विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १६४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६३ विष्णुधर्मोत्तरपुराणम्
अध्यायः १६४
वेदव्यासः
अध्यायः १६५ →

मार्कण्डेय उवाच ।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।।
मागधेषु तु यद्वृत्तं तच्छृणुष्व नराधिप ।। १ ।।
बभूव मागधो राजा चण्डवेग इति श्रुतः ।।
तस्यासीद्रूपसंपन्ना भार्या नयनसुन्दरी ।। २ ।।
सर्वधर्मान्परित्यज्य प्रतसंवत्सरं तु सा ।।
तिलान्होमयते विप्रैर्जुहोति च तथा स्वयम् ।। ३ ।।
श्रवणद्वादशीयोगे माघे मासि हुताशने ।।
देवस्य चैव नैवेद्यं करोति तिलमोदकैः ।। ४ ।।
अर्चनेन च वासोभिः पूजयत्यपि माधवम् ।।
महारञ्जितरक्तानि वासांसि विविधानि च ।। ५ ।।
ब्राह्मणीनां च गेहेषु विसर्जयति तत्परा ।।
महावर्तिप्रदानं च विधत्ते केशवालये ।। ६ ।।
तां कदाचित्सुखासीनां ब्राह्मणीं तु वसन्तिका ।।
पप्रच्छ सखिभावेन रहस्यं निर्जने स्थिता ।। ७ ।।
वसन्तिकोवाच ।।
सर्वधर्मान्परित्यज्य माघे मासि शुभानने ।।
द्वादश्यां कृष्णपक्षस्य कस्मादर्चयसे हरिम् ।। ८ ।।
कस्मात्तथा बहुतिलं हावयस्यनले तथा ।।
एतन्मे संशयं छिन्धि रहस्यं चेन्न ते शुभे ।। ९ ।।
नयनसुन्दर्युवाच ।।
रहस्यमेतत्परमं न रहस्यं तथा त्वयि ।।
त्वं मे सखीश्वरी प्राणस्त्वं मे प्राणधनेश्वरी ।। 1.164.१० ।।
अस्ति वैतस्तिको नाम देशः परमधामिकः ।।
तत्र ग्रामवरं चासीद्वसतिर्मे सुशोभना ।। ११ ।।
चण्डवेगश्च विप्रोऽभूद्भर्ता मे पूर्वजन्मनि ।।
नास्तिको निरनुक्रोशस्तर्कशास्त्ररतः सदा ।।१२।।
तत्रैव विषये राजा बभूव दधिवाहनः ।।
तस्य भार्यां वयस्या मे बभूव कमला शुभा ।। १३ ।।
सा कदाचिन्मामुवाच रहस्यं वरवर्णिनी ।।
नारी भर्तृकृतादर्धं पुण्यं प्राप्नोति सुन्दरी ।। १४ ।।
नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषितम् ।।
पतिं शुश्रूषते या तु तेन स्वर्गे महीयते ।। १५ ।।
कर्तव्यं योषिता पुण्यं पृथग्वापि तदिच्छया ।।
पतिस्ते नास्तिको भद्रे किञ्चिन्नाचरते शुभम् ।। १६ ।।
न चाचरसि धर्मं त्वं तथा च तदनुज्ञया ।।
का गतिः परलोके ते भविष्यति शुभानने ।।१७।।
इह यत्क्रियते कर्म प्रेत्य तत्रोपभुज्यते ।।
येनोप्तं फलकाले तु स एवाश्नाति भामिनि ।। १८ ।।
मानुष्यं दुर्लभं प्राप्य विद्युत्सम्पातचञ्चलम् ।।
नाचरन्ति शुभं ये तु तेषां जन्म निरर्थकम् ।। १९ ।।
कदाचिदपि वामोरु योनिष्वथ परिभ्रमन् ।।
मानुष्यं नाम जायेत यत्रायत्तं शुभाशुभम् ।। ।। 1.164.२० ।
चण्डालत्वेऽपि मानुष्यं सर्वथा सखि दुर्लभम् ।।
