विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०४४

विकिस्रोतः तः
← अध्यायः ०४३ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०४४
वेदव्यासः
अध्यायः ०४५ →

।। मार्कण्डेय उवाच ।। ।।
एवमुक्तस्तदा साल्वो राहुणा भीमविक्रमः ।।
जगाद भ्रातरं वाक्यं सारभूतमहेतुमत् ।। १ ।।
साल्व उवाच ।।
असारे ग्रह संसारे नित्ये सततयायिनि ।।
भवक्षये मतिः कार्या रुजोपकरणेषु वा ।।
जन्तवस्त्रिविधा लोके त्रिधा येषां विचेष्टितम् ।। २ ।।
तामसाराजसाश्चैव सात्त्विकाश्च ग्रहेश्वर ।।
भवक्षये ये विमुखा भवोपकरणेषु च ।। ३ ।।
लोकद्वितयविभ्रष्टास्तामसास्ते प्रकीतिताः ।।
भवक्षयमतिभ्रष्टा भवोपकरणे स्थिताः ।। ४ ।।
राजसास्ते विनिर्दिष्टा मध्यस्थाः सर्वजन्तुषु ।।
भवोपकरणे दैत्य मतियेर्षां न विद्यते ।। ५ ।।
भवक्षये मतिर्येषां सात्त्विकास्ते प्रकीर्तिताः ।।
तामसत्वान्मया दैत्य मतिः पूर्वं भवक्षये ।। ६ ।।
न कृता तेन तप्यामि राज्यतन्त्रमनुष्ठितम् ।।
मन्वन्तरेऽपि सम्पूर्णे मृतिर्येषां ग्रहोत्तम ।। ७ ।।
उद्विजन्त्येव ते मृत्योर्महन्मृत्युकृतं भयम् ।।
अवश्यं दैत्य मर्त्तव्यं सर्वेणेह शरीरिणा ।। ८ ।।
सोऽहं मोक्षपरिभ्रष्टः कामये केशवाद्वधम् ।।
इष्टं यज्ञैस्तपस्तप्तं रिपूणां मूर्धनि स्थितम् ।। ९ ।।
मर्त्तव्ये च ध्रुवे गमान्मरणं कामयाम्यहम् ।।
संप्राप्य केशवान्मृत्युं गतिं प्राप्स्याम्यनुत्तमाम् ।। 1.44.१० ।।
भूयो राज्यमवाप्स्यामि नाकभ्रष्टो ग्रहोत्तम ।।
विवास्य वासवं स्वर्गात्परिभूय पुनःपुनः ।। ११ ।।
कथं सन्धिं करिष्यामि तेनाऽहं जीवितप्रियः ।।
प्रणामं देव राजस्य केशवान्मरणं वरम् ।।।१२।।
समीक्ष्य साधु पश्यामि केशवान्मरणं रणे ।।
शक्रेण कृतसन्धानं पातालनिलयं तथा ।। १३ ।।
त्यक्षन्ति मां दैत्यगणा वृद्धं पतिमिवाऽङ्गनाः ।।
दिवि भूमौ तथा स्वर्गे पाताले गगने जले।।१४।।
देहिनां मृत्युरभ्येति तस्य नाऽस्ति पलायनम् ।।
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।।१५।।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ।।
अवश्यभाविन्यर्थेऽस्मिन्सर्वेषां ग्रह सर्वदा ।। १६ ।।
पुण्यभाजो हि मरणं संग्रामे यदि जायते ।।
सोऽहं क्षत्रियधर्मेण संपूज्य समरे हरिम् ।। १७।।
तस्मान्मृत्युमनुप्राप्य गतिं प्राप्स्यामि शोभनाम्।।
नैवेद्यैः पुप्पधूपाद्यैर्न तथा पूजितो हरिः ।।१८।।
तोषमायाति दैत्येन्द्र स धर्मेण यथा नृणाम् ।।
भ्रात्रा ज्येष्ठेन यद्वाच्यं सुहृदा हितमिच्छता ।।१९।।
तदुक्तोऽस्मि त्वया नाथ देवात्तन्मे न रोचते ।।
स त्वं गच्छ महाभाग दिविद्रष्टासि मां पुनः ।। 1.44.२० ।।
देहान्तरमनुप्राप्तं ग्रह दिव्येन चक्षुषा ।।
।।मार्कण्डेय उवाच।।
इत्येव साल्वस्य निशम्य वाक्यं कालानुरूपं च तथा विदित्वा।।
न किञ्चिदुक्त्वैव जगाम राहुर्दिवं महात्मा जगतां प्रधानः ।।२१।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे साल्ववाक्यं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ।। ४४ ।।