विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०९८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९७ विष्णुधर्मोत्तरपुराणम्
अध्यायः ९८
वेदव्यासः
अध्यायः ०९९ →

मार्कण्डेय उवाच ।।
ध्रुवस्थाननिविष्टानां देवतानां महीपते ।।
गुग्गुलुं घृतसंयुक्तं धूपं दद्याद्विचक्षणः ।। १ ।।
धूपं त्वगुरुरर्काय नमेरुं च तथेन्दवे ।।
भौमाय गुग्गुलुं दद्यात्सर्जं दयाद्बुधाय च ।। २ ।।
शिलाजतु तु जीवाय दातव्यं पार्थिवोत्तम ।।
श्रीवासकं तु शुक्राय नखं सौराय पार्थिव ।।
मदश्च राहवे देयं केतवे च वसा तथा ।। ३ ।।
कृत्तिकानां घृतं देयं रोहिणीनां च चन्दनम् ।।
इल्वलानां च कर्पूरमार्द्रायां च नखं तथा ।। ४ ।।
पुनर्वसोश्चाप्यगुरुं पुष्यस्य च तथाक्षतम् ।।
श्रीवासकं च सार्पस्य पैत्रस्य च तथा घृतम् ।।५ ।।
प्रियङ्गुं मधुना युक्तं भाग्यस्य सघृतं भवेत् ।।
घृतेन मधुना युक्तमार्यम्णस्य शतावरीम् ।। ६ ।।
कुन्दुरुं चैव हस्ताय त्वाष्ट्राय च पलं भवेत् ।।
वायव्याय च कर्पूरमैन्द्राग्न्याय मिसिर्भवेत् ।। ७ ।।
मैत्राय कुङ्कुमं देयं शाक्राय मृगजं भवेत् ।।
शाटीमूलं च मूलाय आप्याय नलदं तथा ।। ८ ।।
गुग्गुलुं वैश्वदेवाय ब्राह्माय घृतचन्दने ।।
वैष्णवायागुरुं दद्याद्वासवाय तथा पलम् ।। ९ ।।
वारुणाय तथोशीरमाजाय च पलं भवेत् ।।
अहिर्बुध्न्याय दातव्यं देवदारुं नराधिप ।। 1.98.१० ।।
कङ्कोलकानि पौष्णाय आश्विनाय च चन्दनम् ।।
यम्याय गुग्गुलुर्देयः सततं भूतिमिच्छता ।। ११ ।।
कर्पूरं कुङ्कुमं चैव चन्दनं मृगजं तथा ।।
तुरुष्कमगुरुं कान्तां गुग्गुलुं च क्रमाद्दिशाम् ।। १२ ।।
प्राच्यादीनां महीनाथ सागराणां च चन्दनम् ।।
सर्वाभावे च दातव्याः सर्वेषामेव गुग्गुलुम् ।। १३।।
वनस्पतिरसो दिव्यो गन्धाढ्यो गन्ध उत्तमः ।।
आघ्राणः सर्वदेवानां गुग्गुलुप्रवरः शुभः ।।१४।।
दीपश्चाज्येन दातव्यः सर्वेषामविशेषतः ।।
तैलेन वा महीनाथ वसाढ्येन विवर्जयेत् ।।१५।।
यद्यद्ग्रहस्याभिहितं मयात्र ऋक्षस्य वा भूमिपतिप्रधान।।
तद्देवतायाश्च तथैव देयं दिशां तथा नात्र विचारमस्ति।।१६।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ग्रहर्क्षधूपदीपो नामाष्टनवतितमोऽध्यायः ।। ९८ ।। ।।