नेषु क्रव्याद्भिः कुणवद्रणे ।।
गात्रैश्चलद्भिर्दृश्यन्ते जीवन्तैरिव पार्थिव ।। १४ ।।
सन्निधानं तु योधानां विद्रुतं करपङ्कजम् ।।
धनुर्ग्राहाज्जातकिणं भक्षितेन पतत्रिभिः ।। १५ ।।
अर्धसम्भक्षितैर्वक्त्रैस्तथा सम्पूर्णभक्षितैः ।।
दुर्वृत्तान्पश्य गन्धर्वाञ्शापादिव महीक्षिताम ।। १६ ।।
अनागसां नरेन्द्राणां गन्धर्वैर्यत्पुरा कृतम् ।।
भूयस्तदेव समरे गन्धर्वाणां त्वया कृतम् ।।
रणाजिरे पिशाचानां गन्धर्वान्पश्य राघव ।। १७ ।।
यक्षाणां राक्षसानां च शतशोऽथ सहस्रशः ।।
गन्धर्वमांसलुब्धानां सततं क्षतजाशिनाम् ।। १८ ।।
समुद्रदाराः सम्प्राप्ताः क्रव्यादाः क्षुधिता भृशम् ।।
त्वयैतेषां परा तृप्तिः कृताद्य रणमूर्धनि ।। १९ ।।
नानाविधानि रूपाणि पश्य क्रव्यभुजां रणे ।।
केचित्स्थूलाः कृशाः केचित्प्रांशवो लघवोऽपरे ।।। ।। 1.267.२० ।।
लम्बभ्रूजठराः केचित्तथा चिपिटनासिकाः ।।
वृत्ताक्षाः केकराक्षाश्च दन्तुराः सुविभीषणाः ।। २१ ।।
तथा चैवोर्ध्वरोमाणो महादंष्ट्रा महामुखाः ।।
पुरस्तात्पार्श्वयोर्घोराः पश्चादङ्गदयोः परे ।। ९२ ।।
नानाविधानां सत्त्वानां सदृशैश्च तथाननैः ।।
नानावेशधरा रौद्रा नानाविकृतदर्शनाः ।। २३ ।।
सिंहचर्माम्बरधरा व्याघ्रचर्माम्बरास्तथा ।।
आहूयन्ते दशन्त्यन्ये हरन्त्यन्येऽसृगुत्तमम् ।। २४ ।।
अन्ये स्कन्दं समारोप्य मांसं रक्तं तदागमन् ।।
रक्तापगासु क्रीडन्ति त्वत्कृतासु यथासुखम् ।। २५ ।।
स्नपयन्ति रुधिरैश्चान्ये पाययन्ति परेऽ सृजम् ।।
रक्तं कृत्वा कपालेषु कृत्वोत्सङ्गे पुनःपुनः ।। २६ ।।
भार्याभिश्च सहैवान्ये पिबन्ति रुधिरं रणे ।।
पाययन्ति तथैवान्ये रामा रामानुजः स्वयम् ।। २७ ।।
भार्याकरधृतेष्वन्ये कपालेषु पिबन्त्यसृक् ।।
कौञ्जरेषु कपालेषु पिबन्त्यन्येऽसृगुल्बणाः ।। २८ ।।
शिशून्स्कन्धगतान्कृत्वा तृप्ता नृत्यन्ति चापरे ।।
हस्तमादाय पत्नीनां नृत्यन्त्यन्ये तथैव च ।। २९ ।।
नृत्यन्त्यन्ये हसन्त्यन्ये विकृतैश्च तथा स्वरैः ।।
गायन्त्यन्ये स्वपन्त्यन्ये कलहायन्ति चापरे ।। 1.267.३० ।।
कुणपाँश्च तथैवान्ये त्यजन्त्यन्ये महीतले ।।
अन्यांश्चादातुमिच्छन्ति गृह्णन्ति च तथापरान् ।। ३१ ।।
कुर्वन्ति कलहाँश्चान्ये कुणपार्थाय कुत्सिताः ।।
उत्कृत्य मांसान्यश्नन्ति केचिद्गात्रैर्विभूषिताः ।। ३२ ।।
भुक्त्वा चास्थीनि मज्जाश्च केचिदश्नन्ति राघव ।।
भरतस्य प्रसादेन तृप्ताः स्म इति चापरे ।। ३३ ।।
परस्परञ्च भाषन्ते परं हर्षमुपागताः ।।
