विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०९९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९८ विष्णुधर्मोत्तरपुराणम्
अध्यायः ९९
वेदव्यासः
अध्यायः १०० →

।। मार्कण्डेय उवाच ।।
ध्रुवस्थाननिविष्टानां देवतानां नराधिप ।।
दध्योदनं पायसं च प्रत्येकं विनिवेदयेत् ।। १ ।।
गुडौदनं गुडापूपाः फलानि गुडपायसम् ।।
निवेदनं तु सूर्याय धान्यलाजे मधूत्कटे ।। २ ।।
सर्पिर्दध्योदनं चैव फलानि विविधानि च ।।
मोदकानि च मुख्यानि पायसं शशिनस्तथा ।। ३ ।।
गुडौदनं गुडापूपा यावकं गुडपायसम् ।।
कृसरं च तथा देयं भूमिपुत्राय पार्थिव ।। ४ ।।
क्षीरौदनं ससर्पिष्कं क्षीरवृक्षफलानि च ।।
क्षीरिण्यश्च तथोषध्यो सोमपुत्राय दापयेत् ।। ५ ।।
शिम्बिधान्यविकाराणि बिल्वान्यामलकानि च ।।
घृतौदनं च जीवाय दातव्यं भूतिमिच्छता ।। ६ ।।
दध्योदनं पायसं च मधुना सर्पिषा युतम्।। ।
उत्कारिकं मोदकांश्च भार्गवाय निवेदयेत् ।।। ७ ।।
माषौदनं ससर्पिष्कं कृसरं दधि यावकम्।।
निवेदयेत्तु सौराय कुलत्थं चणकैः सह।।८।।
प्लक्षं दधित्थं च तथा पललं चैव राहवे।।
माषौदनं तथा देयं यवापूपांस्तथैव च।।९।।
तल्लोपिकास्तथा मत्स्याः केतवे कृसरं तथा ।।
वसासर्पींषि च तथा देयानि मनुजेश्वर ।। 1.99.१० ।।
मधुलाजे कृत्तिकानां कुल्माषं दधिसर्पिषी ।।
रोहिणीनां च बीजानि दधिपिष्टवृषाणि च ।। ११ ।।
दध्योदकं चेल्वलानां मृगमांसं तथैव च ।।
रुधिरं कृसरं चोभौ रौद्रस्य विनिवेदयेत् ।। १२ ।।
पुनर्वसोः प्रदातव्यं पललं सविलायनम् ।।
पायसं च ससर्पिष्कं तिष्याय विनिवेदयेत् ।। १३ ।।
पिष्टसर्पाणि सार्पस्य क्षौद्रं दधियुतं तथा ।।
तिलौदनं सपललं पैत्र्यस्य विनिवेदयेत् ।। १४ ।।
षष्टिकान्नं च भाग्यस्य मधुसर्पींषि चाप्यथ ।।
आर्यम्णाय तिलापूपान्षष्टिकान्नं तथैव च ।। ।। १५ ।।
प्रियंगुतण्डुलैः सिद्धं सावित्राय च पायसम् ।।
त्वाष्ट्रस्य चैव पीयूषं द्विजा चित्राण्डजास्तथा ।। १६ ।।
वायव्यस्य च फल्गुनि मूलकानि शुभानि च ।।
कुलत्थानि विशाखासु यवापूपास्तथैव च ।। १७ ।।
कुलत्थभक्तं मित्राय दधिक्षौद्रान्वितं तथा ।।
घृतौदनं च शाक्राय फलानि विविधानि च ।। १८ ।।
मूलानि च विचित्राणि तथा मूलफलानि च ।।
आप्यस्य सक्तवो देया मधुमिश्रोदकैः सह ।। १९ ।।
सक्तवो वैश्वदेवाय मधुलाजे तथैव च ।।
ब्राह्माय पायसं देयं सगुडं भूतिमिच्छता ।। 1.99.२० ।।
दध्योदनं पायसं च वैष्णवाय निवेदयेत् ।।
घृतोदकं च शाकानि वासवाय निवेदयेत् ।।२१।।
पैष्टं बिडालं शाकांश्च वारुणाय तथा दधि ।।
आदाय मांसमाजं तु व्याघ्रं पिष्टकृतं दधि ।।२२।।
आहिर्बुध्न्याय मांसानि तथैव च रसौदनम् ।।
पौष्णाय सक्तवो माषा माषयुक्ताश्च सक्तवः ।।२३।।
अश्वं पिष्टकृतं माषान्यावकं च तथा दधि ।।
आश्विनस्याथ याम्यस्य तण्डुलानि तिलानि च।।२४।।
राजन्पैष्टाश्च पशवो मांसं पक्वामकं तथा।।
पायसं सघृतं क्षौद्रं पूर्वस्यां विनिवेदयेत्।।२५।।
आग्नेय्यां दिशि राजेन्द्र कृसरं क्षीरमिश्रितम्।।
दक्षिणस्यां च दातव्यं कृसरं तैलमिश्रितम्।ा२६।
नैर्ऋत्यां च प्रदातव्यं कृसरं मत्स्यसंयुतम्।
कुल्माषांश्चैव मत्स्यांश्च पश्चिमस्यां निवेदयेत् ।।२७।।
वायव्यायाश्च मत्स्यानि तथा क्षीरोदनानि च ।।
ऐशान्यायाः प्रदातव्यौ घृतक्षीरोदनावुभौ।।२८ ।।
मोदकोल्लोपिकामिश्राः सागराणां बलिर्भवेत् ।।२९।।
यद्यद्ग्रहस्याभिहितं मयात्र ऋक्षस्य वा भूमिपतिप्रधान ।।
तद्देवतायाश्च तदेव देयं दिशस्तथा नात्र विचारणास्ति ।। 1.99.३० ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ग्रहर्क्षनैवेद्यदेयादेयविधिर्नाम नवनवतितमोऽध्यायः ।।९९ ।।