विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १४१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १४० विष्णुधर्मोत्तरपुराणम्
अध्यायः १४१
वेदव्यासः
अध्यायः १४२ →

।। वज्र उवाच ।। ।।
कस्मिन्देशे न कर्तव्यं श्राद्धं भृगुकुलोद्वह ।।
किञ्च देयमदेयं च तन्मे ब्रूहि द्विजोत्तम ।। १ ।।
।। मार्कण्डेय उवाच ।।
त्रिशङ्कुं वर्जयेद्देशं सर्वं द्वादशयोजनम् ।।
उत्तरेण पतङ्गस्य दक्षिणेन च कैकटम् ।। ।। २ ।।
देशस्त्रैशङ्कवो नाम विवर्ज्यः श्राद्धकर्मणि ।।
कारस्कराः कलिङ्गाश्च सिन्धोरुत्तरमेव च ।। ३ ।।
चातुर्वर्ण्य विहीनाश्च ये च देशा नराधिप ।।
अन्येष्वपि च देशेषु तद्देशजनदर्शनम् ।। ४ ।।
वर्जयेच्छ्राद्धकाले तु पतितानां विशेषतः ।।
रजस्वलाश्च षण्डाश्च श्वानसूकरकुक्कुटाः ।। ५ ।।
यथा श्राद्धं न पश्यन्ति तथा कार्यं विजानता ।।
रक्षार्थं चाप्यथैतेषां गुप्तिः कार्या नरेश्वर ।।६।।
तिलाविकिरणं कार्यं यातुधानविनाशनम्।।
पिण्डाँश्च गोऽजविप्रेभ्यो दद्यादग्नावथ क्षिपेत्।।७।।
मध्यमं पुत्रकामा वा पत्नी पिण्डं च भक्षयेत्।।
तीर्थश्राद्धे सदा पिण्डान्क्षिपेत्तीर्थे विचक्षणः।। ८।।
दक्षिणाभिमुखो भूत्वा पैत्री दिक्सा प्रकीर्त्तिता।
पिण्डनिर्वपणं कार्यं कुशालाभे विचक्षणैः।। ९।।
कुशेषु राजन्सर्वेषु पवित्रे ते परे मते।।
सूत्रं प्रदेयं वासोऽर्थे क्षौमकार्पाससम्भवम्।।1.141.१०।।
दशां विवर्जयेत्प्राज्ञो यद्यप्यहतवस्त्रजा।।
क्षौमकार्पासजं त्यक्त्वा सूत्रमन्यन्न दापयेत् ॥ ११ ॥
घृतेन दीपो दातव्यस्त्वथवाप्यौषधीरसैः ॥
वसामेदोद्भवं दीपं प्रयत्नेन विवर्जयेत् ॥ १२ ॥
चन्दनागुरुकर्पूरकुङ्कुमाँश्च प्रदापयेत् ॥
अश्वमेधसमा ह्येते पितॄणामनुलेपनाः ॥ १३ ॥
न दातव्यं मनुष्येन्द्र यदन्यच्चानुलेपनम् ।।
धूपो गुग्लुजो देयस्तथा चन्दनसारजम् ।। १४ ।।
अगुरुं च सकर्पूरं तुरुष्कं च प्रदापयेत् ।।
अतोऽन्यदपि यत्किंचिद्धूपार्थे तद्विवर्जयेत्।।१५।।
सघृतं गुग्गुलुं धूपं धूपार्थे यः प्रयच्छति
अश्वमेधफलं तस्य धूपदातुस्तथैव च।।१६।।
जात्यश्च सर्वा दातव्या मल्लिकाश्वेतयूथिका।।
जलोद्भवानि सर्वाणि कुसुमानि विवर्जयेत् ॥ १७ ॥
यानि कण्टकिजातानि न देयानि नराधिप ॥
यानि कण्टकिताग्राणि शुक्लानि सुरभीणि च ॥ १८ ॥
तानि राजेन्द्र देयानि लताजानि विशेषतः ॥
रक्तानि जलजातानि तथा देयानि यादव ॥ १९ ॥
विपुलां श्रियमाप्नोति पितॄन्पुष्पैः समर्चयन् ॥
अभक्ष्याणि विवर्ज्यानि श्राद्धे नित्यमतन्द्रितैः ॥ 1.141.२० ॥
भक्ष्येष्वपि न देयानि यानि तानि निबोध मे ।।
भूस्तृणं सुमुकं शिग्रुं पालक्यं तण्डुलीयकम् ।। २१ ।।
कूष्माण्डालाबुवृन्ताकपिप्पलीमरिचानि च ।।
श्राद्धेषु नागरं देयं लवणं सैन्धवं तथा ।। २२ ।।
सैन्धवव्यतिरेकेण लवणानि न दापयेत् ।।
नक्तं गृहीतमुदकं तथा पल्वलसम्भवम् ।। २३ ।।
श्राद्धकाले विवर्ज्यं च माहिषं क्षीरमेव च ।।
राजमाषमसूराश्च चणका कोरदूषकाः ।। २४ ।।
वर्ज्याश्चाभिषवो नित्यं शतपुष्पं गवेधुकम् ।।
करम्भाणि कुसुम्भं च पटोलं बृहतीफलम् ।। २५ ।।
करीरसुरभी चोभौ पूतिगन्धि च यद्भवेत् ।।
जम्बीरजफलं वर्ज्यं कोविदारं च पार्थिव ।। २६ ।।