नित्यं भवतु राज्ञाञ्च युद्धं वैरं नृशंसता ।। ।। ३४ ।।
बलं सहायाः पुष्टिश्च येन तृप्यामहे वयम् ।।
एवमेते वदन्तश्च स्वरैश्च विविधैर्जगुः ।। ३५ ।।
रथं तथान्ये वीक्षन्ते सस्नेहा भृशदुर्दृशाः ।।
एवं स भरतः श्रीमान्मातुलेन प्रदर्शितम् ।। ३६ ।।
पश्यन्रणाजिरं प्रायाद्येन राजगृहं पुनः ।।
सोऽपश्यन्नगराभ्याशे वायव्यास्त्रविमोहितम्।। ३७ ।।
सैन्यं तत्पार्थिवेन्द्राणां व्रजन्तं समरादिमम् ।।
दृष्ट्वा ते भरतं सर्वे रणरेणुसमुक्षितम ।। ३८ ।।
संग्रामे जयिनं वीरमभ्यनन्दन्त पार्थिवाः ।।
स समेत्य महाभागैः परिष्वज्य च पार्थिवान् ।।
सान्त्वयित्वा च धर्मात्मा शिबिराणि व्यसर्जयत् ।। ३९ ।।
ततः स तां मातुलराजधानीं प्रहृष्टयोधार्यजनाभिरामाम् ।।
विवेश रात्रौ रघुवंशनाथः संस्तूयमानः स्तुतिभिर्नृसिंहैः ।। 1.267.४० ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेय वज्रसंवादे रणभूमिवर्णनो नाम सप्तषष्ट्युत्तरद्विशततमौऽध्यायः ।। २६७ ।।
1.268
मार्कण्डेय उवाच ।।
तस्यां रात्र्यां व्यतीतायां गन्धर्वनगराज्जनाः ।।
गन्धर्वपुत्रदाराश्च राजपत्न्यस्तथैव च ।। १ ।।
रणाजिरं तु संप्राप्य रुरुदुर्भृशदुःखिताः ।।
अहो कृतान्तो बलवान्येन नो बलदर्पिताः ।।२।।
अजेयाः सुरसंघानां संग्रामे विनिपातिताः ।।
नातिभारोऽस्ति दैवस्य नाशक्यं तस्य विद्यते ।। ३ ।।
येन नागायुतप्राणा गन्धर्वतनया हताः ।।
ये पुरा शयनीयेषु परार्ध्येषु मदोत्कटाः ।। ४ ।।
न निद्रामभिगच्छन्ति शेरते तेऽद्य भूतले ।।
तालवृन्तानिलैर्ये त वरस्त्रीभिश्च वीजिताः ।।५।।
वीज्यन्ते पतितास्तेऽद्य गृध्रपत्रैर्महीतले ।।
परार्ध्यचन्दनाक्ताङ्गा ये विरेजुः समागताः ।।६।।
न राजन्तेऽद्य ते सर्वे शोणिताक्ता महातले ।।
आलिंग्य सुषुपुः पूर्वं वरोरुजघनाः स्त्रियः ।।७।।
ये तेऽद्यभूमिमालिङ्ग्य दुःखशय्यासु शेरते ।।
हा राजन्देवदर्पघ्न हा राजन्भृत्यवत्सल ।। ८ ।।
हा राजँश्चारु सर्वाङ्ग हा राजन्सूतवत्सल ।।
बाहुच्छायामुपाश्रित्य वयं कस्य जनेश्वर ।।९।।
निर्भया देवदैत्यानां निवत्स्यामो यथासुखम ।।
संपूर्णचन्द्रवदनं पुत्र कोटिभिरावृतम् ।। 1.268.१० ।।
विषमस्थमितो दृष्ट्वा यास्यामो यमसादनम् ।।
सभास्थं त्वामपश्यन्तो यास्यामो यमसादनम ।। ११ ।।
एवं जने तु शोकार्ते करुणं विलपत्यथ ।।
गन्धर्वराजपुत्राणां पत्न्यस्ताः सुमनोहराः ।। १२ ।।
ततस्ता दुःखशोकार्ताः कारुण्ये महति स्थिताः ।।
भर्तारं शिरसा हीनं काचिद्बाहुविनाकृतम् ।। १३।।