आत्मा शक्यस्तया त्रातुं मानुष्यान्नान्यतः शुभे ।। २१ ।।
तवोपरि तथा जाता सखी भावेन मे कृपा ।।
कदर्य्यस्यास्य भार्या त्वं सुस्वभावा पतिव्रता ।। २२ ।।
तत्र तेऽनुग्रहं किञ्चित्करिष्यामि निबोध तत् ।।
हरस्य दयिता भार्या शैलेन्द्रतनया उमा ।। २३ ।।
विस्तारितमहाकूला सा वितस्ता महानदी ।।
अवृत्तिकर्षितः पापं कृत्वैव ऋतुपञ्चकम् ।। २४ ।।
स्नानेनैकेन सकलं शैशिरेण व्यपोहति ।।
यस्यां यस्यां तिथौ स्नातः स्वर्गमाप्नोत्यसंशयम् ।। २५ ।।
तस्यां सम्वत्सरं स्नात्वा मोक्षोपायं तु विन्दति ।।
या च सुस्वादुसलिला या च पापक्षयङ्करी ।। २६ ।।
तस्यास्तीरे मया नित्यं प्रति सम्वत्सरं शुभे ।।
उपोष्य माघकृष्णस्य द्वादश्यां श्रवणे तथा ।। २७ ।।
पूजितो भगवान्विष्णुर्ब्राह्मणाश्च हुताशनः ।।
तिलैस्तस्मात्तु ते ख्यातं ब्राह्ममेतद्व्रतं मम ।।२८ ।।
तस्मात्स्कन्नं तिलं यच्च यदग्नौ पतितं न च ।।
ततः पुण्यफलं सर्वं त्वमाप्नुहि वरानने ।। २९ ।।
इत्येवमुक्तया गत्वा भर्ता पृष्टस्तदा मया ।।
हसता तेन चास्म्युक्ता गच्छ गृह्णीष्व तत्फलम् ।। 1.164.३० ।।
स्वयं कृत्वा शुभं कर्म कमला सा सखी मम ।।
सह भर्त्रा विशालाक्षि विष्णुलोकमितो गता ।। ३१ ।।
तल्लोकमक्षयं तस्याः श्रुतं वैवस्वतान्मया ।।
तस्माद्दृष्टफलं भद्रे करोमि तिलद्वादशीम् ।। ३२ ।।
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि सुन्दरि ।।
मार्कण्डेय उवाच ।।
एतच्छ्रुत्वा शुभं वाक्यं ब्राह्मण्यपि वसन्तिका ।। ३३ ।।
श्रवणद्वादशीयोगे पूजयामास केशवम् ।।
माघकृष्णे महाभाग तिलैर्नित्यमतन्द्रिता ।। ३४ ।।
पूजयित्वापि सा देवं श्वेतद्वीपमितो गता ।।
सापि राज्ञो महाभागा तथा नयनसुन्दरी ।। ३५ ।।
अमलं स्थानमासाद्य विरराज शशिप्रभा ।।
तस्मात्सर्वप्रयत्नेन तदा पूज्यो जनार्दनः ।। ३६ ।।
तिलैर्नित्यं महाभाग होतव्याश्च तथा तिलाः ।।
तिलाश्च देया विप्रेभ्यस्तस्मिन्नहनि पार्थिव ।। ३७ ।
एकैकस्मात्तिलाद्राजंस्तिलबीजोद्भवे यथा ।।
सुकृष्टक्षेत्रजाद्दृष्टं देवे कालप्रवर्षिणि ।। ३८ ।।
एकैकस्मात्तिलात्तद्वत्फलमक्षय्यमश्नुते ।।
स्वर्लोके विष्णुलोके वा मानुष्ये यदि वा नृप ।।
अक्षय्यं फलमाप्नोति एकैकस्मात्तिलात्तिलात् ।। ३९ ।।
तस्मात्प्रयत्नेन नरेन्द्रचन्द्र तस्या समभ्यर्चय वासुदेवम् ।।
उपोषितः प्रीतमना यथावत्त्राणं स देवः प्रथितो नराणाम् ।। 1.164.४० ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चण्डवेगोपाख्याने तिलद्वाद शीमाहात्म्यवर्णनं नाम चतुःषष्ट्यधिकशततमोऽध्यायः ।। १६४ ।।