विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः २७१-२७५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः २६६-२७० विष्णुधर्मोत्तरपुराणम्
अध्यायाः २७१-२७५
वेदव्यासः
अध्यायाः २७६-२८० →

3.271
हंस उवाच।।
आचारः स्वर्गजनन आचारः कीर्तिवर्धनः ।।
आचारश्च तथायुष्यो धन्यो लोकसुखावहः ।। १ ।।
सर्वलक्षणहीनोऽपि स सदाचारवान्नरः ।।
सर्वलक्षणलक्षण्यैर्विज्ञेयः पुरुषो वरः ।।२।।
आचारस्त्रिविधो लोके सेवितव्यो विचक्षणैः ।।
श्रुतिस्मृत्युदितश्चैव सदाचारस्तथा परः ।।
आचारप्रभवं सौख्यं धनं च द्विजसत्तमाः ।।३।।
आचारयुक्तस्त्रिदिवं प्रयाति आचारवानेव भवत्यरोगः ।।
आचारवानेव चिरन्तु जीवेदाचारवानेव भुनक्ति लक्ष्मीम् ।। ४ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेय वज्रसंवादे मुनीन्प्रति हंसगीतास्वाचारवर्णनो नामैकसप्तत्यधिकद्विशततमोऽध्यायः ।। २७१ ।।
3.272
हंस उवाच ।।
शौचं देवाः प्रशंसन्ति शौचं ब्रह्मर्षयस्तथा।।
शौचयुक्तेन यद्दत्तं तदश्नन्ति दिवौकसः ।।१।।
सर्वेषामेव धर्माणां शौचं वा फलभाग्भवेत् ।।
शौचवानेव पुरुषो यथेष्टाङ्गतिमाप्नुयात् ।। २ ।।
शरीरशौचं जलमृद्भिरुक्तमलोभशौचन्तु मनः प्रमार्ष्टि ।।
मनो विशुद्धं पुरुषस्य यस्य स लोकमाप्नोति पितामहस्य ।। ३ ।।
इति श्री विष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु शौचवर्णनो नाम द्विसप्तत्यधिकद्विशततमोऽध्यायः ।। २७२ ।।
3.273
।। हंस उवाच ।।
तीर्थानुसरणं शौचं तीर्थानुसरणं तपः ।।
तीर्थाम्भोभिर्नराः पूता यान्ति नाकमसंशयम् ।। १ ।।
तीर्थानुसरणं पुण्यं चाध्वना प्राप्नुयान्नरः ।।
अध्वना क्षीणपापस्तु त्रिदिवं प्रतिपद्यते ।। २ ।।
पाप्मनां पापशमनं विधत्ते तपसा विना ।।
विपाप्मना तथा तुल्यं विधत्ते यत्प्रकीर्तितम् ।। ३ ।।
बहूपकरणा यज्ञा नानासम्भारविस्तराः ।।
न ते शक्या दरिद्रेण प्राप्तुं धर्मभृतांवराः ।। ४ ।।
दरिद्रैरन्यथा प्राप्तुं शक्यं यज्ञफलं द्विजाः ।।
तीर्थानुसरणं कृत्वा तस्मात्तीर्थपरो भवेत् ।। ५ ।।
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ।। ६ ।।
पापानां पापशमनं धर्मवृद्धिस्तथा सताम् ।।
विज्ञेयं सेवितं तीर्थं तस्मात्तीर्थपरो भवेत् ।। ७ ।।
ये साग्नयो धनोपेतास्तीर्थानुसरणे रताः ।।
तेषां यक्षफलावाप्तिर्विनापि धनसंचयैः ।। ८ ।।
सर्वेषामेव वर्णानां सर्वाश्रमनिवासिनाम् ।।
तीर्थं फलप्रदं ज्ञेयं नात्र कार्या विचारणा ।। ९ ।।
कार्यान्तरेण यो गत्वा स्नानं तीर्थे समाचरेत् ।।
