सामग्री पर जाएँ

विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्)/ चतुर्थोऽङ्कः

विकिस्रोतः तः
← तृतीयोऽङ्कः विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्)
चतुर्थोऽङ्कः
कालिदासः
पञ्चमोऽङ्कः  →

(नेपथ्ये सहजन्याचित्रलेखयोः प्रावेशकी आक्षिप्तिका )

पिअसहीविओअविमणा सहिसहिआ व्वाउला समुल्लवइ ।
सूरकरफंसविअसिअतामरसे सरवरुच्छंगे ॥ १ ॥

[प्रियसखीवियोगविमनाः सखीसहिता व्याकुला समुल्लपति ।
सूर्यकरस्पर्शविकसिततामरसे सरोवरोत्सङ्गे ॥१॥]


॥ चतुर्थोऽङ्कः॥

 अथ तत्रभवान् कविवरेण्यः नायकनायिकयोः प्रेमाङ्कुरम् वर्धयितुमीहमानः सङ्गीतमाधुर्यमधुरं चतुर्थमङ्कमादाय नायिकायाः सख्योः सहजन्याचित्रलेखयोः प्रवेशपिशुना आक्षिप्तिकानामधेयां गीतिं समुपन्यस्यति ।

(नेपथ्ये सहजन्याचित्रलेखयोरुवंशीसख्योः प्रावेशिकी प्रवेशं सूचयन्ती आक्षिप्तिका तदाख्या गीतिः।)

 प्रियायाः सखी तस्याः वियोगो विश्लेषः तेन विमना खिन्ना अन्यया च सख्या सहिता व्याकुला विह्वला सती काचन सखी सूर्यस्य कराः मरीचयस्तेषां स्पर्शेन विकसितानि प्रफुल्लानि तामरसानि पद्मानि यस्मिन् तादृशे सरोवरस्योत्सङ्गे तटे समुल्लपति विलापं कुरुते इत्यर्थः ।

 प्रियसखीविरहदूनचेताः सहजन्यासमेता चित्रलेखा विभाकरकिरणजालैः विकसितकमले सरस्तीरे विलपतीति भावः । अत्र सविशेषणसरोवरोत्सङ्गे इति ग्रहणेन मित्रकिरणसम्पर्कसजातप्रफुल्लताशोभितपद्मसदृशं मत्सख्याः प्रियसंश्लेषसमुद्भावितं सुखं कदा नु संपत्स्यते इति एवं विलापहेतुर्ध्वन्याते । पुनश्च सरसः ग्रहणेन राज्ञः गभीरत्वं व्यज्यते, तत्रापि च वरपदप्रदानेनोत्कर्षता व्यक्तैव । उत्सङ्गपदस्य ह्यर्थित्वात् राज्ञः अङ्के इत्यप्यर्थों वुध्यते । सूर्यकरेत्यत्र सूर्यपदग्रहणेन राज्ञः प्रतापित्वं व्यक्तम् , करपदे च श्लेषः तेन राज्ञः पाणिस्पर्शेन विकसितानि तामरसानि मुखनयनचरणादिकमलसदृशान्यङ्गानि यस्मिंस्तादृशे सरोवरोत्सङ्गे प्रियाङ्के कदा नु मत्सखी सुखभाजनं भवित्रीति खेदहेतुः । अत्र तामरसपदेन अरुणिमसौन्दर्यसाधर्म्यग्रहणपूर्वकं मुखादीनां अवयवानां अध्यवसायः । पुनश्च सरःपदेन गाम्भीर्यादिसादृश्यं मत्वा उदात्तस्य राज्ञः अध्यवसायः। तथा च उर्वशी प्रियोत्सङ्गे पाणिस्पर्शलालिता प्रियसख्याः चित्रलेखायाः विरहविदूना अपि कदा नु सौख्यं लप्स्यते इति खेदहेतुं प्रदर्शयन्ती चित्रलेखा तस्याः प्रियसखीविरहदुःखं 'विसारयत्सुखमनुपमं कालते इति सूच्यते । अनेन

च चित्रलेखायाः सत्सखीत्वं गम्यते । विकासपदेन च सात्विकभावोत्पत्तिः व्यज्यते।

(ततः प्रविशति सहजन्या चित्रलेखा च)

 चित्रलेखा-(प्रवेशानन्तरं द्विपदिकया दिशोऽवलोक्य ।) सहअरिदुक्खलिद्धअं सरवरअम्मि सिणिद्धअन् । वाहोवग्गिअणअणअं तम्मई हंसीजुअलअम् ॥ २ ॥ [सहचरीदुःखालीढं सरोवरे स्निग्धम् । वाष्पावल्गितनयनं ताम्यति हंसीयुगलम् ॥ २ ॥]


 अत्र श्लेषः अतिशयोक्तिश्च तामरससरोवरपदयोः विविधाङ्गरागादिकस्य निगीर्णत्वात् ।


 तामरसस्य कमले शक्तिः "पङ्केरुहं तामरसं सरस "मित्यमरवचनात् ।
 इयमाक्षिप्तिकाख्या गतिः । यल्लक्षणं तु यथाह भरतमुनिः-

 "चञ्चत्पुटादितालेन मार्गत्रयविभूषिता । आक्षिपिका स्वरपदग्रथिता कथिता बुधैः" ॥

 अत्र च गाथा छन्दः “पढमं वारह मत्ता वीरा अड्ढारहेण संजुत्तः । जह पढमं तह तीअं इह पंचविदूसिआ गाहा" इति पिङ्गले, अत्र दशपञ्चेत्यर्थात् चतुर्थचरणे पञ्चदशा मात्राः भवन्तीति भावः ॥१॥

 चित्रलेखा-(प्रवेशानन्तरं द्विपदिकया तदाख्यगीतिविशेषमुच्चरन्ती दिशोऽवलोक्य सर्वत्र दिगवलोकनं विधाय गाथां पठति )

 द्विपदिकालक्षणं तु यथा सङ्गीतरत्नाकरे "शुद्धा खण्डा च मात्रा च संपूर्णेति चतुर्विधा । द्विपदीकरणाख्येन तालेन परिगीयते"; "पादे छः पञ्च भागोऽन्ते, न जौ षष्ठद्वितीयकौ। चतुर्भिरीदृशैः पादैः शुद्धा द्विपदिकोच्यते” इति । तात्पर्यं तु- चर्तुषु पादेषु एकस्मिन् छगणः षाण्मात्रिको मात्रागणः, पश्चात् पञ्च भाः भगणाः आदिगुरवो वर्णगणाः प्रयोक्तव्याः अन्ते च गो गुरुः भवेत् तदा द्विपदिकाख्या गीतिः।

 सहचर्याः विरहजन्यदुःखेन आलीढं पीडितं सरोवरे स्निग्धम् अनुरक्तं बाष्पैः अश्रुभिः दुःखसूचकैः अवल्गितानि उपप्लुतानि नयनानि यस्य तत् हंसीयुगलम् अश्रुसंकीर्णनेन ताम्यति ग्लानिं भजते इत्यर्थः ।

 अत्र हंसीयुगलस्य दुःखवर्णनवोधकया वक्रोक्त्या सखीद्वयस्य दुःखं व्यक्तम् । अत्र हंसीयुगलेन सहजन्याचित्रलेखे वुध्येते। स्निग्धपदे च श्लेषः राज्ञि स्निग्धम् , सरोवरेऽपि स्निग्धम् । अत्र च विषादाख्यो भावो व्यज्यते । अलङ्कारौ च अन्योक्तिश्लेषौ । यदुक्तम् निश्वासोच्छ्वासहृत्तापसहायान्वेषणादिकृत् विषादः' । इति । आलम्वनविभावौ तु उर्वशीचित्रलेखे सूर्योपस्थानसहजन्यासमागमादि उद्दीपनम् । वाष्प-बाध् + क्त । बाधतेः क्तप्रत्ययान्तं बाष्पपदम् ।

 इयमपि गाथा-यदुक्तं सङ्गीतरत्नाकरे-'आर्यैव प्राकृते गेया स्यात्पञ्चचरणाऽथवा । त्रिपदी षट्पदी गाथे त्वपरे सूरयो जगुः ॥ (४-२३०) ॥२॥  सहजन्या-(सखेदम् ) सहि चित्तलेहे ! मिलाअमाणसतवत्तक- सणा दे मुहच्छाआ हिअअस्स असत्थदं सूचेदि । ता कहेहि मे अणिविदिकारणं जेण दे समाणदुक्खा होमि । [ सखि चित्रलेखे! म्लायमानशतपत्रकृष्णा ते मुखच्छाया हृदयस्यावस्थतां सूचयति । तत्कथय मेऽनिवृतिकारणं येन ते समानदुःखा भवामि ।]

 चित्रलेखा-सहि ! अच्छरावावारपज्जाएण तत्तभअदो सुजस्स उबट्ठाणे बट्टंती पिअसहीए विणा वलिअं उक्कंठिदम्हि । [ सखि ! अप्सराव्यापारपर्यायेण तत्रभवतः सूर्यस्योपस्थाने वर्तमाना प्रियसख्या विना बलवदुत्कण्ठितास्मि ।]

 सहजन्या-सहि ! जाणामि वो अण्णोण्णगदं प्पेमम् । तदो तदो। [ सखि ! जानामि युवयोः अन्योन्यगतं प्रेम । ततस्ततः।]

 चित्रलेखा-तदो इमेमुं दिवसेसुं को णवो वुत्ततो वट्टदि त्ति प्पणिधाणट्टिदाए मए अञ्चाहिदं उवलद्धम् । [ततः एतेषु दिवसेषु


 सहजन्या-(सखेदम् ) सखि चित्रलेखे ! म्लायमानानि शतपत्राणि नलिनीदलानि तद्वत्कृष्णा श्यामा ते मुखच्छाया मुखसौन्दर्यं हृदयस्य अवस्था चिन्ताग्रस्ततां अशान्ति वा सूचयति प्रकटयति । यतस्ते मुखे श्यामत्वं दरी दृश्यते तेन अनुमीयते यत्ते चेतसि खास्थ्यं नेति । तत्कथय मे मह्यम् ते अनिवृते: अस्वस्थतायाः कारणं येन ते समानदुःखा भवामि । तव दुःखहेतुं निशम्य अहमपि सखीजनोचितं करिष्यामीति भावः । अनेन सहजन्यागतचित्रलेखाविषयिणी प्रीतिः सूच्यते।

 चित्रलेखा-सखि! अप्सरसां व्यापारः कर्म तस्य पर्यायेण क्रमेण तत्रभवतः सूर्यस्य उपस्थाने सेवायां वर्तमाना अहं प्रियसख्या उर्वश्या विना बलवत् महदुत्कण्ठिताऽस्मि खिन्नाऽस्मि ।

 "रागे त्वलब्धविषये वेदना महती तु या । संशोषिणी तु गात्राणां तामुत्कण्ठां विदुर्बुधाः ॥"

 अत्र गात्राणां संशोषकत्वात् उत्कण्ठितत्वं युक्तमेव चित्रलेखायाः ।

 सर्वाः अप्सरसः क्रमेण भगवन्तमंशुमालिनं सेवन्त इति पौराणिकी वार्तात्रानुसन्धेया।

 सहजन्या-सखि ! जानामि युवयोः उर्वशीचित्रलेखयोः अन्योन्यगतं पारस्परिकं प्रेम । ततस्ततः किं जातमिति शेषः।

 चित्रलेखा -ततः पश्चादेतेषु दिवसेषु को नवो वृत्तान्तः समाचारः वर्तते इति प्रणिधाने विचारे स्थितया वर्तमानया मया अत्याहितं महाभयम् उपलब्धम् । को नवो वृत्तान्तो वर्तते इति प्रणिधानस्थितया मयात्याहितमुपलब्धम्।

 सहजन्या-सहि : कीरिसं तं? [ सखि ! कीदृशं तत्  ? ]

 चित्रलेखा-(सकरुणम् ) उव्वसी किल लच्छीसणाहं अमच्चेसु णिहिदकज्जधुरं राएसिं गेण्हिअ केलाससिहरुद्देसं गन्धमादणवणं विहरिदुं गदा। [उर्वशी किल लक्ष्मीसनाथं अमात्येषु निहितकार्यधुरं राजर्षिं गृहीत्वा कैलासशिखरोद्देशं गन्धमादनवनं विहर्तुं गता।]

 सहजन्या-(सश्लाघम् ) सहि ! स संभोओ जो तारिसेसु प्पदेसेम् । तदो तदो। [ सखि । स सम्भोगो यस्तादृशेषु प्रदेशेषु । ततस्ततः।]

 चित्रलेखा-तदो तहिं मंदाइणीतीरे सिकदापव्वतेहिं कीलमाणा उदअवती णाम विजाहरदारिआ तेण राएसिणा चिरं णिज्झाइदेत्ति इदेति कदुअ कुविदा मे पियसही उव्वसी । [ततस्तत्र मन्दाकिनीतीरे सिकतापर्वतैः क्रीडमानोदयवती नाम विद्याधरदारिका तेन


 स्वप्रियेण सह विद्यमाना उर्वशी कथं वर्तते, को वा नूतनः समाचार इति विचारयन्त्या मयानिष्टं श्रुतम् ।

 सहजन्या-कीदृशं तत् अत्याहितमिति ।

 चित्रलेखा-(सकरुणम्-चिन्ताग्रस्ता इव सविषादमाह) उर्वशी किल लक्ष्म्या सनाथं समेतं अमात्येषु स्वकार्यपट्टसचिवेषु निहिता स्थापिता कार्यधूः कार्यभारः येन तादृशं राजर्षि पुरूरवसं गृहीत्वा कैलासशिखरे उद्देशः स्थितिः यस्य तादृक् तं गन्धमादनाख्यं वनं विहर्तुं गता । प्रियेण सहोपवनविहारविहृतमनस्कोर्वशी कैलासशिखरं गतेति भावः ।

 गच्छतेर्योगे शिखरोद्देशमिति द्वितीया ।

 सहजन्या-(सश्लाघ्यम् साधु साधु इति प्रशंसनपूर्वकम् ) सखि ! यः तादृशेषु नितान्तसुखधामसु प्रदेशेषु स्थलेषु संभोगः स एव संभोगः खलु नान्यः ।

 अनेन तत्स्थानमाहात्म्यं प्रकाशयता कविना राज्ञः विलासिलं, उर्वश्याः संभोगभाग्यभाक्त्वं विवेचकत्वं चोभयोः विहरणक्षमत्वं तस्य प्रदेशस्य निर्जनत्वादिति ध्वनितम् । ततस्ततः अनन्तरं किमभूदिति प्रश्नः।

 चित्रलेखा -ततः तत्रोपवने मन्दाकिन्याः गङ्गायास्तीरे सिकतानिर्मितैः क्रीडनकभूतैः पर्वतैः क्रीडमाना उदयवती नाम्नी विद्याधरस्य कस्यचन दारिका कुमारिका तेन राजर्षिणा चिरं निध्याता इति कृत्वा अनेन कारणेन मे प्रियसखी उर्वशी तस्मै कुपिता क्रुद्धा। राजर्षिणा चिरं निध्यातेति कृत्वा कुपिता मे प्रियसखी उर्वशी । ]

 सहजन्या-असहणा खु सा । दूरारूढो अ से प्पणओ। ता भविदव्वदा एत्थ बलवदी । तदो तदो। [असहना खलु सा,

दूरारूढश्चास्याः प्रणयः । तद्भवितव्यतैवात्र बलवती । ततस्ततः।]

 चित्रलेखा-तदो भत्तुणो अणुणअं अप्पडिवजमाणा गुरुसावसंमूढहिअआ विमुमरिददेवदाणिअमा अम्मकाजणपरिहरणिज्जं कुमारवणं पविट्टा । पवेसाणन्तरं अ काणणोवंतवत्तिलदाभावेण परिणदं से रूवम् । [ ततो भर्तुरननुयमप्रतिपद्यमाना गुरुशापसंमूढहृदया विस्मृतदेवतानियमा स्त्रीजनपरिहरणीयं कुमारवनं प्रविष्टा । प्रवेशानन्तरं च काननोपान्तवर्तिलताभावेन परिणतमस्या रूपम् । ]

 सहजन्या-(सशोकम् ) सव्वधा णत्थि विहिणो अलंघणीअं णाम । जेण तारिसस्स अण्णारिसो एव्व पलिणामो संवुत्तो । तदो तदो। [सर्वथा नास्ति विधेरलङ्घनीयं नाम । येन तादृशास्यान्या-


 तत्र काचनोदयवती नाम्नी हिमकरकिरणावदातवर्णा दारिकाजनहीरका राज्ञा निर्निमेषैलीचनैः बहु विलोकिता यतः परनारीमानमसहमानया मे सख्या तस्मै कोपः कृतः।

 अनेन नायिकायाः मानवतीतवं सासूयत्वं च प्रकाशितम् । राज्ञश्च शठत्वोपबृंहकोऽयं- सन्दर्भः।

 सहजन्या-असहना अमर्षिणी खलु सा असूयावतीत्यर्थः । अस्या राजनि प्रणयः तु दूरारूढः परां काष्ठा प्राप्तः । अत एव भवितव्यता एव अत्र बलवती । ततस्ततः।

 चित्रलेखा -ततः भर्तुः पुरूरवसा कृतमनुनयमभ्यर्थनम् अप्रतिपद्यमाना अस्वीकुर्वती गुरोः भरतः शापेन संमूढं विमोहितं हृदयं यस्याः सा तेन च विस्मृतं देवतानां नियमं यया सा तादृशी मे प्रियसखी स्त्रीजनेन परिहरणीयं अगम्यं कुमारवनं प्रविष्टा ।

 प्रियेण वारंवारं कृतायामपि प्रार्थनायाम् गुरोः गुरुतरशापेन स्वात्मानमपि अजानती प्रमदाभिः यत्र न गन्तव्यं तादृशं कुमाराख्यं वनं देवतानां नियमं विस्मरन्ती प्रविष्टेत्यर्थः। प्रवेशानन्तरं काननस्य उपान्ते समीपे वर्तमाना या लता तद्भावेन परिणतमस्या रूपम् । तत्र च सा देवतानियमोल्लङ्घनात् लतात्वं सपदि प्राप्ता।

 सहजन्या-(संशोकम् ) विधेः दैवस्य सर्वथा अलङ्घनीयं नास्ति । विधि: सर्वमेव लङ्घयितुं शक्तः । सर्वशक्तिमत् दैवम् इति भावः येन तादृशस्य प्रेम दृश एव परिणामः संवृत्तः । ततस्ततः ।]

 चित्रलेखा-तदो सो वि तस्सिं एव काणणे पिअदमं अण्णेसअंतो उम्मत्तीभूदो इदो उव्वसी तदो उव्वसी त्ति कदुअ अहोरत्तं अदिवाहेदि । (नभोऽवलोक्य ) इमिणा उण णिबिदाणं पि उक्कंठाकारिणा मेहोदएण अप्पीआरो भविस्सदि त्ति तक्केमि । [ततः सोऽपि तस्मिन्नेव कानने प्रियतमामन्विष्यन्नुन्मत्तीभूत इत उर्वशी, तत उर्वशीति कृत्वा अहोरात्रमतिवाहयति । अनेन पुनर्निवृतानामपि उत्कण्ठाकारिणा मेघोदयेन अप्रतीकारो भविष्यतीति तर्कयामि । ] (अनन्दरे जम्बलिका ?)

सहअरीदुक्खालिद्धअं सरवरअम्मि सिणिद्धअम् ।
अविरलवाहजलोल्लअं तम्मइ हंसींजुअलम् ॥ ३ ॥


विशेषस्य अन्यादृश एष परिणामः फलं संवृत्तम् । तस्यानुपमप्रणयस्य एतादृशं विसंवादि फलं भविष्यतीति सत्यमेवाज्ञातपूर्वम् । अतः सत्यं विधिः सर्वत्राप्रतिहतगतिरेव । ततस्ततः-

 चित्रलेखा-ततः सोऽपि राजा तस्मिन्नेव कानने कुमाराख्यवने प्रियतमां अन्विष्यन् उन्मत्तीभूत इव विगतप्रज्ञः सन् इत उर्वशी तत उर्वशीति कृत्वा कुर्वन् अहोरात्रं दिनान्यतिवाहयति यापयति ।

 स्वीयप्रियतमां अन्विष्यन्नप्पलभमानः उन्मत्तावस्थां प्रपद्य तस्मिन्नेव स्थले सर्वत्रोर्वशीमेवालोकयन् जातसंभ्रमः इहास्ति ते प्रिया, तत्रास्ति वा सा इति संमुग्धः समयं चापयति ।

 अनेन पुनः नितानां सुखिनां प्रियया सह वर्तमानानां अपि उत्कण्ठाकारिणा मेघोदयेन राजा अप्रतीकारो निरुपायो भविष्यतीति तर्कयामि ।

 उन्मत्तः स राजादावेव, पुनश्च मेघोदयः । “मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः, कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे” इति अनेन मेघदर्शनानन्तरं कां कामावस्थां प्राप्स्यति स राजा इति तर्कयन्ती एतादृशां दशामवाप्ताऽस्मि । मेघादीनामुद्दीपनत्वात् विरहिणो राज्ञः किं भवितेति मोहः । सहृदयधौरेयो महाकवी रवीन्द्रठक्कुरोऽप्येतदेवाह-"If thou showest me not thy face, if thou leavest me wholly aside, I know not how I am to pass these long, rainy days." (Git.-18).

 अनन्तरे जम्भलिका तदाख्यगीतिविशेषः । यदाह भरतमुनिः “उद्ग्रहो द्विः सकृद्वैकखण्डो द्विः शकलोऽथवा । यत्र ध्रुवो द्विराभोगो ध्रुवे मुक्तिः स जम्भकः' तदेव जम्भलिका इति ।

[सहचरीदुःखालीढं सरोवरे स्निग्धम् ।
अविरलबाष्पजलार्द्रं ताम्यति हंसीयुगलम् ॥ ३॥]

 सहजन्या -सहि ! अत्थि कोवि समागमोवाओ? [ सखि !  अस्ति कोऽपि समागमोपायः ?]

 चित्रलेखा-गोरीचरणराअसंभवं संगममणिं वजिअ कुदो से समागमोवाओ । [गौरीचरणरागसम्भवं संगममणिं वर्जयित्वा कुतोऽस्ति समागमोपायः।]

 सहजन्या -ण तारिसा आकिदिविसेसा चिरं दुक्खभाइणो होन्ति । ता अवस्सं कोवि अणुग्गहणिमित्तभूओ समागमोवाओ भविस्सिदि त्ति तक्केमि । (प्राचीं दिशं विलोक्य ) ता एहि उदआहिवस्स भअवदो सुज्जस्स उवट्ठाणं करेम्ह । [न तादृशा आकृतिविशेपाश्चिरं दुःखभागिनो भवन्ति । तदवश्यं कोऽप्यनुग्रहनिमित्तभूतः समागमोपायो भविष्यतीति तर्कयामि । (प्राचीं दिशं विलोक्य ) तदेहि उदयाधिपस्य भगवतः सूर्यस्योपस्थानं कुर्वः।]


 सहअरीति-तृतीयचरणपरिवर्तनमेव शेषं पूर्ववत् । अविरलं सन्ततं यद्वाष्पं तज्जलं तेन आर्द्रं इति सन्तताश्रुपयःपूरप्लुतं इति हंसीयुगलविशेषणम् । इयमपि गाथा ॥३॥

 सहजन्या-सखि चित्रलेखे! अस्ति कोऽपि समागमोपायः? पुनरपि उर्वशीविक्रमयोः सम्मेलनं भवेदेतादृशो विद्यते कश्चनोपायो न वा।

 चित्रलेखा-गौर्याः पार्वत्याःचरणयोः रागेण सम्भवो यस्य सः तं सङ्गममणिं वर्जयित्वा अस्याः समागमोपायः कुतः अस्तीति शेषः।

 सङ्गमनीयाख्यमणिदर्शनान्तो गुरुशापः । तन्मणिदर्शनं विहाय नास्ति उपायान्तरमिति भावः।

 सहजन्या-तादृशा आकृतिविशेषाः अनुपमसुषुमाशालिनो जनाः चिरं दीर्घकालपर्यन्तं दुःखभाजो न भवन्ति क्षणिकास्तेषामापद इति भावः। तत् इति हेतोरवश्यं कोऽपि अनुग्रहार्थं निमित्तभूतः कारणभूतः समागमोपायः भविष्यतीति तर्कयामि । (प्राचीं दिशमवलोक्य-सूर्योदयो जातो न वेति द्रष्टुमिति) तदेहि उदयाधिपस्य उदयाचलस्य अधिपतेः सूर्यस्य उपस्थानं सेवां कुर्वः। अत्र

अप्रस्तुतप्रशंसालङ्कारः।

(अनन्तरे खण्डधारा)

चिन्तादुम्मिअमाणिसिआ सहअर्गदसगलालसिआ।
विअसिअकमलमनोहरग विहइ हंसी सरवरए ॥ ४ ॥
[चिन्तादूनमानसा सहचरीदर्शनलालसा ।
विकसितकमलमनोहरे विहरति हंसी सरोवरे ॥४॥]

(इति निष्क्रान्ते)

प्रवेशक:-

(नेपथ्ये पुरीरवसः प्रावशिक्याक्षिप्तिका)

गहणं गइन्दणाहो पिअबिरहुन्नाअपअलिअविआरो।
विन्नई तरुकुसुमकिसलअभूसिअगिअदेहपब्भारो ॥ ५ ॥
[गहनं गजेन्द्रनाथः प्रियाविरहोन्मादप्रकटितविकारः।
विशति तरुकुसुमकिसलयभूषितदेहप्रारभारः॥५॥]


 अनन्तरे खण्डधारा तदाख्यागीतिः-

 यल्लक्षणं तु-यद्गीतं गुणकर्या च रागेण क्रीडकेन च, तालेन सा खण्डधारा यष्टिकेन प्रकाशिता ॥ इति ।

 चिन्तेति-हंसीमिषेण स्वावस्थां वर्णयति-

 चिन्तया सखीगतचिन्तया दूनं खिन्नं मानसं यस्याः साः खिन्नमना सहचर्याः दर्शने लालसा कौतुकं यस्याः सा हंसी विकसितानि कमलानि तेभ्यो मनोहरे चित्ताकर्षके सरोवरे विहरति ।

 अत्र कुतूहलम् "रम्यवस्तुसमालोके लोलता स्यात् कुतूहलम् ।"

 तथा च कुमाराख्यवने विकतितान्यभवन् बहूनि कमलानि तेन च चित्ताकर्षकत्वं उद्दीपनत्वं वियोगिनः राज्ञः भृशतापकारित्वं प्रदर्शितम् । इयमपि गाथा ॥४॥

( इति निष्कान्ते सहजन्याचित्रलेखे)

 प्रवेशकः-अर्थोपक्षेपकोऽयम् , तल्लक्षणं तु "प्रवेशकोऽनुदात्तोक्त्या नीचपात्रप्रयोजितः । अङ्कद्वयान्तर्विज्ञेयः शेषं विष्कम्भके यथा"।

 अर्थोपक्षेपकोऽयं प्रथमाङ्के निषिद्धः । प्राकृतवादिभिः पात्रैः प्रयोज्यः। शेषं सर्वं विष्कम्भकसदृशमेव ।

 (नेपथ्ये पुरूरवसो राज्ञः विक्रमस्य प्रावेशिकी प्रवेशं सूचयन्ती आक्षिप्तिका गीतिः)

 लक्षणं तु यथापूर्वमेव ।

 गहनमिति-अन्योक्त्या विरहिणो राज्ञः अवस्थां वर्णयति-प्रियसख्याः विरहो वियोगः तेन जन्यः य उन्मादो भ्रमः विस्मृतस्वत्वं वा तस्य प्रकटितः

(ततः प्रविशत्याकाशबद्धलक्ष्यः सोन्मादो राजा)

 राजा-(सक्रोधम् । ) आः दुरात्मन् रक्षः! तिष्ठ तिष्ठ ।क्व मे प्रियतमामादाय गच्छसि । ( विलोक्य ) हन्त ! शैलशिखराद्गगनमुत्पत्य बाणैर्मामभिवर्षति । (लोष्टं गृहीत्वा हन्तुं धावन् । अनन्तरे द्विपदिकया दिशोऽत्रलोक्य)

हिअआहिअपिअदुक्खओ सरवरए धुदपक्खओ।
वाहोवग्गिअणअणओ तम्मइ हंसजुआणओ ॥६॥


स्पष्टतयानुभाव्यमानः विकारः यस्मिंस्तादृशः तथा च तरूणां कुसुमानि किसलयानि पत्राणि च तैः भूषितः निजदेहस्य प्राग्भारः आभोगः यस्य सः गजेन्द्राणां नाथः गहनं विपिनं विशति ।

 तात्पर्यं तु गजेन्द्रपक्षे-प्रियाविरहोन्मत्तः तेन च उत्पाटितैः तरुकुसुमकिसलयैः भूषितनिजदेहभागः गजेन्द्रो विपिनं विशति ।

अन्योक्त्या राज्ञः पक्षे-उर्वशीविरहोन्मत्तत्वात् विरहोष्मणा भृशं तप्यमानः शीतलः मृदुकुसुमकिसलयैः शिशिरोपचारैः नितान्तमुपचर्यमाणः गहनं उपवनं विशति ।

 अत्र-गजेन्द्रपदप्रदानेन राज्ञः गजसदृशत्वं व्यज्यते महामहिमशालित्वं च प्रतीयते । अत्र च उन्मादाख्या अष्टमी स्मरदशा दर्शिता । द्वितीयविशेषणेन च तापस्योत्कटत्वं सूचितम् । गहनपदेन च गहनशोकगहनं विशतीति ध्वन्यते । गजेन्द्रान्योक्त्या च प्रियोर्वशीवियोगासितस्य पुरूरवसः अवस्थानिरूपणेन प्रेम्णः विलक्षणत्वं प्रकटितम् । इयं गाथा ॥५॥

 (ततः प्रविशति आकाशे बद्धलक्ष्यः दत्तदृष्टिः सोन्मादो राजा ।)

 राजा-(सक्रोधम् ) -इह भ्रान्तो राजा नवजलधरं राक्षसं मन्यमानः आः रक्षः! इति सम्बोधयन् उर्वशीपरिहारिणमिव तं पूर्वस्मृतं केशिनमिव तर्जयति ।

 आः इति कोपे। दुरात्मन् रक्षः! तिष्ठ तिष्ठ । क्व कुत्र मे प्रियतमामुर्वशीमादाय गृहीत्वा गच्छसि ? हे राक्षसापसद ! मे प्रियां गृहीत्वा कुत्रं प्रस्थितोऽसि तिष्ठ तिष्ठे भर्त्सयति । अत्र द्विरुतिस्तु भर्त्सनायाम् ।

 (विलोक्य) सपद्येव राजनि विलोकयति मेघाजलधाराः न्यपतन् ताः दृष्ट्वा राजा मेघं राक्षसं मत्वा भ्रान्तः जलधाराः बाणान् ज्ञात्वा विस्मितः कथयति- हन्त ! इति आश्चर्ये । मत्कृतभर्त्सनामविगणय्य मां प्रतियोद्धकामो राक्षसोऽयं बाणवर्षा करोतीति विस्मयः । शैलशिखरात् गगनमाकाशं उत्पत्य उड्डीय उत्प्लुत्य वा बाणैः शरैः मां अभिवर्षति अभिहन्यमानं समाच्छादयति ।

 (लोष्टं लगुडं गृहीत्वा हन्तुं धावन्, अनन्तरे पश्चाद्विपदिकाख्यया पूर्वोक्तलक्षणया गीत्या दिशः अवलोक्य) आह-इति शेषः।

