सामग्री पर जाएँ

विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०३२

विकिस्रोतः तः
← अध्यायः ०३१ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०३२
वेदव्यासः
अध्यायः ०३३ →

।। मार्कण्डेय उवाच ।। ।।
सर्वदेवातिदेवस्य ब्रह्मणस्तनयो भृगुः ।।
पौलोम्यां जनयामास च्यवनं भगवान्भृगुः ।।१।।
ययातिजा सुकन्यापि च्यवनाद्भृगुनन्दनात् ।।
आत्मवानं दधीचञ्च जनयामास धार्मिकौ ।।२ ।।
ऋषिपत्नी महाभागा चाऽऽत्मवानस्य नाहुषी ।।
और्वं संजनयामास ऋचीकापरसंज्ञितम् ।। ३ ।।
येन क्रोधाभिभूतेन दृष्टोऽग्निर्वडवामुखः ।।
तस्य सत्यवती भार्या कौशिकी गाधिजा शुभा ।। ४ ।।
तस्यां सञ्जनयामास पुत्राणां शतमूर्जितम् ।।
जमदग्निश्च वत्सश्च तेषां श्रेष्ठतमावुभौ ।। ५ ।।
स्त्रीणां चरुविपर्यासाज्जमदग्निरजायत ।। ६ ।।
वज्र उवाच ।।
कथ्यताम्मे यतो ब्रह्मन्वाडवस्य च संभवः ।।
संभवं जमदग्नेश्च श्रोतुमिच्छामि तत्त्वतः ।। ७ ।।
मार्कण्डेय उवाच ।।
भृगूणां हैहयानाञ्च वैरमासीत्सुदारुणम् ।।
धनहेतोस्तदा पापैर्हैहयैर्भृगवो हताः ।। ८ ।।
येऽपि गर्भगता बालास्तेऽपि तैविनिषूदिताः ।।
गर्भेषु हन्यमानेषु ऋषिः परमदुःखितः ।। ९ ।।
अरुणं धारयामास गर्भेष्टं दीप्ततेजसम् ।।
पूर्णे काले तदा बाल ऊरुं भित्त्वा व्यजायत ।। 1.32.१० ।।
जातमात्रस्तु चुक्रोध देवतानां महातपा ।।
हैहयैर्हन्यमानानां बन्धूनां सुमहात्मनाम् ।। ११ ।।
भवद्भिर्न कृतं त्राणं तस्मात्सर्वाञ्शपाम्यहम् ।।
तं क्रुद्धं पितरो हन्तुं वारयामासुरोजसा ।।१२।।
क्रोधः पुत्र न कर्तव्यः स हि शत्रुर्नृणां सदा ।।
वयं सर्वे जितक्रोधाः क्षत्रियैर्विनिपातिताः ।।१३।।
अस्माकं न वधे शक्ताः क्षत्रिया हैहयाधिपाः ।।
एवमुक्तः पितृगणैर्ऋचीकस्तानथाऽब्रवीत् ।। १४ ।।
न हि मे शाम्यति क्रोधो युष्मन्निधनकारितः ।।
तस्माद्देवगणान्सर्वान्निहनिष्यामि तेजसा ।।१५।।
एतस्मिन्नेव काले तु महीतोयसमाकुला ।।
जगाम शरणं विष्णुं सर्वभूतभवोद्भवम् ।। ।। १६ ।।
श्रीभगवानुवाच ।।
देवान्प्रति समुत्पन्नं क्रोधमौर्वस्य यच्छुभम् ।।
तं प्रविश्य ग्रसिष्यामि तोयं सर्वं वसुन्धरे।।१७।।
मार्कण्डेय उवाच।।
इत्येवमुक्त्वा वसुधामौर्वं क्रोधं समाविशत् ।।
भूत्वा च वडवावक्त्रस्तच्छरीराद्विनिस्सृतः ।। १८ ।।
न त्रातारो भविष्यन्ति पुत्र सर्वे दिवौकसः ।।
क्रोधश्चाऽयं तव वृथा न भविष्यति पुत्रक ।। १९ ।।
एवमुक्तस्तु भृगुणा ऋचीकाऽग्निमभाषत ।।
पूर्वोत्तरे समासाद्य समुद्रे वस पुत्रक ।। 1.32.२० ।।।
पिबँस्तत्र सदा वेगमम्भसां सुमहाद्युते ।।
अस्माकं तु कुले भावी क्षत्रधर्मा द्विजोत्तमः ।। २१ ।।
क्षत्रियाणां समुच्छेदं यः करिष्यत्यनेकशः ।।।
एवमुक्तस्तु पित्रा वै पिबन्मासाष्टकं जलम् ।। २२ ।।
चैत्रमासं समारभ्य नित्यमास्ते सुखी जले ।।
पीतं मासाष्टकं तोयं जठरे भस्मसाद्गतम् ।।। ।। २३ ।।
कृत्कृत्य मासाँश्चतुरः शिशिराख्ये महीतले ।।
नित्यं हिमोघं सृजति तस्मादपि समीरणः ।।२४ ।।
हिमाचले पातयति प्रवाहो नाम पार्थिव ।।
एषा तोयाद्धिमोत्पत्तिर्हिमतौ यस्य संभवः ।। २५ ।।
वृद्धिक्षयविहीनस्य कथितं तव धार्मिक ।। २६ ।।
उत्पत्तिरेषा तव वाडवाग्नेः प्रोक्ता मया भूमिपतिप्रधान ।।
श्रुत्वाऽपि यां मुञ्चति मोहजालं संसारजातेश्च यथा प्रबुद्धः ।। २७ ।।
इति श्रीविष्णु धर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वडवाग्न्युत्पत्तिर्नाम द्वात्रिंशत्तमोऽध्यायः ।। ३२ ।।