विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ११६-१२०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः १११-११५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः ११६-१२०
वेदव्यासः
अध्यायाः १२१-१२५ →

3.116
मार्कण्डेय उवाच ।।
वैदिकेनेज्याविधानेन सात्त्वतोक्तेन दर्शनविधिहोमेन सप्ताहं प्रत्यहमर्चां कुर्यात् ।
ततः सप्तमेह्नि बृहत्स्नपनं कृत्वा कल्पकः कलशपाणिः या ओषधय इति तोरणान्यभिषिंचेत् ।।
गन्धद्वारेणेत्यनुलेपनेनार्चयेत् ।
पुष्पवतीति पुष्पैः ।।
अग्निर्मूर्धेति दीपेन ।
धूरसीति धूपेन।
सावित्राणि सावित्रस्येति नैवेद्येन ।।
ततः प्रागुत्तरं ततः पूर्वं ततो दक्षिणतः पश्चिमे श्रीविष्णुगायत्र्या तोरणान्युद्धरेत् ।।
सर्व एष ऋत्विजतोरणान्यादाय गजपृष्ठगा अश्वरथपृष्ठगा गोरथपृष्ठगाः शिबिकागता वा नदीं गच्छेयुः ।
तत्र च स्वस्ति न इन्द्र इति मन्त्रेणाक्षिपेयुः ।।
भद्रङ्कर्णेति श्रीदेवतागृहं व्रजेयुः यश्चेह भगवानिति प्रविशेयुः ।।
ततो भोगविधिपूर्वकेण सर्वेण प्रतिष्ठोक्तेन विधिना श्रीभगवन्तमन्वयेयुः ।
ततो भुक्तवत्सु विप्रेषु मुञ्चामि त्वेति मन्त्रेण यजमानस्य दीक्षाकरणं बद्धं मुञ्चेत् ।।
कवचेन च रक्षणं कुर्यात् ।।
तोरणोद्धरणवर्जं मासिमासि सप्ताहोक्तं विधिं कुर्यात ।।
यावत्संवत्सरं नित्यमेवं सर्वकामदं कर्म तत् ।।
प्रतिष्ठाकल्पमेतत्ते मयोक्तं पार्थिवोत्तम ।।
सर्वपापहरं ज्ञेयमायुष्यमपराजितम् ।।
अनेन विधिना कृत्वा स्थापनं शार्ङ्गिणो नरः।।
सर्वकामानवाप्नोति विष्णुलोकं च गच्छति ।।
ओषध्यः पवनं वृक्षा यत्किंचिदुपयुज्यते ।।
प्रतिष्ठायां हि तत्सर्वं विष्णुलोके महीयते ।।
प्रतिष्ठां येऽपि पश्यन्ति क्रियमाणां नराधिप ।।
अभिनन्दन्ति ये भक्तास्तेपि स्वर्गार्जिनो नराः ।।
सात्त्वतोक्तेन विधिना नित्यमेव प्रतिष्ठितम् ।।
पूजयेद्देवदेवेशं य इच्छेच्छाश्वतं पदम् ।। १ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तोरणोद्धारविधिवर्णनो नाम षोडशोत्तरशततमोऽध्यायः ।। ११६ ।।
3.117
मार्कण्डेय उवाच ।।
अथ देवयात्राविधिर्भवति ।
यस्य देवस्य या तिथिः स्वकीया उक्ता तस्य तस्यां तिथौ यात्रां कुर्यात् ।।
यस्य तिथिर्न ज्ञायते तस्य पौर्णमास्यां कुर्यात् ।।
श्रीभगवतो वासुदेवस्य सर्वा एव तिथयः नास्य तिथिर्नाम तत्रादावेव सुधावदातं सुचित्रितं देवकुलं कृत्वा शुभेह्नि विनायक पूजनं कुर्यात् ।।
द्वितीयेह्नि ग्रहर्क्षपूजनं, तृतीयेह्नि नागपूजनम्,
चतुर्थेह्नि प्रमथपूजनम्,
पञ्चमेह्नि ब्राह्मणपूजनम्, दीनानाथदानं च षष्ठेह्नि स्नपनम् ।।
तत्र बृहत्स्नपनं कृत्वा सर्वे एव नागरजनाः सुशुक्लवाससः पवित्रकृतपाणयः महता वाद्यघोषेण सुभगानर्तितेन सरःसरित्प्रस्रवणागारं नगरसंनिकर्षमासन्नतमं गच्छेयुः । तस्मादुदककलशानादाय गजपृष्ठगतान् वा वाससा शुभेनाच्छादितान्प्रवेशयेत् ।
