विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०४९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०४८ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०४९
वेदव्यासः
अध्यायः ०५० →

।। मार्कण्डेय उवाच ।। ।।
ततः साल्वो महातेजाः कुञ्जरेण तरस्विना ।।
अर्पयामास धर्मज्ञ रेणुकानन्दवर्धनम् ।। १ ।।
स्तब्धकर्णो विवृत्ताक्षः कृत्वा कुण्डलिनं करम् ।।
ग्रीवां सञ्चालयन्नागो ययौ गजमदोद्धतम् ।। २ ।।
दृष्ट्वैवापततस्तस्य वेगं रामोऽपि तं गजम् ।।
हुंकारमात्रेण रणे स्तम्भयामास वेगितम् ।। ३ ।।
स्तम्भयामास नागेन्द्रं शैलेन्द्रशिखरोपमम् ।।
तस्थौ स पुरतस्तस्य साल्वस्य समरप्रियः ।। ४ ।।
परशुं रुधिराक्ताङ्गं सकलङ्कमलं करे ।।
धारयन् विष्णुवद्याति सकलं कमलङ्करे ।। ५ ।।
दन्तिना दन्तिनः पृष्ठं रामस्याऽऽरोढुमिच्छतः ।।
जहार वेगवान्वेगं शरैः सन्नतपर्वभिः ।। ६ ।।
साल्वसायकसंघातविमुखीकृतविक्रमम् ।।
रामं रणे दैत्यगणाश्छादयन्ति वरायुधैः ।। ७ ।।
महता सोऽस्त्रपुंजेन रामः संछादितो रणे ।।
निमीलिताक्षश्चिक्षेप साल्वाय परशुं तदा ।। ८ ।।
आगच्छमानं वेगेन साल्वस्तं परशुं रणे ।।
आयुधैर्वारयामास न शशाक च शत्रुहा ।। ९ ।।
स साल्वायुधसंघातं भङ्क्त्वा सर्वमशेषतः ।।
जहार शीर्षं साल्वस्य मुकुटोत्तमभूषितम् ।। 1.49.१० ।।
रामोऽपि भूतलात्प्राप्य गदां हेमविभूषिताम् ।।
आविध्य निजघानोग्रं साल्वं कुञ्जरसंस्थितम् ।। ११ ।।
द्वावङ्कुशधरौ श्रेष्ठौ द्वौ च चर्मासिधारिणौ ।।
पताकाधारिणं चैकं गजस्य जघने स्थितम् ।। १२ ।।
देहं च तस्य साल्वस्य पताकां च मनोरमाम् ।।
एतदादाय सकलमाजगाम वसुन्धराम् ।। १३ ।।
सिंहनादेन रामस्य वित्रस्तो गजयूथपः ।।
आर्त्तनादं महत्कृत्वा प्रदुद्राव नराधिप ।। १४ ।।
रामकर्मणि वृत्ते तु भूतलात्परशुं रणे ।।
जग्राह वेगावान्वेगाद्दानवान्तचिकीर्षया ।। १५ ।।
दृष्ट्वा सपरशुं रामं साल्वं च विनिपातितम् ।।
हतशेषास्तु ते दैत्याः प्रविष्टा वरुणालयम् ।।१६।।
एतस्मिन्नेव काले तु देवाः सेन्द्रपुरोगमाः ।।
आयोधनमुपाजग्मुः पुरस्कृत्य पितामहम् ।। १७ ।।
प्रणाममकरोत्तेषां रामो रतिकरः पितुः ।।
पूजयित्वा तु ते रामं ययुर्देवाः स्वमालयम् ।। १८ ।।
शक्रोऽपि लब्ध्वा त्रिदिवं रामबाहुप्रसाधितम् ।।
विजहार दिवं राजन्पालयानो जगत्त्रयम् ।। १९ ।।
रथेन सिंहयुक्तेन महादेवोऽपि भार्गवम्।।
आदाय प्रययौ शीघ्रं कैलासं पर्वतोत्तमम् ।। 1.49.२० ।।
स्नेहेन चाऽस्य गात्राणां चक्रे सम्मार्जनं हरः ।।
येनाऽऽसीद्बलवान् रामो निर्व्रणश्च महाशयाः ।। २१ ।।
गतव्रणं श्रियोपेतं जयं लब्ध्वा ह्युपस्थितम् ।।
रामं प्रहरतां श्रेष्ठं शंकरो वाक्यमब्रवीत्। २२ ।।
शङ्कर उवाच ।।
रामराम महाभाग त्वयाऽहं परितोषितः ।।
तस्मात्तवाऽहं दास्यामि चास्त्रग्रामं ह्यनुत्तमम् ।। २३ ।।
अस्त्राणां धारणे शक्तस्त्वमेको भुवि भार्गव ।।
तव धैर्यमनौपम्यं तव सत्त्वमनुत्तमम् ।। २४ ।।
अस्त्रयोगमिहस्थस्त्वं कृत्वा पुत्र शनैःशनैः ।।
सर्वास्त्रवित्ततो राम गन्तासि पितरं स्वकम् ।। २५ ।।
यश्चैव परशुर्दिव्यः पित्रा दत्तस्तवाऽनघ ।।
अद्य प्रभृति ते क्षिप्तः करं भूयः समेष्यति ।। २६ ।।
उपलक्षणमेतच्च तथा तव भविष्यति ।।
छेत्स्यामि ते संशयांश्च निर्वृतो भव पुत्रक ।। २७ ।।
मार्कण्डेय उवाच ।।
इत्येवमुक्तः परिपूर्णकामो रामो महात्मा जितसैन्यनावः ।।
उवास तत्र प्रमथैः समेतः सर्वाण्यथास्त्राण्यनुशिक्षमाणः ।। २८ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे साल्ववधो नामैकोनपञ्चाशत्तमोऽध्यायः ।। ४९ ।।