[हृदयाहितप्रियादुःखः सरोवरे धुतपक्षः।
व्याधापवल्गितनयनस्ताम्यति हंसयुवा ।। ६॥]

(विभाव्य सकारुणम्) कथं विप्रलब्धोऽस्मि-

 

नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचारः
 सुरधनुरिदं दूराकृष्टं न नाम शरासनम् ।
अयमपि पटुर्धारासारो न वाणपरम्परा
 कनकनिकपस्निग्धा विद्युत्प्रिया मम नोर्वशी ॥ ७ ॥


 "क्रोधेनावमृशेद्यत्र व्यसनाद्वा विलोभनात् गर्भनिर्भिन्रबीजार्धःसोऽवमर्शोऽङ्गसङ्ग्रहः" इति लक्षणमनुरुन्धानः इह के क्रोधेननावधारिततैकान्तफलप्राप्त्यवसायात्मा गर्भसन्ध्युद्भिन्नबीजार्धसवन्धो विमर्शः पर्यालोचितम् अतः आसङ्गममणियोगं उर्वशीप्राप्त्यवसायात्मा विमर्शसन्धिः प्रवर्तते ॥ अपि च "आः दुरात्मन् रक्षः" इत्यत्र "संफेटो रोषभाषणम्" इति लक्षणसमन्वयात् संफेटो नाम विमर्श- सन्ध्यङ्गमुक्तं भवति।

 हृदयेति-हृदये आहितं प्रियायाः विरहजन्यं दुःखं यस्य सः, प्रियाविरहोत्कण्ठितः सरोवरे धुतपक्षः कम्पितपक्षः व्याधेन अपवल्गिते त्रासिते नयने यस्य तादृशः हंसयुवा ताम्यति पीडितः अस्ति । अत्र राज्ञः पक्षे उर्वशीविरहजन्यदुःखम् , धुतपक्षत्वेन असहायत्वं, त्रस्तनयनत्वं च व्यज्यते । क्वचिदियं गाथा न दृश्यते । अस्या लोपस्तु नाटकीयदृष्ट्या समीचीनो न वेत्युपरिष्टाद्विविच्यते।

 (विभाव्य किमेतत्सत्यं निशाचरो मे प्रियामहरत् उत नैतदिति भ्रान्तिं विहाय यथार्थ नायं निशाचर इति ज्ञात्वा सकरुणमाह-)

 नवजलधर इति-अयं आकाशे लक्ष्यमाणः नवजलधरः नूतनो मेघः, न तु सन्नद्धो युयुत्सुः दृप्तः मदोन्मत्तः निशाचरो राक्षसः । इदं चाकाशे दृश्यमानं सुरधनुः इन्द्रधनुः दूरेण आकृष्टं दीर्घं अस्ति, न तु रक्षसः शरासनम् । नाम वितर्के । अयमपि पटुः तीव्रो धारासारः जलधारासम्पातः, न तु वामानां अविश्रामं मुक्तानां परम्परा सम्पातः । पुनश्चेयं कनकस्य निकषः शाणे कषणरेखा तद्वत् स्निग्धा सुन्दरी विद्युद्, मम प्रिया उर्वशी न ।

 पूर्वं भ्रान्तो राजा मेघादिकं सर्वं राक्षसादिकममन्यत किन्तु जातायां विभावनायां स यथार्थमीक्षते-अयं वारिधरः, न तु योद्धकामोऽतिगर्वितो राक्षसः। उभयोः श्यामलात् भ्रमावकाशः । इदमिन्द्रधनुः न तु राक्षसस्य शरासनम् । अत्राकृतिसाम्यं भ्रमकारकम् । अयं जलसम्पातो न तु शरवर्षः । उभयोस्तीव्रत्वं नादकारकत्वं च भ्रमहेतुः । इयं दीप्तिमती वी सौदामिनी न तु मे प्रियोर्वशी। अत्रोज्वलतैव भ्रान्तिजननी।

  १४ विक्र०

 महाकवेः कालिदासस्येदं पद्यं गीर्वाणसाहिये सर्वत्रोल्लेखनीयमिव सुप्रसिद्धमेवेत्यतः अत्रेदं विभावनीयं यत् गताङ्के दुर्लभतमायाः वल्लभायाः प्राप्तिवशान्नायकस्य हृदयमतीवानन्दसन्दोहभाजनमिवाभवत् । तत्र नायकस्य प्रेयस्याः प्राप्तिसम्भवात् नाट्यस्य प्राप्त्याशा नाम तृतीयावस्था दर्शिता । किन्तु “न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते । कषायिते हि वस्त्रादौ भूयान्रागोऽनुषज्यते” इति नियमात् विमर्शसन्धिप्रक्रमेऽत्रादौ विप्रलम्भं पुरस्कृत्य नियताप्तिनिबन्धनेऽस्मिन्नङ्के नायिकायाः मानोत्तेजितकोपपारवश्येन निषिद्धस्थलगमनाल्लताअत्वपरिणतेः नायकस्योन्मादेनैवाङ्कः समुद्घाटितो महाकविना । त्रोटकेऽस्मिन् नायकनायिकयोर्माशिष्ठत्वाद्रागस्य विप्रलम्मे उन्मादमूर्छादयो रसपरिपोषकाः । तत्र कविवरेण्यः अङ्कोपक्रम एव सोन्मादं राजानं प्रवेश्य "आः दुरात्मन् रक्षः" इति नवजलदं रक्षो मन्यमानो राजा तं भर्त्सयतीति सहृदयेभ्यः लक्षयति । आः दुरात्मन् इत्युपक्रम्य नवजलधरेतिपद्यपर्यन्तं विभावनीयं तावन्नायकस्य चित्तचित्रणचातुर्य तत्रभवतो महाकवेरिति विविच्यतेः-

 उर्वशीविरहितो राजा केशिहरणवृत्तान्तं स्मरन् शैलोपरि परिवर्तमानं बलाहकं वीक्ष्य भ्रान्तो मनुते यदयं पयोधरः निशाचर एव । तत्र च वारंवारं दृश्यमाना उज्ज्वला तडित् तेन कुक्षौ नीयमाना राज्ञः प्रियतमोर्वशी । अतः सतडिद्वारिधरस्य नभसि विभावनं भ्रान्तावावश्यकम् । ततश्च तस्याः भ्रान्तेः परिपोषाय राज्ञश्च नैसर्गिकं बलदर्पमनुसन्धातुं बाणाभिवर्षों युज्यत एव, तदनुसन्धानाय जलाभिवर्षस्यावश्यं योजनीयवम् वाणाभिवर्षं घटयितुं शरासनस्याप्यपेक्षा । तस्य च आः दुरात्मन्निति चूर्णकेऽनभिसन्धिरित्यवधेयमिह । एतस्मिन् सङ्घर्षे हृदयाहितेति गाथायाः भूयोऽनवकाशः, यतो भ्रान्तो नायकः लोष्टमुद्यम्य राक्षसं हन्तुं धावन् नायिकां चान्विष्यन् क्व तावत् हृदयाहितेति स्थितपाठ्यं भणितुमर्हति । तत्र तु धावतो नायकस्य किञ्चिद्दूरं गतस्य नवजलधरेति भ्रान्तिनिराकरणं युज्यत एव, तच्च आः दुरात्मन्निति अनन्तरमाशु धावनमनु अव्यवहितत्वेन कथं विप्रलव्धोऽस्मीति विभावनपुरस्सरं नवजलधरेतिपद्यस्य संस्थितिः सुसाम्प्रतैव । अत्र हृदयाहितेतिगाथासन्निवेशस्तु अस्थान एवेति सहजं पक्षमवलम्ब्य क्वचिदियं गाथा न दृश्यते। किन्तु तत्रत्यदेशकालसमवायमाद्योपान्तं निटिलं विभाव्य सहृदयैरिदं नूनं विवेचनीयं यदत्र राजा वाणाभिवर्षिणं रक्षो विलोक्य लोष्टमुद्यम्य हन्तुं प्रक्रान्तः उन्मादस्य परतरां काष्ठां प्राप्तः । एतदन्तरे तस्य प्रगल्भत्वं सोढुमपारयन् क्व गतः स जाल्मोऽसुरः इति जिज्ञासया सर्वतो दिशः सूक्ष्मं विलोकयन् राजा स्वावस्थासौसादृश्यप्रतियोगिनं हंसयुवानमेकत्राभिवीक्षते यस्तु हृदयाहितप्रियादुःखदुःखित्वाच्च सरोवरे धुतपक्षः व्याधत्रासितनेत्रः तान्तः आसीत् । तत्र हंसयुगलयोः हंसी तावत्पूर्वमेव तेन व्याधेन आखेटिता बभूव ततश्च परिशिष्टं हंसमपि हन्तुमुद्यतं क्वचिद्व्याधं परिभावयन् हंसः त्रस्तनयनः आसीत् तमेतादृशं

हंसं वीक्ष्य नायकोऽपि तत्रैवात्मानमपि प्रियाविरहदूनं आत्मनश्च सरोवरपदेवा

ध्यवस्यमाने विपिने धुतपक्षत्वं निःसहायत्वं हंसीहरव्याधनिमेन करालकालरूपेण उर्वशीहरेण राक्षसेनापवल्गितनयनत्वमनुभवन् कविना सलोष्टं धावनव्यापारात् स्वचातुरीमहिम्ना ईषदवरुद्धस्तेन चास्मै नेदं वस्तुतो रक्षः इति विभावनायावकाशो दत्तः, नो चेद्यदीदं व्याधत्रस्तस्यापहृतहंसीकस्य हंसयूनश्चित्रं नोपात्तं कविना,, तदोन्मादस्य चरमामवस्थां प्राप्तो राजा किमप्यनर्थमकरिष्यदित्यत एव नाट्यकलाकौशलपरिचायकमिदं चित्रं कवेः यत् सञ्चारिणः उन्मादस्य काष्टां प्रापयित्वा स्वभ्रमविलसितमन्यथाकर्तुं अवसरं राज्ञे पुरस्कृत्य एतदन्तरा सन्नद्धं तं नवजलधरं विभाव्यात्मनो मोहवशाद् ग्लानिमवाप्य सकरूणं कथं विप्रलब्धोऽस्तीति तत्त्वमवगम्य नवजलधरेति पद्यरत्नं वक्तुं संज्ञां लेभे । यद्येतस्मिन्नन्तराले राजा याथातथ्यविभावनसामर्थ्यबध्धितोऽभविष्यत्तदा तु मृगतृष्णया राक्षसमनुधावन् उन्मादशात् क्वचिद्गर्ते पतन् मूर्च्छावसंवदः कदापि स्मरस्य दशमीं दशामवाप्स्यतेति हेतुना कविना हृदयाहितेति हंसचित्रं नायकस्य दृशि समुपस्थापितम् । तत्र हि नायकसदृशदशापरिपतितं हंसयुवानमकस्मात्प्रदर्श्य कविना कियत् सुन्दरं हृदयद्रावि करुणभावभ्रमाख्यमलङ्करणं (Pathetic Fallacy ) उपयुक्तमिति अनतिगूढमेव । अमुनालङ्कारेण हंसीघातकस्य व्याधस्य दर्शनात् विलोलतारकत्वद्योत्यमानस्य भयत्रासस्य विषयीभूतं हंसयुवानं प्रेक्ष्य शासकत्वधिया अपराधिने क्रुद्धस्य राज्ञः पयोदविवर्तभूतं बाणाभिवर्पिणं राक्षसं प्रति कोपस्योपबृंहितत्वात् तन्मनसि जगति दुर्वृत्तानां परदुःखदत्वमेव निसर्गः इति विमर्शावकाशप्रसङ्गाद्राज्ञः भ्रान्तिनिरासाय कविनाकृत विचित्रा कृतिरिति द्विपदिकया- दिशोऽवलोकनफलमहिम्ना हृदयाहितेति गाथायाः चारुतया चरितार्थत्वं सुसिद्धमेव ।

 इदं नाटकीयवस्तुतन्त्रमविमृश्य "व्याधापवल्गितनयनः" इत्यत्र राज्ञः पक्षे "बाष्पापवल्गितनयनः" इत्यर्थं व्युत्पादयता रङ्गनाथेनालमात्मनो बुद्धिवैभवः प्रदर्शितः इति सहृदयैरूह्यमेव । परं च "सरोवरे धुतपक्षः" इत्यत्र सरोवरसन्निधी भयवशात्कम्पितपक्ष इति तात्पर्यम्-सरोवरे इत्यत्र सरोवरतीरे लक्षणा ॥

 समासेनोपन्यस्तं ततस्तावदिदमत्राकूतं यद् विरहदूनो राजा पयोदं प्रेयसीमपहरन्तं राक्षसं मत्वा लोष्टमुद्यम्य धावितुं प्रक्रमते एव तावत्तादृशदशाविशेषपातितं हंसयुवानमालोक्यैवान्तराले आत्मनो भ्रमविलसितमेवासीन्नेदं रक्षः किन्तु नवजलधरः इति विभावनानुरोधेन भणति यत् यमहं राक्षसं मन्वानः आसम् स नवजलधरः सन्नद्धः । सन्नद्धेति भेदकस्योभयत्रापि योजनीयत्वात् । अत्र प्रतिपदं वैलक्षण्यं अवधेयम्-जलानां धरो जलधरः सजलत्वात् श्यामतापत्तिः तत्रापि नवेति विशेषणप्रदानात् भृशं श्यामत्वं गम्यते । सन्नद्धत्वाख्यापनात् घनघोरघटात्वं व्यक्तम् । सन्नद्धत्वस्य मेघविशेषणत्व एव भ्रान्त्युद्बोधकस्योपमानस्य दृप्तत्वं सज्जाघटीति; गर्जनादि दृप्तत्वे हेतुः । दृप्तत्वख्यापनात् निशाचरस्य प्रियोर्वशीग्रहणं, राज्ञश्च "आः दुरात्मन् विष्टेति" भर्त्सनस्यानवधानं साम्प्रतमेवेति भावः । पुनश्चेदं सुरधनुः दूराकृष्टं दूरतरावलम्बि कुपितस्य प्रतिभटस्य धनुषः आकर्णमूलमाकृष्टत्वात् कोपरूपस्य भावस्य ध्वनेः बीजं दूराकृष्टत्वम् । 'नाम' यद्यपि वितर्के निश्चये वोपयुज्यते, किन्तु तत्राचार्यमम्मटादिभिः प्रयुक्तं “तस्येति" पाठान्तरं शोभनतरम् । तत्र वुद्धिस्थप्रकारावच्छिन्नस्य रक्षसः शरासनेन स्वस्वामिभावेन सम्वद्धत्वात्सर्वनाम्नस्तस्येत्यस्यावश्यं ग्रहणीयत्वात् । अयमपीत्यत्रापिना धारासारस्य कविना प्राधान्यं गमितम् कुतः "इदं रक्षः" इत्येवं भ्रान्तिनिराकरणे - धारासम्पातस्यापि समभ्यधिकं सत्सहायकत्वम् । यावद् भृशं धाराभिवृष्टिः नाभूत् तावत्तु स राजा वारिधरं निशाचरं मत्वा धाराः इषुसम्पातं व्यभावयत् किन्तु यदा पटुस्तीव्रतरोऽभिवर्षों जातः तदैव शैत्यनार्द्रत्वेन च नेयं बाणसन्ततिः अपि तु वृष्टिरिति यथार्थानुभवः समुद्रुद्धः । कनकस्य निकषे रेखा तद्वत् स्निग्धेति वर्णनात् निकषे कषपाषाणे श्यामे यादृशी कनकरेखा सविशेषं भ्राजन्ती दरीदृश्यते एवमेव कृष्णे रक्षोवक्षसि ऊढायाः ऊर्वश्या अपि भ्रमः । मम उर्वशीति अहम्पदबोध्यस्यात्मनीनवस्याभिव्यक्तिः रतिमतीव पोषयति । यथा सर्वत्र अयमिदमित्यादिपदानि इदन्त्वावच्छिन्नस्य पुरो दृश्यमानस्य दृश्यस्यैदमाकारेणावधारयितुं प्रयुक्तानि एवमेवात्र चरमे चरणेऽपि इयं कनकनिकषेति स्थलेऽपि इयंपदस्यावश्यं देयत्वेऽपि तददानान्न्यूनपदत्वं दोषः अनिवार्य एव, लिङ्गविपरिणामपूर्वकस्याध्याहरणस्यापि नूनमयुक्तत्वादेव ।

 पद्यमिदमन्यथाप्यन्वेतुं शक्यम्-अयं सन्नद्धेत्यादि सामान्यतः उभयत्रापि प्रयोक्ष्यमाणानां विशेषणानामुद्देश्यकोटिसन्निविष्टस्येदमाकारस्य विधेयत्वस्वीकारात् परं च तत्र विषयिणः निराकरणपूर्वकं विषयस्योपालम्भात् तद्यथा-अयं सन्नद्धः हन्तुमुद्यतः (यः कोऽपि सः) नवजलधरः, दृप्तनिशाचरो नास्ति । इदं दूरमाकृष्टं (वस्तु) सुरधनुः तस्य रक्षसः शरासनं न विद्यते । अयमपि पटुस्तीव्रः (यत् किमपि अनुभूयते) स धारासम्पात एव बाणपरम्परा न भवितुमर्हति । (इयमपि ) कनकस्य कृषणरेखेव दीप्ता कापि दृश्यते सा तडित् मम प्रिया नेति भावार्थः ॥ इदं प्रत्नैः अवलम्बितमपि व्याख्यानमनतिरुचिरमेव ।

 अत्र प्रकरणगतवक्रता-यदुक्तं राजानकेन “यत्राङ्गिरसनिष्यन्दनिकषः कोऽपि लक्ष्यते । पूर्वोत्तरैरसम्पाद्यः साङ्कादेः कापि वक्रता" यत्राङ्गीरसः यः प्राणरूपः तस्य निष्यन्दः प्रवाहः तस्य काञ्चनस्येव निकषः परीक्षापदविषयः विशेषः कोऽपि निरुपमो लक्ष्यते तत्र काप्यलौकिकी प्रकरणवक्रता यथात्र प्रकृते उन्मत्ताङ्के पुरूरवसः नायिकाविरहजन्यखेदसंभिन्ना रतिरभिव्यज्यमाना विप्रलम्भरसं अङ्गित्वेन परिपुष्णाति । नवजलधरेति पद्यस्य चूर्णके (विभाव्य सकरुणम्) पश्चाच्च कथमित्येव पाठः, किन्तु पुरातनपुस्तकेषु "कथं विप्रलब्धोऽस्मि" इति पाठः स तु रमणीय एवेत्यङ्गईकृतः॥

 पुनरत्रेदं विचार्यते यत् सत्यप्यत्र बहुले गुणकदम्बे सहृदयहृदयकण्टकसङ्काश एवैको गुणराशिनाशी दोषः परमसुरभिनीहारसम्भिन्नश्रीखण्डरसमिव

सरसपक्वमिदं बत सिकतायते तद्यथेह राक्षसापहृतोर्वशीभ्रान्तिजनकत्वेन सौदा

मिनीसनाथस्य मेषोदयस्योपन्यासः बाणाभिवर्षं घटयितुं धारासम्पातः, धारासु इषुसम्पातस्य विवर्तनार्थं सुरधनषो ग्रहणम् । अतो विद्युद्युतो मेघोदयः, जलाभिवर्षः, सुरधनुषो गगने दर्शनं चैतेषां समेषां एककालवच्छेदेन वैज्ञानिकनयविरोधि अनकृतमेव समवायकल्पनम् ।

 वस्तुतः सूक्ष्मतया विभावितं चेत् कवेरयं अक्षम्यो दोषः, कल्पनायाः चारुत्वेऽपि निराधारत्वाद्यथा-निराक्रियमाणानि क्रान्तिकारणानि एकसमयावच्छेदेन विद्यमानत्वेन न दृष्टचराणि । विद्युत्सहितस्य नवजलधरस्य 'निशाचरेणोर्वशी अपह्रियमाणा वर्तते" इत्याकारकभ्रान्तेः कारणत्वं युज्यते किन्तु इन्द्रधनुषः पटोर्धारासारस्य च समकालीनताभावात् तयोः दर्शनेन धनुर्बाणपरम्पराभ्रान्तिरिति कल्पना त्वसङ्गतैव ।तडिन्मेघयोः विक्रमस्य मनसि उर्वशीहरणभ्रान्त्युत्पादकने पर्याप्तकारणत्वे सति किमिदं निरङ्कुशत्वं कवेः असत्कारणात्कार्योत्पत्तिदर्शने ? यद्यपीन्द्रधनुषः सखे मन्दाः अम्बुकणाः कचिदृश्यन्ते इत्यभ्युपेत्यापि वयं ब्रूमः मेघसुरधनुर्दृष्टिविद्युतां एकस्मिन्नेव समये दर्शनमप्राकृतमेव । गद्यं वा पद्यं वा सत्यावलम्बि चेत्तदैव हृद्यं अन्यथा तु वद्यमेवेति सहृदयवन्द्यो नियमः । अथ नियतिकृतनियमरहितामित्यादि काव्यव्याख्याबलेन कवेः शरणं कल्प्यते चेत् अत्र विचार्यते किमिदं नाम नियतिकृतिनियमराहित्यम् ? किमिदं नियतिकृतिनियमराहित्यं कवेः स्वच्छन्दोच्छलत्कल्पनारूपत्वं उत अनैसर्गिकक्रियावस्तुभावतत्समवायादिकल्पनारूपत्वं वा आद्यश्चेत् कस्यचिदपि कस्या अपि कल्पनायाः सम्भवादुच्छृङ्खलत्वाच्च समस्तकाव्यशास्त्रस्याकुलीभावप्रसङ्गः । अपरश्चेत् काव्यस्योपदेशयुक्त्वात् सौकर्येण ज्ञानावाप्तिबीजकलात् काव्यनिर्माणस्य चरमहेतुकैमर्थ्यप्रसङ्गः तदध्ययनस्य निष्प्रयोजनत्वापत्तिश्च । अतः नियतिकृतनियमराहित्येन कविचक्रवर्तिभिरुपादानकर्मादिसहकारिकारणापरतन्त्र्यत्वमङ्गीकृत्य सामान्यस्यापि वस्तुनः निजप्रतिभया चमत्कारशालितयोपस्थापनबलेन सहृदयानामाल्हादकत्वं नाम नियतिकृतनियमराहित्यमभिप्रेतं प्रेक्षावतां इति कविहृदयं गमितम् । तच्च सतां वस्तूनां समवायाश्रयीभूतमेव सर्वदा, न तु असतां वस्तूनां अप्राकृतत्वालम्बितमिति स्फुटमेव, यथा व्याचक्षितं श्रीमदानन्दवर्धनैरालोके "सरस्वती स्वादु तदर्थवस्तु निष्यन्दमाना महतां कवीनाम् । अलोकसामान्यमभिव्यनक्ति प्रतिस्फुरन्तं प्रतिभाविशेषम्" यश्च प्रतिपादितं भट्टतौतेन "नायकस कवेः श्रोतुः समानोऽनुभवस्ततः" परं च "अर्थशब्देन वस्तुशब्दं वस्तुशब्देन तत्त्वशब्दं च वक्तुं वस्तुशब्दं व्याचष्ट" इति अभिनवगुप्तपादैर्लोचनकारैः अभिमतत्वाद् वस्तुतत्वं निष्यन्दमाना महतां कवीनां सरस्वती लोकसामान्यं प्रतिभाविशेषं परिस्फुरन्तमभिव्यनक्तीति विश्वजनीनत्वात् कविसम्प्रदायस्य अत्र प्रकृते तादृशमपि नियतिविकृतिनियमराहित्यरूपं निर्बलमपि शरणं कवेर्नानुषज्यत एव । अयं च दोषः सुरधनु:कल्पनायासव्यतिरेकेण समाधातुं शक्यः, तस्या हानान्नाटकीयवस्तुसमारोहस्य कथमप्यहानात् । दोषविशेषे सत्यपीह कालिमसत्वेऽपि मणे: (इति मूर्छितः पतति । पुनर्द्विपदिकयोत्थाय निश्वस्य) मइ जाणिअ मिअलोअणि णिसिअरु कोइ हरेइ ।

जाव णु णवतडिसामलि धाराहरु वरिसेइ ॥ ८॥
[मया ज्ञातं मृगलोचनां निशाचरः कोऽपि हरति ।
यावन्नु नवतडिच्छयामलो धाराधरो वर्षति ॥ ८॥]


यथा मणित्वं न व्यतिरिच्यते तथैवास्य पद्यस्य सत्काव्यत्वं न मनागपि ह्रीयते चेदत्र विषये केवलं रसचर्वणाचञ्चवः सहृदयचणाः प्रमाणम् ॥

 अत्र तडिदुवर्श्योः भ्रमेण नायिकायाः दीप्तिमत्त्वं व्यक्तम् ।

 नात्राविमृष्टविधेयांशाख्यो दोषः नञर्थस्येह अभावस्य प्राधान्यात् प्रसज्यप्रतिषेधाच्च । काव्यप्रकाशकृद्भिरुदाहृतमिदं पद्यममुमेवार्थं स्फुटयितुम् ।

 पटुः, आलवणो, तीव्रो वा "पटुर्दक्षे च नीरोगे चतुरेऽप्यभिधेयवत् । पटोले तु पुमान् क्लीबे छत्रालवणयोरपि" इति मेदिनी ।

 अत्र पूर्वं "दुरात्मन् राक्षस" इति सम्बोध्य पश्चात् नवजलधरोऽयं, न तु निशाचरः इत्युक्तेः आक्षेपालङ्कारः "आक्षेपस्तु स्वयमुक्तस्य प्रतिषेधो विचारणा"दिति लक्षणात् । अत्रोपमालङ्कारश्च । कनकनिकषवत् स्निग्धा इत्यत्र नायिकविषयकदीप्तिमत्त्वदर्शनपूर्वकं वाक्यार्थोपस्कारकत्वम् “सुन्दरं सादृश्यं वाक्यार्थोपस्कारकमुपमालकृतिः"इति रसगङ्गाधरे । अनयोः सङ्करः ।

 अत्र प्रसादाख्यो गुणः “यस्मादन्तःस्थितः सर्वः स्वयमर्थोऽवभासते । सलिलस्येव सूक्तस्य स प्रसाद इति स्मृतः”। सौकुमार्यं चेह "सौकुमार्यमपारुष्यमिति" चन्द्रालोके।

 हरिणी वृत्तम्-“रसयुगहयैन्सौं स्लौ गो यदा हरिणी तदा" । षड्भिश्चतुर्भिः ततः सप्तभिः यतिर्यदा नगणसगणौ मगणरगणौ सगणलघू गुरुश्च तदा हरिणी नाम च्छन्दः स्यात् ॥७॥

 (इत्युक्त्वा मूर्छितः पतति ) अत्र नायकस्य स्मरस्य नवमी मूर्छाख्या दशा प्रदर्शिता । प्रीतिबीजं परां काष्ठामधिरूढम् । स्मरस्य दश दशाः । अन्तिमाया वर्णनायोग्यत्वात् नवमी एव परात्परा । यदाहुः-"नयनप्रीतिः प्रथमं, - चित्तासङ्गस्ततोऽर्थसङ्कल्पः । निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः । उन्मादो मूर्छा मृतिरिसेताः दशैव स्मरदशाः स्युः” इति ।

 संज्ञां लब्ध्वा उत्थाय दीर्घं शोकपिशुनं निश्वासं गृहीत्वा द्विपदिकया ससम्भ्रमं आह-

 मयेति!-मया इत्थं ज्ञातं यत् कोऽपि अविज्ञातः निशाचरः मृगस्य लोचने इव लोचने यस्याः सा तादृशीं हरिणकिशोरदृशं मम प्रियामुर्वशीं हरति 'परिहृत्य नयति । यावत् वस्तुतस्तु नु निश्चयेन नवा तडित् यस्मिन् सः नवतडित् नूतनविद्युत्सनाथः श्यामलः कृष्णवर्णः धाराधरः मेघो वर्षति ।

(इति सकरुणं विचिन्त्य)

क नु खलु रम्भोरुर्गता स्यात्
तिष्टेन्कोपवशात्प्रभावपिहिता दीर्घं न ना कुप्यति
 स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः ।
तां हर्तुं विबुधद्विषोऽपि हि न मे शक्ताः पुरोवर्तिनी
 सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः॥ ९ ॥

(इति मूर्छितः पतति)


 यावत्कालपर्यन्तमहं मेघोऽयं वर्षतीति नाज्ञासिषं तावत्कालं निशाचरो मे प्रियतमां नयतीति धीरासीत् । इदानीं तु तन्निवृत्तिरिति भावः । नुनिश्चये।

 अत्र धारासम्सपातेनैव नायं राक्षसः किन्तु जलधरः इति भेदाध्यवसायात् उन्मीलितालङ्कारः । यदुक्तं-"नेदवैशिष्ट्ययोः स्फूर्तावुन्मीलितविशेषकौ” । उर्वश्या अध्यवसानाय नवतडिदिति विशेषणम् , श्यामलत्वञ्च रक्षसा साम्यपरिकल्पनाय ॥

 मृगलोचनामित्यत्रोपमा । इयं गाथा ॥८॥</poem>}}

 इति सकरुणं सशोकं विचिन्त्य-

 क्व कुत्र नु खलु रम्भोरुः कदलीस्तम्भनिभोरुरुर्वशी गता स्यादिति संशयः ।

 रम्भे कदलीस्तम्भौ तद्वदूरू यस्याः सा रम्भोरू: "ऊरुत्तरपदादौपम्ये" इति ऊङ् प्रत्ययः।

 रम्भोरुरित्युपमालङ्कारेण तस्योर्वोः वृत्तानुपूर्वत्वं सुखस्पर्शत्वं च व्यज्यते ।

 तिष्ठेदिति-इह हि सन्दहदोलाधिरुढं राज्ञो मनः विविधवितर्कान् निश्चयान्तान् विदधाति-

 सा मह्यं कोपवशात् प्रभावेण दिव्यात्मशक्त्या पिहिता अन्तर्गता विष्ठेत् किन्तु नायं सम्भवः, यतः सा मह्यं दीर्घं चिरकालं न कुप्यति । द्वितीया शङ्का- स्वर्गाय स्वर्गं गन्तुं उत्पतिता भवेत् , तदपि सम्भवं न, यतः अस्याः मनः मयि भावार्द्र स्नेहसरसं विद्यते । मां परित्यक्तुं नार्हति सेति भावः । विबुधानां द्विषः शत्रवः अमुरा अपि मे पुरोवर्तिनी समक्षं स्थितां तामुर्वशीं हर्तुं न शक्ताः समर्था न । तदप्यसम्भवः । सा च किन्तु मे नयनयोरत्यन्तं अगोचरतां अविषयतां प्राप्ता इति कोऽयमनिर्वाच्यः विधिः मे दैवम् ।

 क्रोधपरीतमानसा सान्तर्धानशक्त्या यदि कुत्रचिदिहैव अन्तर्हिता भवेदिति न, यतः सा चिरकालं मह्यं कुपिता न भवति । अथवा सा स्वर्गगमनेच्छया वियति उत्पतिता भवेत्तदपि न, यतः सा मयि गाढं प्रेमार्द्रा। अथवा पुनरपि राक्षसाः तां परिहत्य नीतवन्तो भवेयुस्तदपि न घटते, यतः तेषां मत्समक्षमेव तस्या हरणे सामर्थ्याभावात् । किन्तु यद्यपि कारणं न दृश्यते तथापि सा मम नयनयोरविषयतां याता मे दृक्पथमवतरति सा इति भावं हा कोऽयं विधिरिति सखेदं

