विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १११-११५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः १०६-११० विष्णुधर्मोत्तरपुराणम्
अध्यायाः १११-११५
वेदव्यासः
अध्यायाः ११६-१२० →

3.111
मार्कण्डेय उवाच ।।
अथ प्रतिष्ठितस्य भगवतो बृहत्स्नपनमारभेत् ततो गायत्रीं पठेत् ।।
इषेत्वेत्यनेन पतद्ग्रहं दद्यात् ।।
वैष्णवगायत्र्या पादुके ।
भूम्यावृत्वा यनोसीति मृदम् ।।
शन्न आप इत्यर्हणम् ।
देवेभ्यो वनस्पत इति दन्तकाष्ठम् ।।
यामालिखेति जिह्वानिर्लेखनम् ।।
आपोहिष्ठेत्याचमनम् ।।
पात्रेणार्घ्यम् ।।
युवासुवासा इति स्नानशाटकम् ।।
ध्रुवा द्यौरित्यासनम् ।
प्रतिष्ठासाम्ना पादपीठम् ।।
कनिक्रदेति बीजपात्रम् ।।
तेजोशुक्रमसीति दीपम् ।।
मुखादिन्द्रेत्यादर्शम् ।।
तथैव मुखालेपः ।।
रोध्रम् ।। त्वक् कोलमज्जा ।। वचा ।। कुष्ठम् ।। नीलोत्पलानि कुंकुमं चेति मुखालेपः ।।
सहस्रशीर्षेति तैलम् ।।
भद्रं कर्णेत्यनेनोद्वर्तनम् ।।
सुप्रतीकेन चमसा स्नानम्।।
ऋषभेन निष्पुंसनस्नानम् ।।
घृतवतीति घृतस्नानम्।।
दधिक्राव्ण इति दध्ना ।।
पयस्वतीति पयसा ।।
गंधद्वारेति गोमयेन ।।
गायत्र्या गोमूत्रेण।।
अघमर्षणेन पञ्चगव्येन ।
ध्रुवा द्यौरिति ध्रुवं निष्पुंसनेन ।।
मधुवाता ऋतायते इति मधुना ।।
सुप्रतीकेनेति इक्षुरसेन।
भौमेन गुडोदकेन।।
अथर्वशिरसा शर्करोदकेन।।
वामदेवेनेति नद्युभयकूलमृदा ।।
शांता द्यौरिति संगममृदा ।।
प्राणसूक्तेन सरोमृदा ।।
वाराहेणेति वराहोद्धृतमृदा।।
वामदेवेनेति गजदन्तमृदा ।।
वृषभेणेति वृषभशृंगोद्भवमृदा ।।
अश्वक्रान्तेति सर्वाभिः ।।
भारुन्देनेत्यामलकैः ।।
विकर्णेनेति रोध्रेण ।
ज्येष्ठसाम्नेति कालेयकेन ।।
बृहत्साम्नेति बीजपूरकेण ।।
कृष्णाजिनेनेति वर्णकस्नानीयेन ।
अग्न आयुरसीति तगरेण ।
श्रीसूक्तेनेति प्रियङ्गुना।।
विष्णोरराटमिति सिद्धार्थकैः ।।
कृष्णमणिनेति कृष्टेन ।।
शिरिभिटेनेति कुशोदकेन ।
या ओषधय इति सर्वौषधीभिः ।।
आब्रह्मन्ब्राह्मण इति बीजैः ।।
पुष्पवतीति पुष्पैः ।।
वनस्पते वीड्वंग इति वनस्पतिकलापैः ।।
पुष्पवतीति फलैः।।
आशुः शिशान इति रत्नैः ।।
गन्धद्वारेति गन्धैः ।
ॐकारनमस्कारपवित्रैः शिरःस्नानौषधीभिः यथा कुष्ठम्, रोध्रम्, मुस्ता, वचा, सर्षपाः, जयन्ती, विष्णुक्रान्ता, पुनर्नवा, ब्राह्मी, तगरम्, अतिबला, नवबला, नागबला, त्वक्पत्रम् ,अगुरुबालकम्, हरेणुकम्, लवङ्गम्, अगुरम्, उशीरम्, नालिका चूरकम्, द्वे हरिद्रे चेति ।।
एवं स्नानस्य कलशदानं भवति ।।
तत्रादावेवोङ्कारनमस्कारपवित्राभिर्ज्ञात्वा दशाध्यात्ममृत्पिण्डमाधुरैः सात्त्वतो दद्यात् ।।
