विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः २७६-२८०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः २७१-२७५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः २७६-२८०
वेदव्यासः
अध्यायाः २८१-२८५ →

3.276
हंस उवाच ।।
श्रद्धान्वितेन मनसा यद्यत्किञ्चित्समाचरेत् ।।
तत्तद्बहुफलं तस्य जायते लोकयोर्द्वयोः ।। ।। १ ।।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः।।
देवश्रद्धा नरा देवाः कथिता देवयाजिनः।।२।।
पितृश्रद्धाश्च पितरो दैत्ये श्रद्धा दितेः सुताः।।
पापश्रद्धास्तथा पापा विज्ञेया नरकङ्गमाः ।। ३ ।।
तस्माच्छ्रद्धां समास्थाय धर्मं धर्मी समाचरेत् ।।
बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया ।।
आस्तिक्यभावमास्थाय नरः श्रद्धासमन्वितः ।। ४ ।।
नित्यं पुण्यानि कुर्वीत पापानि परिवर्जयेत् ।।
पुण्यं बहुफलं तस्य श्रद्धामास्थाय यत्कृतम् ।।८५ ।।
श्रद्धा पवित्रं परमं हि लोके श्रद्धा शरीरं पुरुषस्य चोक्तम् ।।
श्रद्धां समास्थाय नरश्च कृत्वा पुण्यानि पुण्यां गतिमाप्नुवन्ति ।। ६ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु श्रद्धाफलवर्णनो नाम षट्सप्तत्युत्तरद्विशततमोऽध्यायः ।। २७६ ।।
3.277
हंस उवाच ।।
नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम् ।।
क्रियास्नानं तथा षष्ठं षोढा स्नानं प्रकीर्त्तितम् ।।१।।
नित्य नैमित्तिकौ कार्यौ उष्णोदकपरोदकैः ।।
तृतीयं च परस्नानं यदुक्तं मलकर्षणम् ।। २ ।।
पञ्च पिण्डान्समुद्धृत्य स्नातव्यं परवारिणि ।।
अतोऽ न्यथा नरः स्नातो दुष्कृतांशेन लिप्यते ।। ३ ।।
स्नातः शुद्धिमवाप्नोति न तु स्नानफलं नरः ।।
उद्धृत्य पञ्च पिण्डानि स्नातोऽपि परवारिणा ।। ।।४।।
वह्नितप्ताम्बुना स्नातो नाप्नोति स्नानजं फलम् ।।
स्नातः शुद्धिमवाप्नोति कर्मण्यश्चैव जायते ।।५।।
तस्मात्पुण्येषु तीर्थेषु सागरेषु सरःसु च ।।
सरित्स्वपि च दिव्यासु तथा प्रस्रवणेष्वपि ।। ६ ।।
धर्मार्थमाचरेत्स्नानं तेन नाके महीयते ।।
तोयालाभे तथालस्ये नित्यनैमित्तिकावुभौ ।। ७ ।।
मलापकर्षणं स्नानं तृतीयं च समाचरेत् ।।
शुद्धिमात्रमवाप्नोति तप्तोदकपरोदकैः ।। ८ ।।
स्रवन्ति रात्रौ छिद्राणि सुप्तस्य पुरुषस्य तु ।।
तस्मात्कल्यमथोत्थाय स्नानं नित्यं समाचरेत् ।।९।।
क्रियावैफल्यमाप्नोति स्नानहीनः समाचरन् ।।
यथाकथञ्चित्कुर्वीत स्नानं नित्यमतो बुधः ।। 3.277.१० ।।
स्नातस्तु तर्पणं कृत्वा देवानां पितृभिः सह।।
स्नातो भवति धर्मात्मा नान्यथा स्नात उच्यते ।। ११ ।।
सूतके मृतके स्नातो न कुर्यात्तर्पणक्रियाम् ।।
मृतके तर्पणं कुर्यान्मृतस्यैकस्य पण्डितः ।। १२ ।।
