विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०७०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०६९ विष्णुधर्मोत्तरपुराणम्
अध्यायः ७०
वेदव्यासः
अध्यायः ०७१ →

मार्कण्डेय उवाच ।।
सन्नद्धं दानवगणं पताकाशतसंकुलम् ।।
नानाप्रकारवादित्रं सिंहनादबलोद्धतम् ।। १ ।।
दृष्ट्वा रामो महातेजाः सज्जं चक्रे महद्धनुः ।।
शरैस्संछादयामास दैत्यसैन्यं महाबलम ।। २ ।।
अभ्रच्छायेव संजज्ञे राममुक्तैश्शिलीमुखैः ।।
तिर्यगूर्ध्वमधश्चैव शरैर्व्याप्तं समन्ततः ।। ३ ।।
चापमण्डलमध्यस्थः परिवेपीव भास्करः ।।
दृष्टमात्रेण सैन्यानां चक्षूंष्यपहरद्रणे।। ४ ।।
शरान्धकारे मग्नास्ते दानवा दुष्टचेतसः ।।
रामसन्दर्शनादेव दृष्टेऽर्के कौशिका यथा ।। ५ ।।
स दानवानां व्यसृजन्रामो भाति शिलीमुखान् ।।
सदानवानां मधुवत्कुसुमानां शिलीमुखः ।। ६ ।।
शरान्धकारे महति मग्नो मतिमतां वरः ।।
मायां कृत्वा तदाग्नेयीं तं ददाह शरोत्करम् ।। ७ ।।
शरान्धकारगहनान्निष्क्रान्तास्ते दितेः सुताः ।।
भार्गवं कोष्टकीकृत्य रणे बिभिदुरञ्जसा ।। ८ ।।
प्रचण्डैरर्धनाराचैर्वत्सदन्तैस्सचूचुकैः ।।
वराहकर्णैर्भल्लैश्च क्षुरप्रैश्चटकाननैः ।। ९ ।।
तोमरैर्भिण्डिपालैश्च पाषाणैर्लगुडैश्शुभैः ।।
खड्गैः प्रासैस्तथा चक्रैऽर्गदामुसल कम्पनैः ।। 1.70.१० ।।
परिघैरायसैश्शूलैस्त्रिशूलैश्शक्तिभिस्तथा ।।
स बाध्यमानोऽपि रणे दैत्यनाथायुधोत्करैः ।। ११ ।।
न विव्यथे महातेजा हुताहुतिरिवानलः ।।
यदा शस्त्रप्रहारैस्तं न शेकुस्समरे द्विजम् ।। १२ ।।
हन्तुं दैत्यवरा युद्धे चक्रुरस्त्रं तदा महत् ।।
अयश्शङ्कुर्महातेजा राजा दैत्यगणस्य यः ।। १३ ।।
समेतैर्दानवैस्सार्धं रामं रणकृतक्षणम् ।।
शरैः संछादयामास दिव्यास्त्रप्रतिमन्त्रितैः ।। १४ ।।
अस्त्रैरस्त्राणि संवार्य दानवेन्द्रस्य भार्गवः ।।
चिच्छेद सशरं चापं रुक्मदण्डं तथा ध्वजम् ।। १५ ।।
सारथेश्च शिरः कायाच्छिरस्त्राणविभूषितम् ।।
एतत्कृत्वा रणे कर्म दक्षिणेन स पाणिना ।। १६ ।।
जग्राह परशुं तीक्ष्णं दैत्यकायविदारणम् ।।
पद्भ्यामाक्रम्य वेगेन समरे रथकूबरम् ।। १७ ।।
निर्जीवान्पादवेगेन कृत्वा तुरगसत्तमान् ।।
गदया च रथस्थस्य दानवेन्द्रस्य संयुगे ।। १८ ।।
जहार सशिरस्त्राणं शिरो ज्वलितकुण्डलम् ।।
अयःशङ्कौ हते दैत्ये भार्गवं समरे तदा ।। १९ ।।
सर्वे दैत्यगणाः कुद्धाश्छादयामासुरञ्जसा ।।
अस्त्रपुञ्जं रणे च्छित्वा तेषां भृगुकुलोद्भवः ।। 1.70.२० ।।
रणे चिच्छेद गात्राणि शिरांसि च महातपाः ।।
क्षणमात्रेण रामोऽपि दैत्यदेहसमाकुलाम् ।। २१ ।।
शोणितौघनदीं चक्रे केशशैवालशाद्वलाम् ।।
बाणमीनां चापनक्रां छत्रहंसावलीं तथा ।। २२ ।।
प्रेतलोकार्णवगमां भीरुकल्मषवर्द्धिनीम् ।।
हस्तिशीर्षोपलां रौद्रां चारुतत्पुच्छपन्नगाम ।। २३ ।।
एवं विधेऽपि संवृत्ते रणे कर्मणि दानवाः ॥
तं राममक्षतं दृष्ट्वा हतशेषाः प्रदुद्रुवुः ॥ २४ ॥
मयतारप्रभृतयः पुरं च विविशुस्तदा ॥
पलायमानान्समरे न जघान स भार्गवः ॥२५॥||
किञ्चिच्छेषेषु दैत्येषु विनिवृत्तस्तदा रणात् ॥
हतदैत्यायुतगणो रामोऽश्मनगरं ययौ ॥ २६ ॥
रामप्रवेशे नगरं वरुणस्याज्ञया तदा ॥
पताकाध्वजसंबाधं कृतं देवैर्विशेषवत्।।२७।।
नागैश्च दानवैश्चैव सिक्तं चन्दनवारिणा।।
धूपपुञ्जसमुत्क्षिप्तं कुसुमोत्करमण्डितम्।।२८।।
ततश्च सुमहातेजा वरुणस्तु विनिर्गतः।।
पुत्रपौत्रैः परिवृतो रामप्रग्रहणकारणात्।।२९।।
संपूज्यमानं वरुणो रथमारोप्य च स्वकम् ॥
प्रवेशयामास पुरं बहुतूर्यपुरस्कृतम् ॥ 1.70.३० ॥।
रामप्रवेशे च तदा नृत्यन्तोऽप्सरसां गणाः ॥
गन्धर्वमुख्या गायन्ति संस्तुवन्ति च बन्दिनः ॥ ३१ ॥
स प्रविश्याथ नगरं वरुणस्य तथा गृहम् ॥
उवास तत्र धर्मात्मा वरुणेन सुपूजितः ॥ ३२ ॥
धर्माणामागमं कृत्वा वरुणात्ससुतात्तदा ॥ ३३ ।॥
एवं स रामः परवीरघाती संप्राप्य यादोगणनाथवेश्म ॥
उवास पुत्रैर्वरुणस्य सार्धं संपूजितस्तेन जलेश्वरेण ॥ ३४ ॥
इति श्रीविष्णुधर्म्मोत्तरे प्रथमखण्डे अयश्शङ्कुवधो नाम सप्ततितमोऽध्यायः ॥ ७० ॥