ततः सामविन्महावामदेवलक्षरथन्तरशाक्वरभारुण्डबृहत्सामभिः ।।
अथर्वविदथर्वशिराः प्रत्यङ्गिरः शङ्खमणिप्राणसूक्तमणिप्रतिसरमणिभिः ।।
ऋग्वेदवित् गायत्रीसावित्रीगोसूक्ताश्च ।।
सूर्यसूक्तपुरुषसूक्तश्रीसूक्तैर्यजुर्वेदवित् ।।
कृष्णाजिनचमसषट्कषड्ऋतुकूष्माण्डरुद्रद्रविणैः ।
ततः स्वशक्त्या कलशसहस्रकलशाष्टशत पञ्च वा शतानि चत्वारि वा शतमष्टाधिकं वा अष्टाविंशतिर्वाष्टौ वा स्वर्चितान्वनस्पतिकालापगर्भशङ्खध्वनिस्वनेन वाद्यशब्देन जयजयकारवंदिशब्देन प्रसुभगानर्तितेन देयाः ।।
ततः पवित्रेणोपकलशान्विश्राम्य वेद्यां क्षिपेत् ।।
घृतवतीति घृतावेक्षं दर्शयेत् ।।
सहस्रशीर्षेण शिखण्डोदग्रहणशाटकं दद्यात् ।।
युवासुवास इति प्रतिनिर्वसनशाटकम् ।।
इदमापः प्रवहत इत्याचमनीयं ततो जानुभ्यां पाणिभ्यां शिरसा च नमस्कारं कुर्यात् ।।
बृहत्स्नपनमेतद्धि यः करोति नरो हरेः।।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते।।
न केवलं प्रतिष्ठायां सर्वदैवं समाचरेत् ।।
शान्तिदं पौष्टिकं काम्यं बृहत्स्नपनमुत्तमम ।।
दिव्यान्तरिक्षभौमानामुत्पातानां समुद्भवे ।।
देवदेवस्य राजेन्द्र बृहत्स्नपनमाचरेत् ।।
नास्ति लोके समुत्पातो यो ह्यनेन न शाम्यति ।।
आरोग्यकामः श्रीकामो मोक्षकामश्च बन्धनात् ।।
सौभाग्यशान्तिकामश्च बृहत्स्नपनमाचरेत् ।।
विद्यार्थी प्राप्नुयाद्विद्यां पुत्रकामस्तथात्मजान् ।।
प्रियाश्च मुख्याः प्राप्नोति याश्च कामयते यदि ।।
अकामकामः प्राप्नोति तद्विष्णोः परमं पदम् ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे बृहत्स्नपनप्रशंसावर्णनो नामैकादशोत्तरशततमो ऽध्यायः ।। १११ ।।
3.112
।। मार्कण्डेय उवाच ।। ।।
स्नातं श्रीभगवन्तं समर्चयेत् ।।
चन्दनबहुलनिर्यासजातीफलमृगमदकर्पूराणि समस्तानि व्यक्तानि वानुलेपनं कुर्यात् ।।
गन्धद्वारेति श्रीभगवन्तमनुलिम्पेत्। ।।
वायुरग्रेगा इति तालवृन्तं निवेदयेत् ।।
वात आवातभेषजमिति वीजयेत् ।।
सावित्राणि सावित्रस्येति चामरं निवेदयेत् ।।
श्रीविष्णुगायत्र्या बीजानि निवेदयेत् ।।
युवासुवास इति महार्हैर्वस्त्रैः श्रीभगवन्तं आच्छादयेत् ।।
नोपभुक्तैर्न नीलैः हिरण्यवर्णैराभरणैरर्चयेत् ।
कङ्कतो न कङ्कत इति कङ्कतेन इन्द्राविश्वेति कङ्कतेन दूष्यादूशिरसि प्रतिसंख्या अञ्जन मणिना प्रैजनेन आत्मव्यूहेन कूर्चप्रसादनेन पुष्पवतीति पुष्पैः प्रथितैरग्रास्थितैश्च ।।
प्रजापते न त्वदेतान्यन्य इति पटवासेन।।
अग्निमूर्धेति दीपेन।।
धूरसि धूर्वमिति धूपेन ।।
अभित्वा शूर नोनुम इति च्छत्रेण।।
विष्णुगायत्र्या उपानद्भ्याम् ।।
इदं विष्णुर्विचक्रमे इति यानेन तेनैव प्रवहणेन ।