प्रकाशयति नायकः।

 अत्र तिष्ठेदित्यादिषु संभावनायां लिङ् । स्वर्गाय स्वर्गं गन्तुमिति तुमर्थाच्च भाववचनादिति चतुर्थी।

 अत्र दीर्घ न सा कुप्यति इत्यनेन दाक्षिण्यं अचिरकोपवत्वं नायिकायाः व्यजयन्नुत्तमत्वं ध्वनितम् । अत्र शृङ्गारो विप्रलम्भाख्यो रसो ध्वन्यते । उर्वशी आलम्बनं, मेघादिदर्शनमुद्दीपनम् तल्लतारूपग्रहणेनादर्शनं च । रतिः स्थायी, औत्सुक्योन्मादशङ्कादयो व्यभिचारिणः ।

 अत्र हि पुरूरवसः प्रियतमावियोगवैधुर्यदशासहभूद्वेगविवशचेतसस्तदसम्प्राप्तिहेतुमनधिगच्छतः आदावेव नैसर्गिकसौकुमार्यसम्भाव्यमानं पश्चाच्चोचित्तविचारापसार्यमाणोपपत्ति किमप्यनिर्वाच्यं तात्कालिकविकल्पसङ्कलितमनवलोकनकारणमुत्प्रेक्षमाणस्य प्रियासादनसाधनसमन्वयासम्भवात् सर्वतो नैराश्यनिश्चयविमूढमानसतया ध्वन्यमानः स च विप्रलम्भो रसः परां परिपोषदवीमधिरोपितः काव्यकुतूहलिना कविनेति सहृदयैर्भाव्यम्-यदुक्तं हि राजानकेन- "मुख्यमक्लिष्टरत्यादिपरिपोषमनोहरम् । स्वजात्युचितहेवाकसमुल्लेखोज्वलं परमिति ॥" अपरं चेह विशेषोऽयं यद्रसप्रकर्षे सत्यपि वितर्काख्यव्यभिचारिचमत्कियाप्रयुक्तस्यास्वादातिशयस्य सद्भावात् रसैकघनचमत्कारात्मन्यप्यस्मिन् पद्ये कश्चिदुद्रिक्तावस्थां प्रतिपन्नो वितर्काख्यो व्यभिचारी चमत्काराविशयप्रयोजकत्वाद् भावध्वनित्वेन राजतेतराम् यदुक्तं ध्वनिकृद्भिः “रसभावतदाभासतत्प्रशान्त्यादिरक्रमः । ध्वनेरात्माङ्गिभावेन भासमानो व्यवस्थितः" इति ॥

 अत्र च नयनयोरगोचरत्वस्य कारणाभावेऽपि नयनागोचरत्वेन विभावना । "क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना"।

 तिष्ठेत् कोपवशात् प्रभावपिहिता इत्यनन्तरं दीर्घं न सा कुप्यति इत्यस्य पूर्वं "नैतद्युज्यते यतः” इत्यादि आवश्यकीयपदाभावान्यूनपदतादोषापत्तिः, "किन्तु दीर्घं न सा कुप्यति" इत्युत्तरा प्रतिपत्तिः तिष्ठेत् कोपवशादितिरूपां पूर्वां प्रतीतिं अत्र वाक्यार्थयोः अविलम्बावगमात् बाघतां नाम । तथापि दोषोऽयं एतद्वाक्यव्यङ्ग्यस्य वितर्काख्यस्य सञ्चारिणो भावस्य कथमप्युत्कर्षाकरणाद् गुणत्वमपि न भजते । एवमपि शेषेषु पादेपूक्तम् । अथवा द्वितीयचरणे पुनरिति किन्त्वर्थे सङ्गमय्य सर्वत्राध्याह्रियतां इत्यप्यनतिरुचिकरं समाधानम् ।

 एवं चात्र पूर्वार्धे विष्ठेदिति पूर्वप्रतीतिबाधनाय उत्तरप्रतीतिः दीर्घं नेति' वाक्यभेदेन स्फुटतयावगमात् प्रतिपादिता स्यात् इति एतस्मिन् पक्षे खीकृतेऽपि तृतीयचरणे तथाकरणात् एकवाक्यप्रदानाद्वा भग्नप्रक्रमतादोषः । प्रक्रमस्य भङ्गदर्शनात् । तत्स्थाने "रक्षोभिश्च हृता भवेन्मम पुरः शक्तासु हर्तुं न ते" इति पादव्यवस्थया तत्समाधानम् ।

 परञ्चेह राज्ञः नयनयोः पुरोवर्तित्वाभावान्नायिकां बुद्धिस्थां बोधयितुं राज्ञा परोक्षत्वध्योतनाय तस्याः कृते प्रथमचरणे तच्छब्देन सर्वनाम्ना निर्देशो विहितः एवमेव तृतीयचतुर्थचरणयोः, किन्तु द्वितीयचरणे "भावार्द्रमस्या मनः" इत्यत्र  (संज्ञा लब्ध्वा दिशोऽवलोक्य द्विपदिकया सास्रम् ) अये! परावृत्तभागधेयानां दुःखं दुःखानुबन्धि । कुतः-

अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे।
नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ॥१०॥


उर्वश्याः इदम्पदेन निर्देशः कृतः, “इदमस्तु सन्निकृष्टं" इति वचनात् इदम्पदस्य सन्निकृष्टार्थबोधकत्वादिहाभवन्मतसम्बन्धाख्यो दोषः स्फुट एव । नायिकायाः हृदयसन्निहितत्वग्रहणेन दोषः परिह्रियेत चेत्तर्हि स्वर्गयोत्पतितेति वितर्कस्य प्रातिकूल्यात् अङ्गिनो विप्रलम्भरसस्यापकर्षकत्वाद्विशेषेण दोषावहत्वं भवेत् ।

 अत्र "झगिति प्रतीयमानार्थान्व्यकत्वमर्थव्यक्ति वचनाद् इह अर्थव्यक्तिर्गुणः।

 अत्र संशयाख्यं नाट्यलक्षणम् "संशयेऽज्ञाततत्त्वस्य वाक्ये स्याद्यदनिश्चयः ॥ इति ।

 अत्र च शार्दूलविक्रीडितं वृत्तम् । लक्षणं पूर्वमेवोक्तम् ॥ ९ ॥

 इत्युक्त्वा दिशः द्विपदिकया विलोक्य उर्वशीमदृष्ट्वा सास्रम् सवाष्पं आह ।

 अये ! परावृत्तभागधेयानां प्रतिकूलप्रारब्धानां पुरुषाणां दुःखं दुःखानुबन्धि दुःखं अनुबध्नातीति तादृशशीलवदेव भवति आपदां पदं अनुबध्नाति । आपत् आपद्भिः सहाक्रमति पराङ्मुखविधीन् जनान् इति भावः । अनावमाननख्यापनात् छलनं नाम सन्ध्यङ्गमुक्तं भवति । कुतः-अत्र हेतुनाह-

 अयमिति -तया विलक्षणप्रीतिसदनभूतया प्रियया सुदुःसहः नितरां सोढुमशक्यः वियोगः मे मह्यमुपनतः । एकपदे च तदैव तस्मिन्नेव समये नवा ये वारिधरा मेघा तेषामुदयात् अहोभिः दिवसः निरातपत्वेन उष्णताराहित्येन शीतलत्वेन वा रम्यैः रन्तुं योग्यैः भवितव्यम् ।

 प्रथमा तावदापदियमेव यदहं प्रियया विरहितः पुनश्च तस्मिन्नेव काले गण्डस्योपरि स्फोट इव मेघोदयात् शीतलानि अत एव रमणीयानि दिनानि भविष्यन्ति । एतन्महद्दुःखम् इति ।

 अत्र निरातपत्वरम्यैः इत्यनेन उद्दीपनविभावो व्यक्तः, राज्ञश्च अधीरता विरहजन्याऽभिव्यज्यते।

 अत्र कान्तिर्नाम गुण:--"अविदग्धवैदिकादिप्रयोगयोग्यानां पदानां परिहारेण प्रयुज्यमानेषु पदेषु लोकोत्तरशोभारूपमौज्वल्यं कान्तिः" ।

 एकपदे सद्यः “तत्समैकपदे तुल्ये सद्यः सपदि च स्मृतम्" इति हलायुधः।

 अपि चात्र सुरुचिरवृत्तिमनुरुध्य समासानां विरलतया विनियोजने चकारस्य निपातस्यालक्ष्यक्रमव्यङ्ग्यस्य विप्रलम्भस्याभिव्यञ्जकत्वं यदुक्तं सहृदयचक्रवर्तिभि "कृत्तद्धितसमासैश्च द्योत्योऽलक्ष्यक्रमः क्वचित्" इति । एवं चात्र द्वयोः परस्परं

सुदुःसहत्वोद्दीपनसामर्थ्यसमेतयोः वल्लभाविरहवर्षाकालयोः एककालावच्छेदेन

(अनन्तरे चर्चरी)

जलहर संहर एहु कोपमि आढत्तओ
 अविरलधारासारदिशामुहकंतओ ।
ए मई पुहविं भमन्ते जइ पिअं पेक्खिहिमि
 तच्छे जं जु करीहसि तं तु सहीहिमि ॥ ११ ॥

[जलधर संहरात्र कोपमाज्ञप्तः
अविरलधारासारदिशामुखकान्तः ।
ए अहं पृथ्वी भ्रमन्यदि प्रियां प्रेक्षिष्ये
तदा यद्यत्करिष्यसि तत्तत्सहिष्ये ॥ ११ ॥]

 (विहस्य) वृथा खलु मया मनसः सन्तापवृद्धिरुपेक्ष्यते । यदा मुनयोऽप्येवं व्याहरन्ति “राजा कालस्य कारणम्” इति । तत्किमहं जलधरसमयं न प्रत्यादिशामि । (अनन्तरे चर्चरी)


प्रतिपादनपरं चकारद्वितयं समसमयसमुल्लसितवह्निदाहदक्षदक्षिणवातव्यजनसदृशतां समर्थयत् कामपि वाक्यगतवक्रताजनितां अभिख्यां समुद्दीपयति यतः सुदुःसहेत्यत्र सुदुरित्युपसर्गाभ्यां दयिताविरहवैधुर्यवैक्लव्यस्याशक्यप्रतीकार्यत्वं नूनं प्रतीयते-यथाभाणि वक्रोक्तिकारैः "रसादिद्योतनं यस्यामुपसर्गनिपातयोः। वाक्यैकजीवितत्वेन सा परा पदवक्रता" इति ॥ औपच्छन्दसकं छन्दः । लक्षणं प्रागुक्तमेव ॥ १०॥

॥ अनन्तरे चर्चरी ॥

 “द्रुतमध्यलयं समाश्रिता पठति प्रेमभरान्नटी यदि । प्रतिमण्ठकरासकेन वा द्रुतमध्या प्रथमा हि चर्चरी ॥ तत्र च प्रतिमण्ठेन तालेन प्रतिमण्ठकः" संगीतरत्नाकरे । लघ्वालितालो लोकेऽसौ रास इत्यभिधीयते ॥ इति ॥

 जलधर इति-विरहिणां जलदस्योद्दीपनत्वात् राजा जलदमपगन्तुमा- ज्ञापयति-हे जलधर मेघ ! मया आज्ञप्तः त्वं अविरलः सन्ततः अविच्छिन्नो वा धारासारः वर्षः तेन आच्छादितं दिशः मुखं येन सः तेन च कान्तः मनोहारी कोपं संहर एतस्मिन् जने क्रुधं मा कुरु इत्यर्थः । किन्तु यदि अहं पृथ्वीं भ्रमन् अटन् प्रियामुर्वशीं प्रेक्षिष्ये दर्शनेनात्मानं संभावयिष्ये तदा यद्यत् कोपादिकं करिष्यसि तत्सर्वं सहिष्ये । प्रियया संश्लेषितस्तु त्वया कृतां कियन्तीं अपि क्रुधं न गणिष्ये किन्तु विश्लेषितायामवस्थायां मया आज्ञप्तः सन् कोपं परिहर । इदानीं नाहं ते कोपविषयः विरहक्लेशनिर्बलत्वात् । अविरलः धारासारः यासु ताः इति दिग्विशेषणम् ॥ ११॥

 विहस्य-स्वराज्यत्वं स्मृत्वा स्वगत परिलक्ष्यात्मानमेव विहस्याह-

 वृथेति -मया खलु वृथैव अकारणमेव मनसः संतापः वृद्धिः उपेक्ष्यते सह्यते। कुतः मुनयः तत्त्ववेदिनः अपि एवं व्याहरन्ति कथयन्ति यत् “राजा

गन्धुम्माइनअमहुअरगीएहिं
वज्जंतेहिं परहुअतूरेहिं।
पसरिअपवणुव्वेल्लिअपल्लवणिअरु
सुललिअविविहपआरेहिं णच्चइ कम्पअरु ॥ १२ ॥

[गन्धोन्मादितमधुकरगीतै-
र्वाद्यमानः परभृततूर्यैः।
प्रसृतपवनोद्वेलितपल्लवनिकरः
सुललिनविविधप्रकारैर्नृत्यति कल्पतरुः।। १२ ।।]


कालस्य कारणम् " राजा यथा यथा कालं चलयितुमिच्छति तथैव स प्रवर्तते । कालनियन्त्रणे वा राज्ञः शक्तिरस्ति । तद् राजाऽप्यहं कि केन हेतुना जलधरस्य समयं कालं न प्रत्यादिशामि निराकरोमि अपि तु अवश्यं करिष्ये इति आकूतम् । राज्ञः समयनियन्त्रणे शक्तिमत्त्वात् जलधरस्य साम्प्रतं उद्दीपकत्वेन दुःखदत्त्वात् कथमहं तं न निराकरोमि इत्यर्थः ।

 (अनन्तरे चर्चरी)

 गन्धेति-कल्पतरोः नृत्यव्यापारं वर्णयन् तस्योद्दीपकतां विभावयति- कल्पतरुर्नृत्यति-किन्तु नृत्ये गीतवाद्याभिनयादीनामपेक्षा वर्तते । तत्सर्वमुत्प्रेक्षते-

कल्पतरोः गन्धेन सौरभेण उन्मादिताः मत्ताः मधुकराः द्विरेफाः तेषां कल: गीतैः गुञ्जितैरुपलक्षितः तथा च वाद्यमानैः परभृतां कोकिलानां रवैः एव तूर्यैः तदाख्यवाद्यविशेषैरुपलक्षितः प्रसृतो वहमानः पवनो वायुः तेन उद्वेल्लितानि चञ्चलानि च तानि पल्लवानि तेषां निकरः समूहो यस्य तादृशः कल्पद्रुमः सुष्टु ललितैः सुभगैः प्रकारैः नृत्यति ।

 नर्तकः कल्पतरुः । भ्रमरगुञ्जनमेव गीतम् । कोकिलानां रवो वाद्यम् । वायुना दोलायमानानि पल्लवानि एव अभिनयार्थं हस्तः। एभिः सर्वैः उपकरणैः संयुतः कल्पद्रुमो नृत्यति।

 अत्र कल्पद्रुमस्रुतगन्धस्योन्मादकत्वेन, मधुकराणां कलगुञ्जनेन, पिकानां रवेण, वायुना कम्पितेः पल्लवैः द्योतितेन शीतलमन्दसुगन्धिना पवनेन राज्ञः कामवृत्तेः उद्दीपकत्वात् विप्रलम्भाख्यशृङ्गारस्योपस्कारकमिदं पद्यम् । अत्र राज्ञा स्वशक्तेः ख्यापनात् व्यवसायो नाम विमर्शसन्ध्यङ्गमुक्तं भवति यथाह धनञ्जयः “व्यवसायः खशक्त्युक्तिरिति” ।

 अत्र एकदेशविवर्ति सावयवं रूपकमलङ्कारः, तल्लक्षणं यथा गङ्गाधरे-"य उपमेयतावच्छेदकपुरस्कारेणोपमेये शब्दानिश्चीयमानमुपमानतादात्म्यं रूपकम् । यत्र च क्वचिदवयवे शब्दोपात्तमारोप्यमाणं क्वचिच्चार्थसामर्थ्याक्षिप्तं तदेकदेशे शब्दानुपात्तविषयके अवयवरूपके विवर्तनात्स्वस्वरूपगोपनेनान्यथात्वेन वर्तना ( इति नर्तित्वा) अथवा न प्रत्यादिशामि यत्प्रावृषेण्यैरेव चिह्नैर्मम राजोपचारः सम्प्रति ! कथमिव-

विद्युल्लेखाकनकरुचिरं श्रीवितानं ममाभ्रं
 व्याधूयन्ते निचुलतरुभिर्मञ्जरीचामराणि ।
घर्मच्छेदात्पटुतरगिरो बन्दिनो नीलकण्ठा
 धारासारोपनयनपरा नैगमाश्चाम्बुवाहाः ॥ १३ ॥


देकदेशविवर्ति ।" इति । कल्पतरौ नृत्यस्य संभावनायाः सत्वात् इवपदाप्रयोगाच्च गम्योत्प्रेक्षा।

इह पूर्वार्धे उपलक्षणे तृतीया । परैः भृतः पोषिता इति परभृतः ॥ १२ ॥

(इति नर्तित्वा)

 अथवा जलधरसमयमेनं न प्रत्यादिशामि तत्र हेतुमाह-यत् येन हेतुना प्रावृषेण्यैः वर्षासमयोद्भवैरेव चिह्नः मम राजोपचारः राजसमुचिता सेवा सम्प्रति भवति । यतः समयेऽस्मिन् मम राजत्वमेभिः वर्षासमयसमुचितैरुपचारैः अर्थयुक्तं क्रियते । अनेन राज्ञः विरहित्वात् संकल्पविकल्पात्मकमनस्कत्वं व्यज्यते । प्रकृष्टा वृट् प्रावृट् तद्भवैः प्रावृषेण्यैः । कथमिवेति अनुगतेन पद्येन राजोपचारान् वर्णयति-

 विद्युल्लेखेति-राजोपचारेषु राज्ञः कृते स्वर्णवितानं, चामराणि, वाहकाः, बन्दिजनः, वणिजादयश्च अपेक्ष्यन्ते । प्रावृषेण्यैः चिह्नैः राजोपचारो विधीयते इति उक्ते एतेषां सर्वेषां राजोपचाराङ्गानां तत्रापि अपेक्षा वर्तते इति सर्वं रूपकेण वर्ण्यते-

 विद्युतः सौदामिन्या लेखा रेखा तदेव कनकं तेन रुचिरं सुन्दरं अभ्रं पयोद एव मम कृते श्रियः वितानं उल्लोचः अस्ति । निचुलतरुभिः तदाख्यवृक्षविशेषैः तेषां मञ्जर्यः (Spray) एव चामराणि मम उपरि व्याधूयन्ते । प्रावृषि निचुलतरुषु मञ्जरीणां समुद्भवः भवति । ताश्च वायुना कम्प्यन्ते । तत्र कविरुत्प्रेक्षते यत् मञ्जर्य एव चामराणि राज्ञः कृते व्याधूयन्ते । धर्मच्छेदात् ग्रीष्मर्तुनाशात् शैत्याच्च पटुतरगिरः सविशेषमधुरस्वराः नीलकण्ठा मयूरा एव बन्दिनः । वर्षासमये मयूराः मधुरस्वरेण केका कुर्वन्तः नृत्यन्ति । त एव राज्ञः गुणानुवर्णने बन्दिभूताः । पुनश्च धारासारः वर्षासम्पातः तस्य उपनयने तत्पराः अम्बुवाहा जलदा एव नैगमा वणिजः सन्ति । पयोदानां पक्षे धारा एव सारः द्रव्यं तस्योपनयने तत्परा इत्यर्थः । वणिजां पक्षे धारावत् प्रभूततरः सारः वित्तमिति ॥

 भावार्थस्तु-सौदामिनीलेखया कनकसदृशधुतिर्मेघः एव स्वर्णवितानम्, तरुभिर्व्याधूयमानानि मञ्जरीरूपाणि चामराणि, मयूराणां केका एव बन्दिवाचः, तथा च अम्बुवाहा एव वाणिज्यपटवोजना सन्ति । इत्थं अनया सामग्र्या प्रावृषा राजोपचारः क्रियते । अनेन च तस्याः राज्ञः उपस्कारकत्वात्, राज्ञा रक्षणीयत्वं  (पुनश्चर्चरी) भवतु किमेवं परिच्छदश्लाघया । यावदस्मिन् कानने तां प्रियामन्वेषयामि । (पाठस्यान्ते भिन्नकः)

दइआरहिओ अहिअं दुहिओ, विरहाणुगओ परिमंथरओ।
गिरिकाणणए कुमुमुज्जलए, गअजूहवई तह झीणगई ॥ १४ ॥
[दयितारहितोऽधिकं दुःखितो विरहानुगतः परिमन्थरः ।
गिरिकानने कुसुमोज्ज्वले गजयूथपतिस्तथा क्षीणगतिः ॥१४॥]

 (अनन्तरे द्विपदिकया परिक्रम्यावलोक्य च सहर्षम् )

हन्त हन्त ! व्यवसितस्य मे सन्दीपनमिव संवृत्तम् । कुतः-


व्यज्यते । अत्र सन्दीपनादयः केका विद्युत्प्रभृतयो दत्तः । नैगमा वणिजः  "नैगमः क्षुरवेदान्तवणिग्वाणिज्यनागरे" इति विश्वः । सारं जलदपक्षे जलम् । वणिक्पक्षे वित्तम् "सारं न्याय्ये जले वित्ते" इति वचनात्।

 अत्र प्रथमपादत्रये शुद्धपरम्परितरूपकम् । चतुर्थे च धारासारेत्यस्य श्लिष्टत्वात् श्लिष्टपरम्परितरूपकम् । यल्लक्षणं “यत्र चारोप एवारोपान्तरस्य निमित्तं तत्परम्परितम्" इति । अत्र माधुर्याख्यो गुणः ।

 मन्दाक्रान्ता वृत्तम् “मन्दाक्रान्ता जलधि षडगैम्भौंनतौ ताद् गुरु चेदि"ति लक्षणयोगात् ॥ १३ ॥

 (चर्चरी) पश्चात् भवतु अतु नाम । किमेवं परिच्छदस्य उपकरणविशेषस्य श्लाघया प्रंशसया प्रयोजनम् । यावदहं अस्मिन् कानने तां प्रियां अन्वेषयामि मार्गयामि ।

 पाठस्यान्ते भिन्नकः पाठो वाद्यक्षरोत्करः वाद्ये मूके सति भिन्नकः रागविशेषः "षड्जमध्यमिकोत्पन्नो भिन्नको मध्यमो बहुः" इति नाट्याचार्याः ।

 दहआ इति-गजमिषेण स्वावस्थां वर्णयति राजा-दयितया प्राणवल्लभया रहितो वियुक्तः अत एव अधिकं दुःखितः पुनरपि विरहानुगतः विरहितत्वात् परिमन्थरः स्तब्धगतिः स्थाणुसदृशः एतादृशः गजानां यूथपतिः अग्रसरोऽपि कुसुमैः उज्ज्वले सुन्दरे गिरिसन्निकटवर्तिनि कानने तथा तादृग् रूपेण क्षीणगतिः हतगतिः सन् भ्रमति यथा स्वीयां प्रियामपि अन्वेषयितुं रक्षितुं वा अशक्तो बभूव । राजापि प्रियाविरहित्वात् मन्थरगतिः कानने इतस्ततः परिभ्रमन् तामलभमानः भृशं क्षीणगतित्वमापेति अन्योक्तिः।

 अनन्तरे द्विपदिकया गीत्या परिक्रम्यावलोक्य च सहर्षम्-

 हन्त हन्तेति साश्चर्यानन्दे-व्यवसितस्य तदीयान्वेषणव्यापृतस्य मे सन्दीपनं प्रोत्साहनमिव संवृत्तम् । कुतः-

१५ विक्र०

आरक्तराजिभिरियं कुसुमैनवकन्दली सलिलगर्भैः ।
कोपादन्तर्बाष्पे स्मरयति मां लोचने तस्याः ॥ १५ ॥
इतो गतेति कथं नु मया तत्रभवती सूचयितव्या । यतः-
पद्भ्यां स्पृशेद्वसुमतीं यदि सा सुगात्री
 मेघाभिवृष्टसिकतासु वनस्थलीषु ।
पश्चान्नता गुरुनितम्बतया ततोऽस्या
 दृश्येत चारुपदपङ्क्तिरलक्तकाङ्का ॥ १६ ॥


 आरक्तेति-इयं पुरो दृश्यमाना नवा नूतनोत्पन्ना कन्दली कदली सलिलं जलं गर्भे मध्यभागे येषां तैः अन्तर्गतजलैः आसमन्तात् रक्ता राजयो रेखा येषां तैः कुसुमैः तस्याः मम प्रियायाः कोपादन्तर्बाष्पे अविगलिताश्रुणी लोचने नयने स्मरयति स्मृतिपथमानयति । कोपनायास्तस्या नयने यदा अन्तर्बाष्पे भवतः तदा ते अन्तर्जलकदलीकुसुमैः सन्निभे भवतः अत एव राजा कुसुमानि तादृशानि विलोक्य नयने स्मरति ।

 अनेन तस्या नयनयोः कोपकारणात् आरक्तत्वम् , कदलीकुसुमसदृशदीर्घत्वसुकुमारत्वकान्तत्वादिकं च ध्वन्यते । अत्र च स्मरणमलङ्कारः-यदाह पण्डितेन्द्रः-“सादृश्यज्ञानोद्बुद्धसंस्कारप्रयोज्यं स्मरणं स्मरणालङ्कारः" इति । अत्र कदलीकुसुमदर्शनोबुद्धसंस्कारजन्यतत्सदृशप्रियानयनस्सरणस्य सत्वात् तस्य च वाक्यार्थोपस्कारकबादलङ्कारत्व ।

 "कन्दली भूकदल्यपि" इति शब्दार्णववचनेन कदली, तथा च मुक्तावली- कृतां मते "कलध्वनौ चापि तरौ मृगभेदेऽपि कन्दली" इति वाक्यात् शिलीन्ध्रापरपर्यायः कन्दलीनामा वृक्षविशेषः ।

 इयमार्याजातिः ॥ १५ ॥

 सा मम प्रिया इतः अनेन मार्गेण गता न वेति कथं नाम मया सूचयितव्या परिज्ञातव्या । यतः-परिज्ञानमाह-

 पद्व्यामिति -यदा सा सुगात्री सुतनुः वसुमती महीं पद्भयां चरणाभ्यां स्पृशेत्तदा मेघैः अभिवृष्टा अतः आर्द्रतां नीताः सिकताः यासां तासु वनस्थलीषु अस्याः उर्वश्याः गुरुनितम्बतया श्रोणीनां गुरुत्वात् पश्चाद्भागे नता गाढानुप्रविष्टा प्रविष्टा अलककाङ्का रागयुता चारु सुन्दरी पदपङ्किरवश्यमेव दृश्येत ।

 भावस्तु-प्रिया मे गुरुनितम्बिनी । वर्षया च भूमिः शिथिला । नितम्बानां पश्चात्स्थलात् चरणयोश्च पश्चाद्भागे भारविशेषत्वात् गाढतया शिथिलायां भूमौ अङ्कनं भविष्यति-तदा यदि सा चरणाभ्यां भूमिं स्पृशेत् तदा गुरुनितम्बिनीवात्तस्याः पार्ष्णिदेशस्य मेघाभिवर्षणशिथिलायां भूमौ निश्चयेन स्फुटतया लक्ष्यमाणस्य गाढमङ्कनं दृष्टिपथमवतरेत । तेन सा अनेनैव मार्गेण गतेति विश्रम्भणीयम् । स्थली अकृत्रिमा भूमिः।  (द्विपदिकया परिक्रम्यावलोक्य च सहर्षम्) उपलब्धमुपलक्षणं येन तस्याः कोपनाया मार्गोऽनुमीयते ।

हृतौष्ठरागैर्नयनोदविन्दुभिर्निमग्ननाभेर्निपतद्भिरङ्कितम् ।
च्युतं रुषा भिन्नगतेरसंशयं शुकोदरश्याममिदं स्तनांशुकम् ।। १७ ॥


"वसन्ततिलका वृत्तम्" ॥ १६ ॥<

 पुनरपि द्विपदिकया विलोक्य सहर्षमाह-उपलब्धं ग्रामं उपलक्षणं चिह्नं मया येन तस्याः कोपनायाः मार्गः अनुमीयते ।

हृतौष्ठेति-निमग्ना गभीरा नाभिर्यस्याः सा तस्याः तथा च रुषा कोपेन भिन्नगतेः विसंधुलगतेः तस्याः प्रियायाः निक-झग्यो एव गिलदिन भने परिन्यस्तं रचन्तः यैस्तैः परम: अलकन्त्र नयनोदबिन्दुभिः अस्रबिन्दुभिः अङ्कितं चिह्नितं इदं शुकोदरश्यामं तत्सदृशरङ्गरञ्जितं स्तनांशुकम् कुचाच्छादनवस्त्रम् असंशयं च्युतं प्रतिभाति ।

 कीरवद्धरिता तदीया कञ्चुकी रक्तबिन्दुभिः कर्करिता आसीत् । ओष्ठरागस्यापि च्युतत्वात् केचन बिन्दवो रक्ताः अत एव तदीयहरितकञ्चुकी रक्तबिन्दुभिरन्तरा कर्करिता प्रतिभाति । अनेन अनुमीयते सा अनेनैव मार्गेण गता भवेदिति । अनेन तस्याः कोपनत्वं विरहितत्वाच्च सशोकत्वं व्यज्यते । अत्रोपमालङ्कारः अनुमानालङ्कारेण सङ्कीर्णः । अर्थविलक्षणमिदं पद्यम् ।

 प्रेयसीमुर्वशीमन्विष्यन् राजा दूरतः बालतृणसमाच्छादितं इन्द्रगोपकीटसनाथं स्थलं प्रेक्ष्य तत्स्थलमेव स्तनांशुकं परिकल्पयते । स्थलस्य हरितत्वात् स्तनांशुकस्यापि तादृशत्वयोगाद् भ्रान्तिः । तत्र च शोणितवर्णः इन्द्रगोपकीटाः क्वचिदुपविष्टा आसन् । इन्द्रगोपाः सदैव सङ्कुचिताः वर्तुलाकारेण वर्षासु शाद्वले उपविशन्तीति निसर्गः । तानिन्द्रगोपान् नवशाद्वले राजा एवं मनुते यथा ते हरितस्तनांशुके अस्रबिन्दव एव स्युः अस्रबिन्दुषु रक्तत्वं नयनाभ्यामधःपतनान्तरं ओष्ठे अश्रूणां स्थितिवशात् तत्र चालक्तकरागसम्मेदादुपकल्पितम् । ततश्चास्रबिन्दूनां अधःपातः स्तनांशुक एव । आशु स्खलने च अश्रूणां नायिकायाः भिन्नगतित्वस्य हेतुत्वम् अत एव भिन्नगतेरिति विशेषणपदस्वीकारः । परं च ओष्ठदेशादधःपतन्तो नयनोदबिन्दवः नाभिदेशे संलग्नाः नाभेश्च गभीरत्वात्तत्र बिन्दूनां सविशेषतया स्थितिः अत एव तेषां बिन्दूनां शोषणावधि तत्रस्थत्वात् रक्तबिन्दूनां स्तनांशुकेऽङ्कनं समञ्जसम् । अत एव निमग्ननाभेरिति विशेषणमत्र साभिप्रायम् । भिन्नगतौ च राज्ञि मानजन्यकोपावेशात् रुषेतिपदवाच्यस्य कोपस्य हेतुत्वं साधु । अत एवात्रोभयत्र काव्यलिङ्गमलङ्कारः सपरिकरः।

 अत्र कोपावेशात् नायिकायाः नयनाभ्यां विगलन्तोऽश्रुबिन्दवः गतिभेदवेगादाशु अधःपतन्तः ओष्ठरागेण सम्भिन्नाः ततश्चाधःपतन्तो नाभौ निमग्नाः स्तनांशुके सज्जन्ते इति अतः हरितं स्तनांशुकं रक्तबिन्दुभिरन्तरा कर्बुरितं दरीदृष्टं तच्च सेन्द्रगोपे नवशाद्वले स्तनांशुकभ्रान्तेः जनकमिति तात्पर्यम् । चारुतरं भवेदिदं कल्पनं यदिदं परिकल्प्यमानं स्तनांशुकं केवलं कुचाच्छादनमात्रं (भाषायां 'चोली'ति प्रसिद्धं ) नासीत् , किन्तु आनाभिविलम्बि कविमनसि अभिमतमासीत् । नूनं रुचिरमतीवेदं कालिदासीयं पद्यमित्यत्र सहृदयाः प्रमाणम् । अश्रूणां तादृशाधःपातवर्णनं कविनान्यत्रापि-"स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः । वलीषु तस्याः स्खलिताः प्रपेदिरे क्रमेण नाभिं प्रथमोदबिन्दवः ॥ (कुमार. ५।२४)॥

 एवमेवाश्रुबिन्दूनां रङ्गरञ्जितत्वं कल्पयन्ती पारसीकभाषायां कियच्चमत्कारि कवयित्री झेबुन्निसा बभाणेति सहृदयानां मनः भूयः सभाजयितुं अदो दीयते- अष्टादशे शतके भारतीयपातिशाहस्यौरङ्गजेबस्यात्मजा झेबुन्निसा साहित्यार्णवावगाहमाना रात्रिन्दिवं काव्यव्यापारमेवाजुषत । काव्यकलाविमुखस्तु पातिशाहः स्वदुहितुस्तादृशं व्यापारं अननुमन्वानः ताञ्च ततो निरोद्धुमप्यशक्नुवानः एकदा स्वसभायां पण्डितानाह यत्कथमियं मे तनया काव्यव्यसनं परित्यजेदिति मे महान् व्यग्रत्वहेतुः । तन्निशम्य सभासदैः मौलवीमौलिभूतैः द्रागेवोक्तं यदेकस्मिन्नहनि वयं देवचरणसन्निधौ तस्यै क्लिष्टतमां प्रहेलिकामेकां दास्यामः, यदि सा तामुत्तरयितुं प्रभविष्यति तदा सा स्वव्यसनमनुसरतुतमां, नो चेत्तस्मिन्नेवाहनि काव्यकलाश्लाघाभिसन्धिस्तया विहातव्येत्यभिसन्धिः । प्रस्तावममुं पातिशाहेनोमित्युक्त्वा अनुसर्तुं नियुक्तं तावदेकं दिनं तत्प्रहेलिकाप्रदानाय । प्राप्ते च तस्मिन्नहनि तस्यां विद्वत्संसदि सा कवयित्री पृष्टा-

"दुरे अबलक कसे कमदीद मौजूद ?"