वस्तुसंदर्शनं शस्तं श्राद्धे नित्यमरिन्दम ।।
कुतपस्य च सान्निध्यं तथा कृष्णाजिनस्य च ।। २७ ।।
कृष्णाजिनस्य दानं च रजतस्य विशेषतः ।।
कृष्णाजिनं सकुतपं कृष्णानि च तिलानि च ।। २८ ।।
श्राद्धकर्मणि शस्तानि विट्पतिस्तत्सुतस्तथा ।।
सोमः सदैव मासान्ते रविणा सह संगतः ।। २९ ।।
आपश्चैवौषधीश्चैव तदा विशति पार्थिव ।।
अमायां तु पयः पीत्वा भुक्त्वा चैवौषधीः शुभाः ।। 1.141.३० ।।
पयः क्षरन्ति यद्दिव्यं गावोऽमृतरसोपमम् ।।
तत्पवित्रं परं राजन्कापिलं चेद्विशेषतः ।। ३१ ।।
हव्ये कव्ये च तद्राजन्सोमतुल्यं प्रकीर्तितम् ।।
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलेन च ।। ३२ .।।
प्रियङ्गुभिस्तथा दारैः शृङ्गाटकफलैः शुभैः ।।
गोधूमैश्चेक्षुभिर्मुद्गैः सचीनचणकैस्तथा ।। ३३ ।।
श्यामाकैर्हस्तिश्यामाकैर्मधूकैर्हव्यदाडिमैः ।।
पनसैर्नारिकेरैश्च खर्जूराम्रफलैस्तथा ।। ३४ ।।
आम्रातैश्चाम्रनारंगैर्बिल्वैर्दीर्घैश्च मूलकैः ।।
विदार्यानिर्भरूटैश्च विशेषश्च वराटकैः ।। ३५ ।।
पिचुकैश्च तथा कर्दैर्बदरैः करकन्दुभिः ।।
पालेवतै राष्ट्रकैश्च अक्षोटैः पनसैस्तथा ।। ३६ ।।
काकोलैः क्षीरकाकोलैस्तथा पिण्डालुकैः शुभैः ।।
सुवर्चलामधूकैश्च वास्तुकेन च पार्थिव ।।३७।।
सिताखण्डगुडैर्मुख्यैः फणितेन च सक्तुभिः ।।
लाजाभिश्च सदानाभिस्त्रपुसैर्वारुचिर्भटैः ।। ३८ ।।
सर्षपाराजशाकाभ्यामिङ्गुदै राजजम्बुभिः ।।
प्रियालामलकैर्मुख्यैः फल्गुभिश्च तिलोलकैः ।। ३९ ।।
वेत्राङ्कुरैस्तालदर्भैश्चुक्रीकाक्षीरिकाधवैः ।।
चोचैः समीचैर्लकुचैस्तथा वै बीजपूरकैः ।। 1.141.४० ।।
छत्रातिच्छत्रक्षीराकैः कलण्डुककशेरुकैः ।।
सुजातकैः पद्मफलैर्भक्ष्यैर्भोज्यैः सुसंस्कृतैः ।। ४१ ।।
रागषाढवचोण्यैश्च त्रिजातकसमन्वितैः ।।
दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृणाम् ।। ४२ ।।
द्वौ मासौ मत्स्यमांसेन त्रीन्मासान्हारिणेन तु ।।
औरभ्रेणाथ चतुरः शाकुनेन च पञ्च वै ।। ४३ ।।
षण्मासाञ्छाशिकेनापि सप्त पारिशतेन च ।।
तथाष्टौ छागमांसेन पयसा पायसेन च ।। ४४ ।।
वाराहेण नवैवाहू रौरवेण तथा दश ।।
मासानेकादशैवाहुर्गवयेन नराधिप ।। ४५ ।।
संवत्सरं तु गव्येन पयसा पायसेन च ।।
पयोविकारैश्च तथा हृद्यैश्च मनुजेश्वर ।। ४६ ।।
पानकैश्च तथा हृद्यैस्त्रिसुगन्धैः सुशीतलैः।।।
वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ।। ४७ ।।
वज्र उवाच ।।
वार्ध्रीणसमहं ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः ।।
यस्य मांसेन कथिता तृप्तिर्द्वादश वार्षिकी ।। ४८ ।।
मार्कण्डेय उवाच ।।
त्रिपिबन्त्विन्द्रियक्षीणं यूथस्याग्रसरं तथा।।
रक्तं वर्णेन राजेन्द्र छागं वार्ध्रीणसं विदुः ।।४९।।
कालशाकं महाशल्कं खड्गमांसं तथैव च ।।
आनन्त्याय भवेद्दत्तं सर्वं च मधुसंयुतम् ।। 1.141.५० ।।
खड्गा विषाणैः परिवर्जिता ये तेषां हि मांसेन भवत्यनन्तम् ।।
श्राद्धं महाराज ततः प्रदेयं खड्गस्य मांसेन हिताय तेषाम् ।। ५१ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० श्राद्धहविर्वर्णनो नामे कचत्वारिंशदुत्तरशततमोऽध्यायः ।। १४१ ।।