विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायाः २६१-२६५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः २५६-२६० विष्णुधर्मोत्तरपुराणम्
अध्यायाः २६१-२६५
वेदव्यासः
अध्यायाः २६६-२६९ →

1.261
मार्कण्डेय उवाच ।।
निशावसाने गन्धर्वाः कृत्वा व्यूहं सुदुर्जयम् ।।
संप्रतीक्ष्यन्त भरतमायान्तं रणकोविदम् ।। १ ।।
भरतोऽपि च रात्र्यन्ते वज्रव्यूहेन दंशितः ।।
आससाद महत्सैन्यं गन्धर्वाणां सुदुर्जयम् ।।। २ ।।
ततः प्रववृते युद्धं यमराष्ट्रविवर्द्धनम्।।
देवासुरसमप्रख्यं त्रैलोक्यभयकारकम ।। ३ ।।
पत्तीनां पत्तिभिः सार्धं सादिनां चैव सादिभिः ।।
रथिनां रथिभिश्चैव कुञ्जराणां च कुञ्जरैः ।। ४ ।।
भाषतां नामगोत्राणि शूराणां चैव गर्जताम् ।।
धनुषां कूजतां चैव शब्दः समभवत्तदा ।। ५ ।।
ततः प्रवृत्ते संग्रामे भारतिः पुष्करो रणे ।।
आससाद विशालाक्षं गन्धर्वं रणगर्वितम् ।। ६ ।।
तक्षश्च भारतिः श्रीमान्युयुधे वीरबाहुना ।।
सेनानीर्विजयः श्रीमान्नमुचिश्च तमागतः ।। ७ ।।
भूमन्युः कौरवः श्रीमान्कामपालेन संगतः ।।
किरातराजो दमनश्चन्द्रापीडेन संगतः ।। ८ ।।
प्रभद्रकेण शिबिना तथैवाजिकरो रणे ।।
महोदयः मुनिर्देशो हरिकेशेन संगतः ।। ९ ।।
त्रैगर्तो वसुदानश्च सूर्यरश्मिश्च संगतौ ।।
गन्धर्वः कुमुदापीडः कुलूताधिपतिर्जयः ।। 1.261.१० ।।
चक्रतुस्तुमुलं युद्धं देवासुरसमं तदा ।।
दाशेरकस्तथा राजा यवनो वाशनः परः ।। ११ ।।
एकलव्यश्च संग्रामे तेनासीत्सुमहात्मना ।।
कुमुदः शोणिमा शूरो बलबन्धुः सुयोधनः ।। १२ ।।
गन्धर्वैः पञ्चभिः पञ्च पार्वतीयाः समागताः ।।
बलाकाबलकाभ्यां तु गदिना मौलिना तथा ।। १० ।।
कुमुदेन तु वीरेण सदसीष्वनिवर्त्तिना ।।
मद्रराजोंऽशुमान्नाम चतुर्भिः संगतो रणे ।। १४ ।।
भीमनादमहानादवसुषेणगजाकरैः ।।
दार्वः श्रुतञ्जनः श्रीमानभिमानः कृतञ्जयः ।। १५ ।।
युद्धं तौ चक्रतुर्घोरं सहितौ चन्द्रवर्मणा।।
काश्मीरकः सुबाहुश्च गन्धर्वेण सुबाहुना ।। १६ ।।
चकार तुमुलं युद्धं भीरूणां भयवर्द्धनम् ।।
भरतस्यापरं योधा गन्धर्वैभीमविक्रमैः ।। १७ ।।
समागतास्तदा युद्धे शतशोऽथ सहस्रशः ।।
भरतश्च महातेजाः शैलूषेण समागतः ।। १८ ।।
चकार तुमुलं युद्धं सर्वभूतभयङ्करम् ।।
पर्वताभेन नागेन त्रिधा प्रस्रवता मदम् ।। १९ ।।
बाधमानमरीन्संख्ये महेन्द्रमिव दानवान् ।।
विशालो वरयामास रथेनाभ्येत्य पुष्करम्।।1.261.२० ।।
बाणौघेन रणे भित्त्वा वेगं पुष्करदन्तिनः ।।
पुष्करं ताडयामास नाराचैर्बहुभिस्तदा ।। २१ ।।
रिपुभिस्ताड्यमानस्तु भारतिर्भीमविक्रमः ।।
ववर्ष शरसंघातैर्विशालं सेनया सह ।। २२ ।।
पुष्करस्य विशालोऽथ मध्ये चिच्छेद कार्मुकम् ।।
छिन्नधन्वा विशालस्य स जघानाथ सारथिम् ।। २३ ।।
आक्रम्य योधयामास विशालस्य महारथम् ।।
यदा रणे महाराज पुष्करस्य रथोत्तमम् ।। २४ ।।
हन्तुं स रथमुत्सृज्य विशालोपि महीपतेः ।।
गदया योधयामास पुष्करस्य तु वारणम् ।। २५ ।।
पुष्करोऽपि गदापाणिर्विशालाभिमुखं ययौ ।।
गदाभिस्तौ ततो वीरौ परस्परजिगीषया ।। २६ ।।
सव्यदक्षिणतस्तत्र मण्डलानि विचेरतुः ।।
प्रजह्रतुस्तथान्योन्यमन्योन्यस्य वधैषिणौ ।। २७ ।।
पुष्करेण रणे योगाद्विशालस्य गदा हता ।।
मुमोच पावकं तीक्ष्णं सस्फुलिङ्गं महीपते ।। २८ ।।
विशालेन ततो युद्धे गदया पुष्करो हतः ।।
हिमवत्सन्निकाशस्तु न चचाल पदात्पदम् ।।२९।।
पुष्करेण महाराज विशालो गदया हतः ।।
ततः शैलूषवचनान्महामात्रप्रचोदितम् ।। 1.261.३० ।।
आरुरोह महानागं विशालो रणदर्पितः ।।
आरुरोह रथं श्रीमान्गन्धर्वस्य च पुष्करः ।। ३१ ।।
तावेकरथमारूढो तदा राजेन्द्रपुष्करौ ।।
निजघ्नतुर्विशालस्य संग्रामे वरवारणम् ।। ३२ ।।
यस्यावर्जि तन् स्य कुञ्जरान्निपतिष्यतः ।।
चिच्छेदाथ विशालस्य शिरो ज्वलितकुण्डलम्।। ३३ ।।
हत्वा विशालं संग्रामे रथमारुह्य चापरम् ।।