द्विधा कृतं तथैवान्या काचित्क्रव्यादभक्षितम् ।।
दृष्ट्वा रुरोद दुःखार्ता काचिन्नासादयत्यपि ।। १४ ।।
कुणपेषु स्खलन्त्यस्ता बभ्रमुस्तत्र दुःखिताः ।।
उरांसि पाणिभिर्घ्नन्त्यो लूनयन्त्यः शिरोरुहान् ।। १५ ।।
नावाप यासां भवने पुरा सूर्योऽपि दर्शनम् ।।
दुःखिता मुक्तकेशास्ता जनः सर्वोऽथ पश्यति ।। १६ ।।
पतन्त्युपरि भर्तॄणां समालिङ्गन्ति चापराः ।।
रुदन्त्यन्यास्तथा राजन्नुत्कृत्यमधुरस्वराः ।। १७ ।।
रुदन्तीनां तथा तासां राजपत्न्यः सुदुःखिताः ।।
रुरुदुः करुणं राजन्विप्रकीर्णशिरोरुहाः ।। १८ ।।
हा कान्त हा महाराज हा महाजनवल्लभ ।।
हा सुरेश्वरदर्पघ्न हा शशाङ्कनिभानन ।। १९ ।।
हे भर्तः केन ते बुद्धिर्मरणं प्रति गाहिता ।।
हा राजँस्त्वमिमां भूमिं समालिङ्य प्रियामिव ।। 1.268.२० ।।
वसुधां प्रियबाहुभ्यां समाजे किं न लज्जसे ।।
किं शेषे पुरतोऽस्माकं विशेषेण रजस्वलाम् ।।२१।।
खेचरस्यापि ते राजन्सततं वसुधा प्रिया ।।२२।।
नाडायनवचस्तद्धि त्वयानर्थाय न श्रुतम् ।।
प्रिया ते यद्यपि मही तथाप्यस्मासु पार्थिव।।
युक्तं हि कर्तुं दाक्षिण्यं यतस्त्वं मत्कुलोद्भवः।।२३।।
अतर्कितप्रयाणेन त्वया स्म परिपीडिताः ।।
वाङ्मात्रेण कुरुष्वास्मान्सान्त्वनं रिपुसूदन ।।२४।।
राज्ञो न युक्तं शयनं विवृते वसुधातले ।।
तस्मादुत्तिष्ठ राजेन्द्र शयनं भज मा चिरम् ।।२५।।
नुन्ना वयं महाराज मदनेन मदेन च ।।
कण्ठे नु कं गृहीष्यामस्त्वया हीना जनेश्वर ।। २६ ।।
कृतान्तो बलवान्राजन्येनाकृष्याद्य नीयसे ।।
नाडायनस्य वचनं त्वया यदि कृतं भवेत् ।। २७ ।।
नाभविष्यद्वियोगस्तु त्वयास्माकं जनाधिप ।।
निश्चेष्टाङ्गः कथं त्वद्य राजन्स्वपिषि भूतले ।। २८ ।।
उत्थाय वीर चास्माकं परिष्वज्य न चुम्बसे ।।
विजित्य समरे वीरान्हत्वा च वसुधाधिपान् ।। २९ ।।
कथमेकेन युद्धे त्वं मानुषेण निपातितः ।।
क्व ते वपुः क्व ते तेजः क्व सा लक्ष्मीः क्व ते बलम् ।। 1.268.३० ।।
क्व ते तद्विमलं छत्रं क्व च ते वरचामरम् ।।
क्व तत्पीठञ्च शृङ्गारं क्व च ते तनया विभो ।। ३१ ।।
क्व सा लीला क्व सा लक्ष्मीः क्व च ते वरवन्दिनः ।।
वरचामरधारिण्यः क्व च ताः परमाङ्गनाः ।। ३२ ।।
अद्यैवस्मस्त्वया हीना अद्यैव स्पृहयामहे।।
अद्यैव स्मरणीयस्त्वं गतोऽसिजनवल्लभ ।। ३३ ।।
नूनं कान्ततरः स्वर्गे राजेन्द्र प्रमदाजनः ।।
यत्त्यक्त्वा स्वजनं तस्य रतिर्बद्धा त्वयानघ ।। ३४ ।।
स्वच्छन्दचारिणा केन मतिः शूरनिषेविता ।।
त्वया प्रार्थयता लोके युद्धश्रद्धा विवर्द्धिता ।।३५।।