[दुरे (मुक्ताफलानि ) अबलक (श्यामरञ्जेन मिश्रितानि ) कसे (केन ) कमदीद (दृष्टव्यानि ) मौजूद (लभ्यमानानि )] तात्पर्यं तु-अयि ! क्वचित् कर्बुराणि मुक्ताफलानि वीक्षितानि किमु ? प्रहेलिकामिमां निशम्य तदुत्तरमाशु दातुमशक्नुवानायाः इदानीं राजाज्ञया मया काव्यामृतसेवनं विहातव्यं भवेदिति खेदवशात्तस्याः कज्जलाङ्कनरुचिराभ्यां नयनाभ्यां अस्रबिन्दवः पेतुः । एवं जाते द्रागेव तया सहृदयया कवयित्र्या कियत्सुन्दरमभिहितं “बजुज़ अशके वुताने सुर्मा आलूद" ॥ [बजुज़ (विना ), अशके ( अश्रुभिः) बुताने (कामिन्याः) सुर्मा (कज्जलेन ) आलूद (मिश्रैः)] तात्पर्यं तु-कामिन्याः कज्जलमिश्रैरश्रुभिर्विना न क्वचिदपि सन्ति दरीदृश्यमानानि श्यामाकानि मुक्ताफलानीति प्रत्युत्तरम् । सर्वे सदस्याः चकिता बभूवुः पातिशाहोऽपि प्रसादमवाप । इदमेवानवद्यं पारसीकपद्यमनूद्य "हृतौष्ठरागैर्नयनोदबिन्दुभिः” इति कल्पनामञ्जुलं कालिदासीयपद्यसब्रह्मचारिणं निर्माय पद्यं गीर्वाणवाणीजुषां रसचर्वणासौकर्यमुपगन्तुमुपरिष्ठाद् दीयतेऽस्माभिः-

"मौक्तिकानि शबलानि केनचित् वीक्षितानि रुचिरे! क्वचिद्वद ॥
नान्तरेण नयनाञ्जनस्पृशं बाष्पबिन्दुनिवहं भृगीदृशः॥” इति


भवतु । तावदादास्ये । (परिक्रम्य विभाव्य सास्रम्) कथं सेन्द्रगोपं

नवशाद्वलमिदम् । तत्कुतोऽस्मिन् विपिने प्रियाप्रवृत्तिमागमयेयम् । (विलोक्य ) अयमासारोच्छलितशैलतटस्थलीपाषाणमधिरूढः -

आलोकयति पयोदान् प्रबलपुरोवातनर्तितशिखण्डः ।
केकागर्भेण शिखी दूरोन्नमितेन कण्ठेन ॥ १८ ॥


 अत्र सुकुमारताख्यो गुणः । स्तनांशुकम् कञ्चुकी ( Bodice or Say a Jumper here) यदाह कश्चन कविः "प्रायः कञ्चुकिकारं निन्दति शुष्कस्तनी नारी" इति । वंशस्थविलं वृत्तम् ॥ १७ ॥

 भवतु तत् स्तनांशुकमादास्ये । नवशाद्वलं स्तनांशुकं मत्वा तदादानप्रवृत्तत्वाद्राज्ञः अत्र भ्रान्तिमन्लङ्कारः । नैराश्यविधुरस्य राज्ञः ईषत्सन्तोषसूचकमिह भवतुक्रियापदम् | (परिक्रम्य विभाव्य तं सूक्ष्मतया विलोक्य सास्रमाह) कथमिति आश्चर्ये ।

 इदं नवशाद्वलं बालतृणप्रचुरा भूमिः सेन्द्रगोपम् इन्द्रगोपाख्यः कश्चन वर्षासमयोद्भवः कीटविशेषः तेन सहितं लक्ष्यते । तत् कुतः अस्मिन् विपिने वने प्रियायाः प्रवृत्तिं वार्ताम् आगमयेयम् लभेय । असम्भवा प्रियायाः उदन्तप्राप्तिः । यद्राजा स्तनांशुकममन्यत, यत् च ओष्ठरागरञ्जितः अश्रुबिन्दुभिः किर्मीरितं स्तनांशुकं मेने तत्तु रक्तवर्णैरिन्दुगोपकीटैः स्थले स्थले सनाथीकृता बालतृणप्रचुरा हरितभूमिरासीत् । अत्रापि राज्ञः भ्रान्तिः । प्रावृट्कालीनलात् हरिततृणैः आच्छादिता भूमिरासीत् तत्र चन्द्रगोपाः इतस्ततः बहवः आसन् । तत्र भ्रान्तो राजा भूमिं स्तनांशुकमकल्पत, इन्द्रगोपांश्च प्रेयस्या नयनाभ्यां निपततः ओष्ठरागेण मिश्रितान् अश्रुबिन्दून् परिकल्प्य, तत्स्तनांशुकमादातुं प्रवर्तमानः पश्चाच्च सेन्द्रगोपां भूमिं परिज्ञाय कथमिति चकितः प्रियोदन्तलाभोपायं विपिनेऽन्विष्यन्नुदास्ते ॥

 (विलोक्य ) अयं आसारो धारासम्पातः तस्य उच्छलितं यत्र तादृशः शैलतटः तत्रत्या स्थली अकृत्रिमा भूमिः तत्रस्थं पाषाणमधिरूढः शिखी-इति श्लोकेनान्वयः।

 आलोकयतीति-एतादृशः प्रबलः पुरोवर्ती वातः वायुः तेन नर्तितः शिखण्डो बर्हः यस्य तादृशः शिखी मयूरः केका मायूरी वाणी गर्मे मध्ये यस्य तेन दूरोन्नमितेन दूरतः उद्गतेन कण्ठेन पयोदान् मेघान् आलोकयति ।

 भावस्तु-अयं पुरो दृश्यमानः धारासम्पातसमुच्चलितशैलतटे शोभमानायां स्थल्यां पाषाणमधिरूढः प्रबलपवनवेगेनोच्चलितबर्हो मयूरः केकागर्भेण सोत्सुकेन अत एव दूरोन्नमितेन कण्ठेन मेघानालोकयति । मयूरदर्शनम् , शैले धारासम्पातः, केकाश्रवणम् इति सर्वाणि उद्दीपनानि ।

इयमार्याजातिः ॥ १८॥

(उपेत्य) भवतु, यावेदनं पृच्छामि ।

(अनन्तरे खण्डकः)

संपत्तविसूरणओ तुरिअं परवारणओ।
पिअतमदंसणलालसो गअवरु विम्हिअमाणसओ ॥१९॥
[सम्प्राप्तखेदस्त्वरितं परवारणः ।
प्रियतमादर्शनलालसो गजवरो विस्मितमानसः॥१९॥]

(तेना खण्डकान्तरे चर्चरी)

बांहेण पै इअ अब्भत्थिअम्मि आअक्खहि मं ता
 एत्थ अरण्णे भमन्ते जइ तुइ दिट्ठी सा महु कांता ।
णिसम्महि मिअङ्कसरिसेण वअणेण इंसगई
 ए चिण्हे जाणिहिसि आअक्खिउ तुज्झ मई ॥ २० ॥
[बर्हिण परमित्यभ्यर्थये आचक्ष्व मम ताम्
 अत्रारण्ये भ्रमता यदि त्वया दृष्टा सा मम कान्ता ।
निशामय मृगाङ्कसदृशेन वदनेन हंसगतिः
 अनेन चिह्नेन ज्ञास्यस्याख्यातं तव मया ॥ २०॥]


 (उपेत्य ) भवतु शिखिनमुपसृत्य यावदेनं मयूरं पृच्छामि ।

 (अनन्तरे खण्डकाख्यो गीतिविशेषः । तल्लक्षणं तु-"विरहव्यापृता या तु

पठेद्गीतिं कुशीलवी । प्राकृतेन प्रबन्धेन खण्डकः स उदाहृतः" इति)

 संपत्तेति-गजमिषेण स्वावस्था प्रकटीकरोति-सम्प्राप्तखेदः विषण्णचेताः त्वरितं परान् वारयति इति परवारणः परबलदलनः प्रियतमाया दर्शने लालसः समुत्कण्ठितः विस्मितमानसः गजवरः इतस्ततः विचरतीति शेषः । परवारणोऽपि स्वप्रियां रक्षितुमक्षम इति विषादे विस्मये हेतुत्वेन परवारणेति विशेषणप्रदानम् ॥ १९ ॥

 (तेना खण्डकान्तरे चर्चरी। तेना इति मङ्गलसूचकमक्षरद्वन्द्वम् । तेनकलक्षणमाह तत्रभगवान् नाट्याचार्यः, “ॐ तत्सदितिनिर्देशात्त्वमस्यादिवाक्यतः । तदिति ब्रह्म तेनायं ब्रह्मणा मङ्गलात्मकः । लक्षितस्तेन तेना इति" । अन्यत्रापि च-"तेकारः शङ्करः प्रोक्तः नाकारश्च उमा तथा । गीतादौ तेन वक्तव्यं तेना इत्यक्षरद्वयम्"।)

 बंहिण इति-हे बर्हिण मयूर ! यदि अत्र अरण्ये विपिने भ्रमता त्वया सा विलक्षणा मम कान्ता दृष्टा चेत् मम मह्यं तां मे प्रेयसीं आचक्ष्व क्व सेत्यावेदय इति इयदेव त्वां परं केवलं अतीव बहुमानेन वा अभ्यर्थये अहं याचे । निशामय

तदुपमित्यर्थं तस्याः परिज्ञानं शृणु। मृगाङ्कश्चन्द्रः तत्सदृशेन वदनेन आननेन,

(चर्चरिकयोपविश्य अञ्जलिं बद्ध्वा)

नीलकण्ठ ममोत्कण्ठा वनेऽस्मिन् वनिता त्वया ।
दीर्घापाङ्गा सितापाङ्ग दृष्टा दृष्टिक्षमा भवेत् ॥ २१ ॥

(चर्चरिकया विलोक्य ) कथमदत्वैव प्रतिवचनं नर्त्तितुं प्रवृत्तः !

किं नु खलु हर्षकारणमस्य । ( विचिन्त्य ।) आं, ज्ञातम् ।

मृदुपवनविभिन्नो मत्प्रियाया विनाशाद्
 घनरुचिरकलापो निःसपन्नोऽस्य जातः ।


तथा च हंसगतिः उपलक्षिता हंससदृशगतिमती सा अस्तीति परिज्ञानम् । अनेन चिह्नेन त्वं तां ज्ञास्यसि का सेति । अस्ति चेदं मया तत्र तुभ्यम मुक्तम् अतः परं पूर्व प्रमाणम् । इति ।

 चन्द्रवन्मुखेन राजहंसवद्गत्या च सा भवता परिज्ञेया, परिज्ञानं मया प्रोक्तं, तादृशी काचन सुन्दरी वने परिभ्राम्यता त्वया समालोकिता चेद्वद । वदनेनेत्यत्रोपलक्षणे तृतीया ।

 अत्र भग्नप्रक्रमत्वं दोषः-मृगाङ्कसदृशेन वदनेन, हंसगतिरित्यत्र विभक्तिप्रक्रमनाशात् , किन्तु विरहिणो राज्ञः मुखे पातितं सत् उन्मादातिशयं व्यनक्तु नाम “मयूरो बर्हिणो बहीं" इत्यमरः ॥२०॥

 (चर्चरिकया तदाख्यगतिविशेषया किश्चिद्दूरं गत्वा उपविश्य प्राञ्जलिः सन्नाह-) अञ्जलीलक्षणन्तु-"पताकाहस्ततलयोः संश्लेषादजलिर्मतः" ।

 नीलकण्ठेति-हे सितापाङ्ग धवलनयनान्त नीलकण्ठ मयूर ! अस्मिन् वने दीर्घापाङ्गा आकर्नमूलसंचारिनयना दृष्टौ दर्शने क्षमा योग्या दर्शनीयाकृतिर्वनिता काचन युवती त्वया दृष्टा भवेत् इति मम उत्कण्ठा बलवती जिज्ञासा । अत्र संप्रश्ने लिङ् । उत्कण्ठा सा उत्कण्यविषयिणीति केचित् (Abstract for concrete. )

 अत्र वृत्त्यनुप्रासालङ्कारः । अत्र मयूरस्य सितापाङ्गेति विशेषणेन नयनयोः सितत्वात् स्फुटलक्षकत्वात् अवश्यमेव दृष्टा भवेदिति बोध्यम् । नीलकण्ठेति विशेषणेन श्लिष्टपदान्महादेवस्यापि बोध्यत्वात् तत्सदृशोपकारित्वं मयि प्रभुत्वञ्च गम्यते । उत्कण्ठालक्षणन्तु “रागे त्वलब्धविषये वेदना महती तु या । संशोषणी तु गात्राणां तामुत्कण्ठां विदुर्बुधाः" । अनुष्टुब् वृत्तम् ॥ २१ ॥

 (चर्चरिकया विलोक्य ) मयूरनृत्यं दृष्ट्वा आह-कथं मदुक्तस्य प्रतिवचनं प्रत्युत्तरमदत्वैव नर्तितुं प्रवृत्तः । किं नु खलु हर्षस्य कारणमस्य ! नु इति वितर्के ! (विचिन्त्य) आम् विस्मये, ज्ञातः खलु अस्य हर्षहेतुः ।

 मृदुपवनेति -मत् प्रियाया उर्वश्याः विनाशात् अदर्शनात् अस्य मयूरस्य मृदुना मन्देन पवनेन वायुना विभिन्नः विकसितः धनवद् जलदवत् रुचिरः चाः

रतिविगलितबन्धे केशहस्ते सुकेश्या:
सति कुसुमसनाथे किं करोत्येष बर्ही ॥ २२ ।।

 भवतु । परव्यसनसुखितं न पुनरेनं पृच्छामि । (द्विपदिकया दिशोऽवलोक्य) अये! इयमातपान्तसन्धुक्षितमदा जम्बूविटपम-


कलापः पिच्छभारः अथवा घनो निबिडः अत एव रुचिरः कलापः बर्हः निःसपत्नः अद्वितीयो जातः सम्पन्नः । यावत्कालं मम प्रिया इह भुवि दर्शनपथमधिरूढाऽऽसीत् तावत्कालं मयूरस्य मेघसदृशपिच्छभारः तस्याः केशपाशेन ह्रेपितः सन् तावन्न शुशुभे, इदानीं तस्या लुप्तत्वे कलापिनः कलापः अनुपमतां भजन् अद्वितीयत्वं प्राप्तः अयमेव मयूरस्य हर्षहेतुर्मह्यं च प्रत्युत्तरप्रदानं विनैव नृत्योद्बोधकः । किन्तु तस्याः सुकेश्याः रुचिरकेशपाशायाः कुसुमैः सनाथे समुल्लसिते रतौ सुरतव्यापारे विगलितः शिथलता प्राप्तः बन्धः यस्य तादृशे केशहस्ते केशपाशे सति एष वराको बर्ही मयूरः किं करोति ? किमपि कर्तुं न समर्थः केवलं लज्जितः सन् तूष्णीं भवेत् । इदानीं तु मयूरः स्वपिच्छस्य निःसपत्नत्वं जानन् आनन्देन नृत्यति किन्तु सुभगप्रसूनभारोल्लसितः सुरतोत्तरं शिथिलत्वमाप्नुवानः तस्याः केशहस्तो विद्यमानः यावत् समुल्लसतितराम् तदा केवलं ह्रेपितो वराकोऽयं मयूरः किमन्यत्कर्तुं पारयेत् न किमपीति भावः ।

 अत्र मृदुपवनविभिन्न इत्युपमानभूतस्य रतिविगलितबन्ध इति उपमेयकोटिगतेन बिम्बानुबिम्बत्वं दीयते । घनरुचिरेत्यनेन उपमालङ्कारेण द्विरेफालिवत् कृष्णकेशा सा इति व्यज्यते । पिच्छभारस्य विभिन्नत्वे घनसदृशरुचिरत्वे सत्यपि गन्धहीनत्वात् न्यग्भावितत्वं, अतएव उपमेये कुसुमसनाथे इति पदग्रहणम् । अनेन सुगन्धित्वात्केशहस्तस्य चित्ताकर्षकत्वं कलापिनः कलापाद् विशिष्टवं च प्रतिभाति । उपमानात् कलापात् केशपक्षस्य विशिष्टत्वप्रतिपादनाद्व्यतिरेकालङ्कृतिः ।

 अत्र प्रथमचरणे विनाशपदप्रदानात् अनिष्टबोधनात् अश्लीलत्वं दोष इति काव्यप्रकाशकृद्भिरुदाहृतम् किन्तु सहृदयहृदयावेद्यमिदं यत् नायिकाया अत्यन्तादर्शनाद् विनाशसदृशभावानुकूलोक्तिरियं नायकस्य विरहित्वात् आत्यन्तिकोन्मादावस्थामुपस्करोतीति नात्र दोषोपगमः विप्रलम्भोपजीवकत्वात् ।

 अत्र माधुर्यसौकुमार्ये गुणौ।

 "कलापः संहतिर्बर्हे" इति विश्वः । केशपदानुवर्ती हस्तशब्दः पाशबोधकः "पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे" इत्यमरः ।

 मालिनीछन्दसा निबद्धमिदं पद्यम् । तल्लक्षणन्तु यथा, "न न म य य युतेयं मालिनी भोगिलोकैः" इति । अत्र अष्टाभिः सप्तभिश्च यतिः ॥ २२ ॥

 भवतु अस्य नृत्यव्यापृतत्व म् । परेषां व्यसनेन दुःखेन सुखितं सुखिनं पुनस्तं मयूरं नाहं पृच्छामि । तिर्यञ्चि तादृगारोपेण नायकस्य विलक्षणोन्मत्तावस्था गम्यते।

(द्विपदिकया दिशोऽवलोक्य सर्वत्र विलोक्य)

ध्यास्ते परभृता । विहगेषु पण्डितैषा जातिः । यावदेनां पृच्छामि ।

(अनन्तरे खुरकः)

विज्जज्झरकाणणलीणओ दुक्खविणिग्गहवाहुप्पीडओ।
दूरोसारिअहिअआणंदओ अम्बरमाणे भमइ गइन्दओ ॥
[विद्याधरकाननलीनो दुःखविनिर्गतबाष्पोत्पीडः।
दूरोत्सारितहृदयानन्दः अम्बरमानेन भ्रमति गजेन्द्रः॥२३॥]

 हेल्ले हेले !

परहुअ महुरपलाविणि कन्ती णंदणवण सच्छंद भमंती ।
जइं पइं पिअअम सा महु दिट्ठी ता आअक्खहि महु परपुट्ठी ॥२४॥
[परभृते मधुरप्रलापिनि कान्ते । नन्दनवने स्वच्छन्दं भ्रमन्ती ।
यदि परं प्रियतमा सा मम दृष्टा। तर्हि आचक्ष्व मम परपुष्टे ॥२४॥]


 अये इति विस्मये ! इयं पुरो लक्ष्यमाणा आतपान्तेन ग्रीष्मसमयावसानात् सन्धुक्षितः समुद्दीपितः मदः यस्याः सा विशिष्टमदोन्मत्ता परभृता कोकिला जम्बूवृक्षस्य विटपं शाखां अध्यास्ते । इह खलु जम्बूवृक्षे समासीना कोकिला । परैः रङ्गसाम्यात् काकैः भृता पोषिता इति परभृता अन्यपुष्टा कोकिला ।

 विटपमध्यास्ते अत्र “अधिशीङ्स्थासां कर्मेत्यनेन" अधियोगे द्वितीया । विहगेषु खगेषु एषा कोकिलानां जातिः पण्डिता पण्डा नाम धीस्तद्वतीत्यर्थः । चतुरेयं जातिरिति प्रश्ने हेतुः । यावत् अत एव एनां पृच्छामि क्व मे प्रियेति ।

 (अनन्तरे खुरकः नृत्यविशेषः “पटमञ्जरिरागसंयुतं यद्द्रुतमध्येन लयेन यत्प्रयुक्तम् । प्रतितालयुतं च नर्तनं तत्खुरकाख्यं मुनये शिवेन दत्तम्"-मुनये भरतायेत्यर्थः । अथवा केषांचन मते खुरकाख्यो गेयविशेषः” पूर्वपूर्वाक्षरत्यागे योऽन्यो वर्णचयः स चेत् । उत्तरोत्तरसंघादौ खुरकः परिकीर्तितः॥)

 विद्याधरेति-गजव्यपदेशेन स्वावस्थां प्रकाशयति । विद्याधरस्य कानने वने लीनः संचारी, दुःखेन विरहजन्येन विनिर्गतः बाष्पाणामश्रूणामुत्पीडो धारा यस्य सः, दूरेण उत्सारितस्त्यक्तो हृदयानन्दो येन एतादृशः गजेन्द्रः अम्बरमानेन आकाशवद् विशालपरिमाणेन उपलक्षितः सन् भ्रमति विहरति । अयमपि राजाऽतिविशालो प्रियाविरहदूनमानसः कानने इतस्ततः अटन् हतश्रीको भ्रमति । अम्बरमानेन अतिविशाल इत्यर्थः । उपलक्षणे तृतीया ॥ २३ ॥ हेल्ले हेले इति कोकिलां दृष्ट्वा सविस्मयानन्दे ।

 परभृत इति-अयि परभृते कोकिले ! अयि मधुरं प्रलपतीति तादृशि । कान्ते नयनानन्दकारिणि । नन्दनवने अमरनगरीस्थोपवने स्वच्छन्दं स्वेच्छानुसारं भ्रमन्ती सा मम परमत्यन्तं प्रियतमा त्वया दृष्टा चेत् हे परपुष्टे मम आचक्ष्व मह्यं निवेदयेत्यर्थः।  (एतदेव नर्तित्वा वलन्तिकयोपसृत्य जानुभ्यां स्थित्वा) भवति !

त्वां कामिनो मदनदूतिमुदाहरन्ति
 मानावभङ्गनिपुणं त्वममोघमस्त्रम् ।
तामानय प्रियतमां मम वा समीपं
 मां वा नयाशु कलभाषिणि यत्र कान्ता ॥ २५ ॥

 (वामकेन किञ्चिद्वलित्वा । आकाशे) किमाह भवती ? कथं त्वामेवमनुरक्तं विहाय गतेति ! शृणोतु भवती ।


 अत्र परभृते परपुष्टे इति पुनरुक्तिः आदराlfशयं उन्मादावस्थायाः परां काष्ठां वा व्यञ्जयन्ती विप्रलम्भोपस्कारकत्वान्न दोषावहा । परं प्रियतमा इत्यत्र तमप् ग्रहणानन्तरमपि परंपदादानमपि तथैव । अथवा आन्त्यन्तिकप्रणयं बोधयत् भृशतापभृतो विरहस्य हेतुः । परपुष्टे इति पदप्रदानेन परैः पोषिता अत एव परेषां कल्याणकरकर्मसु कृतज्ञत्वात् बद्धपरिकरा त्वमसि अतः ममापि प्रियोदन्तं प्रख्याप्य मे तापहारिणी भवेत्यर्थः ॥ २४ ॥

 एतदेव उपर्युक्तं वलन्तिकया रागविशेषेण नर्तित्वा उपसृत्य किञ्चित् , जानुभ्यां स्थित्वा आह-वलन्तिकालक्षणं तु यथा रत्नाकरे "वलन्तिका तदुपाङ्गं स्याद्रिहीना मन्द्रदेवता । सन्यासांशाग्रहेहायां शृङ्गारे शार्ङ्गिणोदिता ॥" भवति इति सम्बोधनम् अयि कोकिले इत्यर्थः ॥

 त्वामिति-अयि कलभाषिणि मधुरालापिनि पिके ! त्वां कामिनः कामुकाः मदनस्य कामदेवस्य दूतिं दूतीं उदाहरन्ति कथयन्ति । त्वं च मानस्य कामिनीकृतप्रणयरोषस्य अवभङ्गे विदारणे निपुणं चतुरं अमोघं सदैव सफलं अस्त्रमसि । मानिनीनां कामिनीनां प्रणयक्रुधः उन्मूलने परममस्त्रभूतं त्वमसि । अत एव तां विलक्षणां प्रियतमां मम समीपं समानय तस्याः मानभङ्गं विधाय मम सन्निधौ लघु आनय; अथवा यत्र स्थले सा मम कान्ता तत्र मां आशु त्वरितं नय । भावार्थस्तु-त्वां कामुकाः कामदूतीमामनन्ति तव स्वरस्योद्दीपकत्वात् । त्वं च कामिनीनां मानहानौ अमोघमस्त्रमसि । अतः तस्याः मानोद्धरणं विधाय तां इहानय, अथवा मां तत्र नय इति । दूतिपदं ह्रस्वेकारकान्तमपि दृश्यते "दूत्यां दूतिरपि स्मृता इति शब्दभेदप्रकाशे ॥ मानलक्षणं यथा "स्त्रीणामीर्ष्याकृतः कोपः मानोऽन्यासङ्गिनि प्रिये ।" अत्र प्रसादमाधुर्यसमताख्या गुणाः॥ वसन्ततिलका वृत्तम् ॥ २५॥

 वामकेन किञ्चिद् वलित्वा-पार्श्वस्थितवस्तुविलोकनार्थं परिवर्तनरूपः कश्चन संस्थितिविशेषो वामकम् , यदाह "धुतेन शिरसा यत्तु पार्श्वेन वलितेन च । तद्वामकं वै करणं पार्श्वस्थस्यावलोकने ।" इति । (आकाशे-पात्रं विना यदुक्तिस्तदाकाश इति "किं ब्रवीष्येवमित्यादि विनापात्रं ब्रवीति यत्, श्रुत्वेवानुक्तमप्ये

कुपिता तु न कोपकारणं सकृदप्यात्मगतं स्मराम्यहम् ।
प्रभुता रमणेषु योषितां नहि भावस्खलनान्यपेक्षते ॥ २६ ॥

    (ससंभ्रममुपविश्याननन्तरं जानुभ्यां स्थित्वा “कुपिता” इति पठित्वा विलोक्य च ।)

    कथं कथाविच्छेदकारिणी स्वकार्य एव व्यासक्ता !

महदपि परदुःखं शीतलं सम्यगाहुः
 प्रणयमगणयित्वा यन्ममापद्गतस्य ।
अधरमिव मदान्धा पातुमेषा प्रवृत्ता
 फलमभिनवपाकं राजजम्बूद्रुमस्य ॥ २७ ॥


तत् तत्स्यादाकाशभाषितम्" इति दशरूपके ।) किमाह भवती-इति किं ब्रवीषीति आकाशलक्षणोक्तमागतम् । कथं अनुरक्तमपि त्वां विहाय सा गतेति पृच्छसि । भवतु उच्यते शृणोतु भवती-

 कुपितेति-तु वितर्के सा कुपिता मह्यं क्रुद्धा । किन्तु सकृदपि एकवारमपि आत्मगतं मदाश्रितं कोपस्य कारणं न स्मरामि । यावत्कालपर्यन्तं मया विज्ञायते तावत्तु मया तु तस्याः कोपहेतु किमपि कर्म नानुष्ठितम् । किन्तु रमणेषु प्रियतमेषु योषितां स्त्रीणां प्रभुता भावस्खलितानि प्रणयगतान् अपराधान् नापते । यतः स्त्रियः स्वरमणेषु प्रभवन्ति अतः हेतोः प्रणयगतापराध एव न तेषां कोपहेतुः किन्तु केवलं तादृशसन्देहमात्रेणापि तेभ्यः कुप्यन्ति तास्तासां प्रभुत्वात् । अपराधं विनैव सा कुपितेति भावः ।

 अत्र अपराधरूपकारणं विनैव कोपरूपस्य कार्यस्य सद्भावात् विभावनालङ्कारः "विभावना विना हेतुं कार्योत्पत्तिस्तु दृश्यते" इति लक्षणात् । अर्थान्तरन्यासश्च, वियोगिनी वृत्तम् ॥ २६ ॥

 (ससम्भ्रमं सावेगं उपविश्य अनन्तरं जानुभ्यां स्थित्वा कुपितेतिपद्यं पठित्वा इतस्ततो विलोक्याह-)

 कथमिति आश्चर्ये ! कथायाः विच्छेदकारिणी अननुसन्दधती प्रत्युत्तरमदत्वैव स्वकार्ये एव व्यासक्ता व्यापृता तिष्ठतीयं कोकिला!