छादयामास तत्सैन्यं गन्धर्वाणां शरोत्करैः ।। ३४ ।।
विशालं निहतं दृष्ट्वा रुहः परमकोपनः ।।
सादी जघान प्रासेन गान्धारं रणगर्वितम्।। ३५ ।।
तस्य चिच्छेद गान्धारः सप्रासं तु भुजद्वयम् ।।
शिरश्च सशिरस्त्राणं क्षुरप्रेण महीपते ।। ३६ ।।
तक्षो रथेन शुभ्रेण किङ्किणीजालमालिना ।।
आससाद महाबाहुं वीरबाहुं रणाजिरे ।। ३७ ।।
एकच्छाय इवाकाशस्तयोरासीच्छरोत्करैः ।।
न वाति पवनस्तत्र न विभ्राजति भास्करः ।। ३८ ।।
तक्षः सपुङ्खमाकृष्य बाणं भास्करप्रभम् ।।
चिच्छेद सारथेस्तस्य शिरो ज्वलितकुण्डलम् ।। ३९ ।।
निर्यन्तृणा रथेनासौ समरादपवाहितः ।।
तस्मिन्रणाजिरान्नीते तक्षं कुञ्जरधूर्गतः ।। 1.261.४० ।।
आजगाम महाराज गन्धर्वस्तु सुदर्शनः ।।
तस्यापतितमात्रस्य शरेण नतपर्वणा ।। ४१ ।।
चिच्छेद नागमूर्धानं भारतिर्भीमविक्रमः ।।
सेनानीर्विजयः श्रीमान्नमुचिश्च समागतौ ।। ४२ ।।
सारथिं तुरगान्केतुमदृश्यं चक्रतुः शरैः ।।
अन्योऽन्यस्य महाराज समरे भीमविक्रमौ ।। ४३ ।।
चतुर्भिः सायकैर्हत्वा नमुचेः स तुरङ्गमान् ।।
पञ्चमेन शिरः कायाज्जहार रथसारथेः ।। ४४ ।।
नमुचिर्विरथः खड्गमादाय परवीरहा ।।
जगामाभिमुखस्तूर्णं सेनापतिमरिन्दम ।। ४५ ।।
वेगेनापततस्तस्य चक्रमादाय भास्वरम् ।।
विवृत्ताक्षन्तु चिच्छेद तस्य मूर्धानमञ्जसा ।। ४६ ।।
भूमन्युः कामपालश्च चक्रतुर्युद्धमुत्तमम ।।
यथा देवासुरे युद्धे बलशक्रौ महाबली ।। ४७ ।।
तावुभौ कुञ्जरारूढौ परस्पग्वधैषिणौ ।।
तोमरैश्चक्रतुर्युद्धं सूर्यांशुसदृशप्रभैः ।। ४८ ।।
युध्यतामेव तेषां तु भूमन्युर्वरवारणः ।।
पार्श्वे जघान दन्ताभ्यां कामपालस्य वारणम् ।।४९।।
सहितस्तेन नागेन कृत्वा रावं भयानकम् ।।1.261.५०।।
आसीत्पराङ्मुखो युद्धे वर्त्तमानः स्वकं बलम् ।।
कामपालं रणे जित्वा भूमन्युर्भीमविक्रमः ।।५१।।
गन्धर्वसेनां सहसा जघान निशितैः शरैः ।।
किरातराजो दमनश्चन्द्रापीडश्च संगतौ ।। ५२ ।।
चक्रतुस्तुमुलं युद्धं समरे रथधूर्गतो ।।
चन्द्रापीडशरव्रातनिहतौ पार्ष्णिसारथी ।। ५६ ।।
किरातराजस्तुरगाणां स्वयं रश्मिग्रहोऽभवत् ।।
विव्याध स शरव्रातैश्चन्द्रापीडं रणे तदा ।। ५४ ।।
चन्द्रापीडशरव्रातैः कृतापीडो रणाजिरे ।।
जघान तुरगास्तस्य दमनस्य महीपतेः ।। ५५ ।।
शक्त्या वेगाच्च विव्याध तदा तं भीमविक्रमम् ।।
शक्त्या विभिन्नहृदयः पपात वसुधातले ।। ५६ ।।
जघान भारतं सैन्यं चन्द्रापीडोऽपि सायकैः ।।
आरोप्य स्वरथे वीरं मधुमान्दमनं तथा ।। ५७ ।।
चकार विरुजं शीघ्रमव्रणं च महौषधैः ।।
युयुधे च निकुम्भेन मत्स्यराट् सरथस्तथा ।। ५८ ।।
रथस्थितौ महावीरौ वरचापमहाकरौ ।।
अन्योऽन्यं शरवर्षेण छादयेतां घनाविव ।। ५९ ।।
सुरथस्तु निकुम्भस्य शरेण नतपर्वणा ।।
चापमृष्टौ प्रचिच्छेद भुजदंडं तथाहवे ।। 1.261.६० ।।
निकुम्भोऽपि प्रचिच्छेद सुरथस्य तु कार्मुकम् ।।
तावन्ये धनुषी सज्ये कृत्वा वीरौ परस्परम् ।। ६१ ।।
छादयेतां तथान्योऽन्यं वीरौ सायकवृष्टिभिः ।।
अन्योऽन्यस्य हयान्हत्वा चिच्छेद धनुषी ततः ।। ६२ ।।
हयान्रथाभ्यां कालस्य निर्जित्यावशमोजसा ।।
धनुषो मध्यभागे तु अन्योऽन्यस्य न्यकृन्तताम् ।। ५३ ।।
विरथावसियुद्धाय चक्रतुर्यत्नमुत्तमम् ।।
आदाय विपुलं चर्म शतचन्द्रं च भास्वरम् ।। ६४ ।।
आदधाते खङ्गवरावन्योऽन्यवधकांक्षिणौ ।।
खड्गमाकाशसदृशमन्योऽन्यं प्रविजघ्नतुः ।। ६५ ।।
मण्डलानि विचित्राणि गतप्रत्यागतानि च ।।
कैशिकानि तु मार्गाणि दर्शयामासतुस्तदा ।। ६६ ।।
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं विसृतं सृतम् ।।
संपातसमुदीर्णं च खड्गवर्मविदारणम ।। ६७ ।।
ईक्षितृप्रीतिजननं युद्धमासीत्तयोस्तदा ।।
कृत्वा तौ सुचिरं युद्धं परस्पररणे हतौ ।। ६८ ।।
जग्मतुर्वसुधां वेगाच्छक्रचापसमावुभौ ।।
ततः स्वरथमारोप्य सुरथो रथिवर्धनः ।। ६९ ।।