वल्लभस्य जनस्यास्य लालितस्य तथा त्वया ।।
दीर्घप्रयाणे कर्तव्यो वाङ्मात्रेणाप्यनुग्रहः।।३६।।
विसर्जय जनं राजन्क्रीडामः सहितास्त्वया ।।
उद्यानेषु विचित्रेषु वनेषूपवनेषु च ।।३७।।
वयमीर्ष्यां न कुरुमः सर्वलोकस्य पश्यतः ।।
वज्रसारमिदं नूनं हृदयं सुदृढं कृतम्।।३८।।
गतासुमपि दृष्ट्वा त्वां शतधा यन्न दीर्यते।।
कर्पूरचन्दनार्द्राङ्ग महार्हशयनोचित ।।३९।।
विराजसे न राजेन्द्र रुधिराक्तो महीतले ।।
क्व ते भिन्नघटा नागास्तुरगाः क्व च ते गजाः ।। 1.268.४० ।।
क्व ते योधा गता राजञ्शक्रविस्पर्धिनो रणे ।।
सैन्ये महति तिष्ठन्तं खड्ग बाणधनुर्धरम् ।। ४१ ।।
कथं त्वामनयद्राजन्परलोकाय राघवः ।।
कृतान्तसमदृष्ट्यैव वेपथुस्ते जनेश्वर ।। ४२ ।।
स कथं मानुषेणाद्य संग्रामे विनिपातितः ।।
तद्वयं किं करिष्यामो निराशास्तव जीविते ।। ४३ ।।
न मेस्ति कल्पो दृष्टिर्वा मे नसोर्दृष्टिसङ्गतिः ।।
एवं विलपमानास्ता. शैलूषस्य तु योषितः ।। ४४ ।।
आलिङ्ग्यालिङ्ग्य तं राजन्निपतन्ति महीतले ।।
शिरांसि च विनिघ्नन्ति ताडयन्ति भुजास्तथा ।। ४५ ।।
पश्यन्ति भूयस्तं वीरं भूमावुत्क्रान्तजीवितम् ।।
दृष्ट्वा भूयश्च निःसंज्ञा निपतन्ति महीतले ।। ४६ ।।
तासां रोदनशब्देन समाक्रान्तमहीतलम् ।।
तासामाश्वासनं चक्रे विद्वान्नाडायनो द्विजः ।। ४७ ।।
एतस्मिन्नेव काले तु तं देशमपराजितः ।।
गन्धर्वेन्द्रः समभ्यागाद्भरतेन प्रचोदितः ।। ४८ ।।
स तत्स्थानमथाभ्येत्य जनं सर्वं यथाविधि ।।
आश्वासयामास तदा राजा चित्ररथः शनैः ।। ४९ ।।
सत्कारं लम्भयामास शैलूषं तनयैः सह ।।
राज्ञा चित्ररथेनाथ गन्धर्वास्ते प्रचोदिताः ।। 1.268.५० ।।
राज्ञश्चक्रुश्चितां काष्ठैः सुशुष्कैर्बहुभिस्तदा ।।
पुत्राणामस्य सर्वेषां योधानामप्यशेषतः ।।
चन्दनागुरुकाष्ठैस्ते तथा कालीयकस्य तु।।५१।।
चितां गन्धैश्च तैलैश्च प्रज्वाल्य च घृतेन ते ।।
संस्कारयित्वा तान्सर्वान्नगराय प्रवव्रजुः ।। ५२ ।।
गन्धर्वराजवचसा ततः सर्वो महाजनः ।।
नाडायनं पुरस्कृत्य प्रययौ गन्धमादनम् ।। ५३ ।।
निवेशं कृतवांस्तत्र रामपर्वतरोधसि ।।
कृत्वा निवेशनं तत्र सर्वे चित्ररथाज्ञया ।।
सुखमूषुर्महाराज पाल्यमाना महात्मना ।। ५४ ।।
बभूव तत्रापि पुरप्रधाने शैलूषपौत्रस्तु जनस्य राजन् ।।
गन्धर्वराजस्तु चकार तस्य संरक्षणं राघवमुख्यवाक्यात ।। ५५ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेय वज्रसंवादे गन्धर्वस्त्रीविलापो नामाष्टषष्ट्युत्तरद्विशततमोऽध्यायः ।। २६८ ।।