तीर्थयात्राफलं तस्य नास्ति स्नानफलं ततः ।। 3.273.१० ।।
अध्वनां क्लेशदुःखेन तीर्थयात्राफलं भवेत् ।।
तीर्थानुसरणं पद्भ्यां तपः परमिहोच्यते ।। ११ ।।
तदेव कृत्वा यानेन स्नानमात्रफलं लभेत् ।।
यस्यान्ये कुर्वते शक्त्या तीर्थयात्रां तथा नरः ।। १२ ।।
यानासनाभ्यां च तथा फलं तस्य चतुर्गुणम् ।।
तीर्थानुसरणं कृत्वा क्षेत्रभुग्विजितेन्द्रियः ।।१३।।
फलं प्राप्नोति विप्रेन्द्रास्तीर्थाद्दशगुणं भवेत् ।।
छत्रोपानहहीनस्तु तथा शतगुणं लभेत् ।। १४ ।।
छत्रोपानहहीनस्तु भैक्ष्याशी विजितेन्द्रियः ।।
महापातकजैर्घोरैः क्षिप्रं पापैर्विमुच्यते ।। १५ ।।
न भैक्ष्यं परपाकं तु न च भैक्ष्यं प्रतिग्रहः ।।
सोमपानसमं भैक्ष्यं तस्माद्भैक्ष्यं समाचरेत् ।। १६ ।।
लोकेऽस्मिन्द्विविधस्तीर्थः स्वच्छन्दो निन्दितस्तथा ।।
पुष्कराद्यास्तु ये तीर्था स्वप्रभावमहत्तराः ।। १७ ।।
तेषां तीर्थप्रभावेण कृतः पूर्वैः प्रतिग्रहः ।।
कण्वाश्रमाद्या ये तीर्था कण्वादीनां प्रभावतः।। १८ ।।
पुण्यास्ते कथिता लोके पापघ्नाः पुण्यवृद्धिदाः ।।
द्विप्रकारस्य तीर्थस्य सेवा ज्ञेया महाफला ।। १९ ।।
ये तीर्थसेवानिरता द्विजेंद्रास्ते पापहीना दिवमाप्नुवन्ति ।।
तत्रोष्य कालं सुचिरं सुखन्ते मानुष्यलोके सुखमाप्नुवन्ति ।। 3.273.२० ।।
इति श्रीविष्णुधर्मोत्तरे तृ०ख०मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु तीर्थफलवर्णनो नाम त्रिसप्तत्यधिकद्विशततमोऽध्यायः ।। २७३ ।।
3.274
हंस उवाच ।।
बहूपकरणा यज्ञा नानासम्भारविस्तराः ।।
न ते शक्या दरिद्रेण प्राप्तुं धर्मभृतांवराः ।। १ ।।
दरिद्रैरप्यथावाप्तुं शक्यं यज्ञफलं द्विजाः ।।
सदोपवासनिरतैस्तस्मादुपवसेन्नरः ।। २ ।।
यावन्मासोपवासन्तु तावत्तप इहोच्यते ।।
अनाशकमत ऊर्ध्वं द्विजातीनां प्रकीर्तितम् ।। ३ ।।
षष्ठकालाशनं शूद्रे तपः परमिहोच्यते ।।
वर्णसंकरजातीनां दिनमेकं प्रकीर्तितम् ।। ४ ।।
षष्ठकालात्परं शूद्रस्तपः कुर्याद्यथा क्वचित् ।।
राष्ट्रे हानिस्तदा ज्ञेया राज्ञश्चोपद्रवो महान् ।। ५ ।।
शूद्रस्तु षष्ठकालाशी यावच्छक्त्या तपश्चरेत् ।।
मासोपवासादर्वाग्वा तथा शक्त्या द्विजश्चरेत् ।। ६ ।।
नास्ति गङ्गासमं तीर्थं नास्ति कृष्णसमा गतिः ।।
गायत्रीसदृशं जप्यं होमं व्याहृतिभिः समम् ।। ७ ।।
अन्तर्जले तथावाप्तिः पापघ्नमघमर्षणात् ।।
अहिंसासदृशं पुण्यं दानात्संसवनं परम् ।। ८ ।।
एवमेव द्विजा नास्ति तपो नानशनात्परम् ।।
उपवासैः प्रतप्तानां दीर्घं सुखमनन्तरम् ।। ९ ।।
उपवासतपःशीला नाकलोकमुपागताः ।।