तस्माद्देशादपोवाह्य सर्वसैन्यस्य पश्यतः ।।
निकुम्भे चाथ समरे सुरथेन तदा रुषा ।। 1.261.७० ।।
गोवासनेन साल्वेन त्वरमाणः समागतः ।।
बाणजालेन समरे चक्रुर्युद्धं सुभैरवम् ।। ७१ ।।
तावुभौ रथगौ वीरौ रेजतुर्दिव्यधन्विनौ ।।
ततक्षतुः शरव्रातैस्तदान्योऽन्यं तथान्वितौ ।।७२।।
अन्योन्यस्य हयान्हत्वा छित्त्वा च धनुषी तथा।।
विरथौ चक्रतुर्युद्धं गदाभिरितरेतरम् ।। ७३।।
विचेरतुस्तौ संग्रामे गदाहस्तौ मदोद्धतौ ।।
वासितार्थे वने मत्तौ कुञ्जराविव यूथपौ ।।७४।।
सुचिरं तौ तदा युद्धं कृत्वा व्यायामकर्षितौ ।।
प्रहारवरसंतप्तौ जग्मतुर्वसुधातलम् ।। ७५ ।।
विह्वलौ रथयोः कृत्वा नीतौ तौ स्वस्वसैनिकैः ।।
विरुजौ च कृतौ भूयो रणशीर्षमुपागतौ ।। ७६ ।।
प्रभद्रकश्च संग्रामं चकाराजगरेण ह ।।
ईक्षितृप्रीतिजननशरसंछादिताम्बरम ।। ७७ ।।
सुमुखे वर्त्तमानस्य तदा गजाप्रभद्रकः ।।
चिच्छेदाजगरस्याजौ शिरो ज्वलितकुण्डलम् ।। ७८ ।।
महोदयः कुणिदेशो हरिकेशस्य संयुगे ।।
गजेन पोथयामास सुरथं सरथसारथिम् ७९ ।।
हताश्वरथमुत्सृज्य गदया सुदृढं रणे ।।
हरिकेशं महाबाहुं चकार गतजीवितम् ।। 1.261.८० ।।
त्रैगर्तो वसुधानश्च सूर्यरश्मिश्च संगतौ ।।
चक्रतुस्तुमुलं युद्धं बलि शक्राविवापरौ ।।८१।।
कृत्वा तौ सुचिरं युद्धं परस्परसमाहतौ ।।
विचेतसौ रथोपस्थे निषेदतुररिन्दमौ ।। ८२।।
विसंज्ञौ तु तदा नीतौ सारथिभ्यां रणाजिरात् ।।
गन्धर्वः कुमुदापीडः कुलूताधिपतिर्जयः ।।८३।।
चक्रतुस्तुमुलं युद्धं देवासुरसमं तदा ।।
अन्योऽन्यस्य हयान्हत्वा छित्त्वा च धनुषी दृढे ।। ८४ ।।
खड्गयुद्धं चिरं कृत्वा छिन्नखड्गौ परस्परम् ।।
नियुद्धं चक्रतुर्वीरौ बाहुद्रविणशालिनौ ।। ८५ ।।
नियुद्धस्यावसाने तु कुलूताधिपतिं जयम् ।।
गन्धर्वः कुमुदापीडो निष्पिपेष महीतले ।। ८६ ।।
ततः खड्गं रयाद्गृह्य शिरश्छेत्तुं समुद्यतः ।।
नृशंसं तं समालोच्य सेनापतिमरिन्दम ।। ।। ८७ ।।
विजयस्तस्य मूर्धानं पातयामास भूतले ।।
दाशेरकस्तथा राजा यश्च गोवाशनोशनः ।। ८८ ।।
एकलव्यस्य संग्रामं तैरासीत्सुमहात्मनः ।।
तस्यैकलव्यस्तुरगाञ्जघानाथ शिलीमुखैः ।। ८९ ।।
गदया घातयामास स च तस्य तुरङ्गमान् ।।
तयोर्विरथयोर्भृत्यैरुपनीतौ तुरङ्गमौ ।। ।। 1.261.९० ।।
पृष्ठतश्च तथा रूढौ वरप्रासधरावुभौ ।।
प्रासविभ्रामणोत्क्षेपपरिवर्त्तविवर्त्तनौ ।। ९१ ।।
चक्रतुस्तुमुलं युद्धं चित्रं लघु च सुष्ठु च ।।
मण्डलानि विचित्राणि तयोश्चक्रुस्तुरङ्गमाः ।। ९२ ।।
ईक्षितृप्रीतिजननं चिरं कृत्वा ततो रणम् ।।
अन्योन्यवेगाभिहतौ पेततुस्स तुरङ्गमौ ।। ९३ ।।
भृत्यैश्च रथमारोप्य समरादपवाहितौ ।।
कुमारः श्रेणिमाञ्छूरो बलबन्धुः सुयोधनः ।। ९४ ।।
गन्धर्वैः पञ्चभिः पञ्च पर्वतीयाः समागताः ।।
बलाका बलकाभ्यां तु गदिना मालिना तथा।।९५।।
कुमुदेन च वीरेण समरेष्वनिवर्त्तिना ।।
चतुर्भिः सायकैस्तीक्ष्णैः कुमारो बलदर्पितः ।।९६।।
हयाँश्चकार निर्जीवान्बलाकस्य महात्मनः ।।
हताश्वरथमुत्सृज्य बलाकाभ्रातुरञ्जसा।।९७।।
आरुरोह रथं श्रीमद्बलाकस्य सुसंयुतम् ।।
तावेकरथमारूढौ भ्रातरौ समरप्रियौ ।।९८।।
छादयामास विशिखैः कुमारो बलदर्पितः ।।
बलकस्तु कुमारस्य मध्ये चिच्छेद कार्मुकम् ।। ९९ ।।
स च्छिन्नधन्वा वेगेन गदामादाय वेगवान्।।
तामादाय जघानाथ बलाकं समरप्रियम्।।1.261.१००।।
बलाकं निहतं दृष्ट्वा रोषादश्रु निवर्तयन् ।।
कुमारं प्रति चिक्षेप बलकश्चैव तोमरम्।।१०१।।
तोमरेण च निर्भिन्नो रथोपस्थ उपाविशत् ।।
तं विसंज्ञमथोवाह सारथिर्हययानवित् ।। १०२ ।।
श्रोणिमानथ संक्रुद्धो बलकस्य तदा रणे ।।
क्षुरपर्यन्तधारेण चक्रेणापहरच्छिरः !। १०३ ।।
निपातितोऽथ तत्रैव शरेण गदया गदी ।।
तं निहत्य तदा शूरो मौलिनः सारथिं रणे।।१०४।।
गदया पोथयामास मेरुगौरवया तदा ।।
कुमुदस्य जघानाथ गदया स तुरङ्गमान् ।। १०५।।
