विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १६२

विकिस्रोतः तः
← अध्यायः १६१ विष्णुधर्मोत्तरपुराणम्
अध्यायः १६२
वेदव्यासः
अध्यायः १६३ →

मार्कण्डेय उवाच ।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।।
महत्यरण्ये यद्वृत्तं भूमिपाल पुरातनम् ।।१।।
देशा दाशेरका नाम तेषां भागे तु पश्चिमे ।।
अस्ति राजन्मरुर्देशः सर्वसत्त्वभयङ्करः ।।२।।
सुतप्तसिकता भूमिर्यत्र दुष्ट महोरगा ।।
स्वल्पच्छायासमाकीर्णा मृतप्राणिसमाकुला।।३।।
शमीखदिरफुल्लासकरीराः पैलुभिः सह ।।
तत्र भीमा द्रुमगणाः कण्टकैरावृताः समम्।।४।।
चण्डप्राणिगणाकीर्णा तत्र भूमिस्तथा क्वचित् ।।
अत्यन्ततापविषमा निस्तृणा परुषोपला ।। ५ ।।
नाश्रयस्तत्र नाहारो ज्वलिताग्निसमे भृशम् ।।
तथापि तत्र जीवन्ति जनाः कर्मनिबन्धनात् ।। ६ ।।
नोदकं नोदकधरा राजंस्तत्र बलाहकाः ।।
कदाचिदपि दृश्यन्ते देशे निरयसन्निभे ।। ७ ।।
तत्र पक्षान्तरगतैस्तृषितैः शिशुभिः सह ।।
उत्क्रान्तजीविता राजन्दृश्यन्तेऽथ विहङ्गमाः ।। ८ ।।
उत्प्लुत्योत्प्लुत्य सहसा मृगाः सैकतमालयात ।।
सैकतेष्वेव नश्यन्ति जले सैकतसेतुवत् ।।९।।
तस्मिंस्तथाविधे देशे कश्चिद्दैववशाद्वणिक् ।।
वनमातपविभ्रष्टः प्रविष्टस्तु परिभ्रमन् ।।1.162.१०।।
स तत्र ददृशे प्रेतान्क्षुत्तृष्णाव्याकुलेन्द्रियान् ।।
उत्कचान्मलिनान्रूक्षान्निर्मांसान्भीमदर्शनान् ।। ११ ।।
स्नायुबद्धस्थिराकायान्धावमानानितस्स्तः ।।
कञ्चित्समांसं तत्रैकं प्रेतस्कन्धगतं तदा ।। १२ ।।
ददर्श बहुभिः प्रेतैः समन्तात्परिवारितम् ।।
तत्स्कन्धादपरं स्कंधं नीयमानं क्रमात्कमात् ।।१३।।
प्रेतोऽपि दृष्ट्वा तां घोरामटवीं नरमागतम् ।।
प्रेतस्कन्धान्महीं गत्वा तस्यान्तिकमुपागमत् ।। १४ ।।
सोऽभिवाद्य वणिकछ्रेष्ठमिदं वचनमब्रवीत् ।।
अस्मिन्घोरे महारण्ये प्रवेशो भवतः कथम् ।। १५ ।।
तमुवाच वणिग्धीमान्सार्थभ्रष्टस्य मे वने ।।
प्रवेशो दैवयोगेन पूर्वकर्मकृतेन तु ।। १६ ।।
तृष्णा मे बाधतेऽत्यर्थं क्षुत्क्षामश्च भृशं तथा ।।
प्राणाः कण्ठमनुप्राप्ता वदनं भ्रश्यते च मे ।। १७ ।।
अत्रोपायं न पश्यामि ध्रियेऽहं येन केन चित् ।।
इत्येवमुक्तः प्रेतस्तु वणिजं वाक्यमब्रवीत् ।। १८ ।।
पुन्नागमिममाश्रित्य प्रतीक्षस्व क्षणं मम ।।
कृतातिथ्यो मया यावद्गमिष्यसि यथासुखम् ।।१९ ।।
एवमुक्तस्तदा चक्रे स वणिक्तृष्णयान्वितः ।।
मध्याह्नसमये प्राप्ते प्रेतस्तं देशमागमत् ।। 1.162.२० ।।
पुन्नागवृक्षाच्छीतोदां वारिधानीं मनोरमाम् ।।
दध्योदनसुयुक्तेन वर्धमानेन संयुताम् ।। २१ ।।
अवतार्य ततस्त्वग्रं प्रददाति च यत्तदा ।।
ततोऽग्रमात्रेण वणिक्परां तृप्तिमुपागतः ।। २२ ।।
वितृष्णो विज्वरश्चैवं क्षणेन समपद्यत ।।
ततः प्रेतेषु सर्वेषु क्रमाद्भागं तदा ददौ ।। २३ ।।
