विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०३१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०३० विष्णुधर्मोत्तरपुराणम्
अध्यायः ०३१
वेदव्यासः
अध्यायः ०३२ →

मार्कण्डेय उवाच ।।
द्विजरूपमथास्थाय देवदेवोऽपि भास्करः ।।
माहिष्मतीं ययौ शीघ्रं नगरीं रत्नमालिनीम्।।।
स तत्र ददृक्षे वीरं कार्तवीर्यार्जुनं नृपम् ।।
यजमानं सुदोर्दण्डं कल्पवृक्षमिवापरम् ।।२ ।।
पूजितः कृतवीर्येण ब्राह्मणो नृपमब्रवीत् ।। ३ ।।
ब्राह्मण उवाच ।।
महाशनं मां जानीहि ब्राह्मणं क्षुधयार्दितम् ।।
प्रयच्छ तस्य मे तृप्तिं त्वमेको हैहयोत्तम ।। ४ ।।
अर्जुन उवाच ।।
केनाऽन्नेन भवत्तृप्तिः किमन्नं विदधामि त ।।
तन्ममाऽऽचक्ष्व भगवन् सुच्छंदेनैव मा चिरम् ।। ५ ।।
ब्राह्मण उवाच ।।
आदित्यं मां विजानीहि स्थावरान्भोक्तुमुद्यतम् ।।
प्रयच्छ तानि सर्वाणि मम पार्थिवपुंगव ।। ६ ।।
अर्जुन उवाच ।।
स्थावरं भूगतं दातुं शक्तिर्नाऽस्ति ममाऽनघ ।।
कथं हि स्थावरा दग्धुं शक्या मानुष्यतेजसा ।। ७ ।।
आदित्य उवाच ।।
रथस्थः पार्थिवश्रेष्ठ शरान्मुंच यदृच्छया ।।
तेष्वहं प्रज्वलन्राजन्भक्षयिष्यामि पादपान् ।। ८ ।।
तावदेव त्वया कार्यं नृपते शरमोक्षणम् ।।
यावन्न प्रज्वलिष्यामि मुक्तेष्वपि शरेष्वहम् ।। ९ ।।
मार्कण्डेय उवाच ।।
एवमुक्त्वा गते सूर्ये कल्पयित्वा रथोत्तमम् ।।
चिक्षेप स शरान्राजा यत्र तत्र द्रुमोत्करम् ।।1.31.१ ०।।
ते क्षिप्ता हैहयेशेन शातकौंभोज्ज्वलाः शराः ।।
जज्वलन्नृपशार्दूल ज्वलयंतो वने द्रुमान् ।।१ १।।
दुंदुभिस्वननिर्घोषो विस्फुलिंगगणाकुलः ।।
आलोलार्चिर्महावेगः सर्वसत्त्वभयंकरः ।।१२।।
निर्दहन्वृक्षपुंजानि तप्तकांचनसुप्रभः ।।
ज्वालामाली तदा भाति सर्वतः पावकः क्षितौ।।१३।।
वनेषु दह्यमानेषु तापतृष्णार्दिता मृगाः ।।
जलाशयेषु चित्रेषु गतच्छायाग्निकेषु च ।। १४ ।।
ददाहाग्निस्तदा वृक्षान्यावदिच्छा जगत्पतेः ।।
बभूवाऽथ प्रशांतार्चिः कृत्वा लघ्वीं वसुंधराम्।। १५।।
न जज्वाल तथा वह्निः कार्तवीर्यशरेष्वपि ।।
कृतकार्यं तदा गत्वा कार्तवीर्यो दिवाकरम् ।। १६ ।।
विनिवृत्य रथं पश्चाद्यावन्माहिष्मतीं पुरीम् ।।
स गच्छन्नेव ददृशे वसिष्ठं सर्वतेजसम् ।। १७।।
तेन शप्तो वने दग्धे स्वकीये नृपपुङ्गवः ।।
यस्मात्त्वया वनं दग्धं मम पार्थिवशासन! ।। १८ ।।
तस्माचेच्छिद्यते बाहून् ब्राह्मणः शंसितव्रतः ।।
तेन शापेन विप्रस्य रामः क्षत्रियनन्दनः ।। १९ ।।
तस्य बाहुवनं सर्वं चिच्छेद भृगुनन्दनः ।। 1.31.२० ।।
वज्र उवाच ।।
रामस्तु कस्मिन्स बभूव वंशे कथञ्च राज्ञस्तु महाबलस्य ।।
चिच्छेद दोर्दण्डवनं नृवीरः सर्वं ममाऽऽचक्ष्व भृगुप्रधान ।। २१ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वनदाहो नामैकत्रिंशत्तमोऽध्यायः ।। ३१ ।।