विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०४८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०४७ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०४८
वेदव्यासः
अध्यायः ०४९ →

मार्कण्डेय उवाच ।।
सिंहिकापुत्रसैन्येन हन्यमानस्तदा रणे ।।
गोचराभ्यागतान्सर्वान्रामो निन्ये यमक्षयम ।। १ ।।
तेन कृत्ताः परशुना यथा परशुना मृगाः ।।
आलिङ्ग्य शेरते क्षोणीं दानवास्ते मदोद्धताः ।।२।।
तीक्ष्णधाराग्रदुष्प्रेक्ष्यकुठारच्छिन्नमस्तकैः ।।
आततार तदा भूमिं कुशैर्वेदिमिवाध्वरे ।। ३ ।।
परश्वधाग्रसंभिन्नदैत्यदेहसमुद्भवम् ।।
प्रसुस्राव तदा रक्तं येनाऽऽसीत्कर्दमं महत् ।। ४ ।।
ते हन्यमाना रामेण राममेवाऽभिदुद्रुवुः ।।
परिपूर्णे यथा काले शलभा जातवेदसम् ।। ५ ।।
रामस्य प्रमुखे दैत्यास्तदा तिष्ठन्ति ये नृप ।।
निमेषान्तरमात्रेण ते प्रयान्ति यमक्षयम् ।। ६ ।।
कुञ्जरस्तुरगः पत्तिर्नाजौ यादव दृश्यते ।।
द्वितीयं प्रददौ यस्य प्रहारं भृगुनन्दनः ।। ७ ।।
एकप्रहाराभिगतान्दानवान्पर्वतोपमान्।।
अपश्याम रणे तत्र ब्रह्मणा सहिता वयम् ।।८।।
रामेण हन्यमानानां दानवानां मुहुर्मुहुः ।।
आरावः श्रूयते घोरो वनानामिव दह्यताम् ।। ९ ।।
आक्रम्य पद्भ्यां तरसा रथस्थानामथाहरत् ।।
शीर्षाणि तेन तीक्ष्णेन तथा परशुना रणे ।। 1.48.१० ।।
रामेणाऽऽक्रम्यमाणेषु रथेषु रथयूथपाः ।।
भूमौ निविष्टमूर्द्धानस्तत्यजुर्जीवितं हयाः ।। ११ ।।
निष्पिपेष रथस्थानां दारयन्कुञ्जरान्रणे ।।
बभ्रमे तत्र तत्रैकः कालोत्सृष्ट इवान्तकः ।। १२ ।।
विच्छिन्दन्योधशीर्षाणि रणे रामो रथाद्रथम् ।।
व्रजन्भाति विशालाक्षो वृक्षादवृक्षमिवाऽण्डज ।। १३ ।।
स शराञ्चितसर्वाङ्गः शोणितेन समुक्षितः ।।
रराज रामः समरे रश्मिमानिव भास्करः ।। १४ ।।
दैत्यबाहुविनिर्मुक्तानायुधाञ्छतशस्तथा ।।
परश्वधाग्रेण रणे चिच्छेद रणकर्कशः ।। १५ ।।
तेषां संछिद्यमानानां प्रादुरासीद्धुताशनः ।।
येन तानेव तरसा क्षितौ चक्रे स भस्मसात् ।। १६ ।।
बहुत्वाद्दैत्ययोधानां रामस्संछादितो रणे ।।
हेतिपुञ्जेन महता शैलाभेन न दृश्यते ।। १७ ।।
हेतिपुञ्जं विधूयोग्रमभ्रपुञ्जं यथा रविः ।।
पुनर्दर्शनमायाति संहर्त्ता दैत्यतेजसाम् ।। १८ ।।
ब्रह्मा सुरगणैः सार्द्धमृषिभिश्च महात्मभिः ।।
पूजयामास तद्युद्धं साधुवादेन यादव ।। १९ ।।
दृष्टवन्तश्च धनुषा युद्धानि च मुहुर्मुहुः ।।
तथैवाऽऽश्चर्यभूतानि लोकानां खड्गचर्मणा ।। 1.48.२० ।।
अपूर्व एष संग्रामो रामस्य बहुभिः सह ।।
परश्वधायुधस्योग्र इति देवास्तथाऽब्रुवन् ।। २१ ।।
पूज्यमानः स रामोऽपि देवपुष्पोत्करैस्तदा ।।
चिच्छेद युधि दैत्यानां शिरांसि शतशो रणे ।। २२ ।।
दैत्यशोणितदिग्धाङ्गं भार्गवं लघुविक्रमम् ।।
अलातचक्रप्रतिमं तदा पश्यति यादव ।। २३ ।।
भ्रमताऽनेन रौद्रेण रणे कालाग्निवर्च्चसा ।।
कृताः समरशौण्डेन भीमा रुधिरनिम्नगाः ।। २४ ।।
परश्वधाग्रविक्षेपगतजीवितकुञ्जरैः ।।
पादोपलैश्च समरे प्रतस्तार स भार्गवः ।। २५ ।।
दन्तिदन्तपदन्यासप्राप्तं कुञ्जरमस्तकम् ।।
विनिघ्नन्स गजारोहाच्छ्येनवद्विचरन् लघु ।। २६ ।।
आरुह्य कुंजरञ्चैकं कुञ्जरात्कुञ्जरान्तरम् ।।
अपश्याम रणे रामं विचरन्तं यथासुखम् ।। २७ ।।
भूयो भूमिगतो रामः कुञ्जराणां परश्वधा ।।
चकार कदनं घोरं प्रलयाग्निरिवोत्थितः ।। २८ ।।
छिन्नाग्रहस्तान्विरदान्द्विरदाञ्छोणितोक्षितान् ।।
क्षितौ गता न पश्यामः श्यामीकृतदिगन्तरान्।। २९ ।।
एवं हि युध्यता तेन रणे कालाग्निवर्चसा ।।
हतानि दानवेन्द्राणां प्रयुतान्यर्बुदानि च ।। 1.48.३० ।।
येषां प्रहारं संसोढुं नेयं शक्ता वसुन्धरा ।।
तेषां प्रहारभिन्नाङ्गो नैव रामो व्यकम्पत ।। ३१ ।।
दृष्ट्वा प्रहारवैक्लव्यं निहतांश्च महासुरान् ।।
प्रदुद्रुवुर्दैत्यगणाः साल्वं शरणमाहवे ।। ३२ ।।
अल्पावशिष्टान्दितिजान्प्रनष्टान्संवीक्ष्य साल्वः स्वहिते निविष्टान् ।।
रामं ययौ तेन गजेन युद्धे रामाद्रणे युद्धमभीप्समानः ।। ३३ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० साल्वसैन्यवधो नामाऽष्टचत्वारिंशत्तमोऽध्यायः ।। ४८ ।।