विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०९६

विकिस्रोतः तः
← अध्यायः ०९५ विष्णुधर्मोत्तरपुराणम्
अध्यायः ९६
वेदव्यासः
अध्यायः ०९७ →

वज्र उवाच ।।
सर्वेषां तु समाचक्ष्व गन्धमाल्यं तथैव च ।।
धूपं ब्रह्मन्सनैवेद्यं पानं चैव पृथक्पृथक् ।। १ ।।
होमद्रव्यं तथा मन्त्रं दक्षिणाश्च भृगूत्तम ।।
एकस्त्वं सर्वविद्ब्रह्मन्ब्रह्मा वा जगतां पतिः ।। २ ।।
मार्कण्डेय उवाच ।।
ध्रुवस्थाननिविष्टानां देवानां च महीपते ।।
सर्वासां चन्दनं देयं नित्यमेव पृथक्पृथक्।। ३।।
सूर्याय कुङ्कुमं देयं कर्पूरं शशिने तथा ।।
भौमाय चन्दनं रक्तं चागुरुं शशिजाय च ।। ४ ।।
जीवाय चन्दनं देयं कुङ्कुमेन विमिश्रितम् ।।
शुक्राय चन्दनं श्वेतं सौराय च मृगोद्भवम् ।। ५ ।।
कुङ्कुमेन युतं दद्याद्दानवाय मृगोद्भवम् ।।
अगुरुं कुङ्कुमं चोभौ सुदेयौ धूमकेतवे ।। ६ ।।
कुङ्कुमं कृत्तिकानां तु रोहिणीनां मृगोद्भवम् ।।
इल्वलानां च कर्पूरं रौद्रे नागमदं तथा ।। ७ ।।
आदित्यस्य प्रदातव्यावुभौ कुङ्कुमचन्दनौ ।।
उशीरचन्दनौ देयावाश्लेषापैत्र्ययोस्तथा ।। ८ ।।
प्रियङ्गुचन्दनौ देयौ तथा भाग्यस्य पार्थिव ।।
अर्यम्णश्च प्रदातव्यौ चन्दनौ श्वेतरक्तकौ ।। ९ ।।
सावित्रस्य प्रदातव्यं कुङ्कुमं पृथिवीपते ।।
त्वाष्ट्रस्य चन्दनं देयं कुङ्कुमं समृगोद्भवम् ।। 1.96.१० ।।
जातीफलयुतं देयं वायव्यस्य च चन्दनम् ।।
विशाखायाः प्रदातव्यं कुङ्कुमं चन्दनं तथा ।। ११ ।।
तुरुष्कसहितं देयं तथा मैत्राय चन्दनम् ।।
ज्येष्ठायाश्च प्रदातव्यं चन्दनं कुङ्कुमं तथा ।। १२ ।।
मूलाय शिंशपासारं तथा देयं मृगोद्भवम् ।।
आप्याय कुष्ठसंयुक्तं दातव्यं चन्दनं भवेत् ।। १३ ।।
वैश्वदेवाय मृगजं चन्दनागुरुणी तथा ।।
ब्राह्माय चन्दनं देयं वैष्णवायागुरुं तथा ।।१४।।
जातीलवङ्गौ दातव्यौ सुपिष्टौ वासवाय तौ ।।
वारुणाय च कर्पूरमाजाहिर्बुध्न्ययोस्तथा ।। १५ ।।
पौष्णाय चन्दनं रक्तमाश्विनाय तथा सितम् ।।
याम्यायागुरुसंयुक्तं तथा देयं मृगोद्भवम् ।। १६ ।।
समानदेवनक्षत्रं कथितं च तथा दिशम् ।।
उत्तरायास्तथा देये चन्दनागुरुणी शुभे ।। १७ ।।
सागराणां प्रदातव्यं सर्वेषामेव चन्दनम् ।।
अलाभे तु तथा देयं सर्वेषामेव चन्दनम्।। १८ ।।
मङ्गल्यं तत्पवित्रं च देवानां दयितं च तत् ।।
धार्यं च देयं तद्राजँस्तत्र लक्ष्मीः प्रतिष्ठिता ।। १९ ।।
यद्यद्ग्रहस्याभिहितं मयैतदृक्षस्य वा भूमिपतिप्रधान ।।
तद्देवतायाश्च तदेव देयं दिशस्तथा नात्र विचारणास्ति ।। 1.96.२० ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अनुलेपकथनो नाम षण्णवतितमोऽध्यायः ।। ९६ ।।