 महदपीति-महदपि दुःसहमपि परेषां अन्येषां दुःखं शीतलं आत्मनो व्यथाजनकत्वाभावात् शीतलमेव भवतीति यल्लोके आहुस्तव सम्यग् अन्वर्थमेव । तत्र हेतुः-यतः आपद्गतस्य विरह्दुःखदुःखितस्य मम प्रणयं प्रार्थनामगणयित्वा अवमत्य मदान्धा इयं कोकिला राजजम्बूद्रुमस्य अभिनवपाकं नूतनमेव पक्वं फलं सुमधुरं पातुं प्रवृत्ता यथा मदान्धाः कामदर्पखिलीकृतविवेकप्रसरा जनाः अधरं अन्यत् सर्वं अनादृत्य पातुं व्यवस्यन्ति तथैव मम पीडार्द्रनादमनादृत्य अधरमिव मधुरमिदं फलमास्वादितुं प्रवृत्ता; अतः साधु उक्तं लोके यत् परदुःखस्य व्यथाऽ तदेवंगतेऽपि प्रियेव मञ्जुस्वनेति न मे कोपोऽस्याम् । सुखमास्तां भवती । साधयामस्तावत् । (उत्थाय द्विपदिकया परिक्रम्यावलोक्य च ) अये ! दक्षिणेन वनधारां प्रियाचरणनिक्षेपशंसी नूपुरशब्दः । यावदेनमनुगच्छामि । (परिक्रम्य )

पिअअमविरहकिलामिअवअणओ
 अविरलवाहजलाउलणअणओ।
दूसहदुक्खविसुंठुलगमनओ
 पसरिअगुरुतावदिविअङ्गओ।
अहिअं दुम्मिअमाणसअओ दरिअं गओ
 काणणं परिभमइ गइन्दओ ॥ २८॥

[प्रियतमाविरहक्लान्तवदनः
 अविरलबाष्पजलाकुलनयनः
दुःसहदुःखविसंष्ठुलगमनः
 प्रसृतगुरुतापदीप्ताङ्गः
अधिकं दूणमानसो दरीं गतः
 कानने परिभ्रमति गजेन्द्रः ॥ २८ ॥]


जनकत्वात् शीतलत्वमेव । अधरमिवेत्यत्र श्रौती उपमा। प्रथमचरणस्य कृते अन्येषां हेतुत्वात् काव्यलिङ्गम् । मदान्धा इत्यत्र श्लेषः । तथा च प्रथमगतसामान्यस्य चरणत्रयगतविशेषेण समर्थनादर्थान्तरन्यासः । मालिनी वृत्तम् ॥ २७ ॥

 तदेवमिति-तत् एवं गतेऽपि स्थितेऽपि तस्यामन्यपुष्टायां मत्प्रार्थनायाः उत्तरमदत्वैव प्रस्थितायामपि अस्यां मे कोपः न यतः सा मे प्रिया इव मञ्जु मनोहारी स्वनः यस्याः सा तादृशी अस्ति । मम प्रियासदृशी इयमपि कलकण्ठी अतः अपराधिनीमपि एनां क्षमे । भवती सुखमास्ताम् सुखेन वसतु इति । साधयामो गच्छामस्तावत् । नाटकादिषु साध्धातुर्गत्यर्थे ।

 (उत्थाय द्विपदिकया गीत्या परिक्रम्य विलोक्याह) अये दक्षिणेन वनधारां वनस्य धारा पङ्किः तस्याः दक्षिणभागे प्रियायाश्चरणयोर्निक्षेपः न्यासः तं शंसति विज्ञापयति असौ तादृशः प्रियापादन्याससूचकः शब्द श्रूयते इति शेषः । यावदेनं शब्दं अनुगच्छामि । अत्र दक्षिणेन वनधारामिह दक्षिणेनेति एनप्प्रत्ययान्तत्वात् वनधारापदस्य “एनपा द्वितीया" इति सूत्रोक्तदिशा कर्मत्वम् । परिक्रम्य-

 प्रियतमेति-प्रियतमया विरहो वियोगस्तेन क्लान्तं म्लानं वदनम् यस्य सः, अविरलानां सन्ततानां बाष्पाणां अश्रूणां जलेन आकुले पिहिते नयने यस्य तादृशः, दुःसहं असह्यं दुःखं तेन विसंष्ठुलं निम्नोन्नतं स्खलितं गमनं

(इति ककुभेन षडुपभङ्गा)

 ( अनन्तरे द्विपदिकया दिशोऽवलोक्य)

पिअकरिणीविच्छोइअओ गुरुसोआणलदीविअओ।
वाहजलाउललोअणओ करिवरु भमइ समाउलओ ॥ २९ ॥
[प्रियकरिणीवियुक्तो गुरुशोकानलदीप्तः।
बाष्पजलाकुललोचनः करिवरो भ्रमति समाकुलः ॥ २९ ॥]

(सकरुणम्) हा धिक् कष्टम् !

मेघश्यामा दिशो दृष्ट्वा मानसोत्सुकचेतसा ।
कूजितं राजहंसेन नेदं नूपुरशिञ्जितम् ।। ३० ॥

 भवतु । यावदेते मानसोत्सुकाः पतत्रिणः सरसोऽस्मान्नोत्पतन्ति तावदेतेभ्यः प्रियाप्रवृत्तिरवगमयितव्या (वलन्तिकयोऽपसृत्य)


यस्य सः,प्रसृतो यः गुरुरसह्यः तापः पीडा तेन दीप्तं सन्तप्तमङ्गं यस्य सः, अधिकं अत्यन्तं दूनं पीडितं मानसं मनः यस्य तादृशः, दरीं गतः पर्वते संचरन् गजेन्द्रः कानने वने परिभ्रमति । इत्यनेन द्विपव्यपदेशेन स्वावस्थां वर्णयति ॥२८॥  इति उपर्युक्तप्रकारेण ककुभेन रागेण षड्डपभङ्गा षडवच्छेदा षट्चरणा वा गीतिः समाप्ता । ककुभस्तु "मध्यमापञ्चमीधैवत्युद्भवः ककुभो भवेत् । धांशग्रहः पञ्चमान्तो धेवतादिकमूर्च्छनः। प्रसन्नमध्यारोहिभ्यां करुणे यमदैवतः । गेयः शरदि" इति भरताचार्योक्तलक्षणम् । (अनन्तरे द्विपदिकाख्यगीत्या दिशोऽवलोक्याह)-

 उन्मादातिशयात् पुनस्तामेवावस्थां वर्णयति-

 प्रियेति-प्रियकरिण्या प्रियतमया वियुक्तो विरहितः गुरुणा तीव्रेण शोकानलेन दीप्तः संतप्तः बाष्पजलेन आकुले विहतगतिलोचने यस्य सः समाकुलः करिवरो गजेन्द्रो भ्रमति । अत्र शोकस्यानलेन तादात्म्यात् रूपकम् ॥ २९ ॥

 (सकरुणम् सशोकम् ) हा धिक् कष्टम् कष्टम् ।

  मेघश्यामेति - मेधैः श्यामाः कृष्णाः दिशो दृष्ट्वा विलोक्य मानससरोवरे उत्सुकं चेतः यस्य तेन मानससरोवरं जिगमिषुणा राजहंसेन कूजितं इदं श्रूयते, नूपुराणां शिञ्जितम् स्वनं न । नूपुरसदृशस्वनश्रवणेन राज्ञस्ततः प्रवृत्तिपूर्वकं किञ्चित् समाश्वासनमभवत् किन्तु मानसाय लालायितमानसो हंसः कूजितवान् तेन भृशं हतधैर्यो राजा कष्टत्वमाप्तः । इयं तु राजहंसानां प्रकृतिर्यत्ते प्रारब्धासु वर्षासु मानसकासारं प्रति गच्छन्ति । अनुष्टुब् वृत्तम् ॥ ३०॥

 भवतु अस्तु राजहंसविरुतं तन्न तु नूपुररवः । यावता कालेन एते मानससरोवरायोत्सुका उत्कण्ठिता पतत्रिणः राजहंसाख्याः पक्षिणः अस्मादत्रस्थात् सरसः नोत्पतन्ति नोड्डयन्ते तावता कालेन एतेभ्यः विहङ्गमेभ्यः प्रियायाः प्रवृत्तिरुदन्त

 १६ विक्र०

अहो जन्मविहङ्गमराज!
  पश्चात्सरः प्रतिगमिष्यसि मानसं त्वं
   पाथेयमुत्सृज बिसं ग्रहणाय भूयः ।
  मां तावदुद्धर शुचो दयिताप्रवृत्त्या
   स्वार्थात् सतां गुरुतरा प्रणयिक्रियैव ॥ ३१ ॥


जातं अवगमयितव्या ज्ञातव्या । भवतु तत्किन्तु यावदेते स्थानमिदं नापहन्ति तावदेतेभ्यः मत्प्रियायाः वार्ता यदि स्यात् संभवो ज्ञातव्येति भावः ।

 वलन्तिकया तदाख्यरागविशेषेण पूर्वप्रोक्तलक्षणेन उपसृत्य प्रियाप्रवृत्तिजिज्ञासया विहगान् उपसृत्य राजहंसराज आह-अहो जन्मना विहङ्गमाना राजन् ! खगराजेति भावः ।

 पश्चादिति-हे राजहंस ! त्वं यद्यपि मानसोत्कः असि तथापि मानसं तदाख्यं सरः प्रति पश्चात् गमिष्यसि । तत्पूर्वं तु पाथेयं पथि साधु पाथेयं मार्गे भोज्यं बिसं मृणालतन्तून् भूयः पुनर्ग्रहणाय आदानाय उत्सृज त्यज । अयं तु कविसमयो यत्ते मानसोत्काः राजहंसाः बिसं पाथेयमिति गृहीत्वा मानसं प्रति गच्छन्तीति वर्णयन्ति । यत्त्वया पूर्वं भोजनाय मृणालसूत्राणि गृहीतानि तानीह विहाय नवानि ग्रहीतुमर्हसि, अः अत्र त्वं किञ्चिद्विश्रम । सदृशवर्णनं यथा मेघदूते "मानसोत्काः । आकैलासाद्विसकिसलयच्छेदपाथेयवन्तः । सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥” इति । तत्रादौ च किं कर्तव्यमित्याह-अत्रान्तरे मां दयितायाः वल्लभायाः प्रवृत्त्या वार्ता विज्ञापनेन शुचः शोकादपारादुद्धर विमोचय । यतस्त्वया इतस्ततो भ्रममाणेन क्व मे प्रिया, कामवस्थां प्राप्ता इति सर्वं ज्ञातमेव स्यादतः तदीयवार्तानिवेदनेन गुरुतरशोकदूनमानसोऽहं शोकादुद्धरणीय इति भावः । आदौ प्रियाया उदन्तजातं विज्ञाप्य, शोकसागरान्मां तारयित्वा पश्चात्त्वं मानसं प्रति नवीनं बिसं पाथेयरूपेण गृहीत्वा गन्तुमर्हसि इति भावः । एतदर्थं समर्थयितुमर्थान्तरन्यासेनाह-सतां सत्पुरुषाणां प्रणयिनां अर्थिनां याचकानां वा क्रिया सहायता स्वार्थात् स्वलाभापेक्षया गुरुतरा एव । सज्जनानां स्वभावोऽयं यत्तेषां मनसि स्वकार्यापेक्षया परेषां कार्यसम्पादनम् अधिकं गौरवशालि वर्तते । स्वकार्यसंसाधनं गौणं मत्वा सज्जनाः अर्थिनां कार्यसम्पादने प्रथमं प्रवर्तन्ते इति भावः ॥ एतदेवाह "क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसां सतीवेति"।

 पद्यमिदम् राज्ञः परिस्थितिं वर्णयत् सहृदयानां हृदयद्रावकमिति स्वत एव विभावनीयम् । राजा इह वारंवारं पशुपक्षीन् याचते तेन इदमेव दृढतां प्राप्नोति यत् "कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु" । इदं च परं विप्रलम्भोपस्कारकम् । चतुर्थचरणस्य पूर्वोक्तवस्तुनः समर्थकत्वादर्थान्तरन्यासालङ्कारः । "सामान्येन विशेषस्य विशेषेण सामान्यस्य वा यत्समर्थनं तदर्थान्तरन्यासः" इति । प्रसादाख्यो गुणः । अत्र वसन्ततिलका वृत्तम् ॥३१॥  (पथोन्मुखो विलोकयति ) मानसोत्सुकेन मया न लक्षितेत्येवं

वचनमाह-(उपविश्य चर्चरी) । रे रे हंसा किं गोइज्जइ । [रे रे हंस ! किं गोप्यते । ] ( इति नर्तित्वोत्थाय )

यदि हंस गता न ते नतभ्रूः
 सरसो रोधसि दृक्पथं प्रिया मे।
मदखेलपदं कथं नु तस्याः
 सकलं चोरगतं त्वया गृहीतम् ॥ ३२॥


(पथोन्मुखः राजहंसगमनमार्गं प्रति दत्तदृष्टिर्विलोकयति)

 मानसाय उत्सुकेन उत्कण्ठितेन मया न लक्षितं किमपि अर्थात् त्वत्प्रिया नावलोकितेति वचनं आह राजहंसः इति ।

(उपविश्य चर्चरीगीत्या)

 रे रे हंस ! त्वया किमर्थं मद्वल्लभोदन्तं गोप्यते रक्ष्यते अनुद्धाट्यते । कथय कथय ! प्राकृते हंसा इत्याह्वाने प्लुतान्तमेकवचनम् ॥

(इति नर्तित्वोत्थाय)

  यदीति-हे हंस । यदि कुटिले ध्रुवौ भ्रुकुटी यस्याः सा मम प्रिया सरसः रोधसि तीरे ते दृक्पथं दृष्टिपथं न गता चेत्तर्हि कथं नाम त्वया हे चोर ! मदेन कामेन खेलानि लीलाञ्चितानि सुभगानि वा पदानि यस्मिंस्तत् तस्याः गतं गमनम् सकलं यथा स्यात्तथा सम्पूर्णतया गृहीतम् स्यात् ।

 कवीनां सम्प्रदाय एष यत् कामिनीनां गतिर्हंससदृशीति । राजहंससदृशगतिमती सा इति भावः । अत्र नायिकागतं गमनम् । राजहंसश्चोरः । स्तेयं गमनम् । सामान्योऽयं नियमो यत् यस्य समीपे स्तेयं वस्तु दृश्यते स तु सन्देहं विनैव चोरत्वेन निश्चीयते । राजहंसस्य समीपे नायिकाया गमनं दृष्ट्वा चोरितं वस्तु लब्ध्वा राजहंसश्चोर इति अनुमीयते, प्रतिपाद्यते च हे चोर ! मम प्रियायाः दर्शनं विनैव कथं त्वं तस्या गमनं चोरयितुं शक्तो भवेः अतः नूनं त्वया मत्प्रिया दृष्टेति । सरोवरस्य तटे यदि त्वया मम प्रिया न दृष्टा भवेत् कथं सलीलं तस्या गमनम् त्वयि भवेत् न कदापीत्यर्थः, अतः त्वया सा दृष्टा एव स्यादित्यर्थः। अत्र सामान्योपमानभूतस्य राजहंसस्य गमनरूपसाधर्म्यणोपमेयत्वकल्पनाया अभिव्यञ्जनात् प्रतीपालङ्कारो व्यङ्ग्यः । अत्र मत्प्रियागतिसदृशी त्वदीया गतिः इत्यर्थस्य भङ्ग्यन्तरेण वर्णनात् पयार्योक्तालङ्कारः । तत् लक्षणं तु “गम्यस्य वचो भङ्ग्यान्तराश्रयम्" मम प्रियासदृशसलीलगतिमास्वमिति बोधात् । कथं त्वया गृहीतमित्यनेन त्वयाऽवश्यमेव सा दृष्टेति वस्तुनः अर्थादायातत्वादर्थापत्तिरलङ्कारः। यदुक्तम्-“दण्डापूपिकयाऽन्यार्थगमोऽर्थापत्तिरिष्यते।"

 "नतं कुटिलनातयोरिति मेदिनी ॥ "कासारः सरसी सरः" इत्यमरः । कूलं रोधश्च तीरं चेत्यमरः । “क्रीडा खेला च कूर्दनम्" इति कोषः।

(चर्चरी ) गइ अणुसारे मइ लक्खिज्जइ ।
[गत्यनुसारेण मया लक्ष्यते ।]

(चर्चरिकयोपसृत्याञ्जलिं बद्ध्वा)

हंस प्रयच्छ मे कान्तां गतिरस्यास्त्वया हृता ।
विभावितैकदेशेन देयं यदभियुज्यते ॥ ३३ ॥

(पुनश्चर्चरी)

 कंइ पंइ सिक्खिउ ए गइलालस
 सा पंइ दिट्ठी जहणभरालसा ॥ ३४ ॥


रातमित्यत्र "नपुंसके भावे क्तः इतिक्तप्रत्ययः । अत्र च राजहंसस्य चोरत्वकल्पनापूर्वकं तर्जनात् द्युतिर्नामविमर्शसन्ध्यङ्गमुक्तं भवति । तल्लक्षणं यथा दर्पणे" "तर्जनोद्वेजने प्रोक्ता द्युतिरिति” ।

 अत्र शोकपूर्णत्वं पद्यस्य प्रतिपादयितुं परमसुकुमारमधुरः सानुप्रासो बन्धः । औपच्छन्दसकं नाम छन्दः ॥ ३२ ॥

(चर्चरी।)

 गतीति-गत्यनुसारेण मत्प्रणयिनीसदृशगतिमत्त्वं तव दृष्ट्वा मया लक्ष्यते यत्सा त्वया दृष्टेति । रे रे हंसेति पूर्वोक्तचरणस्यानुचरणमिदम् ।

(अनया चर्चरिकया उपसृत्य अञ्जलिं बद्धा आह -)

 हंसेति-हे हंस! मे कान्तां प्रियां प्रयच्छ देहि प्रदर्शय । यतः त्वया अस्या मत्कान्ताया गतिर्गमनं हृता चोरिता । यतः त्वयि तादृशी गतिर्दृश्यते अतः त्वं तां मह्यमर्पय । गतिरूपैकदेशग्रहणेन कथं सर्वा सा प्रदेया इति कोऽयं न्याय इत्यपेक्षायां धर्मशास्त्रसम्मतं वाक्यमाह-विभावितो दृष्टः एकदेशः चोरितद्रव्यैकदेशः यस्मिन् तेन चौरेण यद् वस्तु स्वामिना स्तेने स्तेयत्वेन अभियुज्यते समारोप्यते तत्तेन सर्वं देयमिति न्यायात् । यस्मिन् पुरुषे चोरितद्रव्यस्य एकांशोऽपि लभ्यते स एव पुरुषश्चोरत्वेनाध्यवसीयते इति न्यायात् सर्वं वस्तु पूर्णतया चोरितवस्तुनः स्वामिने चोरेण प्रदेयमिति धर्मशास्त्रनियमः । यदाह भगवान् याज्ञवल्क्यः "निहुतेऽभिहितं नैकमेकदेशविभावितः । दाप्यं सर्वं नृपेणार्थं न ग्राह्यस्त्वनिवेदितः ॥" अत्रासम्बद्धकथाप्रायत्वादसत्प्रलापो नाम वीथ्यङ्गमुक्तं भवति ।

 अत्रोत्तरार्धगतस्य वस्तुनः चोरत्वकल्पने हेतुत्वात् काव्यलिङ्गमलङ्कारः । मप्रियासदृशी तव गतिरिति प्रतीपमलङ्कारो व्यङ्ग्यः । अनुष्टुब् वृत्तम् ॥ ३३ ॥

(पुनश्चर्चरी)

[कस्मात्त्वया शिक्षितमेतद्गतिलालस ।
सा परं दृष्टा जघनभरालसा ॥ ३४ ॥

(पुनश्चर्चरी । 'हंस ! प्रयच्छे' त्यादि पठित्वा द्विपदिकया निरूप्य । विहस्य)

एष स्तेनानुशासी राजेति भयादुत्पतितः । यावदन्यमवकाशमवगाहिष्ये ।

(द्विपदिकया परिक्रम्यावलोक्य ।) अये! प्रियासहायश्चक्रवाकस्तिष्ठति। तावदेनं पृच्छामि ।

(अनन्तरे कुटिलिका)

मम्मररणिअमणोहरए [ मर्मररणितमनोहरे]

(मल्लघटी)

कुसुमिअ तरुवरपल्लविए [ कुसुमिततरुवरपल्लविते । ]


 हे गतो गमने लालसा अभिलाषा यस्य सः तत्सम्बुद्धौ हे गत्युत्सुक ! यदि सा जघनस्थलस्य भरेण भारेण अलसा गुर्वी परं दृष्टा न चेत् कस्मात् त्वया एतद्गमनम् शिक्षितम् । तां विहाय तादृशगतेः शिक्षकाभावात् , त्वयि च तादृशगतियोगात् नूनं तयैव त्वं पाठितः त्वया च सा नूनं दृष्टेति निर्विवादः।

 उत्तरार्धमिदं रे रे हंसा इति गाथायाः । उन्मत्तत्वात् राजा तमेवार्थं पुनःपुनरावर्तयति ॥ ३४ ॥

 [पुनश्चर्चरी हंस प्रयच्छ (४॥३३) इति पद्यं पठित्वा द्विपदिकया निरूप्य विहस्याह-]

 एष इति-चोराणां दण्डयिता राजा भवति । राजहंसश्च चोरः । मां राजानं मत्वा चोरोऽयं पलायितः । एष स्तेनान् चोरान् अनुशास्ति दण्डयति असौ चोराणां दण्डयिता राजा विद्यते इति विज्ञाय भयादुत्पतितः । अत्र गर्हणाख्यं नाट्यलक्षणम् यदुक्तम्-दूषणोद्धोषणाय तु भर्त्सना गर्हणं तु तत् ॥...... हंसस्य स्वभावोऽयं यदुड्डयनं । तत्र कवेः राजभयादिवोत्पतनस्य सम्भावितत्वादुत्प्रेक्षालङ्कारः। यावत् अत एवाहमन्यमवकाशं स्थलं अवगाहिष्ये मार्गयिष्ये ।

 द्विपदिकया परिक्रम्यावलोक्य । अये प्रिया सहायः यस्य तादृशः स्ववल्लभासनाथः चक्रवाकस्तिष्ठति । तावदेनं पृच्छामि ।

 ( अनन्तरे कुटिलिका तदाख्यनाट्यविशेषः । रागेण रहितं यत्तु अर्धमत्तलिकायुतम् । भाषयैष च तन्नाट्यं कुटिलीसंज्ञकं मतम् ॥ अर्धमत्तलिकाया लक्षणं तु 'उपेतापसृतौ पादौ वामश्चेद्रेचितः करः । कट्यामन्यस्तदा त्वर्धमत्तली तरुणे मदे'।) गजान्योक्त्या स्वावस्थामाह-

 मर्मरेति-मर्मरः शुष्काणां पर्णानां ध्वनिस्तथा खगानां रणितं ताभ्यां

मनोहरे कुसुमितैः तरुवरैः पल्लविते समाच्छादिते व्याप्ते वा कानने वने दयितायाः विरहेणोन्मादितः गजेन्द्रः भ्रमति इति ।

(चर्चरी)

दइआविरहुम्माइअओ [दयिताविरहोन्मादितः।]
काणणे भमइ गइंदओ [कानने भ्रमति गजेन्द्रः।] ॥ ३५॥

(द्विलयान्तरे चर्चरी)

गोरोअणाकुंकुमवण्णा चक्क भणइ मइ
महुवासर कीलंती धणिआ ण दिट्ठी तुइ ।।
[गोरोचनाकुङ्कुमवर्णा चक्र भण माम् ।
मधुवासरे क्रीडन्ती धन्या न दृष्टा त्वया ॥ ३६॥]

(चर्चरिकयोपसृत्य जानुभ्यां स्थित्वा)

रथाङ्ग नाम वियुतो रथाङ्गश्रोणिबिम्बया ।
अयं त्वां पृच्छति रथी मनोरथशतैर्वृतः॥ ३७॥


 मल्लघटी नाट्यविशेषः ॥ ३५॥

 'लयस्तु नृत्यगीतवाद्यानां साम्यम् । लयः साम्य'मित्यमरः । लयस्तु त्रिविधः द्रुतो मध्यो विलम्बश्च । तत्र द्वितीयो लयो द्विलयः तदन्तरे तन्मध्ये चर्चरी नाम गीतिः।

 गोरोचनेति-हे चक्र चक्रवाक ! मां भण कथय ! त्वया गोरोचना पीतरङ्गो लेपविशेषः, कुङ्कुमो रक्तः तद्वत् वर्णः यस्याः सा तादृशी पीतरक्तरङ्गा मधुवासरे वसन्तसमये क्रीडन्ती खेलन्ती सा धन्या मम प्रिया न दृष्टा किम् । दृष्टा चेत्कथय क्व सा इति ! ॥ ३६ ॥ “कोकश्चक्रश्चक्रवाक" इत्यमरः ॥

(चर्चरिकयोपसृत्य जानुभ्यां स्थित्वा)

 रथाङ्गेति -नाम इति सम्भावनायाम् ! हे रथाङ्ग चक्रवाक ! रथाङ्गश्चक्रः तद्वत् पृथुलं वर्तुलं श्रोणिबिम्बं नितम्बमण्डलं यस्याः सा तया प्रियतमया वियुतो विरहितः अयं मनोरथानां शतैः अनेकाभिलाषाभिर्वृतो युतः रथी स्यन्दनवान् महारथो राजा त्वां पृच्छति-अतः अवश्यं त्वया झगिति प्रत्युत्तरं देयमिति भावः । रथीतिपदप्रदानेन माहात्म्यं बलवत्त्वं व्यज्यते विचलनाख्यं सन्ध्याङ्गञ्चोच्यते ।

 अत्रापि पूर्ववत् यथा हंसस्य गतिरिव तस्या गतिरभूत् अतो राज्ञा हंसोऽपि पृष्टः । इह हि तस्याः श्रोणिदेशो रथाङ्गसदृश अभूदिति रथाङ्गं पृच्छति साम्यात् भ्रमः । अत्र पृच्छानाम नाट्यलक्षणम् । “अभ्यर्थना परैर्वाक्यैः पृच्छाऽर्थान्वेषणम् मतम्" ॥ रथाङ्गश्रोणिबिम्बया अत्र धर्मलुप्तोपमा । अनुष्टुब् वृत्तम् ॥ ३७ ॥

कथं कः कः इत्याह । मा तावत् न खलु विदितोऽहमस्य ।

सूर्याचन्द्रमसौ यस्य मातामहपितामहौ ।
स्वयं वृतः पतिर्द्वाभ्यां उर्वश्या च भुवा च यः ॥ ३८॥

कथं तूष्णीं स्थितः । भवतु । उपालभे तावदेनम् । (जानुभ्यां
स्थित्वा) तद्युक्तं तावदात्मानुमानेन वर्तितुम् । कुतः-

 चक्रवाकस्य अर्कः अर्कः इति स्वाभाविकं रुतम् तत्र भ्रान्तो राजा कः कः इत्याशङ्क्य मामधिक्षिपतीति जानाति । कथं कः कः कोऽयं पूरुष इति अधिक्षेपवचनं राजानं रथिनं मामाह । अथवा मा तावत्-मा मा तावदित्थं विचारय । नायं अधिक्षिपति यतः अहमस्य न खलु विदितो ज्ञातः। कोऽहमित्यविज्ञाय कः कः इति वचनमनेनोक्तम् । इदमेव मत्वा आत्मनः परिचयं ददाति-

 सूर्येति-पुरा किल स्वच्छन्दतया गिरिजया विहर्तुकामो हरः स्वविहारवने कस्यापि पुरुषस्य प्रवेशमसहमानः यः कोऽपि पुरुषः अत्रागमिष्यति स स्त्रीवं गमिष्यति इति शशाप । कृतयुगादौ च सूर्यस्य भगवतो नप्ता मनोः पुत्रः सुद्युम्नापरनामधेयः इलाख्यो राजा आखेटवशादटन् हरनिषिद्धमुमाख्यं वनं आत्मैकसहायः प्राविवेश स्त्रीत्वं चाभजत । तत्र तामेकाकिनीं रमणीयाकृतिं रमणीं विलोक्य बुधः मनसिजमनोरुजा भृशं पीड्यमानः स्वाश्रममानीय स्वेच्छया विहरन् पुरूरवसं विक्रमापरनामानं पुत्रमुत्पादयामास इति भविष्योत्तरपुराणकथाप्रथानुसन्धानात् चन्द्रवंशिनः विक्रमस्य सूर्यनप्तुः स्त्रीत्वं मातृत्वं च प्राप्तस्य जन्यजनकभावः अतः सूर्यः विक्रमस्य मातामहः, चन्द्रवंशित्वाच्च चन्द्रः पितामह इति पौराणिकीवार्ताऽनुसन्धेया।

 यस्य राज्ञः सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ मातामहश्च पितामहश्च विद्यते । यः च द्वाभ्यां उर्वश्या, भुवा पृथिव्या च स्वयं स्वाभिलाषेण पतिर्वृतः । चक्राय स्वाभिज्ञानं ददन् राजा आह-यस्य मातामहः सूर्यः, पितामहश्चन्द्रः; यं च उर्वशी भूश्च स्वयं पतित्वेन वृतवत्यौ सोऽहं पुरूरवाः राजा अस्मीतिभावः । अत्र पूर्वार्धे यथासख्यमलङ्कारः।

 पूर्वोत्तरार्धयोः कर्तरिकर्मणिप्रयोगयोः दर्शनात्प्रक्रमभङ्गदोषः राज्ञः उन्मत्तत्वात्क्षम्यः । अत्र आत्मनः ख्यापनात् प्रसिद्धिर्नाम नाट्यलक्षणम् ; यदुक्तम्- प्रसिद्धिर्लोकसिद्धार्थैः उत्कृष्टैरर्थसाधनमिति ॥

 अनुष्टुब् वृत्तम् ॥ ३८॥

 कथं तूष्णीं मौनेन स्थितः इति विस्मयः । भवतु । उपालमे चक्रवाकमेनं तावत् अधिक्षिपामि (जानुभ्यां स्थिवा) यतः अयं तु प्रियाया वियोगेन अदर्शनीयां दशामाप्तः अन्येषां च परिस्थितिं न शृणोति अतः उपालम्भपूर्वकं दर्शयिष्यामि । तत् अत एव युक्तं योग्यमेव यत् आत्मनः परिस्थित्या

सरसि नलिनीपत्रेणापि त्वमावृतविग्रहां
 ननु सहचरीं दूरे मत्वा विरौषि समुत्सुकः ।
इति च भवतो जायास्नेहात्पृथक्स्थितिभीरुता
 मयि च विधुरे भावः कोऽयं प्रवृत्तिपराङ्मुखः॥३९॥
(उपविश्य) सर्वथा मदीयानां भाग्यविपर्ययाणामयं प्रभावः ।


अन्येषामपि अवस्थासदृशं स्वानुभवजन्येन अनुमानेन वर्तितुम् उचितमेवेति

भावः। कुतः-

 सरसीति-सरसि सरोवरे नलिनी कमलिनी तस्याः पत्रेण दलेन आवृतविग्रहां समाच्छादितशरीरां स्वसहचरीं प्रियां चक्रवाकीं दूरे दूरस्थां मत्वा समुत्सुकः उत्कण्ठितः सन् विरहित इव विरौषि विलपसि । आत्मनस्त्वेतादृशी दशा यत् स्वप्रियां आसन्नामपि परं विप्रकृष्टां मत्वा विलक्षणामुत्कण्ठां भजमानो दरीदृश्यसे । अनेन विरहिणः वियोगदुःखं कियद्भवतीति अस्य अनभिज्ञो नासीति व्यज्यते । इति च इयतैव प्रसङ्गेन जायास्नेहात् प्रियानुरागात् पृथक् स्थित्या भिन्नदेशाश्रयेण, भिन्नाधिकरणत्वेन वा भवतः ईदृशी भीरुता कातरता । स्वप्रियायामनुरागस्य वैलक्षण्यात् कमलिनीदलेनाच्छन्नामासन्नामपि प्रियां मिथ्यैव दूरवर्तिनीं ज्ञावा इयत् कातर्यं भजसे । मयि च विधुरे परमार्थतोऽपि मदनुरागसान्द्रया प्रियया विरहितेऽपि तव कोऽयं प्रवृत्तौ वार्तावर्णनेऽपि पराङ्मुखः विमुखो भावः अभिप्रायः इच्छा वा । अनर्थकमेव मतेन प्रणयिनीविरहेण स्वयं अनिर्देश्योत्कण्ठायां निमग्नः सन्नपि विरहिणः विरहजन्यदुःखं कीदृशं भवतीति जानन् अपि स्वयं विरही अपि याथार्थ्येन प्रियया वियुक्तं तव बन्धुविरहिणं मां कथं नु वार्तामात्रप्रदानेन समाश्वासयितुं नेच्छसीति नाहं जाने इति उपालम्भपूर्वकं भर्त्सयति ।

 अनेन अत्र भर्त्सनाख्यं नाट्यालङ्करणम् यदाह-"भर्त्सना तु परीवादः" इति । इयञ्च परं विप्रलम्भपोषिका । वृत्तमपि हरिणी नामधेयं स्वरागेण विरहिणः दुःखं सर्वतः प्लुतमिव निःसारयत् विप्रलम्भं भृशमुपस्करोति । तल्लक्षणं यथा- “रसयुगहयैर्न्सौ भ्रौ स्लौ गो यदा हरिणी तदा ॥"यदा नगणसगणौ, भगणरगणौ, सगणलघू गुरुश्च तदा हरिणीनाम छन्दः, अत्र च षड्भिश्चतुर्भिः सप्तभिश्च विरतिः॥

 जायते आत्मरूपेण भर्ता यस्यां सा जाया। “विग्रहः समरे काये” इति कोषः ॥ अत्र माधुर्याख्यो गुणः ॥ ३९ ॥

 (उपविश्य) अस्य पक्षिणः अपि मया सहानुभूतिमदृष्ट्वा खिन्नमानसः आह-सर्वथा मदीयानां भाग्यस्य प्रारब्धस्य विपर्ययाणां प्रातिकूल्यस्यायं प्रभावो माहात्म्यम् । यदा इह पुरुषः दुःखचक्रे परिभ्रमति तदा सर्वतस्तं दुःखानि आवर्तयन्ति । अत्र आत्मन अधिक्षेपादधिक्षेपो नाम नाट्यालङ्कारः ।

यावदन्यमवकाशमवगाहिष्ये। (द्विपदिकया परिक्रम्यमवलोक्य च)
अये!