हताश्वं रथमुत्सृज्य कुमुदो गदिनो रथम् ।।
आरुरोह तदा शीघ्रं खड्गबाणधनुर्धरः ।। १०६ ।।
रथारूढस्य तस्याथ बलकश्च महारथः ।।
जघान चतुरो वाहांश्चतुर्भिस्सायकैस्तदा ।। १०७ ।।
जहार पञ्चमेनाथ शिरस्तस्य सकुण्डलम् ।।
सारथिं तु रथात्तस्मान्मौलिनो रथमुत्तमम् ।। १०८ ।।
हतसारथिनं पूर्वमारुरोह महारणे ।।
मौली युद्धाय तस्थौ च महाबलपराक्रमः ।। १०९।।
आरुह्य सरथं दिव्यं किङ्किणीजालनादितम् ।।
ततः स मौलिनाक्रान्तः सुयोधनरथो रणे ।।1.261.११०।।
अवाकिरदमेयात्मा शरैस्सन्नतपर्वभिः ।।
सुयोधनोऽपि विक्रम्य मौलिनं मौलिभूषितम् ।। १११ ।।
जहार सशिरस्त्राणं शिरो ज्वलितकुण्डलम् ।।
मद्रराजोंशुमान्नाम चतुर्भिः सायकोत्तमैः ।। ११२ ।।
भीमनादमहानादवसुमेषरुजाकरैः ।।
चत्वारस्ते महाराज मद्रराजस्य सायकैः ।। ११३ ।।
निजघ्नुश्चतुरो वाहान्सारथिं च तथा रणे ।।
अंशुमान्रथमुत्सृज्य गदामादाय वीर्यवान् ।। ११४ ।।
जघान चतुरो वाहान्भीमनादस्य संयुगे ।।
सारथिं पोथयामास महानादरथांस्तथा ।। ११५ ।।
गताश्वं रथमुत्सृज्य गदावेगेन यादव ।।
महोदयस्य तं नागं पोथयामास वीर्यवान् ।। ११६ ।।
सारथिर्भीमनादस्य महानादरथं ययौ ।।
भीमनादं च गदया निजघानाथ मद्रराट् ।। ११७ ।।
स मद्रराजो गदया समरे ताडितो भृशम् ।।
जगाम त्रिदिवं राजँस्त्यक्त्वा देहं रणप्रियः ।। ११८ ।।
महानादोऽपि समरे सायकैर्लोमवाहिभिः ।।
बिभेद मद्रराजानं शतशोथ सहस्रशः ।। ११९ ।।
स बाध्यमानो नाराचैर्महानादभुजच्युतैः ।।
आरुरोह रथं शीघ्रं वसुषेणस्य सत्वरः ।। 1.261.१२० ।।
रथमारुह्य वेगेन गदया भीमवेगया ।।
चकार युद्धे निर्जीवं वसुषेणं समरप्रियम् ।। १२१ ।।
अवरुह्य रथात्तस्माद्गदया भीमवेगया ।।
गजाकरस्य तुरगान्सारथिं चाहनद्भृशम् ।। १२२ ।।
हतेषु तेषु राजेन्द्र तदा वीरो गजाकरः ।।
रथं तं तु समारुह्य भूय एव तदंशुमान् ।। १२३ ।।
चकार युद्धे निर्जीवं गान्धर्वं तं गजाकरम् ।।
उत्प्लुत्य तुरगात्तस्मान्महानादरथं गतः ।। १२४ ।।
गदया पोथयामास महानादं तदा रणे ।।
रोषदीर्घांकुशं कृत्वा कुञ्जरं भरताज्ञया ।।१२५।।
आरुह्य निजघानाथ गन्धर्वाञ्शतशो रणे ।।
दार्वः श्रुतञ्जयः श्रीमानाभिसारः कृतञ्जयः ।। १२६ ।।
युद्धं तौ चक्रतुर्वीरौ सहितौ चन्द्रवर्मणा ।।
चन्द्रवर्मा महातेजाः श्रुतञ्जयरथाद्ध्वजम् ।। १२७ ।।
शरेण पातयामास वटवृक्षमिवोच्छ्रितम् ।।
श्रुतञ्जयोपि संकुद्धश्चन्द्रवर्मकरस्थितम् ।। १२८ ।।
द्विधा चकार तीक्ष्णेन सायकेन महद्धनुः ।।
तं छिन्नधनुषं वीरं शरैः सन्नतपर्वभिः ।। १२९ ।।
छादयामास समरे पार्वतीयः कृतञ्जयः ।।
चन्द्रवर्मा समादाय ततः शक्तिं सुदारुणाम् ।। 1.261.१३० ।।
बिभेद समरे राजन्राजानं तं कृतञ्जयम् ।।
सविभिन्नस्तया शक्त्या रथोपस्थ उपाविशत् ।। १३१ ।।
तं विसंज्ञमपोवाह संग्रामादथ सारथिः ।।
कृतञ्जयं महाराज रणे दृष्ट्वा विचेतसम्।।१३२।।
सकुण्डलं समुकुटं चारुचन्द्रसमप्रभम् ।।
शिरश्चिच्छेद तीक्ष्णेन सायकेन महात्मना ।। १३३ ।।
समरे यतमानस्य सुभृशं चन्द्रवर्मणा ।।
काश्मीरकः सुबाहुश्च गन्धर्वेण सुबाहुना ।। १३४ ।।
चकार तुमुलं युद्धं भीरूणां भयवर्द्धनम् ।।
उभौ तौ तरुणौ वीरावुभौ समरदुर्मदौ ।।१३५।।
दर्शनीयावुभौ वीरावुभौ बाणधनुर्धरौ ।।
तावुभौ सदृशौ वीर्ये शम्बरामरराजयोः ।।१३६।।
उभौ प्रकारैश्चलितौ तथोभौ दृढविक्रमौ ।।
चिच्छिदुस्ते तथान्योन्यं ध्वजच्छत्रे नराधिप ।। १३७ ।।
अन्योन्यस्य हयान्हत्वा तथोभौ पार्ष्णिसारथी ।।
अन्योन्यं धनुषी छित्त्वा सुदृढे समरप्रिये।।१३८।।
कृते प्रतिकृतं चैव कुर्वाणौ भीमविक्रमौ ।।
विरथावसियुद्धाय चक्रतुर्यत्नमुत्तमम् ।। १३९ ।।
असियुद्धं चिरं कृत्वा खड्गमाविध्य सत्वरः ।।
पातयामास मूर्धानं गन्धर्वस्य नराधिप।।1.261.१४०।।
आरुरोह रथं चान्यं सुशीघ्रं भरताज्ञया ।।
तत्रारूढस्स गन्धर्वाञ्जघान शतशो रणे ।। १४१ ।।