केतुं कृण्वन्निति ध्वजैः तेनैव पताकादिभिः ।
ततः स्तोत्रैः श्रीभगवन्तमर्चयेत् ।।
ततो अग्निर्मूर्धेति सर्वभोगपूरणार्थीयमात्रया ।।
ततस्तन्त्रीवाद्यैः ततः शंखपटहभेरीनिनादैः सुभगातेनवेति ।।
अनेन विधिना भोगैः समभ्यर्च्य जनार्दनम् ।।
सर्वान्कामानवाप्नोति विष्णुलोकं च गच्छति ।। १ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भोगदानवर्णनो नाम द्वादशोत्तरशततमोऽध्यायः ।। ११२ ।।
3.113
मार्कण्डेय उवाच ।।
अथ मधुपर्केण श्रीभगवन्तमभ्यर्चयेत् ।।
हिरण्यवर्णेत्यर्हणां दद्यात् ।
दधिक्राव्णेति दधि ।
घृतवतीति घृतम् ।।
मधुवाताऋतायते इति मधु ।।
त्रिसुवर्णेन संयोज्य सावित्रेण नियोजयेत ।।
आपोहिष्ठेति तर्पणं दद्यात्।।
वात आवातु भेषजमिति निष्पुंसनम्।।
शन्न आप इति आचमनीयम्।।
अष्टकविधिना पशुम् हिरण्यवर्णेति वा मात्राम् ।
तेन बिम्बशंखपद्माद्यानि मङ्गल्यानि निवेदयेत्।।
मधुपर्कविधिस्त्वेष कथितस्ते मयानघ ।।
एतत्कृत्वा महाराज विष्णुलोके महीयते ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मधुपर्कनिवेदनो नाम त्रयोदशोत्तरशततमो ऽध्यायः ।। ११३ ।।
3.114
मार्कण्डेय उवाच ।।
हिरण्यवर्णेत्यर्हणां दद्यात् ।।
ततः सभक्ष्यं सव्यञ्जनं सहचरितकं सावदंशं सफलं सावित्रेण निवेदयेत्।।
शक्त्या सुगन्धीनि सुस्वादूनि अम्बुपानानि च आपोहिष्ठेति च तर्पणेन, वात आवातु भेषजमिति निष्पुंसनेन, शन्न आप इत्याचमनीयेन, अग्निर्मूर्धेति पुनरनेनैव विधानेन, संविभागार्थीयेन अनुयज्ञेन श्रीभगवन्तमर्चयेत् ।।
मुखादिन्द्रश्च तांबूलं दद्यात् ।।
तेनैव सुगन्धीनि, मुखवासांसि, तेनैव दर्पणम् ।।
पुनरपि श्रीभगवन्तं गीतवादित्रनृत्तैः समभ्यर्चयेत् ।।
अन्नयज्ञेन संपूज्य देवदेवं सनातनम् ।।
सर्वान्कामानवाप्नोति विष्णुलोकं च गच्छति ।।
इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे इज्यावर्णनो नाम चतुर्दशोत्तरशततमोऽध्यायः ।। ११४।।
3.115
मार्कण्डेय उवाच ।।
ततः शङ्करगीतोक्तेन विधानेनेज्यां सात्त्वतः कुर्यात् ।।
कारिणश्च भोगैः शचिं भजेत् ।।
देवपुरत एवर्त्विजां प्रत्येकं सुवर्ण महत्वं वासो गोवत्सकृतं कास्यं दद्यात ।।
स्वशक्त्या च तानभ्यर्चयेत् ।।
ततो ब्राह्मणान्भोजयेत् ।।
भुञ्जानांश्च श्रीभगवन्माहात्म्यं श्रावयेत् ।।
ततो हविष्यं यजमानस्त्वश्नीयात् ।।
ततो देवागारे गीतनृत्यवाद्यपुस्तकश्रवणे तिष्ठेत् ।।
अनेन विधिना कृत्वा प्रतिष्ठां शार्ङ्गिणो नरः ।।
सर्वान्कामानवाप्नोति विष्णुलोकं च गच्छति ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे सात्त्वतेज्यावर्णनो नाम पञ्चदशोत्तरशततमोऽध्यायः ।। ।। ११५ ।।