दध्योदनात्सपानीयात्तेऽपि तृप्तिं परां ययुः ।।
अथ सन्तर्पयित्वा तु प्रेतांस्तान्स तु सर्वशः ।। २४ ।।
प्रेताधिपः स बुभुजे पश्चादन्नं यथासुखम् ।।
तस्य भुक्तवतस्त्वन्नं पानीयं च क्षयं ययौ ।। २५ ।।
प्रेताधिपं ततस्तृप्तं वणिग्वचनमब्रवीत् ।।
आश्चर्यमेतत्परमं वनेऽस्मिन्प्रतिभाति मे ।। २६ ।।
अन्नपानस्य सम्प्राप्तिः परमस्य कुतस्तव ।।
स्तोकेन च तथान्नेन बिभर्षि च बहून्कथम् ।। २७ ।।
तृप्ता अपि कथं सर्वे निर्मांसा भिन्नकुक्षयः ।।
कश्चित्त्वमस्यां घोरायामटव्यां तु कृतालयः ।। २८ ।।
एतन्मे संशयं छिन्धि परं कौतूहलं हि मे ।।
एवमुक्तः स वणिजा प्रेतो वचनमब्रवीत् ।। २९ ।।
वाणिज्यसक्तस्य पुरा कालो ऽतीतो ममानघ ।।
शाकले नगरे रम्ये नास्तिकस्य दुरात्मनः ।। 1.162.३० ।।
धनलोभान्मया तत्र न कदाचिदपि प्रभो ।।
दत्तासीद्भिक्षवे भिक्षा कृपणेन कथञ्चन ।। ३१ ।।
प्रातिवेश्यश्च तत्रासीद्ब्राह्मणो गुणवान्मम ।।
श्रवणद्वादशीयोगे मासि भाद्रपदे तदा ।। ३२ ।।
स कदाचिन्मया सार्धं तौषीं नाम नदीं ययौ।।
तस्याश्च सङ्गमः पुण्यो यत्रासीच्चन्द्रभागया ।।३३।।
चन्द्रभागासरिच्छ्रेष्ठा यत्र शीतामलोदका ।।
महादेवजटाजूटे गङ्गा निपतिता पुरा ।।३४।।
चन्द्रेण भागतो न्यस्ता चन्द्रभागा स्मृता ततः ।।
तत्कालतप्तसलिला तौषी तत्रार्कनन्दिनी ।। ३५ ।।
शीतोष्णे चोदके तस्मिन्संगमे सुमनोहरे।।
तं स देशं समासाद्य प्रातिवेश्यमसौ द्विजः।।३६।।
श्रवणद्वादशीयोगे स्नानार्चन उपोषितः।।
चान्द्रभागस्य तोयस्य वारिधानी नवा दृढा ।।३७।।
दध्योदनयुतैः सार्धं सम्पूर्णैर्वर्धमानकैः ।।
छत्रैश्चोपानहै रम्यैर्वस्त्रैश्च विविधैर्युता।३८।।
प्रददौ विप्रमुख्येभ्यो रहस्यज्ञो महीपतिः।।
चित्तसंरक्षणार्थाय तस्यापि च तदा मया ।।३९।।
सोपवासेन दत्तैका वारिधानी नवा दृढा।।
चान्द्रभागस्य तोयस्य दध्योदनयुता तदा।।1.162.४०।।
गत्वा गृहमनुप्राप्य ततः कालेन केनचित्।।
पञ्चत्वमहमासाद्य नास्तिक्यात्प्रेततां गतः।।४१।।
अस्यामटव्यां घोरायां यो वा ह्यकुशलस्तदा ।।
श्रवणद्वादशीयोगे दत्ता यासौ मयानघ।। ।४२।
दध्योदनयुता रम्या वारिधानी नवा दृढा।।
सेयं मध्याह्नसमये दिवसे दिवसे मम।।४३।।
उपतिष्ठेत्सदैवेह यथा दृष्टा त्वयानघ ।।
ब्रह्मस्वहारिणस्त्वेते पापाः प्रेतत्वमागताः ।।४४।।
परिदाररताः केचित्स्वामिद्रोहरता परे।।
मित्रद्रोहरताः केचिद्देशेऽस्मिन्भृशदारुणे।।४५।।
ममानुयानं कुर्वन्ति अन्नपान कृतेऽनघ ।।
अक्षयो भगवान्विष्णुः परमात्मा सनातनः ।।४६।।
तमुद्दिश्य तु यद्दत्तं तदक्षय्यं प्रकीर्तितम्।।
अक्षय्येन तथान्नेन तृप्ता अपि हि मानद ।। ४७ ।।
प्रेतभावेन दौर्बल्यं न विमुञ्चन्ति कर्हिचित् ।।
अहं च पूजयित्वा त्वामतिथिं समुपस्थितम् ।। ४८ ।।
प्रेतभावाद्विनिर्मुक्तो यास्यामि परमां गतिम् ।।