एतस्मिन्नन्तरे क्रुद्धः शैलूषः स सहायवान् ।।
चकार युधि निर्जीवान्नरनागतुरङ्गमान् ।। १४२ ।।
बभूव भारती सेना शैलूषेणोपमर्दिता ।।
निदाघे पुष्पशबलद्विरदेनेव पद्मिनी ।। १४३ ।।
एतस्मिन्भारते सैन्ये कश्चिदासीन्महारथः ।।
प्रत्युद्ययौ यः समरे शैलूषं रणकर्कशम् ।। १४४ ।।
शैलूषशरसम्पातरुद्धगोमण्डले रवौ ।।
न प्राज्ञायत राजेन्द्र तदा किञ्चिद्रणाजिरे ।। १४५ ।।
अश्रूयत महाच्छब्दस्तालानां पततामिव ।।
नरनागाश्वकायेभ्यो विसस्रुः शोणितापगाः ।। १४६ ।।
एवं तु भारतं सैन्यं काल्यमानमितस्ततः ।।
शैलूषेण महाराज भरतं शरणं ययौ ।। १४७ ।।
भरतोऽपि महातेजा दृष्ट्वा शैलूषमागतम ।।
प्रत्युद्ययौ रथेनाजौ किङ्किणीजालमालिना ।। १४८ ।।
ततस्तौ चक्रतुर्युद्धं घोररूपं भयानकम् ।।
त्रैलोक्यविजयासक्तौ यथोभौ बलिवासवौ ।। १४९ ।।
गन्धर्वराट् ततः क्रुद्धः सिंहवद्विनदन्मुहुः ।।
भरतस्य रथं तूर्णं शरवर्षैरवाकिरत् ।।1.261.१५०।।
क्रमेण सरथस्तस्य सहयः सह सारथिः ।।
शरवर्षेण महता संछन्नो न प्रकाशितः ।। १५१ ।।
युधाजित्खल्वसम्भ्रान्तो धैर्यमासाद्य वीर्यवान् ।।
चोदयामास तानश्वान्विभुग्नान्रिपुसायकैः ।। १५२ ।।
भरतोऽथ धनुर्गृह्य दिव्यं जलदनिःस्वनम् ।।
शैलूषस्य द्विधा चक्रे क्षुरप्रेण महद्धनुः ।। ।। १५३ ।।
गन्धर्वश्छिन्नधन्वा स पुनरन्यन्महद्धनुः ।।
निमेषान्तरमात्रेण सज्जं चक्रे महाबलः ।। १५४ ।।
विचकर्ष ततो दोर्भ्यां चिक्षेप च ततः शरान् ।।
अथास्य तदपि क्रुद्धश्चिच्छेद भरतो धनुः ।। १५५ ।।
तस्य तत्पूजयामास लाघवं त्रिदशाधिपः ।।
शैलूषोऽपि ततः क्रुद्धः प्रगृऽह्यान्यन्महद्धनुः ।। १५६ ।।
मुमोच समरे बाणान्भरतस्य रथं प्रति ।।
युधाजिन्मातुलस्तस्य सह यानेन लाघवम् ।। १५७ ।।
दर्शयामास समरे मोघान्कुर्वञ्शरव्रजान् ।।
तुरगाश्चोद्यमानास्ते मण्डलानीव बभ्रमुः ।। १५८ ।।
यथायथा शरव्राता मोघा यान्ति महीतलम् ।।
भरतोऽपि महातेजा मण्डलीकृतकार्मुकः।। १५९ ।।
वीरकेतुं शरव्रातैर्विव्याध रणमूर्धनि ।।
ताडितं सारथिं दृष्ट्वा वीरकेतुं तथा सुतम् ।। 1.261.१६० ।।
गन्धर्वस्ताडयामास सायकैस्तु युधाजितम् ।।
युधाजिति महाबाहौ समरे भृशविक्षते ।।१६१।।
चिच्छेद च्छत्रं बाणेन शैलूषस्य तु राघवः ।।
द्वितीयेन तु बाणेन लसन्तं ध्वजमुच्छ्रितम् ।। १६२ ।।
तृतीयेन धनुर्मुष्टौ तथा जलदनिःस्वनम् ।।
स च्छिन्नधन्वा वेगेन शक्तिमादाय सत्वरः ।। १६३ ।।
विव्याध भरतं वीरं भुजे वामे नराधिप ।।
प्रहारवरभिन्नस्य भरतस्य महात्मनः ।। १६४ ।।
करात्पपात वेगेन चापश्चापधरस्य च ।।
अवान्यद्धनुरादाय भरतो रघुनन्दनः।।१६५।।
शरैरनेकसाहस्रैर्गंधर्वं तमवाकिरत् ।।
पातयामास च तथा कवचं रत्नभूषितम्।।१६६।।
आपदं परमां प्राप्तः शैलूषोप्यथ सत्वरः।।
आग्नेयमस्त्रं चिक्षेप भरतं प्रति वीर्यवान् ।। १६७ ।।
वारुणेन तदस्त्रं तु शमयामास राघवः ।।
वायव्यमस्त्रं शैलूषस्तदा चिक्षेप पार्थिव ।। १६८ ।।
शैलास्त्रेणाथ भरतः शमयामास तत्पुनः ।।
शैलास्त्रमथ चिक्षेप गन्धर्वनृपतिस्तथा ।। १६९ ।।
वज्रेणास्त्रेण तत्क्रुद्धः शमयामास राघवः ।।
उत्ससर्ज ततो राजा ब्रह्मास्त्रं प्राणसंशये ।। 1.261.१७० ।।
काकुत्स्थः शमयामास ब्रह्मास्त्रेणैव तत्तदा ।।
अस्त्रयुद्धे व्यतिक्रान्ते क्रोधादारक्तलोचनः ।। १७१ ।।
जघान चतुरो वाहान्भरतस्य स सायकैः ।।
वीरकेतोश्च चिच्छेद शिरो ज्वलितकुण्डलम् ।। १७२ ।।
तस्य राज्ञश्च चिच्छेद मुकुटं रत्नभूषितम् ।।
उवाच भरतश्रेष्ठः शैलूषं प्रहसंस्तदा ।। १७३ ।।
कृतकर्मा रणश्रांतो गच्छाद्य स्वं निवेशनम् ।।
तत्र गत्वा ततो यातः पर्वतं गन्धमादनम् ।।१७४।।
अन्यथा श्वो न मे जीवन्गन्तासि रणमूर्धनि ।।
अस्तं च सविता याति कृतकर्मा दिनक्षये ।। १७५ ।।
वयञ्च शिबिरायैव गमिष्यामो जनाधिप ।।
एतावदुक्त्वा शैलूषं चोत्सृज्य भरतस्तदा ।।