स्नातः शौचमवाप्नोति स्नानं तुष्टिकरं परम् ।।
बाह्यमाभ्यन्तरं दोषं स्नानेन प्रणुदत्यपि ।। १३ ।।
दुःस्वप्नशमनं स्नानं चामङ्गल्यप्रणाशनम् ।।
मङ्गल्यजननं मुख्यं मनःशौचकरं परम् ।। १४ ।।
नाप्नोति नारकं दुःखं नित्यस्नायी नरोत्तमः ।।
वह्निवृद्धिकरं स्नानं स्नानं सौभाग्यवर्धनम् ।। १५ ।।
अलक्ष्म्याः शमनं स्नानं स्नानं दुरितनाशनम् ।।
स्नातः क्रियासमर्थश्च तथा भवति मानवः ।। १६ ।।
शिरसा तु विना स्नातो न स्नातः परिकीर्तितः ।।
कल्येऽसमर्थः स्नाने तु प्राप्ते भोजनकर्मणि ।। १७ ।।
ध्रुवं समाचरेत्स्नानं स्वर्गमार्गप्रदर्शकम ।।
शिरःस्नातस्तु कुर्वीत दिव्यं पित्र्यं द्विजोत्तम ।। १८।।
दिव्यपित्र्याणि कर्माणि नास्नातस्तु समाचरेत् ।।
विनापि तीर्थसलिलाद्दैवे पैत्र्ये च कर्मणि ।।१९ ।।
सदा समाचरेत्स्नानं देहशुद्धिकरं परम् ।।
स्नानादेव परं पुण्यं तीर्थस्नातः समश्नुते ।। 3.277.२० ।।
भूमिष्ठन्तूद्धृतात्पुण्यं तस्मात्प्रस्रवणोदकम् ।।
तस्माच्च नैर्झरन्तोयं नैर्झरादपि सारसम् ।। २१ ।।
सारसादपि नादेयं तस्मात्साधुपरिग्रहम् ।।
सर्वेभ्यश्च तथा पुण्यं कथितं जाह्नवीजलम् ।। २२।।
गङ्गाप्लुताङ्गा दिवि देवभोगान्भुक्त्वा चिरं प्राप्य मनुष्यभावम् ।।
भवन्ति लोके सुखिनः समृद्धा यशोन्विता धर्मपरा विदुखाः ।।२३।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु स्नानवर्णनोनाम सप्तसप्तत्युत्तरद्विशततमोऽध्यायः।।२७७।।
3.278
हंस उवाच ।।
जप्यं सिद्धिकरं लोके द्विजानां परिकीर्तितम् ।।
जप्येन सिद्धिमाप्नोति विशेषेण द्विजोत्तमाः।।१।।
जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः ।।
कुर्यादन्यत्र वा कुर्यान्मैत्रो ब्राह्मण उच्यते ।। २ ।।
दार्वासने सुखासीनस्त्वथ वापि कुशासने ।।
जप्यं समाहितः कुर्यादथ वापि समुत्थितः ।। ३ ।।
पूर्वोत्तराशाभिमुखः सूर्यस्याभिमुखोऽपि वा ।।
दर्भपाणिर्द्विजश्रेष्ठा ज्ञात्वा धर्मस्य निश्चयम् ।। ४ ।।
ऋषिं मन्त्रस्य विज्ञाय च्छन्दो दैवतमेव च ।।
विनियोगं जपं कुर्याद्ध्यायन्वै मन्त्रदेवताम् ।। ५ ।।
नातिद्रुतेन कर्तव्यं न चैवातिविलम्बितम् ।।
वर्णानुच्चारयेत्सर्वाञ्जप्यकाले द्विजोत्तमाः।। ६ ।।
मन्त्रमावर्तयेद्विद्वान्यथाशक्ति ह्यतन्द्रितः ।।
स्वाध्यायस्तु भवत्युच्चैरुपांशुर्जप्य उच्यते ।। ७ ।।
मनसा तु तथा जाप्यं तस्माद्बहुफलं स्मृतम् ।।
अक्षसूत्रस्तु कर्तव्यो रुद्राक्षैर्द्विजसत्तमाः ।। ८ ।।
पद्माक्षैर्वा महाभागास्त्वथ वा पुत्रजीवकैः ।।
मुक्ताफलैर्विद्रुमेण रुक्मेण स्फटिकेन वा ।।९।।
कुशागुणेन वा विप्राः सम्यग्ग्रंथिमता सता ।।