इदं रुणद्धि मां पद्ममन्तःक्वणितपदपदम् ॥
मया दष्टाधरं तस्याः ससीत्कारमिवाननम् ॥ ४०॥

 इतोगतस्यानुशयो मा भूदित्यस्मिन्नपि कमलसेविनि भ्रमरे प्रणयं करिष्ये ।

(अस्यान्तरे अर्धद्विचतुरस्रकः)


 भवतु तावदन्यमवकाशं स्थानमवगाहिष्ये गमिष्यामि । (द्विपदिकया परिक्रम्य अवलोक्य च ) अये इति विस्मये ।

 इदमिति -परत्र गन्तुमिच्छुः राजा भ्रमररवेण रुद्धः स्वनिरोधकारणमाह । हंसस्य गतिसामान्यात् , पिकस्य रवसामान्यात् , श्रोणीदेशसामान्याच्च रथाङ्गस्य औपम्यं प्रेक्ष्य इतस्ततो निरुद्धो बभूव इहापि प्रेमपारवश्यात् सीत्कारसमेतं तस्या आननमिवसभ्रमरगुञ्जितं कमलं प्रेक्ष्य औपम्येन निरुद्ध इति ।

 इदम् अन्तः अभ्यन्तरे क्वणिता गुञ्जन्तः षट्पदा भ्रमरा यस्मिन् तत् पद्म कमलं मया दष्टमधरं यस्मिन् अत एव सीत्कारेण विधुवने आनन्दविशेषसूचकः सीदिति ध्वनिस्तेन समेतं तस्या आननं वदनम् इव तत्पद्मं मां रुणद्धि परत्र गमनान्निवारयति ।

 भावस्तु-प्रणयी यदा स्वकामिन्यः अधरं भृशं चुम्बति तदा स्नेहसन्दोहसान्द्रायाः तस्या मुखात् यदृच्छयैव सीदिति आल्हाद विशेषजनितो रवो निःसरति । स तु प्रणयिनः परमानन्दहेतुराकर्षकश्च । यथा नायिकायाः ससीत्कारमाननं आकर्षकं भवति तथैव सगुञ्जारवेण भ्रमरेण युतं पद्म अयं मां अन्यत्र गमनोत्सुकमपि गन्तुं निवारयति इत्यर्थः । अत्र यथा भ्रमरे गुञ्जनं तथा आनने सीत्कारम् । आल्हादकत्वं अन्यतः चित्तवृत्तिनिरोधो वा साधर्म्यम् । अतः बिम्बानुप्राणितोपमालङ्कारः । ससीत्कारं प्रणयिनीवदनम् प्रियाय कियदाह्लादकं भवतीति तादृशोपमानोपमेयभूतस्य भ्रमरस्य विरोधवर्णनं चेह कियती कमनीयतामावहतीति सहृदयैः स्वयं विभावनीयम् ॥ अनुष्टुब् वृत्तम् ॥ ४० ॥

 यद्यहमधुनैवान्यत्र गमिष्यामि तदा भ्रमरे मदीयप्रियाप्रवृत्तिप्रदानप्रार्थनामहं नाकरवम् इति पश्चात्तापः मा भूदिति वाञ्छया अस्मा अपि मत्प्रार्थ्यं प्रकाशेय । इत अस्मात्स्थानात् गतस्य अनुशयः पश्चात्तापः मा भूत् इति हेतोः अस्मिन्नपि कमलं सेवते असौ इति कमलसेविनि कमलान्तर्गते भ्रमरे प्रणयं स्वप्रार्थनां करिष्ये । किं त्वयापि मे प्रिया दृष्टा, तस्या वार्ता कामपि जानासि न वेति प्रार्थनां तावदस्मिन्नपि करिष्ये ।

 अस्यान्तरे अर्धद्विचतुरस्रकः अयं तु नन्द्यावर्तान्यनामा कश्चन संस्थानविशेषः अर्धचतुरस्रकः स च पुनः द्विवारं कृतस्तेन अर्धद्विचतुरस्रकता प्राप्तः ।

एक्ककमवड्ढिअगुरुअरपेम्मरसे।
सरे हंसजुआणओ कीलइ कामरसे ॥ ४१ ॥
[एकक्रमवर्धितगुरुतरप्रेमरसे ।
सरसि हंसयुवा क्रीडति कामरसे ॥४१॥]

(चतुरस्रकेणोपेत्याञ्जलिं बद्ध्वा)

मधुकर मदिराक्ष्याः शंस तस्याः प्रवृत्तिं
 वरतनुरथवासौ नैव दृष्टा त्वया मे ।

(विभाव्य)

यदि सुरभिमवाप्स्यस्तन्मुखोच्छ्वासगन्धं
 तव रतिरभविष्यत् पुण्डरीके किमस्मिन् ॥ ४२ ॥


लक्षणं तु "अस्यैव चेच्चरणयोरन्तरं स्यात् षडङ्गुलम् । वितस्तिमात्रमथवा नन्द्यावर्तं तदुच्यते" ॥ भ्रमरे स्वप्रणयस्योपक्रमं विधायान्तरा दृष्टं हंसं वर्णयति, उन्मत्तत्वात् "कथां प्रमत्तः प्रथमं कृतामिव"-न स्मरतीति युज्यते ।

 एकेति-एकेन क्रमेण अर्थाद् विच्छिन्नेन भावेन वर्धितो गुरुतर आत्यन्तिकः प्रेमरसः यस्मिंस्तादृशे कामस्य रसः अभिनिवेशो यत्र तादृशि सरसि हंसयुवा क्रीडति । विलक्षणप्रीतिसन्दोहसन्दानितः कामाभिनिविष्टो हंसयुवा सरोवरसांनिध्ये क्रीडति इति भावः । अनेन सरसः कामोद्दीपकत्वं व्यक्तम् । एतादृशं क्रीडन्तं हंसयुवानं दृष्ट्वा अहं विरहीति दुःखभागिति आत्मनः अवस्थायाः परिज्ञानं विप्रलम्भं भृशं उपकरोति' इति ज्ञेयम् ॥४१॥

 (चतुरस्रकः संस्थानविशेषः "नन्द्यावर्तस्थयोरर्धो भवेदष्टादशाङ्गुलम् । अन्तरे चतुरैः स्थानं चतुरस्रं तदोदितम्" इति लक्षणलक्षितः तेन दृष्टपूर्वं उपेत्य अञ्जलिं बद्ध्वा भ्रमरं आह:-)

 मधुकरेति-हे मधुकर द्विरेफ ! मदिराक्ष्याः मत्तनयनाया तस्याः मम प्रियायाः प्रवृत्तिं उदन्तं शंस कथय-क्व मे प्रिया, कां दशामवाप्तेति सर्वां वार्तां तत्सम्बन्धिनीं माम् निवेदय ।

 (विभाव्य अथवा तं सूक्ष्मं दृष्ट्वा) अथवा किं त्वया पृष्टेन, यतः सा वरं सुन्दरं तनुः शरीरं यस्याः सा शोभनाङ्गी सा मम प्रिया त्वया नैव कदापि दृष्टा भवेत् । कुत इदं विभाव्यत इत्याह-यदि त्वम् तस्याः मुखस्य उच्छ्वासः निश्वासस्तस्य सुरभिगन्धं अवाप्स्यः अलप्स्यथास्तदा किमस्मिन् पुण्डरीके तव रतिः प्रेम अभविष्यन्न कदापि । सरलार्थस्तु-हे भ्रमर! मत्प्रियायाः वार्तामखिलां कथय । अथवा यतस्त्वमस्मिन् सिताम्भोजे प्रीतिं करोषि तेन विभाव्यते यत्सा मम प्रिया त्वया न दृष्टा यतो यदि सा दृष्टाभविष्यत्तदा तस्या अलौकिकसौरभ्यं निश्वासगन्धं परित्यज्य इहास्मिन् कमले कथं तव प्रीतिरभविष्यन्न कदापीत्यर्थः।  अत्र मधुकरेति सम्बोधनम् मधु करोतीति तच्छीलः कृञो हेतुरित्यनेन रप्रत्ययान्तम् विलक्षणसौन्दर्यसंयुतम् । अनेन कमलगतमधु अधिकं प्रेय उत प्रियामुखकमलमधु इति विवेचनशक्तिशीलत्वमस्य व्यञ्जनाय द्विरेफपुष्पलिड्भृङ्गेति पदानामवज्ञा । तेन तस्य भृशं भर्त्सनं भवति यत्त्वं मधुकरः सन् क्वचित् तस्या मुखनिश्वासगन्धं सेवित्वा कथं कमले रतिः करोषीति । अथवा मधुकरः सन् त्वं तन्मुखगन्धं विहाय अत्र रतिं विदधास्यनेन विज्ञाप्यते यत् न दृष्टा सा इति विशेषार्थः।

 मदिराक्षीति विशेषणप्रदानेन नतभ्रुवस्तस्याः चञ्चलतारकत्वं घूर्णितत्वं व्यजयन् मदिरासौरभ्यवत्तदीयमुखमस्तीति गम्यते । मदिराक्ष्याः लक्षणम्-"आघूर्ण्यमानमध्या या क्षामा चाञ्चिततारिका । दृष्टिर्विकसितापाङ्गमदिरा तरुणे मदे" इति भरतः । पुनरपि वरतनुरिति विशेषणेन वरितुं योग्या तनुर्यस्याः सा अनेन अवश्यं सेव्या सा इति वस्तु बोधयन् तदाश्रयस्त्वया परित्यक्तः इति विवेकश्रान्तं कृतमिति व्यङ्ग्यम् । यतः 'हेमन्ते ये न सेवन्ते तेषां जन्म निरर्थक’मिति सहृदयानां कान्तानुभवः।

 तस्या उच्छ्वासस्य सुरभित्ववर्णनान्नायिकायाः उत्तमत्वं पद्मिनीत्वं च गम्यते । अत्र च प्रीतिपदं विहाय रतिपदग्रहणेन रमणमिति ध्वन्यते ।

 पुनश्च पुण्डरीकपदप्रदानेन कमलस्य नितान्तं हेयत्वं प्रतिपाद्यते । मडि भूषायां पुडि चेति (भ्वा. प. से.) धातोः कर्करीकादयश्च ( उ. ४।२०।) इति सूत्रेण अरीकन्प्रत्ययान्तस्य पुण्डरीकपदस्य सिताम्भोजवाचकत्वात् परमसुन्दररक्तरङ्गहीनत्वात् रक्ताभावे कथं रतिर्योग्येति अर्थो बोध्यः । सितस्य चाम्बुजस्य कथं प्रीतिकारकत्वं न कथमपीति ज्ञेयम् , पुण्डरीकस्य सितत्वात् , सितस्य रङ्गहीनस्य नयनानन्दकाभावात् एतादृशि अपि अरोचके वस्तुनि तस्याः परमगन्धवन्तं मुखनिश्वासं समाघ्राय कथं प्रीतिर्भाविनी न कदापि किन्तु त्वं तु अत्रैव रमसे अनेन परिज्ञायते यत्सा त्वया न दृष्टेति भावः ।

 इत्थमत्र प्रतिपदं चमत्कारो दृश्यते । अत्र मधुकरस्य भर्त्सना परीवादो नाम नाट्यालङ्करणम्।

 अत्र च पुण्डरीकस्य सामान्योपमानस्यापेक्षया उपमेयभूतस्य तदाननस्य वैशिष्ट्यप्रतिपादनात् व्यतिरेकालङ्कारो व्यङ्ग्यः । अत्र मधुकरमदिराक्षीपुण्डरीकादिशब्दानां साकूतत्वात् साभिप्रायत्वाद्वा परिकरालङ्कारः “विशेषणैर्यत्साकूतैरुक्तिः परिकरः स्मृतः" पुनश्च यतस्त्वमत्र पुण्डरीके रज्यसि अतस्त्वया सा न दृष्टा इति द्वयोः वस्तुनोः साध्यसाधकत्वानुमानालङ्कृतिः । पूर्वार्धोत्तरार्धयोर्हेतुत्वात् काव्यलिङ्गम् । तस्या आननस्यालौकिकत्वप्रतिपादनानुदात्तालङ्कारश्च । “उदात्तं वस्तुनः सम्पत् महतां चोपलक्षणमिति" । तव रतिः किमभविष्यत् न कदापीति काकुः । प्रथमपादे उक्तस्य अथवेत्यनेन निषेधादाक्षेपालङ्कारश्चमत्कारी।  ( इति द्विपदिकया परिक्रम्यावलोक्य च ) अये ! करेणुसहायः नागाधिराजो नीपस्कन्धविषण्णस्तिष्ठति । यावदेनं गच्छामि ।

(कुलिका)-

 करिणीविरहसंताविअओ [ करिणीविरहसन्तप्तः।]

(मन्दघटी)-

काणणे गंधुद्धअमहुअरु [ कानने गन्धोद्धतमधुकरः॥४३॥]
 (अतोऽन्तरे विलोक्य ) अथवा नायमुपसर्पणकालः ।

अयमचिरोद्गतपल्लवमुपनीतं प्रियतमाग्रहस्तेन ।
अभिलेढु तावदासवसुरभिरसं शल्लकीभङ्गम् ॥ ४४ ॥


 अत्र च यदि त्वं अवाप्स्यस्तदा अभविष्यत् किमिति हेतुहेतुमद्भावे असंभाविनि अर्थे लङ् । अत्र औदार्यं नाम गुणः ।

 अत्र च मधुरताव्यञ्जकं मालिनी नाम छन्दः । ननमयययुतेयं मालिनी भोगिलोकैरिति लक्षणात् ॥ ४२ ॥

 (इति द्विपदिकया परिक्रम्य अवलोक्य च) अये इति विस्मये ! करिणीसहायः स्वप्रियतमासमेतः नागाधिराजो गजेन्द्रः नीपस्य धूलिकदम्बाख्यवृक्षविशेषस्य स्कन्धे निषण्णः समासीनः तिष्ठति विद्यते । यावदेनं गच्छामि। कुलिका गीतिविशेषः । मन्दघटी अपि तथा।

 करिण्या गजस्त्रिया विरहेण सन्तापितः गन्धेन गर्वेण उद्धृतः लिप्तः तथा मधु गृह्णन् गजो भ्रमतीति शेषः।

 "गन्धः सम्बन्धलेशयोः, गन्धकामोदगर्वेषु" इति हैमः ॥ ४३ ॥

 अत्र गजान्यपदेशेन स्वावस्थावर्णनपटुः अर्धोक्त एव अथवेत्यनेनार्थान्तरं उपस्थापयति अवसरमनुचितं वीक्ष्य अतः अन्तरे मध्ये विलोक्य (अथवा नाहं गमिष्यामि अयमुपसर्पणस्य तन्निकटगमनस्य कालः समयो न, तत्र गमनं नोचितमिति भावः।)

 अयमिति-अयं गजः प्रियतमायाः अग्रहस्तेन उपनीतमानीतम् अचिरेणोद्गतं नवोत्पलं पल्लवं यस्य तत् , आसवो मदिरा तद्वत् सुरभिः सुगन्धी रसः यस्य तादृशं शल्लकाख्यगजप्रियतरुविशेषम् तस्य भङ्गम् नवीनोद्भेदं अभिलेढु आस्वादयतु । प्रियतमया शल्लतकीतरोः नवोद्भेदमानीतम् तम् च स्वच्छन्दतया आस्वादने तत्र गत्वा अहं विच्छेदं कर्तुं नेच्छामि अन्यत्र गमिष्ये इति भावः । अत्र लिह् धातोर्लेटिप्रयोगः । “भंगस्तरङ्ग उद्भेदे" इति लोचनः । इयमार्या ॥४४॥  (स्थानकेनावलोक्य) अये! कृताहारकः संवृत्तः । भवतु । समीपमस्य गत्वा पृच्छामि । ( अनन्तरे चर्चरी)

हंइं पैं पुच्छिमि आअक्खहि गअवरु
 ललिअपहारे णासिअतरुवरु ।
दूरविणिज्जिअससहरकन्ती
  दिट्ठी पिअ पैं संमुहजन्ती ॥ ४५ ॥

[अहं त्वां पृच्छामि आचक्ष्व गजवर
 ललितप्रहारेण नाशिततरुवर ।
दूरविनिर्जितशशधरकान्ति-
 र्दृष्टा प्रिया त्वया संमुखं यान्ती ॥ ४५ ॥]

(पदद्वयं पुरत उपसृत्य)


 स्थानकं कश्चन आलापविशेषः "स्थानकं तद्वदेव स्यात् पृथग्भूतविदारिकम्" इति नाट्याचार्याः । तेन आलापेन विलोक्य अये इति आश्चर्ये । अयं गजेन्द्रः कृताहारकः कृतभोजनः संवृत्तः । अनेन स्वकीयमाह्निकं निर्वृत्तम् भोजनादिकं कृतम् । भवतु अस्य समीपं गत्वा पृच्छामि । (अनन्तरे चर्चरीरागेण प्रियायाः वृत्तान्तं पृच्छति ।)

 अहमिति-हे गजवर ! अहं त्वां पृच्छामि आचक्ष्व कथय ! ललितेन मृदुना प्रहारेण नाशितः तरुवरः येन सः तत्सम्बुद्धो हे गजवर ! त्वया दूरेण दूरं अत्यन्तं वा विनिर्जिता तिरस्कृता अपहसिता वा शशधरस्य चन्द्रमसः कान्तिर्यया तादृशी मम प्रिया तव संमुखं यान्ती गच्छन्ती दृष्टा किम् ? हे गजेन्द्र ! स्वस्याह्लादकत्वनिष्कलङ्कत्वादिगुणैरत्यन्तं पराजितपार्वणशर्वरीश्वरा मम प्रिया किं त्वया दृष्टा इति प्रश्नः ।

 अत्र शशधरपदेन शशं कलङ्कं धारयतीति शशधर इति व्युत्पत्त्या सकलङ्कत्वं तस्य द्योतनाय पदस्यास्य ग्रहणम् । पुनश्च चन्द्रमसि कलङ्कदर्शनम् तस्मिन् पूर्णे सति भवति अतः शशधरपदेन चन्द्रमसः पार्वणत्वं गम्यते ।

 अत्र चन्द्रमसः उपमानभूतस्य न्यग्भावात् तदाननस्य च वैशिष्ट्यप्रतिपादनात् व्यतिरेकालङ्कारः । अत्र च प्रथमद्वितीयचरणान्तौ तृतीयचरमचरणान्तौ सदृशौ यथा वरु-वरु; कन्ती-जन्ती इत्यतः अन्त्यानुप्रासालङ्कारश्च-यदुक्तं दर्पणे, "व्यञ्जनं चेद्यथावस्थं सहाद्येन स्वरेण तु । आवर्त्ततेऽन्त्ययोज्यत्वादन्त्यानुप्रास एव तत्"॥ ४५ ॥

(पदद्वयं पुरतः उपसृत्य चलित्वा)

१७ विक्र०

मदकलयुवतिशशिकला गजयूथप यूथिकाशबलकेशी ।
स्थिरयौवना स्थिता ते दूरालोके सुखालोका ॥ ४६॥

 (सहर्षमाकर्ण्य ) अहह अनेन प्रियोपलब्धिशंसिना मन्द्रकण्ठगर्जितेन समाश्वसितोऽस्मि । साधर्म्याद्भूयसी मे त्वयि प्रीतिः ।

मामाहुः पृथिवीभृतामधिपतिं नागाधिराजो भवान्
अब्युच्छिन्नपृथुप्रवृत्ति भवतो दानं ममाप्यर्थिषु ।

 मदकलेति-हे गजयूथप यूथनाथ ! मदेन कलः मधुरः अस्पष्टः शब्दः यासां तादृशीषु युवतिषु शशिकला चन्द्रमसः कलाभूता, यूथिकापुष्पैः शबलाः कर्बुरिताः केशाः यस्याः सा, स्थिरं अविनाशि यौवनं यस्याः तादृशी सुखः आलोको यस्याः सा प्रियदर्शना मम प्रिया ते दूरालोके दूरत अपि आलोके दर्शनपथि स्थिता किम् । पूर्वस्मिन् पद्ये सामान्यदर्शनस्थितत्वं तस्याः पृच्छन्नुत्तरस्याकांक्षामप्रदर्श्यैव निकटे न दृष्टा चेत् दूरतोऽपि दृष्टा किमिति ससंभ्रमं झठिति पृच्छति ।  भावस्तु-मधुरालापं कुर्वन्तीषु अन्यासु तारकास्थानीयासु युवतिषु शशिकलास्थानीया यूथिकाख्यकुसुमैश्चित्रितकेशपाशा प्रियदर्शना मम प्रिया किन्त्वया दूरतोऽपि दृष्टा ? शशिकलेति प्रदानेन तस्याः तन्वीत्वं निष्कलङ्कत्वादधिकमाह्लादकत्वं च ध्वन्यते । तस्याः देवयोनित्वात् स्थिरयौवनेति विशेषणं समीचीनं विज्ञापकञ्च ।

 कलः मधुरः अस्पष्टो मृदुर्वा शब्दः “कलस्तु मधुराव्यक्तशब्दे" इति लोचनः । शबलं कर्बुरितम् चित्रितं वा "चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे" इत्यमरः।

 अत्र अनुप्रासालङ्कारस्तु स्फुटमेवावगम्यते । पुनश्चात्र शुद्धपरम्परितरूपकमलङ्कारः । यदा अन्याः युवतयः तारात्वं भजेयुस्तदा उर्वशी शशिकलात्वं लमेत इति रूपकस्य परम्परागतत्वादयमलङ्कारः-यदुक्तं काव्यप्रकाशे, "नियतारोपणोपायः स्यादारोपः परस्य यः । तत्परम्परितं श्लिष्टे वाचके भेदभाजि वा।" इयमार्याजातिः ॥ ४६ ॥

 (सहर्षमाकर्ण्य श्रुत्वा) अहह ! इति हर्षे । अनेन प्रियायाः उपलब्धिः प्राप्तिः तच्छंसिना दर्शकेन मन्द्रेण गंभीरेण कण्ठगर्जितेन अहं समाश्वसितः अस्मि । राज्ञः वचोऽनु गजेन गर्जितं तन्निशम्य हर्षप्लुतो राजा प्रियाया वृत्तम् अनेन विज्ञापयितव्यमिति ज्ञात्वा समाश्वसितः तस्थौ । साधर्म्यात् तव च मम च प्रायो बहुषु अंशेषु सादृश्यात्त्वयि मे भूयसी महती प्रीतिः । “मन्द्रस्तु गम्भीरे" इत्यमरः।

 मामाहुः इति-सादृश्यं दर्शयति-मां पृथिवीभृतां राज्ञामधिपतिं अधिराजं आहुः । भवानपि नागानामधिराजः । अहं राजाधिराजः भवान् नागाधिराज इत्युभयत्र साम्यम् । भवतः दानं दानवारि मदवारि वा अव्युच्छिन्ना अप्रविहता

स्त्रीरत्नेषु ममोर्वशी प्रियतमा यूथे तवेयं वशा
 सर्वं मामनु ते प्रियाविरहजां त्वं तु व्यथां मानुभूः ॥ ४७ ॥

 सुखमास्तां भवान् । (द्विपदिकया परिक्रम्यावलोक्य च) अये ! अयमसौ सुरभिकन्दरो नाम विशेषरमणीयः सानुमान् । प्रियश्चायमप्सरसाम् । अपि नाम सुतनुरस्योपत्यकायामुपलभ्येत ।


सन्तता वा पृथ्वी भूयसी प्रवृत्तिरुद्गमो यस्य तादृशमस्ति । सन्ततप्रवाहि तव दानम् । तथैव ममापि अर्थिषु याचकेषु दानं वितरणं त्यागो वा अव्युच्छिन्ना सन्तता पृथ्वी बहुला प्रवृत्तिः प्रसारो यस्य तत् अस्ति । त्वया दानं मदवारि अर्थिभ्यः भृङ्गेभ्यः सन्ततं दीयते । मयाऽपि भूरिदानं याचकेभ्यः दीयते । स्त्रीरत्नेषु प्रमदाललामभूतेषु उर्वशी मम प्रियतमा । तव च इयं वशा करिणी यूथे प्रियतमा । प्रमदासु मम उर्वशी प्रिया इयं च करिणी यूथे ते प्रिया । अत्रापि तव च मम च सादृश्यम् । माम् अनु मत्सदृशं ते तव सर्वं अस्ति । तव मम च सर्वतः साम्यम् । किन्तु त्वं प्रियायाः विरहेण जन्यां व्यथा पीडाम् अहमिव मा अनुभूः ज्ञासीः ।

 भावस्तु-यथा त्वं नागाधिराजः तथा अहमपि राजाधिराजः । यथा भृङ्गेभ्यः त्वया अविच्छन्नं दानम् (मदवारि ) दीयते तथैव याचकेभ्यः मया अविरतं दानं (वितरणम् ) क्रियते । यथा तव यूथे इयं करिणी प्रियतमा तथैव ललनासु उर्वशी मम प्रियतमा । इत्येवं सर्वं त्वयि मयि च समानम् । किन्तु त्वं प्रियासनाथः अहं प्रियावियुक्त इदमेव न्यूनत्वमिति हा हा ! इति तात्पर्यम् ।

 अत्रोपमेयस्य राज्ञः प्रियासान्निध्याभावरूपापकर्षप्रदर्शनान्न्यूनत्वपर्यवसायी व्यतिरेकालङ्कारः-यदुक्तं कुवलयानन्दे “व्यतिरेको विशेषश्चेदुपमानोपमेययोरिति । "प्रवृत्तेः प्रवाहप्रसृतिवाचकत्वेन व्यर्थित्वात् श्लेषालङ्कारश्च । स्त्रीषु श्रेष्ठा स्त्रीरत्नम् "जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते” इति । “दानं गजमदे त्यागे" इति अमरः । वशा करिणी “वशा योषासुतावन्ध्यास्त्रीगुर्वीकरिणीष्वपि" इति विश्वलोचनः । प्रवृत्तिः प्रवाहः, प्रसारश्च "प्रवाहे वृत्तवृत्तान्ते प्रसारोदन्तयोरपि । प्रवर्तने च वार्तायां प्रवृत्तिः समुदीरिता" इति वचनात् । अधिराज इति राजाहःसखिभ्यष्टजित्यनेन टच्प्रत्ययः ।

 शार्दूलविक्रीडितं वृत्तम् । अत्र च प्रथमचरणे आदौ स्वस्य अवस्था पश्चात् गजस्योक्ता तथैव च तृतीयेऽपि किन्तु तादृशस्य प्रक्रमस्य द्वितीयचरणे विरुद्धत्वात् भग्नप्रक्रमतादोषप्रसङ्गः ॥४७॥

 सुखं प्रसनतया भवान् आस्तां तिष्ठतु । (द्विपदिकया परिक्रम्य विलोक्य च) अये ! विस्मये । अयं पुरो दृश्यमानः असौ सुरभयः कन्दराः दर्यः यस्य तादृशः सुरभिकन्दरभिधानः विशेषेण रन्तुं योग्यः रमणीयो मनोहरो, सानुशिखरं अस्यास्तीति सानुमान पर्वतः दृश्यते । अयं च गिरिः अप्सरसां प्रियः।  (परिक्रम्यावलोक्य च ) कथमन्धकारः । भवतु विद्युत्प्रकाशेनावलोकयामि । कथं मदीयैर्दुरितपरिणामैः मेघोदयोऽपि शतहदाशून्यः संवृत्तः । तथापि शिलोच्चयमेनमपृष्ट्वा न निवर्तिष्ये ।

(अनन्तरे खण्डिकः)

पसरिअखरखुरदारिअमेइणि वणगहणे अविचलु ।
परिसप्पइ पेच्छह लीणो णिअकज्जुज्जुअ कोलु ।
[प्रसृतखरखुरदारितमेदिनिर्वनगहनेऽविचलः ।
परिसर्पति पश्यत लीनो निजकार्योद्युक्तः कोलः ॥४८॥]


अपि नामेति सम्भावनायाम् । सुसम्भवमिदं यत् सुतनुः मम प्रिया अस्य पर्वतस्य उपत्यकायामासन्नायां भूमौ उपलभ्येत प्राप्येत । अत्र प्राप्तिर्नाम नाट्यलक्षणम् । "उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका" इत्यमरः; "उपाधिभ्यां त्यकन्नासन्नारूढयो"रित्यनेन आसन्नार्थे उपोपसर्गात्त्यकन्प्रत्ययः ।