कृत्वावहारं प्रययौ शिबिरायैव यादव ।। १७६ ।।
गन्धर्वराजोऽथ गृहं प्रविश्य निश्चित्य कार्यं मरणाय बुद्धिम् ।।
कृत्वा रणायैव मनश्चकार रात्रिं तथोवाह गृहे नरेन्द्रः ।। १७७ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०वज्रसंवादे द्वन्द्वयुद्धवर्णनं नामैकषष्ट्युत्तरद्विशततमोऽध्यायः ।। २६१ ।।
1.262
।। मार्कण्डेय उवाच ।।
ततो रजन्यां व्युष्टायां मरणे कृतनिश्चयः ।।
सन्नह्यत विना व्यूहं भरतं प्रत्युदैक्षत ।। १ ।।
भरतोऽपि महातेजाः कृतपूर्वाह्णिकक्रियः ।।
निर्गम्य नगरात्सर्वान्पार्थिवानिदमब्रवीत् ।। २ ।।
गन्धर्वैर्भवतां युद्धं मम बुद्ध्या न रोचते ।।
एक एव समर्थोऽहं युष्माकं तेजसा नृपाः ।। ३ ।।
हन्तुं गन्धर्वसैन्यं तद्भवद्भिः परिपीडितम् ।।
युध्यमाना भवन्तश्च रक्षितव्या मया रणे ।। ४ ।।
सकलत्राँस्ततो भूपानेताञ्शक्नोमि घातितुम्।
भवतामार्जवं युद्धे गन्धर्वाः कूटयोधिनः ।। ५ ।।
अद्य तान्सायकैः सर्वान्दिव्यास्त्रप्रतिमन्त्रितैः ।।
घातयिष्यामि भूपालांस्तदनुज्ञातुमर्हथ ।। ६ ।।
भरतेनैवमुक्तास्तु राजानो वाक्यमब्रुवन् ।।
त्वया कलत्रमस्माकं रक्ष्यं स्वामिन्प्रयत्नतः ।। ७ ।।
भवतो रक्षणं कार्यं समस्तैर्वसुधाधिपैः ।।
पत्रच्छेदे फलच्छेदे वृक्षः शाखावकर्तने ।। ८ ।।
भूयो वृद्धिमवाप्नोति मूलच्छेदे विनश्यति ।।
ते वयं भवतां वीर्यं जानन्तोऽपि रघूद्वह ।। ९ ।।
नैकं संत्यक्तुमिच्छामो भवन्तं रणमूर्धनि ।।
एकैकस्य तथास्माकं गन्धर्वाणां महद्बलम् ।। 1.262.१० ।।
वयं रणे हि पर्याप्ताः किं पुनस्तव पार्थिव ।।
किन्तु भृत्येषु तिष्ठत्सु स्वामिनो गर्हितं रणम् ।। ११ ।।
ते वयं घातयिष्यामो गन्धर्वानद्य सत्वरम् ।।
एवमुक्तो महातेजा भरतो नृपसत्तमैः ।। १२ ।।
वारयामास सान्त्वेन ततस्तु वसुधाधिपान् ।।
शापिताः स्थ मम प्राणै राज्ञो रामस्य चाप्यथ ।।१३।।
अद्यैव विनिवर्तध्वं संग्रामात्पृथिवीक्षितः ।।
संयतैश्च महद्युद्धं पश्यद्भिर्मम पार्थिवैः ।। १४ ।।
इत्येवमुक्ताः कृच्छ्रेण रणं मुक्त्वा नराधिपाः ।।
एकान्तस्थाः सुसन्नद्धा ददृशुस्तन्महद्रणम् ।। १५ ।।
एकस्य च बहूनां च यमराष्ट्रविवर्धनम् ।।
रथेन काञ्चनाङ्गेन किङ्किणीजालमालिना ।। १६ ।।
युधाजिता गृहीतेन सतोयाम्बुदचारिणा ।।
चञ्चद्बहुपताकेन कोविदारध्वजेन च ।। १७ ।।
आससाद रणे यक्षान्गन्धर्वान्रणकर्कशान्।
शरैः सञ्छादयामास गभस्तिभिरिवांशुमान् ।। १८ ।।
एतस्मिन्नेव काले च सहसा गगनच्युता ।।
उल्का पपात मध्येन भित्त्वा सूर्यस्य मण्डलम् ।। १९ ।।
आसीद्घोरो महीकम्पः शैलूषाङ्गविदारणः ।।
आदित्यमण्डले राजन्कबन्धश्चाप्यदृश्यत ।। 1.262.२० ।।
ववर्ष च तदा देवो गन्धर्वान्रक्तवृष्टिभिः ।।
गन्धर्वाणां च दीप्तायां दिश्यवाशन्त पक्षिणः।। २१ ।।
मृगाश्च घोरा राजेन्द्र शिवाश्चाशिवनिःस्वनाः।।
प्रतिलोमस्तथैवासीद्वायुस्तेषां सुशङ्ककृत् ।। २२ ।।
न्यलीयत तथा गृधः शैलूषस्य ध्वजाग्रतः ।।
समे पथि निराबाधे प्रस्खलन्तस्तुरङ्गमाः।।२३।।
शतपत्राश्च चाषाश्च हंसाश्चैव प्रदक्षिणम् ।।
भरतस्य तदा चक्रुः सव्यो बाहुरथास्फुरत् ।। २४ ।।
दृष्ट्वा निमित्ताँस्तु शुभान्युधाजित्सुमहायशाः ।।
चोदयामास तुरगान्गन्धर्वाणां चमूं प्रति ।। २५ ।।
भरतोऽपि शरव्रातैर्घातयामास वाहिनीम् ।।
गन्धर्वाणामुदीर्णानां घोरैः शतसहस्रशः ।। २६ ।।
वध्यमानास्तु गन्धर्वा भरतेन महात्मना ।।
तमेवाभिमुखा जग्मुः शलभाः पावकं यथा।।२७।।
तेषामापततामेव शरैः सन्नतपर्वभिः ।।
पातयामास शीर्षाणि भरतो वाहिनीपतिः ।। २८ ।।
भरतं कोष्ठकीकृत्वा गन्धर्वाः सुमहारथाः ।।
ववर्षुरायुधैस्तीक्ष्णैर्मेघा वृष्ट्येव पर्वतम् ।। २९ ।।
तान्यायुधानि मुख्यानि गन्धर्वैर्भरतस्तथा ।।
चिच्छेद राजन्नाराचैर्गन्धर्वांश्चावधीद्बली ।। 1.262.३० ।।
मस्तकान्सशिरस्त्राणान्बाहूनपि च साङ्गदान् ।।
