विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०२९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०२८ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०२९
वेदव्यासः
अध्यायः ०३० →

मार्कण्डेय उवाच ।।
गते सुरेश्वरे देवे शक्रे च सपुरोहिते ।।
जगत्याञ्च प्रयातायां देवदेवो महेश्वरः ।। १ ।।
अङ्गुष्ठमात्रको भूत्वा गङ्गातोये न्यमज्जत ।।
सोऽवगाह्य स्वलोकस्थां गङ्गां सर्वगतां नदीम् ।। २ ।।
तयोह्यमानः प्रययौ विस्तीर्णं चन्द्रमण्डलम् ।।
नवयोजनसाहस्रो विष्कम्भो यस्य कीर्तितः ।। ३ ।।
विस्ताराद्द्विगुणश्चैव परिणाहः समन्ततः ।।
तोयसारमयं पिण्ड पितॄणां धाममध्यगम् ।। ४ ।।
प्रजानां भावनं सर्वं चाधारं जगतामपि ।।
शरीरिणां शरोरेषु रसं पञ्चात्मकं स्मृतम् ।। ५ ।।
आलम्बकं क्लेदकं च तथा चैवावबोधकम् ।।
संघातकं तर्पकञ्च देहिनां देहगोचरम् ।। ६ ।।
मनःसर्वेन्द्रियाणाञ्च सर्वेषां नाथकं तथा ।।
ओषधीशं जगद्योनिममृताधारमव्ययम् ।। ७ ।।
यं पिबन्ति सदा देवाः पितरश्चामृतार्थिनः ।।
यश्चक्षुर्देवदेवस्य विष्णोर्वा स प्रकीर्तितः ।।८।।
हव्यकव्याशनो देवो भूतात्मा भूतभावनः ।।
प्रविश्य मण्डलं तस्य देवदेवो महेश्वरः ।।।।।
तस्य यद्व्यापकं तेजः सूक्ष्ममन्नरसं हि तम् ।।
अङ्गुष्ठमात्रं पुरुषं यं बुधाः के शिवं विदुः ।। 1.29.१० ।।
चक्षुर्गोलकमध्यस्था दृक्शक्तिरिव यः स्थितः ।।
चन्द्रगोलकमध्यस्थः पुरुषः स परः स्मृतः ।। ११ ।।
कर्मसाक्षी स लोकानां स चाधारः परः स्मृतः ।।
आदित्यरश्मयश्चंद्रे तमःसंमूर्च्छितं क्षितौ ।। १२ ।।
क्षपयिष्यंति यन्नैशं शीतांशुस्तस्य तेजसी ।।
यस्य रूपमनिर्देश्यं यस्य तेजः सुदुःसहम् ।। १३ ।।
तं तु देववरं दृष्ट्वा तुष्टाव त्रिपुरान्तकः ।।
ईश्वर उवाच ।।
अग्नीषोममयं चैतज्जगदेतत्प्रकीर्तितम् ।।
अग्नीषोमौ जगन्नाथौ देवदेवो जनार्दनः ।। १४ ।।
तस्याग्नेयी तनुर्या च सोऽहं स च दिवाकरः ।।
सौम्या तु या तनुस्तस्य स भवान् स पितामहः ।। १५ ।।
त्वयेदं धार्यते सर्वं नान्यत्पश्यामि कारणम् ।।
त्वद्बिम्बे निर्मले पृथ्वी सशैलवनकानना १।।।
शशाकृतिः सदा दृश्या शशलक्ष्माऽसि चानघ ।।
तेनैव कारणेन त्वमुच्यसे मृगलाञ्छनः ।। १७।।
शशी शशत्वसंबन्धात्सौम्यत्वात्सोम उच्यते ।।
शीतांशुत्वाच्च शीतांशुः निशेशे त्वद्विराजनात् ।। १८ ।।
नक्षत्रनाथस्तत्स्वाम्याद्राजत्वात्त्वं द्विजेश्वरः ।।
वसन्ति ते पितृगणाः पितृनाथस्ततो भवान् ।। १९ ।।
बह्वर्थश्चन्द्र इत्येष धातुरुक्तो मनीषिभिः ।।
शुक्लत्वे ह्यमृतत्वे च शीतत्वे ह्रादनेऽपि च ।।1.29.२०।।
तेन ते चन्द्रताख्याता सततं धर्मवत्सल! ।।
सर्वे चाह्लादमायन्ति दृष्टे त्वयि महाद्युते ।। २१ ।।
प्रजाकार्यं त्वदायत्तं तत्कुरुष्व जगत्प्रभो ।।
दत्तात्रेयत्वमासाद्य त्वया दत्तवरो नृपः ।।२२।।
कार्तवीर्यार्जुनो नाम दानवास्तमुपाश्रिताः ।।
सर्वे क्षत्त्रियतां प्राप्य तद्वधे यत्नवान् भव ।।२३।।
त्वया दत्तवरं हन्तुं नान्यः शक्नोति कश्चन।।
अवश्यं च त्वया कार्यं देवकार्यं सदा विभो ।। २४ ।।
मार्कण्डेय उवाच ।।
शंकरेणैवमुक्तस्तु प्रतिपूज्य च शंकरम् ।।
उवाच देवदेवेशं प्रणतार्तिहरं हरम् ।। २५ ।।
चन्द्र उवाच ।।
इयं शङ्कर सौम्या मे तनुः सुविहिता तव ।।
तस्मादर्कस्थितां गच्छ सा ते कामं करिष्यति ।। २६ ।।
मार्कण्डेय उवाच ।।
इत्येवमुक्तस्त्रिपुरान्तकारी सोमेन राज्ञा परमेश्वरेण ।।
संपूज्य देवं प्रययौ स शीघ्रं तेजोमयं मंडलमाशु राजन् ।। २७ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चन्द्रमण्डलदर्शनं नामैकोनत्रिंशत्तमोऽध्यायः ।। २९ ।।