 (परिक्रम्यावलोक्य च ) कथमन्धकारस्तिमिरम् ? भवतु विद्युतः सौदामिन्याः प्रकाशेन अवलोकयामि । “तडित् सौदामिनी विद्युत्" इति कोषः । कथं मदीयैः दुरितानां पापानां परिणामैः फलैः मेघोदयोऽपि शतह्रदया विद्युता शून्यः संवृत्तः । शतं ह्रदा अर्चींषि यस्याम् इति शतह्रदा अच्प्रत्ययः । “शतह्रदा स्त्रियां वज्रे सौदामिन्यां च कीर्तितेति" । विद्युता हीनोऽयं मेघोदय इति स्वप्रारब्धं दूषयति । यद्यपि अन्धकारघनमिदं स्थलम्, विद्युतामपि प्रकाशेन हीनो मेघोदयस्तथापि शिलोच्चयं पर्वतमेनमपृष्ट्वा मत्प्रियोदन्तं अननुयुज्य न निवर्तिष्ये। अत्र उन्मत्तावस्थागतो हठः प्रतिपाद्यते ।

 अनन्तरे खण्डिका गीतिविशेषः “पर्यायेण शनैस्तिर्यङ् नतमुक्तं धुतं शिरः श्रीरागकुम्भतालेन निबद्धा खण्डिका मता" ॥ कुम्भतालश्च 'कामबाणद्रुता यत्र अर्धचन्द्रस्ततः परम् । दविरामो लघुश्चैकः बिन्दुश्वार्धद्रुतो भवेत्' इति ॥ दविरामस्तु-“दविरामो लघुद्वन्द्वद्रुतो लघुविरामवान्" ॥

 अथ वराहमिषेणान्योक्त्या आह-

 प्रसृतेति-अविचलः धीरः निजे कार्ये कन्दमूलान्वेषणरूपे उद्युक्तः सन्नद्धः वनगहने लीनः प्रसृतैः दीर्घैः खरैस्तीक्ष्णैः खुरैः दारिता उत्खाता मेदिनी भूः येन तादृशः कोलो वराहः परिसर्पति इतस्ततः भ्रमतीति पश्यत! राज्ञः पक्षे तु धीरः क्रीडार्थं वनगहने लीनः प्रियतमया वियुक्तः तदन्वेषणरूपकार्ये निजे उद्युक्तः कृतयत्नः विरहेण सन्तप्तः हस्तपादेन पृथ्व्यामास्फालनं कुर्वन् इतस्ततः परिभ्रमतीति पश्यत।

 इह वराहमिषेण स्वावस्थायाः वर्णनात् अन्योक्तिः । वराहस्य क्षुधितस्येहः स्वभाववर्णनात् स्वभावोक्तिरलङ्कारः । अत्र पूर्वं प्रवृत्तां शिलोच्चयवर्णनां विहाय कोलवर्णनं उन्मत्तस्वजन्यं विप्रलम्भोपस्कारकं भवति ॥४८॥

अपि वनान्तरमल्पभुजान्तरा
 श्रयति पर्वतं पर्वसु सन्नता ।
इयमनङ्गपरिग्रहमङ्गला
 पृथुनितम्ब नितम्बवती तव ।। ४९ ॥


 अपीति-अपिः प्रश्ने । हे पृथुः उच्चैः नितम्बः शिखरं यस्य सः तत्सम्बुद्धौ बृहत्सानो पर्वत! इयं मम प्रिया तव वनान्तरं श्रयति शिखरस्थवनगहने निवसति किम् ? कीदृशी सा इत्यभिज्ञानाय तां विशिनष्टि-अल्पं सूक्ष्मं भुजयोर्बाह्वोः अन्तरं यस्याः सा पीवरकुचेत्यर्थः । अनेन पीवरस्तनीत्वं तस्याः व्यज्यते। पर्वसु अस्थिग्रन्थिषु संनता नम्रा आनता वा मांसलत्वादानम्रैति भावः । अनङ्गस्य कामस्य परिग्रहेण स्वावासस्थानत्वेन स्वीकारवशात् मङ्गला सुतरां शोभना तथा नितम्बवती पृथुलकटी तादृशी मम प्रिया इह वसति किमिति प्रश्नः ।

 भावार्थस्तु-पीनस्तनीत्वात् अल्पक्रोडा मांसलसन्धिदेशा कामदेवस्यावासभूता अहीननितम्बा मम प्रिया हे बृहत्कटकगिरे ! तवाऽस्मिन् वनान्तरे निवसति किम् इति प्रश्नः।

 वनस्य अन्तरम् मध्यभागस्तस्मिन् ; अत्र श्रयतेर्योगे द्वितीया । भुजान्तरमित्यत्र भुजयोरन्तरमवकाशः । “अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये" इत्यमरः। परिग्रहस्तु स्वीकारः “परिग्रहः कलत्रे च मूलस्वीकारयोरपि" इत्यजयः।

 नितम्बः गिरिशिखरे, नायिकायाः कटिपश्चाद्भागे श्रोणिदेशे वा । यदाह विश्वः "कटीरके नितम्बः स्यात् शिखरे स्कन्धरोधसोरिति”।

 अत्र वृत्त्यनुप्रासस्तु बहुलः । यथा प्रथमचरणेऽन्तरमन्तरा । अनङ्गमङ्गला इत्यत्रापि । पर्वत-पर्वसु, नितम्बनितम्बवती इत्यत्र समानानुपूर्व्या आवर्तनात् पृथगर्थत्वाच्च यमकमलङ्कारः । तल्लक्षणं यथा, 'सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः । क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यवे"। अत्र इयमिति पदस्य पुरोदृश्यमानसमर्थः । राजा स्वप्रियैकतानस्मृत्या अदृश्यमानामपि तां सर्वत्र पश्यन्निव निकटवर्तिनीमेव मनुते (cf: Thy absence makes thy presence all pervading and I am baffled) अथवा इयमितिपदेन सर्वत्र मया सान्वेषिता किन्तु न लब्धा, सुरभिकन्दरोऽयं सानुमान् अप्सरसां प्रियः अतः अत्र सा अवश्यमेव भवेदिति अर्थप्रकाशनाय इयमिति पदम् । अतः अत्र दूरवर्तित्ववाचकस्य तच्छब्दस्य प्रयोगाभावे तदर्थे इयमितिपदप्रयोगेणावाचकत्वं दोषो न शङ्कनीयः । अत्र माधुर्यसौकुमार्ये शब्दगुणौ । लक्षणे तु प्रागुक्ते । पुनश्चात्र कान्तिसमाधिप्रसादाख्या अर्थगुणा:-कान्तिस्तु "अविदग्धवैदिकादिप्रयोगयोग्यानां पदानां हारेण प्रयुज्यमानेषु पदेषु लोकोत्तरशोभाजनकमौज्ज्वल्यं कान्तिः"।

 समाधिस्तु “बन्धगाढत्व शिथिलत्वयोः क्रमेणावस्थायां समाधिः" । यावदर्थकपदरूपमर्थवैमल्यं प्रसादः इति लक्षणयोगात् ।  कथं तूष्णीमेवास्ते । शङ्के विप्रकर्षान्न शृणोति । भवतु समीपमस्य गत्वा पृच्छामि । (अनन्तरे चर्चरी)

फलिहसिलाअलणिम्मलणिब्भरु
 बहुविहकुसुमविरइअसेहरु ।
किंणरमहुरुग्गीअमणोहरु
 देक्खावहि महु पिअअम महिहरु ॥ ५० ॥
[स्फटिकशिलातलनिर्मलनिर्भर
 बहुविधकुसुमविरचितशेखर ।
किन्नरमधुरोद्गीतमनोहर
 दर्शय मम प्रियतमां महीधर ॥ ५० ॥]
सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी ।
रामा रम्ये वनान्तेऽस्मिन् मया विरहिता त्वया ॥५१॥


 अत्र द्रुतविलम्बितं वृत्तम् “द्रुतविलम्बितमाह नभौ भरौ" इति लक्षणात् ॥४९॥

 पर्वतादपि प्रत्युत्तरमाकाङ्क्षन् राजा तदलभमान आह-कथं तूष्णीमेवास्ते मौनेनैव वर्तते । अत्र पर्वतादपि उत्तरं लिप्सोः राज्ञः भ्रान्तिः । शङ्के यदयं शिलोच्चयः विप्रकर्षात् दूरत्वात् न शृणोति यद् मया पृष्टमिति । भवतु-अस्य समीपं गत्वा पृच्छामि । (अनन्तरे चर्चरी)

 स्फटिकेति-स्फटिकाः श्वेतमणयः तन्मयैः शिलातलैः निर्भरमत्यन्तं निर्मलस्तादृश, बहुविधैः नानारङ्गसौरभ्यवद्भिः कुसुमैः विरचितो गुम्फितः शेखरः शिखा यस्य तादृश ! किन्नराणां सुरगायकानां मधुरैः उद्गीतैः उच्चैः गीतैः मनोहर रमणीय महीधर मम प्रियतमां दर्शय । अनेन महीधरविशेषणत्रयेण महीधरस्य निर्मलत्वसंस्थापनात् अत्र सा कुत्रापि अविज्ञाता गूढा वा स्थातुं नार्हति । अवश्यमेव सा परिचेतुं योग्यास्तीति बोधः । अत्र अन्त्यानुप्रासः ।

 निर्मलनिर्भरेत्यत्र प्राकृते पूर्वनिपातानियमात् पौर्वापर्यविपर्यये न कापि हानिः अतः निर्भरं अत्यन्तं निर्मलः इति अर्थः ॥५०॥

 (चर्चरिकयोपसृत्य अञ्जलिं बद्ध्वा) चर्चरिकया उपसृत्य उपेत्य प्राञ्जलिरुत्तरं पद्यमुवाच । चर्चरिका गतिविशेषः, तालविशेषो वा “विरामान्तद्रुमद्वन्द्वं लघुन्यष्टौ च चर्चरी" इति भरतः।

 सर्वक्षितिभृतामिति-यथा पूर्वं प्रतिज्ञातं तथा समीपं गत्वा गिरिराजमाह-राजा कथयति (तथैव प्रतिशब्दं शृणोति । आकर्ण्य सहर्षम् ) कथं यथाक्रमं दृष्टेत्याह । भवतु । अवलोकयामि (दिशोऽवलोक्य सखेदम्) अये ममैवायं कन्दरान्तरविसर्पी प्रतिशब्दः। (इति मूर्च्छति) (उत्थायोपविश्य सविषादम् ) अहह श्रान्तोऽस्मि । यावदस्या गिरिणद्यास्तीरे तरङ्गवातमासेविष्ये । (द्विपदिकया परिक्रम्यावलोक्य च ) इमां नवाम्बुकलुषां स्त्रोतोवहां पश्यता मया रतिरुपलभ्यते ।


 हे सर्वेषां क्षितिभृतां पर्वतानां नाथ गिरिराज! अस्मिन् रम्ये रन्तुं योग्ये विहरणीये वनान्ते वनोद्देशे मया विरहिता वियुक्ता सर्वैरङ्गैः सुन्दरी परमचारुरूपा रामा त्वया दृष्टा किम् ? अनुष्टुब्वृत्तम् ॥ ५१ ॥

 (तथैव सर्वक्षितिभृतामितिशब्दं शृणोति ) सहर्षमाकर्ण्य कथं यथाक्रमं तयैवानुपूर्व्या दृष्टेत्याह-

 यद्राज्ञा सर्वक्षितिभृतामिति प्रोक्तम् तदेव प्रतिध्वनितम् गिरिणा तस्य अर्थमित्थं कृत्वा राजा जानाति यत्तेन दृष्टेत्युक्तमिति । प्रतिध्वनितस्यार्थः-हे सर्वेषां क्षितिभृतां राज्ञां नाथ हे राजाधिराज! अस्मिन् रम्ये वनान्ते त्वया विरहिता सर्वाङ्गसुन्दरी रामा मया दृष्टा इति क्षितिभृत्पदे श्लेषग्रहणात्, त्वयामयापदयोः विपर्ययेणान्वयात् राज्ञः पूर्वप्रोक्तस्योत्तरं भवति ।

 अत्र सर्वक्षितिभृतामितिपद्ये त्रिगताख्यं वीथ्यङ्गमुकं भवति तद्यथा “त्रिगतं स्यादनेकार्थयोजनं श्रुतिसाम्यतः” । एवं च मया विरहितेत्येतावति समुदाये मद्वियोगवती त्वया दृष्टेति पुरूरवसः पर्वतविषयं प्रश्नवाक्यं भवति यदा तु मयेति- विच्छिद्य पूर्ववाक्यसम्बन्धि क्रियते तदा त्वया विरहिता सती मया दृष्टेति उत्तरवाक्यविधाने पदच्छेदेन पठितिसमाख्यं सौन्दर्यम् यदुक्तं भोजदेवेन “काकुखरपदच्छेदभेदाभिनयकान्तिभिः । पाठो योऽर्थविशेषाय पठितिः सेह षड्विधा" ॥

 भवतु-अवलोकयाम्यस्मिन् वनान्ते क्व सा इति । (दिशोऽवलोक्य सखेदम्) नेदं गिरिराजस्य प्रत्युत्तरम् किन्तु ममैवायं कन्दरान्तरे विसर्पी गुहायां प्रतिध्वनितः शब्दः । इति ज्ञात्वा मूर्च्छति । अत्र ईप्सितार्थप्रतीघातात् प्रतिषेधो नाम विमर्शसन्ध्यङ्गं प्रतिपादितम् । अत्र विप्रलम्भस्य परमो वेगः ।

 (उत्थाय संज्ञां लब्ध्वा उपविश्य सविषादम् सशोकम् ) अहह ! इति खेदे । श्रान्तोऽस्मि । यावदतः अस्या गिरिणद्याः गिरेः प्रभूतायाः नद्याः तरङ्गैः संस्पृश्यमानं अत एव शीतलं वातं आसेविष्ये । शीतलवातस्य श्रमापनोदकत्वात् विरहाद्विहाराच्च श्रान्तो राजा शिशिरवातमासेवितुं कामयते । इह खेदाख्यं विमर्शसन्ध्यङ्गमुक्तं भवति यदाह “मनश्चेष्टासमुत्पन्नः श्रमः खेद इति स्मृतः"।

(द्विपदिकया परिक्रम्य विलोक्य च)

 इमां पुरो दृश्यमानां नवं यद् अम्बु जलं तेन कलुषामाविलां स्रोतोवहां नदीं  कुतः -

तरङ्गभ्रूभङ्गा क्षुभितविहगश्रेणिरशना
 विकर्षन्ती फेनं वसनमिव संरम्भशिथिलम् ।
पदाविद्धं यान्ती स्खलितमभिसन्धाय बहुशो
 नदीभावेनेयं ध्रुवमसहना सा परिणता ॥ ५२ ।।


पश्यता मया रतिः प्रीतिः आसक्तिर्वा उपलभ्यते । वर्षासमये नूतनजलप्रवाहेण नदीनां जलं भृदाविलं भवति । तदेवाह यत् नवजलमिश्रणाविलां नदीमिमां प्रेक्षमाणस्य मम चेतसि परा प्रीतिर्जायते इति भावः ।

 कुत इति रतिप्राप्तेः कारणमाह-

 तरङ्गेति-स्वप्रियां कोपेन नदीत्वेन परिणतामिव परिज्ञाय तादात्म्यमाह-तस्याः कोपवर्णनम्-

 तरङ्गाः भ्रुवः भङ्गाः इव यस्याः सा, उभयेषां कुटिलत्वात् नदीतरङ्गा एव कोपनायास्तस्या भ्रूभङ्गा इति निरूप्यते । क्षुभितानां नदीपारं डयमानानां विहगानां पक्षिणां श्रेणिः पक्तिः रशना मेखला इव यस्याः सा । नदीसान्निध्ये विहगानां प्रायशो दर्शनात् स्त्रियां च काञ्चीदर्शनात् विहगपङ्क्तिः क्रोधनायास्तस्याः काञ्चीति रूप्यते । संरम्भेण कोपेन मानेन वा शिथिलं श्लथं वसनं वस्त्रमिव फेनं विकर्षन्ती । क्रुधि परिधानं शिथिलं भवति । नदीनां स्वभावोऽयं यत्ताः फेनं वेगेनाकर्षन्ति । उभयोः श्वेतत्वात् विकर्षणरूपसाधर्म्यात् फेनवसनयोः साधर्म्यनिरूपणपूर्वकं नदीनायिकयोस्तादात्म्यं रूप्यते । कुपिता स्त्री कुटिलया गया चलति । तथैवेयं नदी अपि वक्रेण प्रवाहेण गच्छति इति उभयोः साम्यम् । पदैः आविद्धं कुटिलं यथा स्यात्तथा यान्ती बहुशः बहुविधं मम स्खलितं अपराधचयं अभिसन्धाय मनसि कृत्वा सा असहना मम प्रियतमोर्वशी ध्रुवं निश्चयेन नदीभावेन नदीरूपेण परिणता ।

 "स्खलितं तूचिताद्भ्रंशः स्खलितं चलिते त्रिषु" इति लोचनः । पदाविद्धं स्खलितविशेषणम् , बहुशश्चेति क्रियाविशेषणम् । अत्र उत्प्रेक्षालङ्कृतिः; सा च उपमोत्प्राणिता; तयोरङ्गाङ्गिभावसङ्करः।

 सा इयमित्यत्र सोऽयं देवदत्तः इतिवत् प्रत्यभिज्ञा । तद्देशावच्छिन्नतत्कालावच्छिन्नायाः एतद्देशैतत्कालावच्छिन्नायाश्च तस्याः विरोध्यंशपरिहारेण तमेवार्थं लक्षयति इति अत्र जहदजहल्लक्षणा । अभिसम्पूर्वकदधातेः प्रायशः काव्येषु वञ्चनव्यापारे शक्तिरभिमता यथा भवभूतिः “जनं विद्वानेकः सकलमभिसन्धाय कृषटमिति", 'सरणार्थे तावत् गौणः प्रयोगः झगित्यप्रतीतिकृदेव एवञ्चेह "स्खलितमनुसन्धाये"ति पाठः साधीयान् भवेत् ॥

 ‘वृत्तं च शिखरिणी । “रसै रुदैश्च्छिन्ना यमनसभला गः शिखरिणी"। यस्मिन्

भवतु प्रसादयामि तावदेनाम् । (अनन्तरे कुटिलिका)

पसीअ पिअअम सुन्दरि एणए
 खुहिआकरुणविहङ्गमए णए ।
सुरसरि तीरसमूसुअएणए
 अलिउलझंकारिएणए ॥ ५३॥
[प्रसीद प्रियतमे सुन्दरि एनया
 क्षुभिताकरुणविहङ्गमके नत्या ।


यगणमगणनगणसगणभगणाः लघुः गुरुश्च तद्वृत्तं शिखरिणी नाम । अत्र षड्भिरेकादशभिश्च यतिः ॥ ५२ ॥

 वारंवारमुच्चरिताद्भवत्वितिपदान्नायकस्य विरहितस्यापि पीडितत्वेन परं सहिष्णुत्वात् धीरत्वं व्यज्यते । तावदतः एनां नदीरूपेण परिणतां प्रियां प्रसादयामि ।

[अनन्तरे कुटिलिका]

 प्रसीदेति-अये सुन्दरि नदीरूपिणि प्रिये ! एनया मदीयया नत्यां सविनयं नमनेन प्रियतमे मयि प्रसीद नदीरूपं परित्यज्य मह्यमालिङ्गनदानरूपं प्रसादं कुरु । शेषं नदीसम्बोधनानि । क्षुभिताः चश्चलाः त्वदनुकारिस्वरेण मां पीडयन्त अत एव अकरुणा दयाविहीना विहङ्गमकाः यत्र तादृशि! परं च तीरे समुत्सुकाः एणका मृगा यस्याः इति तादृशि ! अलिकुलैः द्विरेफसमूहैः झङ्कारितः कल्लोलितः अर्णः जलं यस्याः तादृशि हे सुरसरित् त्वं मयि प्रसन्ना भूत्वा ललनारूपं विधाय स्वयङ्ग्राहसुखं विधेहि ।

 इह हि विरहदशायां तव केशगतिस्वरानुकारिणः भृङ्गहंसपिकप्रभृतयो विहगाः: निष्ठुरं मां पीडयन्ति । तव च मत्प्रियात्वादनुचितमिदं मत्पीडकजन्तूनामाश्रयदायित्वम् पुनश्च मत्प्रतिपक्षिपक्षिपक्षग्रहणेन तवापि सुतरां निष्ठुरत्वमस्तीति ध्वन्यते।

 प्रियतमेति पदं यदि सुन्दर्याः विशेषणं क्रियते तदा त्वं मम प्रियतमा, त्वयि अहमनुरक्तः इत्यर्थं सम्बोध्य त्वय्यनुरक्ते जने संरम्भस्यासाम्प्रतत्वव्यञ्जनं भविष्यतीति । पुनश्च तत्रैव प्रियतमे मयि इति मय्यध्याहारेण शाब्दबोधः क्रियते चेत् तव प्रियतमे मयि तव कोपः, वियोगजन्यदुःखश्च त्वत्कृतम् अयोग्यमिति बोधपूर्वकं प्रियतमे मयि प्रसन्नसमुचितमिति ध्वन्यते ।

 विहङ्गमकैणकादिपदेषु अल्पार्थप्रतिपादकस्य कन्प्रत्ययस्य दर्शनात् विहङ्गैणकानां प्रियतमायाः स्वरनयनयोः साधर्म्यदर्शनात् भृशं सन्तापकत्वव्यञ्जनाय तेषु चानादरः प्रकटीक्रियते । सुरसरिदिति तदध्यवसितायाः नायिकायाः अप्सरोभावे युक्तं घटते विशेषणम् ॥

 क्षुभितेति अत्र यदा त्वं नदीत्वं विहाय प्रमदात्वं लप्स्यसे तदा तेषामाश्रयण

सुरसरित्तीरसमुत्सुकैणके
 अलिकुलझङ्कारितार्णके ॥ ५३॥]

(कुटिलिकान्तरें चर्चरी)

पुव्वदिसापवणाहअकल्लोलुग्गअबाहओ
मेहअअङ्गे णच्चइ सलिलअँ जलणिहिणाहओ । (५३ अ)
हंसरहंगसंखकुंकुमकआभरणु
 करिमअराउलकसणकमलकआवरणु ।
बेलासलिलुब्बेल्लिअहत्थदिण्णतालु
 ओत्थरइ दसदिस रुंधेविणु णवमेहआलु ॥ ५४॥
[पूर्वदिक्पवनाहतकल्लोलोद्गतबाहु-
 र्मेघाङ्गैर्नृत्यति सललितं जलनिधिनाथः ।
हंसरथाङ्गशङ्खकुङ्कुमकृताभरणः
 करिमकराकुल कृष्णकमलकृतावरणः॥
बेलासलिलोद्वेल्लितहस्तदत्ततालोs-
 वस्तृणाति दशदिशो रुद्ध्वा नवमेघकालः ॥ ५४ ॥]


वियोगादहमिव ते संत्रस्ता भविष्यन्तीति अर्थमवगमय्य तद्वियोगासहत्वं- 'कृते प्रतिकृतत्वं' प्रतिपाद्यते ॥ अत्र चरमचरणे प्रत्नपुस्तकेषु “अलिकुलझङ्कारिते नदि" एतादृशी छाया। परश्च तृतीयचरणे सुरसरित्तीरेति एकं समस्तं पदम् । तादृशपाठाङ्गीकारे 'नदि' इति सम्बुद्धौ सुरसरित्तीरेत्यत्र बहुव्रीहेः असमीचीनत्वम् स्फुटमेव । एतत्कृते तृतीयचरणे सुरसरिदिति सम्बुद्धिः, शेषं च तद्विशेषणम् । एवं कृते चान्तिमचरणे नदीति सम्बोधनं पुनरनुचितम् अतः अलिकुलझंकारितार्णके इति पाठविधानं हृदयङ्गममेव यतः अर्णशब्दो नीरवाची सान्तः अकारान्तोऽपि । सान्तेऽपि गृहीते "अर्णस्के" इति पाठो विधेयः तदनु च "एण्णए" इति प्राकृते करणीयम् यतः श्रेय एव पुरातनपाठस्य गर्ह्यत्वापेक्षयेदं प्रतिविधानं मन्यामहे ।

 अत्र प्रतिपादान्तं एणए इति अक्षरसङ्घदर्शनात् सचमत्कारं अन्त्यानुप्रासाख्यं अलङ्करणम् ॥ ५३॥

  पूर्वदिगिति-इहायं परिकरो यद्राजा उर्वशीमन्विष्यन् तामलभमानः वनान्तरे यं कमपि तदुदन्तं पिपृच्छुः सन्तोषमनवाप्नुवानः "अहह श्रान्तोऽस्मिति" खिन्नः गिरिणद्यास्तीरे श्रममपनोदितुं वातमासेवते । तत्र नदीं पश्यन् स रतिं भजमानः नदीं नदीरूपेण- परिणतामात्मनो वल्लभामुर्वशीं मनुते । परञ्च भ्रान्तचेता राजा ताञ्च प्रसादयितुं यतते । तादृशचाटुवचोभिरपि स्वीयप्राकृतस्वरूपेणापरिणमन्तीं नदीं विलोक्य ताञ्च क्षणेन समुद्राभिसारिणीं मत्वा भ्रमं निवर्तयति, निश्चिनोति च यत्सा नूनं नदी एव नोर्वशी, यतः यदि सत्यमेवोर्वशी सा स्यात् कथं पुरूरवसं विहाय नायकान्तरं समुद्रमभिगच्छेत् । वस्तुस्थितिश्चात्र यद्राजा स्वराजधानीपरिसर एव उर्वश्या सह भ्रमंस्तां सहसैवादर्शनं गतां अन्विष्यन् वनमध्ये भ्रमति; भ्रमंश्च प्रावृषि नदीकच्छमागच्छति; क्षणान्तरे च तां समुद्राभिसारिणीं मत्वा नेयमुर्वशीति पूर्वकल्पनं मिथ्याकरोति ।

 अस्मिन्नभिसन्धौ महाकविः "प्रसीद प्रियतमे" इति कुटिलिकामवतार्य तत्रैव पुरतः उन्मादातिरेकं प्राप्तं राजानं पुनरुद्बोधयितुं स्वच्छन्दतयोच्छलन्तं जलनिधिनाथमुपस्थापयति यं दृष्ट्वा राजा उर्वश्याः नदीभावस्य भ्रान्तिं जहाति अपि च तं जलनिधिनाथं नर्तकं प्रकल्पयति ।

 अत्र "कुटिलिकान्तरे चर्चरी"ति नाट्यप्रसङ्गः, पूर्वदिगिति षट्पदं पद्यं, तत्र समुद्रोपस्थितिः, तस्य नर्तकत्वं; "मेहअंगे" इति पदं; "णवमेहआलु ओत्थरईति" शब्दसङ्घातः सर्वथैव सामञ्जस्यविरोधीति कृत्वा विद्वद्भिश्चिन्त्यः अत एवाधो विचिकित्साप्रसङ्गः प्रसार्यते ।

 पूर्वदिसेतिपद्यस्यावतरणिकायां रङ्गनाथः "उन्मादातिशयवशतो नदीं समुद्रत्वेन कलयंस्तं नर्तकत्वेन वर्णयती" त्याह । अत्रेयं चिन्ता यत् यदीयं सैव नदी या राज्ञा प्रसाद्यते यस्यास्तीरोपकण्ठमुपविष्टश्च सः तां मुहूर्तान्तरे समुद्रत्वेन कलयति तदा कोऽसौ समुद्रः यमभिसरन्तीं तां दृष्ट्वा राजा नूनमियं नदीं नोर्वशीति प्रमिमीते । अत्रानेन नूनमेव भाव्यं यत्तत्रास्ते कश्चन प्रवहन् जलधिः यमुपयान्तीं नदीं राजा पश्यति यश्च तस्य भ्रान्त्यपनुतौ कारणं भवेत् । अतस्तामेव नदीं समुद्रं कलयतीति कल्पनमनुचितमेव । पुनश्च समुद्रस्य मेघाङ्गैर्नर्त्तनमसाधु एव, समुद्रस्य नृत्तविधौ मेघानामङ्गत्वरूपणे बलवान् कष्टः स्फुट एव । परञ्च नवमेघकालः प्रावृट् तस्यावस्तरणप्रसङ्गः पुनरपि जलधिनृत्ये अघट एव । समस्तपद्यस्येकान्वितत्वकल्पने नृत्यतेरवस्तृणातेश्च युगपदन्वयोऽसाधुरेव । अपि च 'कुटिलिकान्तरे चर्चरी'त्यत्र विषये का सा कुटिलिका यदन्तरे चर्चरी दीयते, का च सा चर्चरीत्यूह्यमेव भवेद्यतो रङ्गनाथेन षट्पदत्वं पद्यस्य विदधता आत्मनोऽषट्पदत्वं रसचर्वणाव्यापारे व्यक्तीकृतं किल । अपरे च टीकाकृतो नामुं विषयमालोचयन्तीति साहाय्यविधुरैरस्माभिः सह मन्तव्यमिति कृत्वा पद्यमिदमधो व्याख्यायते-

 त्रोटकस्यास्य नायकः पुरूरवाः प्रतिष्ठानाधीशः । प्रतिष्ठानं च प्रयागोपकण्ठमाधुनिकं झूसीति नगरम् । तत्रोर्वश्या सह विहर्तुं राजा प्रतिष्टानाद्बहिर्गतः । तत्र शापवशाल्लतारूपेण परिणतां उर्वशीमदृष्ट्वा तामन्विष्यन् बंभ्रम्यमाणः भगवत्याः सुरसरितस्तीरमुपयाति । सा एव गिरिणदी यत्र च तरङ्गवातमासेवते नायकः । प्रावृषश्च समयः गगनस्य मेघाच्छन्नत्वञ्च तत्राभूत् । तां गङ्गां दृष्ट्वा तत्र तरङ्गभ्रूभङ्गेति पद्ये वर्णितस्यात्मनो दयितया साम्यमभिवीक्ष्य इयमेवोर्वशी या कोपवशान्नदीरूपं परिणतेति तस्यानुमा। तदनुमानवशात् "प्रसीद प्रियतमे" इति कुटिलिकाख्यगीत्या राजा तां नदीमुर्वशीं मत्वा प्रसादयितुं यतते । नद्याः गङ्गाभावेन सुरसरिदिति विशेषणं युक्तं सत् उर्वश्याः अप्सरोभावस्य गमकम् । अत्रान्तराले एव दूरे पूर्वदिशमनुवहन्तीं कालिन्दीं वेगेनोच्छलन्तीं वीक्ष्य तस्याः सर्वतः प्रसारेण भ्रान्तस्तां जलनिधिनाथं कलयन् नर्तकत्वेनोपवर्णयति; जलधौ नर्तके च यद्यत्साम्यं तत्पुरःसरं वर्णनं तद्यथा-