हस्तिहस्तोपमन्रूरूंश्चिच्छेद भरतो रणे ।। ३१ ।।
नावधान न सन्धानं न मुञ्चन्तं च सायकान् ।।
ददर्श भरतं कश्चिल्लाघवाद्रणमूर्धनि ।। ३२ ।।
केवलं दृश्यते युद्धे गन्धर्वाणां महाचमूः ।।
दह्यमाना शरव्रातैर्युगान्ताग्निरिव ज्वलन् ।। ३३ ।।
बाणगोचरमायातान्भरतस्य विनिघ्नतः ।।
शात्रवान्सायकैस्तीक्ष्णैर्जगामास्तं दिवाकरः ।। ३४ ।।
रणे जयं प्राप्य ततो निवृत्तः समागतश्चापि नरेन्द्रमुख्यैः ।।
प्रायान्महात्मा शिबिराय राजन्संस्तूयमानस्त्रिदशद्विजेन्द्रैः ।। ३५ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे तृतीययुद्धदिवसवर्णनं नाम द्विषष्ट्युत्तरद्विशततमोऽध्यायः ।। ।। २६२ ।।
1.263
मार्कण्डेय उवाच ।।
चतुर्थेऽहनि संप्राप्ते कृतपूर्वाह्णिकक्रियः ।।
शैलूषस्तु विनिष्क्रम्य गन्धर्वानिदमब्रवीत् ।। १ ।।
योधयध्वं रणे सर्वे भरतं रिपुमागतम् ।।
अहं मध्ये प्रवेक्ष्यामि भरतस्य बलार्णवम् ।। २ ।।
तत्र तान्घातयिष्यामि भरतस्यानुयायिनः ।।
एतदुक्ते तथेत्युक्त्वा संप्रतीक्षन्त राघवम् ।। ३ ।।
भरतोऽपि महातेजा रथेनैकेन दृश्यते ।।
भरतस्यानुसैन्यं च भूभुजा समपद्यत ।। ४ ।।
तत्सैन्यं प्राविशदघोरं शैलूषो रणदर्पितः।।
चकार कदनं तत्र नरवारणवाजिनाम् ।। ५ ।।
गन्धर्वसैन्ये च तथा भरतोऽपि शरोत्करैः ।।
चकार कदनं घोरं वैश्वानरसमप्रभैः ।। ६ ।।
राजानं कोष्ठके कृत्वा शैलूषं विविधैः शरैः ।।
छादयामासुरव्यग्रा मेघा इव महीधरम् ।। ७ ।।
गोवासनस्तु सप्तत्या बिभेद समरे शरैः ।।
द्विजिह्वश्च त्रिसप्तत्या राजा दाशेरकस्तु यः ।। ८ ।।
सुबाहुस्तं चतुष्षष्ट्या दशभिस्तं सुयोधनः ।।
कुमारः सप्तसप्तत्या श्रेणिमान्दशभिस्त्रिभिः ।।९ ।।
शूरः षष्ट्या च निर्भिद्य बलबन्धुः शतेन च।।
द्वाविंशत्या ततस्तक्षः पुष्करो नवभिः शरैः ।। 1.263.१० ।।
शतेन विजयश्चैनं जयो जित्वा त्रिभिः शरैः ।।
प्रत्यविध्यत तान्सर्वाच्छैलूषो दशभिः शरैः ।। ११ ।।
नृत्यन्निव रथोपस्थे महाबलपराक्रमः ।।
धनुश्चिच्छेद भल्लेन सुबाहोः सुमहात्मनः ।। ।। १२ ।।
हयाँश्चकार निर्जीवांस्तथैवांशुमतो नृप ।।
पद्मं रथस्थं चिच्छेद चिह्नं गोवासनस्य तु ।। १३ ।।
सुयोधनरथात्क्षिप्रं पातयामास सारथिम् ।।
बलबन्धोस्तथा छत्रं पातयामास यादव ।। १४ ।।
तथान्यान्विमुखाँश्चक्रे शरैः सन्नतपर्वभिः ।।
ततस्तस्य क्षुरप्रेण धनुश्चिच्छेद पुष्करः ।। १५ ।।
अथान्यं चापमादाय पुष्करस्य रणे रुषा ।।
चकार तुरगान्सर्वान्निर्जीवान्समरप्रियः ।। १६ ।।
पुष्करश्च समारुह्य तक्षस्य रथमुत्तमम् ।।
ववर्ष शरवर्षेण शैलूषरणमूर्धनि ।। १७ ।।
शैलूषोपि जघानाश्वान्रथात्तक्षस्य यादव ।।
विरथौ तौ गदापाणी भ्रातरौ युद्धदुर्मदौ ।। १८ .।।
शैलूषेण समारूढौ गदाहस्तौ तरस्विनौ ।।
अभ्याशे भ्रातरौ दृष्ट्वा जगामादर्शनं ततः ।। १९ ।।
मायावी स तु गन्धर्वो रथमुत्सृज्य यादव ।।
शून्यं दृष्ट्वा रथोपस्थं विलक्षौ भ्रातरौ तदा ।। 1.263.२० ।।
आदित्येऽस्तमनुप्राप्ते विनिवृत्तौ रणाजिरात् ।।
भरतोऽपि तथा कृत्वा गन्धर्वाणां महाहवम् ।।
न्यवर्तत महाराज सन्ध्याकाले रणाजिरात् ।। २१ ।।
गत्वैव राजन्स च राजवेश्म तत्रोष्य रात्रिं रघुवंशनाथः ।।
निशावसाने पुनरेव बुद्धश्चकार युद्धं सहितो नृवीरः ।। २२ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चतुर्थदिवसयुद्धवर्णनं नाम त्रिषष्ट्युत्तरद्विशततमोऽध्यायः ।। २६३ ।।
1.264
मार्कण्डेय उवाच ।।
ततोऽह्नि पञ्चमे प्राप्ते भरतो युद्धदुर्मदः ।।
कल्यमुत्थाय राजेन्द्र कृतपूर्वाह्निकक्रियः ।। १ ।।
जगाम हन्तुं गन्धर्वान्बलमुत्सृज्य पृष्ठतः ।।
शैलूषोऽपि रणं त्यक्त्वा नरेन्द्रनिधनेप्सया ।। २ ।।
जगामैकरथेनैव रणकर्मविशारदः ।।
तयोरासीन्महाघोरः संप्रहारः सुदारुणः ।। ३ ।।
देवासुररणप्रख्यः सूर्यस्योदयनं प्रति ।।
तयोस्तु युध्यतो राजन्गन्धर्वाणां बलार्णवम्।।४।।