1.269
।। मार्कण्डेय उवाच ।।
अथाषाढस्य मासस्य शुक्लपक्षावसानिकम् ।।
उत्सवं त्रिदशेन्द्राणां समाप्तं दिनपञ्चकम ।। १ ।।
क्षीरोदथेषशयनं भगवान्मधुसूदनः ।।
योगनिद्रां तदा भेजे लोकानां हितकाम्यया ।। ।। २ ।।
भरतोऽप्युत्सवं कृत्वा पूजयित्वा जनार्दनम् ।।
महीदानं तथा कृत्वा नक्ताशी दिनपञ्चकम् ।। ३ ।।
चातुर्मास्ये निवृत्ते च मधुमांसस्य भक्षणात् ।।
विसर्जयामास गृहात्पूजयित्वा महीपतीन् ।। ४ ।।
उक्त्वा बहुविधैः सान्त्वैः परिष्वज्य सुपीडितम् ।।
गन्धर्वनगरावाप्तैर्विभज्य धन संचयैः ।। ५ ।।
संपूज्य वर्षारात्रौ तु स्वकीयं सैनिकं जनम ।।
संमंत्र्य प्रेषयामास सोत्कण्ठं दयिताजने ।। ६ ।।
प्रेषयित्वा जनं प्रायात्किञ्चिछेषं स्वसैनिकैः ।।
उवास मातुलगृहं भरतां देवराजवत ।। ७ ।।
अवसच्चतुरोमासान्प्रीत्या राघवसत्तमः ।।
ततः कार्तिकमासाद्य शुक्लपक्षावसानिकम् ।। ।। ८ ।।
उत्सवं विपुलं चक्रे संप्राप्य दिनपञ्चकम ।।
प्रबोधं देवदेवस्य त्रिदशानां महोत्सवे ।। ९ ।।
तेषु दत्त्वा महादानं कार्तिक्यां च विशेषतः ।।
पूजयित्वा जगन्नाथं शङ्खचक्रगदाधरम् ।। 1.269.१०।।
शुभे दिने सुनक्षत्रे पूजयित्वा द्विजोत्तमान् ।।
सांवत्सरं पुरस्कृत्य स्थपतींश्च स राघवः ।। ११ ।।
सिंधोरुभयपार्श्वे तु स चकार पुरद्वयम ।।
पुष्करं पुष्करावत्यां तक्षं तक्षशिलां प्रति ।। १२ ।।
आरम्भं पुरयोः कृत्वा सोभिषिच्य सुतावुभौ ।।
पुरद्वये महाराज विधिवद्भूरिदक्षिणः।। १३ ।।
पुष्करे पुष्करं पुत्रं तदा तक्षं च यादव ।।
पुरुद्वये समाकीर्णे वणिग्भिर्ब्राह्मणैस्तथा ।। १४ ।।
शिल्पिभिश्च महाराज नानाशिल्पोपजीविभिः ।।
गृहपुञ्जसमाकीर्णे देवायतनभूषणे ।। १५ ।।
प्रतिष्ठिते तदा राज्ये पुत्रयोर्भरतस्तदा ।।
धनरत्नाश्वनागैश्च विभज्य तनयावुभौ ।। १६ ।।
युधाजिति परीदाय गते संवत्सरे तदा ।।
अतीते कार्तिके मासे नक्षत्रे तु गुणान्विते ।। १७ ।।
जगाम भरतः श्रीमान्रामं द्रष्टुं नराधिप ।।
सोनुयातः सुतैर्वीरो मातुलेन युधाजिता ।। १८ ।।
तीरे स्वधाम्नस्तौ पुत्रौ मातुलं तु युधाजितम् ।। ।
विसर्जयामास गृहान्परिष्वज्य च पीडितम् ।। १९ ।।
भरतः साश्रुनयनो बलेन चतुरङ्गिणा ।।
स्तोकेन काञ्चनाङ्गेन रथेन च तथा ययौ ।। 1.269.२० ।।
संरुध्य च रथात्ते तु गच्छन्तं भरतं तदा ।।
ददृशुर्दीनमनसः किंचिदागतविभ्रमाः ।। २१ ।।
मुहुर्मुहुः परावृत्य भरतः कथमप्यगात् ।।
परस्परमपश्यन्तो त्वरावन्तस्तथा गताः ।। २२ ।।
भरतोपि तथा देशान्सरांसि सरितस्तथा ।।