प्रवेश्य श्रीभगवन्तं स्नापयेत, भोगविधिपूर्वकेन प्रतिष्ठोक्तेन विधिना पूजयेत्, नृत्यवाद्यगीतैश्च श्रीभगवन्तमर्चयेत्, ततो यात्रादिने प्राप्ते स्वल्पार्चां प्रतिमाख्याम् । कूटागारे मनोहरे नानाप्रकारवसनाच्छादिते सकिङ्किणीके रत्नमाल्यपताकोपशोभिते रथे दृढीकृत्वा अश्वैर्दा न्तैर्व्यायतैर्वा पुरुषैर्नगरं भ्रामयेत् ।
नागरेण च जनेन सुवेशेन चापमात्रपाणिना कूटागारस्य पुरस्ताद्भ्रमणं कर्तव्यम् ।।
अन्यैश्च कुसुममालाविकिरणं कर्तव्यम् ।
स्तुतीश्च कुर्युः ।
वन्दिनो मङ्गलपाठकाश्च पुरतो भवेयुः ।
वादित्राणि वादयंश्चतुरङ्गबलानुयातो राजा चानुगमनं कुर्यात् ।।
नगराधिकृतो वा तदधिकृतो वा गजपृष्ठगतः सांवत्सरेणानुगमनं कुर्यात् ।। निमित्तानि च पश्येत् ।
विनावातं ध्वजभङ्गे राज्ञां मरणमादिशेत् ।
छत्रभङ्गे जनपदविनाशः ।
ईषद्भङ्गे राजपत्नीमरणम् ।।
रज्जुच्छेदे बालपीडा ।।
अश्वदान्तनरविपत्तौ जनपद पीडा, मातृकाच्छेदे राजमातुः पीडा ।।
अर्चाभङ्गपतने लोकनाशः, समग्रकूटागारस्य पतने सराजकस्य राष्ट्रस्य विनाशः, विस्वरेषु वादित्रेषु परचक्रागमः, ध्वजस्थो गव्यादेः समरभयम् ।
अपृष्टजनपदे दुर्भिक्षभयम् ।।
शुभभे शुभं बालका यत्र कुर्युः तत् तथाविधमेव भवति ।
यस्य च पुरुषस्य तस्मिन्नहनि यादृशे सुखदुःख भवताम ।।
तादृशेपि संवत्सरे तस्य ज्ञेये ।
तस्मात्तत्राह्नि स्वाशितेन सुवाससा प्रकृष्टेन नागरेण भवितव्यम ।।
एवं नगरे संभ्राम्य चिह्नागसं ज्ञात्वा प्रविष्टायां प्रतिमार्चायां महदुत्सवं कुर्यात् ।
द्वितीयदिवसादारभ्य यावत्सामर्थ्यं प्रत्यहं नटनर्तकनर्तकीमल्लेन्द्रजालिकादीनां प्रेक्षापूर्वकं धनं दद्यात् ।।
प्रेक्षाकाले च प्रेक्षकं जनं माल्यताम्बूलानुलेपना दिदानेनार्चयेत् ।
अदृश्यानां प्रेक्षकाणां भूतानां रङ्गादिदिग्विदिक्षु सोदकमन्नाद्यं फलानि पुष्पाणि पललोल्लोपिकामोदकानि विकिरेत् ।।
प्रेक्षकाणां यथागतानां च श्रेयश्चाऽस्त्वित्युदीरयेत् ।
यथागताश्च प्रेक्षका आगामिनीं यात्रां पश्यंत्वित्युदीरयेत ।।
अशुभनिमित्तोत्पत्तौ तदुपशमनायानेन विधिना पुनर्यात्रां सम्यक्कुर्यात् ।।
अनेन विधिना यस्तु यात्रां कुर्यात्सुरालये ।।
स सर्वकामानाप्नोति विष्णुलोकं च गच्छति ।।
धन्यं यशस्यमायुष्यं राज्ञां च विजयप्रदम् ।।
नागराणां हितकरं यात्राकर्म प्रकीर्तितम् ।।
तुष्ट्यर्थं त्रिशेन्द्राणां हितार्थं नगरस्य च।।
जनस्य राजन्कर्तव्यं यात्राकर्म जयावहम्।।
अतिवृष्टिकरं प्रोक्तं त्वनावृष्टिविनाशनम् ।।
यात्राकर्म त्विदं कार्यं देवतायतनं सदा।।