मोदन्ते त्रिदशे सार्धं यथा देवगणास्तथा ।। 3.274.१० ।।
पापानां पापशमनं सतामीप्सितकामदम् ।।
उपवासो विनिर्दिष्टो विशेषाद्देवताश्रयः ।। ११ ।।
उपवासप्रसक्तानां प्रसादसुमुखाः सुराः ।।
यथेच्छमपि जायन्ते नात्र कार्या विचारणा ।। १२ ।।
वासुदेवमथाश्रित्य नरः सम्यगुपोषितः ।।
अनन्तफलमाप्नोति त्वनन्तः संयतो हरिः ।। १३ ।।
वासुदेवमथाश्रित्य ब्राह्मणैर्यैरुपोषितम् ।।
तेद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ।। १४ ।।
उपोषिता ये विधिवन्मनुप्यास्ते नाकमासाद्य सुरोषमानाः ।।
देवाङ्गनाभिः सहिता मनुष्या भवन्ति लोके गतसर्वदुःखाः ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासूपवासफ लवर्णनो नाम चतुःसप्तत्युत्तरद्विशततमोऽध्यायः ।। २७४ ।।
3.275
हंस उवाच ।।
मनःसमाधिसंयुक्तस्तीर्थानुसारणात्फलम् ।।
प्राप्नोति सुमहद्विप्रास्तथा सम्यगुपोषितः।।१।।
सर्व एव मनुष्यस्य सर्वकर्मसु साधकम् ।।
मनसा तु विशुद्धेन यद्यदाचरते नरः ।।२।।
न तद्बहुफलं तस्य प्रेत्य चेह च जायते।।
मनो हि परमं भूतं तच्छौचे प्रयतेत्सदा।।३।।
मनःशौचयुतो जन्तुर्नरकं न प्रपद्यते।।
नाकलोकमवाप्नोति त्वथ वा परमं पदम।।४।।
गुणैस्तु सह यो वासो गतदोषस्य मानदाः।।
उपवासस्स विज्ञेयो न शरीरस्य शोषणम्।।५।।
निर्मले सुसुखे शुद्धे सत्यकूले महाह्रदे ।।
स्नातव्यं मानसे तीर्थे तद्धि तीर्थमनुत्तमम् ।।६।।
अत्राप्युदाहरन्तीमं श्लोकं पौराणमच्युताः ।।
यमो वैवस्वतो देवो यस्तवैष हदि स्थितः ।।
आत्मनश्चाविवादश्चेन्मा गङ्गां मा कुरून्गमः।।७।।
मनो लाघवदं कर्म सततं तु समाचरेत् ।।
सर्वाणि तस्य पुण्यानि भवन्त्यभ्यधिकानि तु ।।८।।
मनःशौचसमायुक्तो यानि मर्त्यो निषेवते।।
मन एव मनुष्यस्य पूर्वरूपाणि शंसति।।९।।
मन एव विजानाति कर्मणो गुरुलाघवम्।।
सत्यं शौचं दमः शौचं शौचं शारीरमेव च।।3.275.१०।।
सर्वाणि तस्य शौचानि यस्य शुद्धं मनः सदा ।।
मनःशुद्धिविहीनस्य सर्वे शौचा निरर्थकाः ।।११।।
न तु सा कृत्रिमा शक्या कर्तुं नास्तिक्यवर्जितैः ।।
यस्य दोषपरित्यक्तं गुणाधीनं सदा मनः ।। १२ ।।
स एव यजते यज्ञैः स एकस्तपते तपः ।।
स एकः सर्वमाप्नोति यत्किञ्चिन्मनसेच्छति।।
तस्माद्धि सर्वशौचानां मनःशौचं परं स्मृतम् ।।१३।।
आत्मा नदी पुण्यतटा सुतीर्था सत्योदका धृतिकूला दयोर्मिः।।
यस्यां स्नातः पूयते पुण्यकर्मा तीर्थं ह्यात्मा नित्यसंभोग एव ।।१४ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा० सं० मुनीन्प्रति हंसगीतासु मनःशौचनिरूपणो नाम पञ्चसप्तत्यधिकद्विशततमोऽध्यायः ।। २७५ ।।