मया विहीनाः प्रेतास्तु वनेऽस्मिन्भृशदारुणे ।। ४९ ।।
पीडामनुभविष्यन्ति दारुणां कर्मयोगजाम्।।
एतेषां त्वं महाभाग भदनुग्रहकाम्यया ।। 1.162.५० ।।
प्रत्येकं गोत्रनामानि गृह्णीष्व लिखितेन च ।।
अस्ति कक्ष्यागतवेषा तव सा पुस्तिका शुभा ।। ५१ ।।
हिमवन्तमथासाद्य तत्र त्वं लप्स्यसे निधिम् ।।
गयाशीर्षे ततो गत्वा श्राद्धं कुरु महामते ।।५२।।
एकैकं त्वमथोद्दिश्य प्रेतं प्रेतं यथासुखम् ।।
ततस्तु ते विमोक्ष्यन्ति प्रेत भावमसंशयम् ।। ५३ ।।
इत्येवं स वदन्नेव तप्तजाम्बूनदप्रभः ।।
विमानवरमास्थाय स्वर्गलोकं ततो गतः ।। ५४ ।।
स्वर्चिते प्रेतनाथे तु प्रेतानां स वणिक्क्रमात् ।।
नामगोत्राणि सङ्गृह्य प्रयातः स हिमालयम् ।। ५५ ।।
तत्र प्राप्य निधिं गत्वा निक्षिप्य च तथा गृहे ।।
धनं किञ्चिदुपादाय गयाशीर्षं ततो ययौ ।। ५६ ।।
प्रेतानां क्रमशस्तत्र चक्रे श्राद्धं दिनेदिने ।।
यस्ययस्य यदा श्राद्धं करोति स महान्वणिक् ।। ५७ ।।
सस तस्य तदा स्वप्ने दर्शयत्यात्मनस्तनुम् ।।
ब्रवीति च महाभाग प्रसादेन तवानघ ।। ५८ ।।
प्रेतभावो मया त्यक्तः प्राप्तोऽस्मि त्रिदिवं धुवम् ।।
कृत्वा स धनदानेन प्रेतानां निष्कृतिं वणिक् ।। ५९ ।।
जगाम स्वगृहं तत्र मासि भाद्रपदे तदा ।।
श्रवणद्वादशीयोगे पूजयित्वा जनार्दनम् ।। 1.162.६० ।।
धनं च दत्त्वा विप्रेभ्यः सोपवासो जितेन्द्रियः ।।
पुण्येषु सततं राजन्नदीनां सङ्गमेषु च ।।६१।।
गङ्गासरय्वोर्गङ्गायाः शोणस्य च महामतिः ।।
इक्षुमत्याश्च गङ्गाया गङ्गायमुनयोस्तथा ।। ६२ ।।
गोमत्याश्च सरय्वाश्च कौशिकीगण्डक्योस्तथा ।।
विपाशया देवह्रदा यत्र योगं प्रपद्यते ।। ६३ ।।
विपाशा च तथा योगं यत्र याति शतद्रुणा ।।
इरावती तथा योगं यत्र व्रजति सिन्धुना ।। ६४ ।।
चन्द्रभागा च व्रजति यत्र योगं वितस्तया ।।
महासिन्धुश्च संयोगं यत्र याति वितस्तया ।। ६५ ।।
प्रत्यब्दं यावदेतेषु संगमेषु महावणिक् ।।
करोति विधिवद्दानं यावद्दिष्टान्तमागतः ।। ६६ ।।
अवाप परमं स्थानं दुर्लभं यत्तु जन्तुभिः ।।
यत्र कामफला वृक्षा नद्यः पायसकर्दमाः ।। ६७ ।।
शीतलामलपानीयाः पुष्करिण्यो मनोहराः ।।
सुवर्णसिकता राजन्मणिसोपानभूषिताः ।।६८।।
आनन्त्याय स संप्राप्तो देशं तं भूरिदक्षिणः ।।
तं देशमासाद्य वणिङ्महात्मा सुतप्तजाम्बूनदभूषिताङ्गः ।।
कल्पं समग्रं मुदितो यदात्मा रेमे स रामाभियुतः कृतात्मा ।। ६९ ।।
विमानैरप्सरोभिश्च सिद्धगन्धर्वसेवितः ।।
विष्णुलोकमवाप्नोति यावदाभूतसंप्लवम्।।1.162.७०।।
राजसूयादिभिर्यज्ञैर्यत्फलं समवाप्यते ।।
श्रवणद्वादशीं कृत्वा तत्फलं लभते नरः।।७१।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पिशाचमोक्षणे श्रवणद्वादशीमाहात्म्यवर्णनं नाम द्विषष्ट्यधिकशततमोऽध्यायः।।१६२।।