विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ११४

विकिस्रोतः तः
← अध्यायः ११३ विष्णुधर्मोत्तरपुराणम्
अध्यायः ११४
वेदव्यासः
अध्यायः ११५ →

मार्कण्डेय उवाच ।।
अत्रेरेवापरं वंशं तव वक्ष्यामि पार्थिव ।।
अत्रेः सोमः सुतः श्रीमांस्तस्य वंशोद्भवो नृपः ।। १ ।।
विश्वामित्रस्तु तपसा ब्राह्मण्यं समवाप्तवान् ।।
तस्य वंशमहं वक्ष्ये तन्मे निगदतः शृणु ।। २ ।।
विश्वामित्रो देवरातस्तथा चेकितिगालवौ ।।
वतण्डश्च शलङ्गश्च तथा चाश्वात तायनः ।। ३ ।।
श्यामायनो याज्ञवल्क्यो जाबालिः सैन्धनायनः ।।
दाभ्रव्याश्च कारीषी च सौश्रुत्या अथ सौश्रुताः ।। ४ ।।
औलूषा औपगवयः पाण्योदरयमाञ्चयः ।।
खरबाधा वहलयः पाणतम्बः सकौशिकाः ।। ५ ।।
त्र्यार्षेयाः प्रवरास्तेषां सर्वेषां परिकीर्तिताः ।।
विश्वामित्रो देवरातः उद्दालश्च महायक्षाः ।। ६ ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।।
मार्गमित्रास्तथाद्याश्च माधुच्छन्दस एव च ।। ७ ।।
त्र्यार्षेयाः प्रवरास्त्वेते ऋषयः परिकीर्तिताः ।।
विश्वामित्रस्तथा ज्येष्ठो मधुच्छन्दास्तथैव च ।। ८ ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।।
धनञ्जयः कपर्देयः परिकुष्टश्च पार्थिव ।। ९ ।।
पाणिनिश्चैव त्र्यार्षेयाः सर्व एते प्रकीर्तिताः ।।
विश्वामित्रो मधुच्छन्दस्तथा चैवाघमर्षणः ।। 1.114.१० ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।।
कामलायनिजाश्चैव आश्मरथ्यास्तथैव च ।। ११ ।।
बन्धुलिश्चैव त्र्यार्षेयाः सर्वेषां प्रवरा मताः ।।
विश्वामित्रश्चाश्मरथो बधुलिश्च महातपाः ।। १२ ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।।
पूरणाः परिधावन्तः द्व्यार्षेयाः परिकीर्तिताः ।। १३ ।।
विश्वामित्रः पूरणश्च तयोर्द्वौ प्रवरौ स्मृतौ ।।
परिवर्ता अवैवाह्याः पूरणाश्च परस्परम् ।। १४ ।।
लोहिता अष्टकाश्चैव त्र्यार्षेयाः परिकीर्तिताः ।।
विश्वामित्रो लोहितश्च अष्टकश्च महातपाः ।। १५ ।।
अष्टका लोहितैर्नित्यमवैवाह्याः परस्परम् ।।
उदरेण्डः कन्यकश्च ऋषिश्चोदावहिस्तथा ।।१६।।
त्र्यार्षेयोऽपि मतश्चैषां सर्वेषां प्रवरः शुभः ।।
ऋणवान्ग्रथितश्चैव विश्वामित्रस्तथैव च ।। १७ ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।।
औदुम्बरिः शैशिरटिर्ऋषिस्तार्क्षायणस्तथा ।। १८ ।।
टैकायनिस्तैकायनिस्तार्क्षायणिरथैव च।।
कात्यायनिः करीरामिः शालङ्कायनिलावकी।।१९।।
मौञ्जायनिश्च भगवांस्त्र्यार्षेयाः परिकीर्तिताः ।।
किलिः कलिस्तथा विद्वान्विश्वामित्रस्तथैव च ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।।1.114.२० ।।
एते तवोक्ताः कुशिका नरेन्द्र महानुभावाः सततं द्विजेन्द्राः ।।
येषां तु नाम्नां परिकीर्तनेन पापं समग्रं पुरुषो जहाति ।। २१ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे विश्वामित्रवंशानुकीर्तनं नाम चतुर्दशाधिकशततमोऽध्यायः ।। ११४ ।।