गणनं वा तथा कुर्यात्सम्यगङ्गुलिपर्वभिः ।।3.278.१०।।
एवं कृत्वा द्विजा जप्यमवश्यं मन्त्रदेवताम् ।।
आराध्य तु तदाप्नोति यद्यद्वाञ्छति चेतसा ।। ११ ।।
जप्येन सिद्धिमासाद्य ब्रह्म लोकमवाप्नुयात् ।।
जप्येन मुच्यते पापाज्जप्येन त्रिदिवं व्रजेत् ।। १२ ।।
जप्येन मोक्षमाप्नोति तस्माज्जप्यपरो भवेत् ।।
अकामकामं जप्येन ध्रुवं मोक्षमवाप्नुयात् ।।१३।।
कामकामस्तदाप्नोति यं कामं मनसेच्छति ।।
संसिद्धा ऋषयः सर्वे जप्येनैव द्विजोत्तमाः ।।१४।।
जप्यं पवित्रं परमं द्विजानां जप्येन पापं सकलं जहाति ।।
जप्येन लोकाँल्लभते त्वभीष्टाञ्जप्येन मोक्षं लभते द्विजातिः ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु जप्यवर्णनो नामाष्टसप्तत्युत्तरद्विशततमोऽध्यायः ।। २७८ ।।
3.279
हंस उवाच ।।
कृत्वा जलनिमग्नस्तु मन्त्रजापं द्विजोत्तमाः ।।
फलमक्षयमाप्नोति मुच्यते सर्वकिल्बिषैः ।। १ ।।
मन्त्रमन्तर्जले जप्यं ध्यायता मन्त्रदेवताम् ।।
नरं मोचयते पापान्महापातकजादपि ।। २ ।।
अन्तर्जलेनाथ विधूतपापा द्विजास्तु नाकं ध्रुवमेव यान्ति ।।
जले निमग्नेन ततस्तु यत्नान्मन्त्रस्य जापः पुरुषेण कार्यः ।। ३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वन्तर्जले जप्य वर्णनो नामैकोनाशीत्युत्तरद्विशततमोऽध्यायः ।। २७९ ।।
3.280
।। हंस उवाच ।। ।।
रेचकं पूरकं चैव कुम्भकं च तथा द्विजाः ।।
एकस्त्र्यवस्थो विज्ञेयः प्राणायामो महाफलः ।। १ ।।
आददानस्तु यः श्वासं मंत्राध्ययनमाचरेत् ।।
मनसा ब्राह्मणश्रेष्ठा रेचकं तत्प्रकीर्तितम् ।। २ ।।
श्वास सन्धारणं कुर्वन्नाददानो न च त्यजन् ।।
पूरकं तद्विनिर्दिष्टं सर्वकल्मषनाशनम् ।। ३ ।।
मंत्रस्य देवताध्यानं प्राणायामं तथा चरेत् ।।
प्राणायामात्परं नास्ति द्विजातीनां तथा तपः ।। ४ ।।
निरोधाज्जायते वायुस्ततस्त्वग्निः प्रजायते ।।
ततस्तु सलिलं देहे पूयते तैस्त्रिभिर्नरः ।। ५ ।।
आकेशाग्रं नखाग्रं स्वं तप्स्यते परमं तपः ।।
यस्तु कुर्याद् द्विजश्रेष्ठाः प्राणायाममतन्द्रितः ।। ६ ।।
न तत्पुण्यमवाप्नोति तीर्थानुसरणाद्द्विजाः ।।
न यज्ञेन तथा कृच्छ्रैः प्राणायामाद्यदाप्नुयात् ।।७ ।।
प्राणायामपरा विप्राः सर्वनिर्धौतकल्मषाः ।।
त्रिदिवं प्रतिपद्यन्ते मोक्षं वा मनसेप्सितम् ।।८।।
प्राणायामेन नश्यन्ति महापातकजान्यपि ।।
घोराप्येनांसि धर्मज्ञाः प्राणायाममतश्चरेत् ।। ९ ।।
एतत्तपस्तत्परमं द्विजानां पापापहं पुण्यविवृद्धिकारि ।।
मोक्षप्रदं वा पुरुषोत्तमानां तस्मात्प्रयत्नेन समाचरेत्तत् ।। 3.280.१० ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु प्राणायामवर्णनो नामाशीत्युत्तरद्विशततमोऽध्यायः ।।२८०।।