"ऋग्वेदः सूक्तं ४.१२" इत्यस्य संस्करणे भेदः
(लघु) ८ अवतरण: rigveda and other pages |
(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऋग्वेद: सूक्तं ४.१२ पृष्ठं ऋग्वेदः सूक्तं ४.१२ प्रति स्थानान... |
(भेदः नास्ति)
|
२०:५४, २८ जुलै २०१७ इत्यस्य संस्करणं
ऋग्वेदः सूक्तं ४.१२
यस्त्वामग्न इनधते यतस्रुक्त्रिस्ते अन्नं कृणवत्सस्मिन्नहन् । स सु द्युम्नैरभ्यस्तु प्रसक्षत्तव क्रत्वा जातवेदश्चिकित्वान् ॥१॥ इध्मं यस्ते जभरच्छश्रमाणो महो अग्ने अनीकमा सपर्यन् । स इधानः प्रति दोषामुषासं पुष्यन्रयिं सचते घ्नन्नमित्रान् ॥२॥ अग्निरीशे बृहतः क्षत्रियस्याग्निर्वाजस्य परमस्य रायः । दधाति रत्नं विधते यविष्ठो व्यानुषङ्मर्त्याय स्वधावान् ॥३॥ यच्चिद्धि ते पुरुषत्रा यविष्ठाचित्तिभिश्चकृमा कच्चिदागः । कृधी ष्वस्माँ अदितेरनागान्व्येनांसि शिश्रथो विष्वगग्ने ॥४॥ महश्चिदग्न एनसो अभीक ऊर्वाद्देवानामुत मर्त्यानाम् । मा ते सखायः सदमिद्रिषाम यच्छा तोकाय तनयाय शं योः ॥५॥ यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुञ्चता यजत्राः । एवो ष्वस्मन्मुञ्चता व्यंहः प्र तार्यग्ने प्रतरं न आयुः ॥६॥