प्रतिसंवत्सरं राजन्राजा विजयमिच्छता ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे यात्राविधिवर्णनो नाम सप्तदशोत्तरशत तमोध्यायः । ११७ ।।
3.118
वज्र उवाच ।।
कांकां विप्णोस्तनुं भक्तः केन कामेन पूजयेत ।।
एतन्मे संशयं छिन्धि त्वं हि सर्वं विजानसे ।। १ ।। ।।
मार्कण्डेय उवाच ।।
सर्वकामप्रदं देवं चतुर्मूर्तिं तु पूजयेत् ।।
पूजयेदनिरुद्धन्तु धर्मकामो नरः सदा।।२।।
तथा सङ्कर्षणं देवमर्थकामस्तु पूजयेत।।
कामकामोऽपि राजेन्द्र प्रद्युम्नं पूजयेद्विभुम्।।३।।
पूजयेन्मोक्षकामस्तु वासुदेवं जगत्प्रभुम् ।।
पुत्रकामस्तथा राजन्पद्मनाभं च पूजयेत्।।४।।
तथाश्वशिरसं देवं विद्याकामस्तु पूजयेत्।।
भोगानामाप्तकामस्तु पूजयेद्भोगशायिनम।।५।।
भोगिभोगासनासीनं स्थानकामस्तु पूजयेत् ।।
मत्स्यं संपूजयेद्देवं धान्यकामो नरः सदा ।। ६ ।।
तथैवारोग्यकामस्तु कूर्मदेवं च पूजयेत् ।।
ज्ञ कामस्तथा हंसं नृसिंहमथ वा विभुम्।।७।।
विद्याकामोऽथ वाल्मीकिं व्यासं वाप्यथ पूजयेत्।।
सांख्यज्ञानपरिज्ञानहेतवे कपिलं तथा।।८।।
भूतिकामो वराहं तु नृवराहमथार्चयेत्।।
व्यवहारे रणे द्यूते जयकामस्तथा पृथक् ।। ९ ।।
धर्मकामस्तथा धर्मं ब्रह्माणं चापि पूजयेत ।।
शत्रूणां नाशकामस्तु महादेवं तु पूजयेत् ।। 3.118.१० ।।
पूजयेद्भार्गवं रामं प्रतिज्ञापारणेच्छया ।।
अथ वा राजशार्दूलं रामं दशरथात्मजम् ।। ११ ।।
श्रीकामस्तु महाराज श्रीसहायं च पूजयेत् ।।
बलकामस्तथा देवं बलभद्रं प्रपूजयेत् ।। १२ ।।
तमेव राजशार्दूलं कृषिकर्मप्रसिद्धये ।।
सर्वकामप्रदं देवं यथेष्टीं तनुमास्थितम् ।। १३ ।।
पूजयेत्सर्वशक्तित्वात्सर्वकामफलप्रदान् ।।
निराशिषः पूजयितो वरेण्यं देवेश्वरं वासुदेवं पुराणम् ।।
यथेष्टदेहोपगतं नृवारं स्थानं तदुक्तं परमं हि यत्स्यात् ।। १४ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तत्तत्कामपूजनवर्णनो नामाष्टादशोत्तरशततमोऽध्यायः ।। ११८ ।।
3.119
वज्र उवाच।।
कस्मिन्कर्मणि संप्राप्ते कां कां संपूजयेत्तनुम् ।।
कार्यसिद्धिमभिप्रेप्सुस्तन्मे वद महामुने ।। १ ।।
मार्कण्डेय उवाच ।।
समुद्रपोतयात्रायां मत्स्यं संपूजयेद्विभुम् ।।
वराहं वा महाभाग नद्युत्तारे तथैव च ।। २ ।।
संपूजयेदश्वशिरो विद्यारम्भे तु मानवः ।।
त्रिविक्रमं तथा देवं यात्राकाले तु पूजयेत् ।। ३ ।।
विवाहकाले संप्राप्ते प्रद्युम्नं पूजयेन्नृप ।।
संस्कारेषु च सर्वेषु दत्तात्रेयं च पूजयेत् ।। ४ ।।
काव्यारम्भे तु कर्तव्यं वाल्मीकिं व्यासमेव च ।।
अभिषेके तथा राजा मृत्युं वैन्यं च पूजयेत ।। ५ ।।
अवश्यं व्यवहारे च संग्रामे द्यूत एव वा ।।
वराहं पूजयेद्देवं प्रारम्भे कृषिकर्मणि ।। ६ ।।
अथ वापि महाराज देवं सङ्कर्षणं विभुम् ।।
नृसिंहं पूजयेदेव कर्मण्यरिविनाशने ।। ७ ।।