ग्रामपत्तनसंगाद्यान्व्यतिक्रम्य पुरीं ययौ ।। २३ ।।
अथाससाद चायोध्यां दीर्घकालप्रवासकः ।।
प्रविश्य नगरं तत्र पताकाध्वजसङ्कुलम् ।। २४ ।।
सुधावदातभवनं सिक्तं चन्दनवारिणा ।।
कृतं रामाज्ञया सर्वं पूजितामरबालकम ।। २५ ।।
निर्ययौ पुरतस्तस्य चतुरङ्गबलान्वितः ।।
रामाज्ञया महातेजा नागरैः सह लक्ष्मणः ।। २६ ।।
भरतं लक्ष्मणो दृष्ट्वा चिरकालप्रवासकम् ।।
अभ्यवादयत प्रीत्या शिरः कृत्वा महीतले ।। २७ ।।
भरतो मूर्ध्न्युपाघ्राय सम्परिष्वज्य पीडितम् ।।
सर्वत्र कुशलप्रश्नं तत्र कृत्वा यथाविधि ।। २८ ।।
यथार्हं पूजयामास जनं नगरवासिनम् ।।
कुशलप्रश्नयोगेन स्मितपूर्वाभिभाषिता ।। २९ ।।
स तेन जनवृन्देन पूज्यमानो मुहुर्मुहुः ।।
विवेश नगरं श्रीमान्भरतो नागधूर्गतः ।। 1.269.३० ।।
विमानहर्म्यप्रासादगवाक्षकगतेन तु ।।
स्त्रीजनेन महातेजा वीक्ष्यमाणस्तु सस्पृहम् ।। ३१ ।।
आससाद महातेजा नरेन्द्रद्वारमायतम् ।।
तत्र वादित्रनादोऽभून्महान्कलकलस्तथा ।।।३२ ।।
राजद्वारमथासाद्य सोवरुह्य गजोत्तमात् ।।
आदाय लक्ष्मणं पाणौ प्रविवेश तदा सभाम् ।।३३ ।।
तत्र सिंहासने रामं स ददर्श महाभुजम् ।।
चन्दनेनानुलिप्ताङ्गं सर्वाभरणभूषितम् ।। ३४ ।।
संपूर्णचन्द्रवदनं नीलोत्पलदलेक्षणम् ।।
दृष्ट्वैव रामं भरतः कृत्वा भूमिगतं शिरः ।। ३५ ।।
निपपात महातेजा लक्ष्मणेन विशेषतः ।।
रामोपि भरतं दृष्ट्वा समुत्थाप्य महाभुजम् ।। ३६ ।।
जग्राह पीडितं कण्ठे मूर्ध्न्युपाघ्राय चासकृत् ।।
आदिदेशासनं तस्य पृष्ट्वा कुशलमव्ययम् ।।३७।।
निवेद्य रत्नमुख्यानि गन्धर्वाणां स राघवः ।।
रामाय धर्मनित्याय यथा भेजे वरासनम् ।। ३८ ।।
पृष्टस्स रामेण निवेदयित्वा वृत्तं यथावत्पुरुषप्रवीरः ।।
विसर्जितस्तेन गृहाय गत्वा संपूजयामास तदा स विष्णुम् ।। ३९ ।।
स्वप्ने तथोवास स रामपादौ चासाद्य वीरः समरेष्वजेयः ।।
रामोपि राज्यं सहितस्तु तेन चकार सम्यङ्निहतारिपक्षः ।। 1.269.४० ।।
ततश्चतुर्थे परिवत्सरे तु शुश्राव रामः पुरयोः प्रतापम् ।।
कृत्वा सुताभ्यां भरतस्य विष्णोर्मुदञ्च लेभे परमां प्रहृष्टः ।। ४१ ।।
एषोऽद्य प्रोक्तो विजयो मया ते रणाजिरे राघवनंदनस्य ।।
श्रोतव्यमेतन्नियमेन पुंसा विज्ञानधर्मार्थयशोभिरामम् ।। ४२ ।।
इति श्रीविष्णुमहापुराणे द्वितीयभागे श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्रीरामचंद्रभरतसमागमो नामैकोनसप्तत्युत्तरद्विशततमोऽध्यायः ।। २६९ ।। ।। ।।
समाप्तश्चायं प्रथमखण्डः ।।