छादयामास भरतः शरैः सन्नतपर्वभिः ।।
तच्च राज्ञामुदीर्णानां बलं सागरसन्निभम् ।। ५ ।।
छादयामास गन्धर्वः शरैराशीविषोपमैः ।।
बलमेधे विनिर्याते शरवृष्टिसदारुणे ।।६।।
धारयेतां महाराज शैलूषभरतावुभौ।।
अन्तरिक्षे शरव्रातांश्चिच्छिदतुररिन्दमौ ।।७।।
सैन्ययोश्च तथा चक्रुः कदनं घोरदर्शनम्।।
तयोश्चापच्युतैर्बाणैर्निपातितहयद्विपैः ।।८।।
रणे विसस्रुर्भूपाल स्रवन्त्यो रक्तनिम्नगाः ।।
वहन्त्यो नरदेहानि यक्षराक्षसेविताः ।। ९ ।।
ताभ्यां मुक्तै शरव्रातैर्गगने सूर्यरश्मयः ।।
न प्राकाशन्त राजेन्द्र एकच्छाये नभस्तले ।।
सैनिकान्घातयन्तौ तौ रक्षमाणौ च सारथी ।। 1.264.१० ।।
छिन्दमानौ रणे वीरौ परमुक्ताँस्तथायुधान् ।।
जनयामासतुर्वीरौ सुगणामपि विस्मयम् ।। ११ ।।
तद्युद्धं पूजयामास पुष्पवर्षेण वासवः ।।
तौ प्रबुद्धौ दिनं सर्वं वरबाणधनुर्धरौ ।। १२ ।।
नासीदेकतरस्यपि रणे तस्मिन्त्पराजयः ।।
ततोऽस्तं भगवत्यर्के प्रयाते पृथिवीपते ।।
परस्परस्यानुमते शिबिरायैव जग्मतुः ।। १३।।
अथोष्यरात्रिं गृहयोः प्रविष्टौ रात्र्यन्तमासाद्य तदा रणाय ।।
भूयो महेन्द्रोपम संप्रयातौ प्रहर्षयन्तौ स्वबलानि वीरौ ।। १४ ।।।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भरतशैलूषयुद्धे पञ्चमदिवसयुद्धवर्णनं नाम चतुष्षष्टयुत्तरद्विशततमोऽध्यायः ।। २६४ ।।
1.265
मार्कण्डेय उवाच ।।
ततस्तु षष्ठे संप्राप्ते दिवसे भूरिदक्षिणे ।।
चक्रतुः समरं वीरौ शैलूषभरतावुभौ ।। १।।
ससैन्यौ पृथिवीपाल शरैराशीविषोपमैः ।।
शैलूषेण समासक्तो भरतो वाहिनीपतिः ।।२।।
सूर्यरश्मेश्शरेणाजौ शिरश्चिच्छेद शत्रुहा ।।
सूर्यरश्मिं रणे हत्वा एकलव्यं महारथम् ।। ३ ।।
शरेण पातयामास रथोपस्थादरिंदमम् ।।
गन्धर्वनृपतिर्दृष्ट्वा प्रधानौ तौ सुतौ हतौ ।। ४ ।।
शक्त्या बिभेद विजयं तथा चक्रेण पुष्करम् ।।
तोमरेण तथा तक्षं गदया च सुयोधनम् ।। ।। ५ ।।
विविशुस्ते रथोपस्थं विसंज्ञाः सर्व एव तु ।।
नियन्तृभिश्च समरात्सर्व एवापवाहिताः ।। ६ ।।
ततस्तु भरतः क्रुद्धश्चतुर्भिस्तस्य सायकैः ।।
चकार युधि निर्जीवांस्तुरगांश्चैव यादव ।। ७ ।।
चकार च शरव्रातैर्विमुखीकृतविक्रमम् ।।
ततो धैर्येण संधार्य शरवेगं महात्मनः ।। ८ ।।
आरुरोह रथं शीघ्रं सुसन्नद्धो महाबलः ।।
रथमारुह्य विव्याध शरेणानतपर्वणा ।। ९ ।।
भरतो हृदये गाढं मुमोह स च ताडितः ।।
एतस्मिन्नन्तरे मुक्तो हाहाकारः सुरासुरैः ।। 1.265.१० ।।
अप्रहृष्टैः प्रहृष्टैश्च विमूढे रघुनन्दने ।।
हाहाकारेण महता लब्धसंज्ञः स राघवः ।। ११ ।।
आकृष्य बलवच्चापं शैलूषस्य महद्धनुः ।।
द्विधा चकार राजेन्द्र शैलूषं चाहनद्भृशम् ।। १२ ।।
स च्छिन्नधन्वा वेगेन गदामादाय सत्वरः ।।
प्रेषयामास धर्मज्ञ भरतस्य महात्मनः ।। १३ ।।
आपतन्तीं गदां दृष्ट्वा भरतो रणमूर्धनि ।।
द्विधा चकार चक्रेण सर्वसैन्यस्य पश्यतः ।। १४ ।।
ततः स परिघं शीघ्रं चिक्षेप भरतं प्रति ।।
तमापतन्तं चिच्छेद चतुर्भिः सायकैर्दृढम् ।। १५ ।।
ततोऽन्यद्धनुरादाय सायकानेकविंशतिम् ।।
चिक्षेप स महाराज भरतस्य रथं प्रति।। १६ ।।
छित्त्वा तान्भरतः सर्वान्नवधीत्तस्य सारथिम् ।।
तथा च चतुरो वाहाननयद्यमसादनम् ।। १७ ।।
शैलूषं विरथं दृष्ट्वा गन्धर्वाणां महाचमूः ।।
ववर्षायुधवर्षेण मेघो वृष्ट्येव पर्वतम् ।। १८ ।।
स मोहयित्वा भरतं मोक्षयामास पार्थिव ।।
मोक्षयित्वा च राजानं गतेऽस्तं रविमण्डले ।।१९।।
कृत्वावहारं तु गतः शिबिराय नराधिपः ।।1.265.२०।।
हत्वा रथे नागरथाश्वयोधान्संप्राप्य मध्ये निशितैः पृषत्कैः ।।
रघुप्रवीरोऽपि गृहाय यातः संपूज्यमानो भुवि मानवेन्द्रैः ।। २१ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्ड मार्कण्डेयवज्रसंवादे शैलूषभरतयुद्धे षष्ठयुद्धदिवसो नाम पञ्चषष्ट्युत्तरद्विशततमोऽध्यायः ।। २६५।।