प्रतिज्ञापारणे रामं भार्गवं वाथ राघवम ।।
औषधस्य समारम्भे कूर्मं स्त्रीरूपमेव वा ।। ८ ।।
तीर्थयात्रासमारम्भे हंसं संपूजयेद्विभुम् ।।
वाणिज्यस्य समारम्भे तथैव गरुडध्वजम् ।। ९ ।।
शिल्प कर्मसमारम्भे विश्वरूपं समर्चयेत् ।।
तपसश्च समारम्भे नरनारायणावुभौ ।। 3.119.१० ।।
गृहप्रवेशे च तथा देवं भोगिशयं विभुम् ।।
धर्मं संपूजयेद्देवं धर्मकार्यप्रवर्तने ।। ११ ।।
वराहं पूजयेच्छ्राद्धे दानवान्यज्ञकर्मणि ।।
व्यालकुञ्जरदुर्गेषु रिपुचोरभयेषु च ।। १२ ।।
पूजयेन्नरसिंहं तु सर्वबाधा विनाशनम् ।।
यथेष्टरूपं धर्मज्ञ सर्वकार्येषु चार्चयेत् ।। १३ ।।
येनयेनेह कामेन यांयां संपूजयेत्तनुम ।।
सासा तस्य ध्रुवं दद्यात्तंतं काममसंशयम् ।।१४।।
संपूजितो देववरस्सकामैर्यथेप्सितं वज्र ददाति कामम् ।।
सर्वास्वथार्चासु यथेष्टसंस्थास्त्वकामकामैर्विदधाति मोक्षम् ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे कार्यारम्भप्रादुर्भावपूजनं नामैकोनविंशशततमोऽध्यायः ।। ११९ ।।
3.120
वज्र उवाच ।। ।।
कस्मिन्काले तु देवस्य प्रादुर्भावं कमर्चयेत् ।।
एतन्मे संशयं छिन्धि भृगुवंशविवर्धन ।। १ ।।
।। मार्कण्डेय उवाच ।। ।।
नृहयं नृवराहं च नरसिंहं च वामनम् ।।
त्रिविक्रमं तु धर्मज्ञ पञ्चस्वब्देषु पूजयेत् ।। २ ।।
वासुदेवं हलधरं पूजयेदयनद्वये ।।
प्रद्युम्नमनिरुद्धं च तथा भोगशयं प्रभुम् ।। ३ ।।
पद्मनाभं दाशरथिं रामं भार्गवमेव च ।। ४ ।।
वसन्तादिषु धर्मज्ञ पूजयेदृतुषु क्रमात् ।।
गजेन्द्रमोक्षणं चैवं पृथुं वाल्मीकिमेव च ।। ५ ।।
व्यासं च कृष्णं च नरं नरनारायणौ तथा ।।
रामं रामं तथा रामं हरिं चैत्रादिषु क्रमात् ।। ६ ।।
वह्निं प्रजापतिं सोमं रुद्रं स्त्रीरूपिणं तथा।।
व्यासं शेषं वराहं च प्रद्युम्नं चार्जुनं नृप ।। ७ ।।
आदित्यं विश्वकर्माणं चक्रं देवं नृकेसरिम् ।।
गरुडं पुरुहूतं च कपिलं पद्ममेव च ।। ८ ।।
विश्वरूपं च ब्रह्माण तथा देवं त्रिविक्रम ।।
गवां कूर्मं नरं चैव तथा नारायणं हरिम् ।।
रामं कृष्णं च वरदं कृत्तिकादिषु पूजयेत् ।।
नृहयं नृवराहं च तथा देवं त्रिविक्रमम ।। 3.120.१० ।।
कपिलं भोगिशयनं वराहं मत्स्यमेव च ।।
रामं रामं च धर्मज्ञ कूर्मं हंसं च यादव ।। ११ ।।
प्रद्युम्नं बलदेवं च वराहं च तथा क्रमात् ।।
तिथिषु प्रथमाद्यासु क्रमेणैव समर्चयेत ।। १२ ।।
यथेष्टमूर्तिगं देवं सर्वकालमथार्चयेत ।।
तस्य सर्वातिथिर्यस्मान्महाशक्तेर्जगद्गुरोः ।। १३ । ।
स सर्वशक्तिर्भगवान्महात्मा पूज्यः सदा भक्तिमुपेत्य राजन् ।।
संपूजनं देववरस्य तस्य भक्ति प्रधाना न हि कालयोगः ।। १४ । ।
इति विष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्र संवादे कालनियमपूजावर्णनो नाम विंशत्युत्तरशततमो ऽध्याय ।। १२० ।।