 पूर्वदिगिति-पूर्वा या दिक् ततो वहमानः पवनः तेनाहतः उत्पादितो यः कल्लोलो महोर्मिसङ्घर्षः स एव उद्गतः उच्चैः वर्तमानः बाहुः यस्य सः (जलनिधिनाथस्य विशेषणम् ) नर्तकः नृत्तसमये अभिनयाय स्वबाहुमुच्चैः करोति एवमेव जलधिविषये कल्लोलस्यैवोद्गतबाहुत्वम् । परश्च नर्तकानामङ्गेषु आभरणानि भवन्ति तान्यत्र कथमित्याह-हंसाश्च रथाङ्गाश्च हंसरथाङ्गाः शङ्खानि कुङ्कुमञ्च शङ्खकुङ्कुमानि तैः कृतमाभरणं येन स तादृशः जलधिः । जलधितीरे ये हंसास्ते आभरणवत् शोभाधायका अत एव यथा नर्तकस्य शरीरे शङ्खमाला आभरणायते एवमेवात्र हंसा इति श्वेतत्वसाधर्म्यात् हंसशङ्खयोर्विषयविषयिभावः । रथाङ्गकुङ्कुमयोरेवमेव रक्तत्वसाम्यं साधु एव । रथाङ्गानां चक्रवाकानां लेपनत्वं हंसानाञ्च भूषणत्वमिति तादात्म्यारोपः । नर्तका वस्त्रं धारयन्ति तदयं जलधिः कथं विदधातीत्याह यदयं नीलं परिधानं परिधत्ते-करिणः यादांसि (water elephants) मकराः ग्राहास्तैः आकुलानि समन्वितानि कृष्णकमलानि नीलकमलानि तैरेव कृतमावरणं येन सः । विशेषणमिदमुभयपक्षे साधारणम् । नर्तकानां नृत्यविधौ तालप्रदानमपि विधीयते तच्चात्र जलधिपक्षे वेलया दीयते तद्यथा-वेलया तटेन सलिलस्योद्वेलितं उच्छलनं (tossing up) तदेव दत्तः हस्ततालः यस्मै तादृशः । यस्य जलधेर्नर्तनव्यापारे वेला सलिलोत्क्षेपणेन करतालप्रदानं विदधातीति तात्पर्यम् । इदमवधेयं यत् तटे यदा जलप्रवाहः पतति तदा उच्छलन् व्याघातेन शब्दं जनयति तच्च तालप्रदानं नृत्यविधौ इति । रङ्गनाथेन "दत्तः हस्ततालो येन सः" इति कर्तरि तृतीयाबहुव्रीहिर्विहितः तेनेदमवगम्यते यन्नर्तक एव तालप्रदानं करोति तच्च नृत्तसम्प्रदायेऽसमीचीनम् ; नर्तकस्तु नृत्यति तस्य हस्तौ चाभिनये व्यापृतौ भवतः, अपरैस्तत्पार्श्विकैः तालप्रदानं क्रियते, अतः अत्र समुद्रनर्तकस्य कृते संयोगसम्बधेन पार्श्ववर्तिना तीरेण सलिलोद्वेलनमयेन तालप्रदानेन साहाय्यं विधीयते इति चतुर्थीबहुव्रीहिरेव साधुः । रङ्गनाथमतं तु सङ्गीतसम्प्रदायविरोधीति मत्वा चिन्त्यमेव, एतादृशः नवमेघकालः नवजलधरः इव कालः कृष्णवर्ण: जलनिधिनाथः कालिन्दाख्यो नदः स्वीयैः मेघाङ्गैः मेघसदृशैः श्यामैः अङ्गैर्वीचिभिः सललितं सुभगं रमणीयं यथा स्यात्तथा नृत्यति एवञ्च दशदिशः रुद्ध्वा प्रसृत्य अवतरति प्रवहतीत्यर्थः । अवस्तृणातीति पाठान्तरे प्रवहन् व्याप्नोतीति मतम् । अत्र कालिन्द्याः जलस्य श्यामवर्णत्वात् नवमेघकालत्वं युज्यत एव । एवं मते गङ्गायमुनयोः सङ्गमप्रसङ्गे पूर्ववर्णितायाः गङ्गायाः कालिन्दजलधिं प्रत्यभिसरणं प्रेक्ष्य ध्रुवमियं नदी नेयमुर्वशी, अन्यथा कथमियं पुरूरवसं मामपहाय समुद्राभिसारिणी भवेदिति भ्रान्तिहानिः सङ्घटत एव ।

 भावस्तु जलनिधिर्नर्तकः तस्य मेघसदृश्यः श्यामा वीचयः अङ्गानि कल्लोल एवोद्गतौ बाहू । हंसचक्रवाकादयो भूषणानि, जलगजमकरेन्दीवरादयः परिधानम् । तीरेण दत्तस्य जलोत्क्षेपस्य हस्ततालत्वम् । एभिरुपकरणैः विशिष्टः सन् जलधिर्लीलया नृत्यति सर्वत्र परिसृत इव भातीति तात्पर्यम् । इयञ्च वस्तुस्थितिः जलधिः कालिन्दी, यां प्रति गङ्गा प्रवहति राजा चोर्वशीं गङ्गायां विवर्त्तयति, कालिन्द्याञ्च समुद्रं विवर्त्तयति तयोश्च सङ्गमं समुद्राभिसरणं मत्वा नेयमुर्वशी इयं परमार्थतः सरिदेवेति निश्चिनोति । अत्रोन्मादस्य परतरा काष्टा, प्रावृषि समुद्रोद्वेल्लनादेः दर्शनमतीवोद्दीपनं तच्च विप्रलम्भस्य पोषकम् । अत्र समुद्रे नर्तकत्वारोपात् तेन च तादात्म्यरूपणात् रूपकालङ्कारः । अत्र भ्रान्त्याख्यो भावो व्यज्यते । मे प्रेयसी यस्मिन् कस्मिन्नपि रूपे परिणतापि मां विहायान्यासङ्गिनी न क्वचिदपि भवित्रीति रागस्य दार्ढ्यात् इयं सरित् प्रिया कथं समुद्रनर्तकं गच्छतीति" प्रेक्ष्य नेयं मे प्रेयसीति निश्चयाद्राज्ञो रागः नापैत्यतिशोभत एवातः नायकगतरागस्य माञ्जिष्ठत्वं ध्वन्यते ।

 अत्र "मेहअङ्गे" इत्यस्य छाया “मेघाङ्गैरिति” कृता, अत्र यदि "मेह अअग्गे" इति पाठः स्यात्तदा मेघाग्रे नृत्यति इति भावः साधीयान् भवेत् । अपि चेदं विभावनीयम् यत् प्रसीद प्रियतमेति कुटिलिका गीतिः; तदन्तरे च "पुवदिसे"त्यारभ्य “जलणिहिणाहओ" इति चरणद्वयात्मिका चर्चरी, तत्पश्चाच्च "हंसरहंगेति" कुटिलिका राग एव ।

 अत्र उन्मादाविरेकं गतस्य राज्ञः गङ्गायां उर्वशीभानात् तदनुसरणेन स्मरस्य दशमी दशां नायकः क्वचित् प्राप्नुयात् इति भिया तद्वारणाय सहसा नायकस्यान्यतो जलधिं प्रति आकर्षणं तद्द्योतनाय अन्तराले चर्चरी निवेशोऽङ्गीकृतः कविनेति ज्ञेयम् , अत एव प्रसीदेति पद्ये चतुर्षु चरणेषु अन्त्यस्वरानुप्रासः एवमेव हंसरहंगेति चतुर्षु पादेषु अन्त्यस्वरानुप्रासः मध्येऽपि चर्चरीगतपादद्वयस्यान्ते "आहओ" इति संहतेः अन्त्यानुप्रास एव ॥

 अयमेकः पक्षः।

 यद्वा पूर्वदिगितिपद्यमन्यथापि व्याख्यातुं शक्यते तद्यथा-नायकः स्ववल्लभां वनान्तरेऽन्विष्यन् पशुपक्षिणस्तस्याः वृत्तं पृच्छन्नपि तामलब्ध्वा शुचः सीमानं गतः विप्रलम्भश्च काष्ठामधिरूढः । तत्र नदीरूपायाः प्रेयस्याः पुरतः प्रसादवचांसि ब्रुवन्नेव नातिदूरे महान्तं कश्चनोत्पतन्तं जलप्रवाहं पश्यति, यच्च दृश्यं महाकविना नायकस्य सामाजिकानाञ्च मनांसि काष्ठागतविरहवेदनायाः खेदाद्

 १८ विक्र० व्यावर्त्तयितुं, नाटकीयं दारुणं वातावरणं शमयितुमुपस्थापितम् । तदृश्यनिरीक्षणानुरोधेन नायकस्यान्यत्राकृष्टं मनः तत्रस्थं पतदुत्पतन्तं पयःपूरं पारावारं परिकल्पते यस्तु पयोदसदृशैः परिणाहवद्भिरङ्गैः नृत्यति । नेदमत्र चित्रं यन्नायकः विप्रलम्भे वल्लभायाः गवेषणे बहुशो विप्रलब्धः वनेऽचेतनानपि चेतनानिव मानवीयभावैः सदृशानुभूतिमतः परिगणय्य पयःपूरे नर्तकभावमारोपयति । नृत्यन्तं जलनिधिं दृष्ट्वा समुत्पन्ना मनोव्यावृत्तिः राज्ञो मनो यावत् शास्त्येव तावदेव पूर्वदिक्पवनाहतत्वं नायकं तदानीन्तनं प्रावृट्कालं प्रति समाकर्षति । यश्च प्रावृट्समयः सर्वत्र व्याप्तः सन् पयःपूरस्य वृत्तव्यापारे पारिपार्श्विकः सन् समस्तोपकरणैः सनाथः तत्र प्रादुर्भवन् वरीवर्त्तते । अवधेयमत्र कियच्चमत्कारीदं यत्कविना कालस्यावस्तरणं दिशोऽवसारणमानेनोपकल्पितम् (How poetic it is to speak of Time in terms of Space !)। परञ्चेह कवेस्तावत् क्लृप्तिरीदृशी यत् यदि जलधिर्नर्तकस्तदा तमनु तालप्रदायित्वेन तत्सहायकेन कालेनापि नूनं भवितव्यम् यतः इदं विश्वजनीनं ज्ञानं यत् प्रावृण्महिम्नवार्णत्वस्योच्छलत्प्रवाहवत्त्वं यद्गर्भश्च तस्मिन् नर्तकात्वारोपणम् । इदमपि वक्तुं नानुचितं यन्नवमेघकालस्य तालमनुसरन्नेव पयःपूरो नृत्यति (cf. Time is timed) अत एव नायकः काले चेतनत्वमारोपयति यथा कालः हंसरथाङ्गदिभिर्विभूषितः करिमकरादिभिरावृतः स्वहस्तैस्तालप्रदानं कुर्वन् समस्ता दिशोऽभिव्याप्नुवन् अवस्तृणाति ।

 अत एव पूर्वदिगिति चरणद्वयं चर्चरीति प्रतिपादितं भिन्नं, हंसरथाङ्गेति तद्भिन्नमेव । तयाख्यानं यथा-

 पूर्वदिगिति-

 पूर्वा या दिक् ततो वहमानः पवनः वायुः तेनाहतः व्याघातवशादुत्पातितः कल्लोलः महोर्मिः स एव उद्गतः उच्चैरास्फालितो बाहुर्यस्य सः (विशेषणमिदं नर्तकत्वारोपे हेतुः) एतादृशः जलनिधिनाथः महान् पयःपूरः पुरतो वीक्ष्यमाणः मेघाङ्गैः मेघवत् परिणाहिभिः अङ्गैरूर्मिरूपैः सललितं रमणीयं (नायकस्य मनसः आकर्षकत्वात् ) नृत्यति इति । अत्र नर्तकत्वारोपात् रूपकालङ्कारः ॥ ५३ अ॥

 पयोधेः नर्तनकर्मणि कश्च सहायः नर्तकत्वं घटयति य इति जिज्ञासायामाह-

 हंसरहंगेति-नवमेघकालः प्रावृट्समयः दशदिशो रुद्ध्वा सर्वत्राभिव्याप्तः अवस्तृणाति प्रसरति-स च कथमुदधिनर्त्तकस्य साहाय्यमेतीत्याह त्रिभिर्विशेषणैः-हंसा रथाङ्गाश्च त एव शङ्खाः कुङ्कुमादिलेपाश्च तैः कृतानि आभरणानि समुद्रस्याभूषणानि येन तादृशः नवमेघकालः, (नवमेघकालः एवं हंसरथाङ्गादीन् जलधेरुपकण्ठं गन्तुं प्रोत्साहयति ।) यथा नर्तकसहकारी नर्तकस्य

शङ्खादीनां आभरणानां परिधापनेन बाह्लीकरजसः कुङ्कुमादेर्विलेपनेन नेपथ्यवि

  (चर्चरिकयोपसृत्य जानुभ्यां स्थित्वा)

त्वयि निबद्धरतेः प्रियवादिनः
 प्रणयभङ्गपराङ्मुखचेतसः।


धिमारचयति एवमेवेह उदधिं वर्षासमयः एव हंसरथाङ्गादिभिः नर्त्तनविधौ सज्जयति । एवमेव करिणः जलगजाः, मकराः प्राहास्तैः आकुलैः आसमन्तात् परिवृतैः कृष्णकमलैः इन्दीवरैः कृतं रचितं आवरणं परिधानं येन सः। प्रावृषा एवं नवजलप्रवाहस्यालोडनात् उदधिक्षोभाच्च करिमकराः जलप्रदेशस्योपरि वर्तमाना भवन्ति, तत्समन्वितानि इन्दीवराण्येव नर्तकस्य तस्य वासांसि भवन्ति । परश्च नर्तकस्य नृत्यविधौ सहकारिणा तालप्रदानं विधीयते एवमेवेह वेलायां तीरे सलिलस्य पयसः उद्वेलितानि उच्छलद्वीचयः तद्रूपैः हस्तैः दत्तः तालः येन तादृशः नवमेघकालः वर्षासमयः दशदिशोऽभिव्याप्य अवस्तृणाति सर्वत्र वरीवर्त्तते इति ।

 भावस्तु समुद्रनर्तकस्य कृते हंसरथाङ्गरूपेण रचिताभरणः करिमकरेन्दीवरैः विहिताभरणः सलिलोर्मिभिः प्रकल्पितहस्ततालः वर्षासमयः सर्वासु दिक्षु ओतप्रोत इव प्रस्तृतो दृश्यत इति तात्पर्यम् ।

 इयं पुनश्च कुटिलिका एव गीतिः।

 अस्मिन् व्याख्यापक्षे यद्यपीदं दृश्यं मनोव्यावर्तकं विषयान्तराभिनिवेशि तथापि मेघालोकस्य विरहोद्दीपकत्वात् क्षणेनैव पूर्वस्मृतेरनुयोजकत्वं प्रकल्प्य चर्चरिकया गत्या तामेव नदीविवर्तरूपामुर्वशीं उपसृत्य जानुभ्यां स्थित्वा "त्वयि निबद्धरतेः" इत्युपयाचनं उपरिष्टाद् घटनीयम् । अत्र काष्ठागतविरहगतेः सहसैव प्रक्रमव्यावर्तनवशात् नायकस्य सामाजिकानाञ्च ईषत् खेदापसरणपूर्वकं पुनर्विप्रलम्भप्रवाहसहत्वं विरचय्य महाकविना काव्यकलाकौशलस्यान्यतमा भावावर्तनरूपा वाक्ययुक्तिः (poetic artifice of digression) प्रयुक्ता-यदुक्तं भोजदेवेन "गर्भः सह निगर्भेण संवृतिः ससमुच्चया । हेतवो वाक्ययुक्तीनां क्रियतामेवमादयः" इति ।

 एवं व्याख्याते तु अप्रकृतस्य वर्षासमयस्यात्रोल्लेखस्वीकारे प्रकृतस्य समुद्रोपवनर्णस्य हानमप्रकृतस्वीकारदोषप्रसङ्गः वाक्यभेददोषश्च; नवमेघकालस्य समुद्रविशेषणत्वेनान्वये पूर्वदोषयोरनवकाशप्रसङ्गः नृत्यतेरवस्तृणातेश्च समुच्चयार्थकपदाभावे न्यूनपदत्वदोषः किन्तु क्रिययोश्चैककारकान्वयवशात्तुल्ययोगितालङ्कारः । एवञ्च भावव्यावर्त्तनरूपयुक्तेरुभयथापि समानत्वेन विद्यमानत्वे सति उभयोः पक्षयोः कतरः श्रेयान् इति प्रसङ्गेऽस्य कालिदासीयपद्यसन्दर्भस्य सर्वथा सामञ्जस्यविषये सुधिषणाः सहृदया एव प्रमाणम् ॥ ५४ ॥

 (चर्चरिकयोपसृत्य जानुभ्यां स्थित्वा) आह-

 त्वयीति-अयि भामिनि कोपने ! त्वयि निबद्धा निवेशिता रतिः प्रीतिर्येन सः तस्य, प्रियं वदतीत्यसौ प्रियवादी तस्य प्रियभाषिणः प्रणयः अगाधं प्रेम

कमपराधलवं मम पश्यसि
 त्यजसि भामिनि दासजनं यतः॥ ५५ ॥

 कथं तूष्णीमेवास्ते । अथवा परमार्थतः सरिदियं नोर्वशी। अन्यथा कथं पुरूरवसमपहाय समुद्राभिसारिणी भवेत् । अनिर्वेदप्राप्याणि श्रेयांसि । भवतु । तमेवोद्देशं गच्छामि यत्र मे नयनयोः


तस्य भङ्गे पराङ्मुखं चेतः यस्य एतादृशस्य मम कं अपराधलवं दोषस्य अणुं पश्यसि यतः यस्मात् अपराधवशात् दासजनं मां त्यजसि ।

 त्वयि सदैव प्रीतिकरः अहम् , अनुच्चादिस्वरेणानुकूलार्थवचसा प्रियवागहम् , तव प्रणयानुकूलकारी अहम् । इत्येवं सत्यपि कं ममापराधस्य लेशं पश्यसि यस्य हेतोस्त्वं दासजनं मां परित्यज्य न जाने क्व गताऽसि ।

 अत्र अपराधलवस्याप्यसम्भावितत्वनिरूपणेन निबद्धरतित्वादिविशेषणत्रयस्य साकूतत्वात् परिकरालङ्कारः। अनुप्रासश्च ।

 अत्र अपराधलवमपि पश्यसि इत्यत्र स्थूलप्रतीतिप्रसङ्गवारणाय च अपेः अवश्यम्भावित्वम् । अवश्यं देयस्य अपिपदस्य अप्रदानेन "अनभिहितवाच्यत्वम्" न्यूनपदत्वं दोषः तेन च लवं न पश्यसि महान्तमपराधं पश्यसीति विरुद्धप्रतीतिः। दोषबीजं तु अभिमताप्रतीतिपूर्वकं विरुद्धमतिकारित्वं वेति काव्यप्रकाशटीकाकृतः। अत्र मान्यैर्मम्मटभट्टैः दोषो दर्शित एव तथापि लेशवाचकस्य लवपदस्य निवेशात् अपराधावयवं कं पश्यसीति आक्षेपोपस्थापनेनैव महतोऽपराधस्य निराकरणं ध्रुवं भवतीत्यत्र सूक्ष्मसमालोचनेन दोषाभाव एव स्फुरति इति विद्वद्भिः स्वतन्त्रतयाभिमन्तव्यमिति ॥

 भामिनी "कोपना सैव भामिनी" इत्यमरः ।

 भाम क्रोधे (भ्वा. आ. से.) अत्र च आवश्यकार्थो "आवश्यका" इत्यनेन णिनिः । अवश्यं भामते इयं सा भामिनी । प्रणयलक्षणं तु प्रागुक्तमेव । अत्र दीप्तरसत्वात्कान्तिर्नाम गुणः । मधुरपदसहयोगात् मधुरत्वं गुणश्च ।

 वृत्तं च द्रुतविलम्बिताख्यम् ।द्रुतविलम्बितमाह नभौ भराविति लक्षणात् ॥५५॥

 कथं तूष्णीमेवास्ते मौनमेव दधाना वर्तते । अथवा परमार्थतः याथार्थ्येन सत्यमेव वा सरिदियं नदी न तु उर्वशी मम प्रिया । यदीत्थं न स्यात् तर्हि पुरूरवसं माम् अपहाय परित्यज्य कथमियं समुद्राभिसारिणी भवेत् । अयं कवीनां समयः यत्समुद्रः नदीनां कामुकः यतः सर्वा नद्यः समुद्रं प्रति गच्छन्ति । नदीयं समुद्रं गच्छतीति सत्यम् । यदीयमुर्वशी भवेत्तदा मम स्वरं निशम्यापि माम् परित्यज्य कथं समुद्रं अभिगच्छेदिति भावः। अत्र कृते तु विचारे उर्वशीयमित्यस्यान्यथाभावाद्विपर्ययो नाम नाट्यलक्षणं लभ्यते, यदुक्तं दर्पणे-"विचारस्यान्यथाभावः सन्देहात्तु विपर्ययः" इति । अनेन उर्वश्याः पूर्वं कृतमभिसरणं स्मृतम् । सा सुनयना तिरोहिता । (परिक्रम्यावलोक्य च) इमं तावत् प्रियाप्रवृत्तये सारङ्गमासीनमभ्यर्थये ।

अभिनवकुसुमस्तबकिततरुवरस्य परिसरे
 मदकलकोकिलकूजितमधुपझङ्कारमनोहरे ।
नन्दनविपिने निजकरिणीविरहानलेन सन्तप्तो
 विचरति गजाधिपतिरैरावतनामा ॥५६॥

(इति गलितकः) (जानुभ्यां स्थित्वा)

कृष्णसारच्छविर्योऽयं दृश्यते काननश्रिया।
नवशष्पावलोकाय कटाक्ष इव पातितः ॥ ५७ ॥


श्रेयांसि अनिर्वेदप्राप्याणि निर्वेदेन अलभ्यानि भवन्ति । शोकोद्विग्नं चेद् मानसं, श्रेयांसि न लभ्यन्ते । ग्लानिं भजमानेन पुरुषेण श्रेयांसि न प्राप्यन्ते । अतः शोकमपहाय धैर्यं धृत्वा गवेषणा विधेया इति दार्ढ्यं मनसः व्यक्तीकुर्वता कविना नायकस्य धीरवं प्रतिपादितम् । अत्र श्रेयसो निर्वेदेनाप्राप्यत्वमिति सामान्यख्यापनेन प्रकृते उर्वशीलाभरूपश्रेयसः निर्विण्णेन मया नाधिगन्तुं शक्यत्वमिति भाव्यर्थसूचनरूपतर्कस्य सद्भावात् “तुल्यतर्को यदर्थेन तर्कः प्रकृतगामिने"ति लक्षणसमन्वितं तुल्यतर्काख्यं नाट्यलक्षणमुक्तं भवति ।

 भवतु । (इदानीं प्रतिनिवर्तते राजा ।) तमेवोद्देशं स्थानं गच्छामि प्रतिनिवर्ते, यस्मिन् स्थले सा सुनयना सुदृशी मे नयनयोः तिरोहिता अगोचरतां प्राप्ता । (परिक्रम्यावलोक्य च ) इमं तावत् पुरतः आसीनमुपविष्टं सारङ्गं मृगं प्रियायाः प्रवृत्तये वार्ताप्राप्तये अभ्यर्थये प्रार्थये ।

  अभिनवेति-ऐरावतान्योक्त्या स्वविरहित्वं वर्णयति-अभिनवानि नूतनतयोत्फुल्लानि कुसुमानि तेषां स्तबकैर्गुच्छैः समेतस्य तरुवरस्य परिसरे परिधौ, मदेन कलैः मनोहारिभिः कोकिलानां कूजितैः तथा च मधुपानां भ्रमराणां झङ्कारैः गुञ्जितैः मनोहरे नन्दनाख्ये विपिने वने निजा या करिणी तस्या विरहानलेन सन्तप्तः गजाधिपतिरैरावतः विचरति । अनेन नायकस्य वने परिभ्रमणं वियोगातिरेकश्च गम्यते । अत्र द्विरेफरवे तन्त्रीध्वनिवाचकस्य झङ्कारपदस्याप्रयोज्यत्वात् प्रसिद्धिहतत्वं मम्मटमते प्रसिद्धिमतिक्रान्तत्वं वा दोषो नित्य एव ॥६५॥ गलितकः “अभिनवेति" पूर्वोक्तः गलिताख्यो नाट्यविशेषः, लक्षणं तूह्यम् ।

(जानुभ्यां स्थित्वा)

  कृष्णसारेति -कृष्णा श्यामा च सारा शबला च कृष्णसारा ताहशी च्छविः शोभा यस्यैतादृशः श्यामशबलोऽयं सारङ्गः काननश्रिया वनदेवतया

नवशष्पावलोकाय मृदुबालतृणशोभाप्रेक्षणाय पातितः कटाक्ष इव दृश्यते ।

(चर्चरी)

सुरसुन्दरि जहणभरालस पीणुत्तुङ्गघणत्थणि
 थिरजोव्वण तणुसरीरि हंसगइ ।
गअणुज्जलकाणणे मिअलोअणि भमन्ते
 दिट्ठी तंइं तहविरहसमुद्दन्तरे उत्तारहि मंइं॥५८ ॥
[सुरसुन्दरी जघनभरालसा पीनोत्तुङ्गघनस्तनी
 स्थिरयौवना तनुशरीरा हंसगतिः ।
गगनोज्ज्वलकानने मृगलोचना भ्रमन्ती
 दृष्टा त्वया तद्विरहसमुद्रान्तरादुत्तारय माम् ॥५८॥]


 मृगोऽयं कृष्णसारः। कवीनामिदं सम्मतं यत् वने वनाधिष्ठात्री वनशोभा वनदेवता निवसति । तस्यां नायिकात्वारोपः । तया च कटाक्षः पातितः किमर्थमिति वर्षासमये नूतनं बालतृणं वर्धते तत्सौन्दर्यविलोकनप्रवणचेतसा तया पातितः कटाक्षः इव कृष्णसारोऽयं सारङ्गो दृश्यते । कृष्णसारपदम् तु मृगपक्षे कृष्णसारा च्छविर्यस्येति अर्थं व्यनक्ति अत्र कर्मधारयसमासः । कटाक्षपक्षे तु कृष्णो यः सारः नयनाभ्यन्तरवर्तिनी कनीनिका तत्सदृशशोभासमेत इति बोधः । कृष्णसारच्छविरित्यत्र रङ्गनाथेन कृष्णमृगवच्छविरित्येवमुपमितसमासो विहितः । एवं कृते सारङ्गोपमेयस्य मृगोपमानेन सादृश्यकल्पनात् स्वौपम्यदोषः रसापकर्षकः सन् उपमेयमकालिदासीयेति कल्पयति । यतोऽधस्तात् “सारङ्गमासीनमभ्यर्थये" इति नायकोक्तो सारमङ्गे यस्येति सारङ्ग इति व्युत्पत्त्यैव कृष्णसारमृगविशेषजातिमत्त्वं पुरैव ख्यापितं भवति अतः कृष्णसारपदे कृष्णा च सारा कर्बुरिता श्रेष्ठा वेति व्यास एव रुचिरः । एवञ्चेह कृष्णशारेति पाठस्तु नूनं साधीयानेव भवेत् किन्तु तदा कटाक्षपक्षे तदन्वयो न भवतीति सुधीभिर्विचार्यम् ।

 अत्र कटाक्ष इव सारङ्गो दृश्यते इति सम्भावनादुत्प्रेक्षालङ्कारः । “सम्भावनमथोत्प्रेक्षा प्रकृतस्य समेन यदिति" लक्षणयोगात् । कृष्णसारपदस्य द्व्यर्थित्वात् "श्लेषश्च । अनुष्टुब् वृत्तम् ॥ ५७ ॥

(चर्चरी)

 अभिज्ञानप्रदर्शनपूर्वकं याचते सारङ्गं प्रियाप्रवृत्तिं राजा ।

 सुरसुन्दरीति-सुरसुन्दरी देवाङ्गना जघनदेशस्य भरेण स्थूलत्वात् भारेण अलसा मन्दगतिः, पीनौ मांसलौ उत्तुङ्गौ 'उन्नतौ अत एव घनौ निबिडौ स्तनौ यस्याः सा तादृशी स्थिरयौवना अनश्वरयुवावस्था, तनुशरीरा कृशाङ्गी, हंसस्य गतिरिव गतिर्गमनं यस्याः सा, मृगस्य लोचने इव लोचने यस्याः सा,

गगनवन्निर्मलताविशिष्टत्वेनोज्ज्वले कानने वने भ्रमन्ती मम प्रिया उर्वशी त्वया

(उपसृत्याञ्जलिं बद्ध्वा)

हंहो हरिणीपते !

अपि दृष्टवानसि मम प्रियां वने
 कथयामि ते तदुपलक्षणं शृणु ।
पृथुलोचना सहचरी यथैव ते
 सुभगा तथैव खलु सापि वीक्षते । ५९ ॥

कथमनादृत्य मद्वचनं कलत्राभिमुखं स्थितः ।
सर्वथोपपद्यते परिभवास्पदं विधिविपर्ययः । यावदन्यमवका-


दृष्टा किम् ? दृष्टा चेत् मां तस्या विरहः एव समुद्रः तस्यान्तरान्मध्यभागादुत्तारय । तदीयविरहाकूपारे मग्नं तत्प्रवृत्तिनौकया मामुद्धर इति प्रार्थना ।

 अत्र स्थिरयौवनात्वे सुरसुन्दरीत्वस्य हेतुत्वात् काव्यलिङ्गमलङ्कारः “हेतोर्वाक्यपदार्थता" इति वचनात् । विरहस्य समुद्रत्वकल्पनाद् अगाधत्वं व्यञ्जयन् स्वयमुद्धरणायोग्यत्वं ध्वनयति । अत्रालङ्कारेण वस्तुध्वनिः । अलङ्कारश्च रूपकम् । अत्र हंसगतिमृगलोचनादिपदेषु उपमालङ्करणम् । एतेषां संसृष्टिश्च ॥ ५८ ॥

 उपसृत्याञ्जलिं बद्ध्वा जानुभ्यां स्थानेन अञ्जलिबन्धनेन च राज्ञः प्रष्टव्यानामुपकारकत्वात्तेषु विनयित्वं प्रकाश्यते । हंहो इति प्रश्ने । हरिण्या: मृग्याः पतिः तत्सम्बुद्धौ हे हरिणीपते मृगीप्रिय ।

  अपीति-अपिः प्रश्ने । मम प्रियामुर्वशीं त्वं वने दृष्टवान् असि किम्- त्वया सा विपिने दृष्टा किमिति प्रश्नः। दृष्टा चेत्तर्हि ते तुभ्यं त्वां प्रति वा तस्याः उपलक्षणं प्रत्यभिज्ञानचिह्नं कथयामि तदभिज्ञानं शृणु । यथा पृथू कर्णान्तचारिणी लोचने यस्याः सा तादृशी दीर्घापाङ्गा ते सहचरी प्रियतमा मृगी वीक्षते पश्यति तथैव सुभगा मनोहरा सा अपि वीक्षते । यादृशं वीक्षणं तव प्रियायास्तादृशम् एव तस्या इति अभिज्ञानम् ।

 मृगनयना सा इति तात्पर्यम् । तव परिचितं यदि तस्याः परिज्ञानमिष्यते तदेदमुच्यते यत्सापि तव प्रियासदृशी दीर्घापाङ्गचञ्चत्तारका अस्ति ।

 मञ्जुभाषिणी वृत्तम् । यदुक्तम् “सजसा जगौ भवति मञ्जुभाषिणी" । सकारजकारसकारजकारा गुरुश्च यत्र भवन्ति तद्वृत्तं मञ्जुभाषिणी नाम ॥ ५९ ॥

 कथं मम वचनं प्रार्थनागर्भमिदं वाक्यं अनादृत्य तिरस्कृत्य कलत्रस्य स्त्रियः अभिमुखं यथा स्यात्तथा सम्मुखे स्थितः । सारङ्गस्तु स्वप्रियामवलोकयन्नासीदत्रान्तरे राज्ञा एवं प्रोक्तम् किन्तु तस्य तिर्यग्योनित्वादनवधानम् युक्तमेव ॥

 सर्वथेति-विधेः दैवस्य विपर्ययः प्रतिकूलता परिभवस्य अधिक्षेपस्य आस्पदं स्थानं सर्वथा उपपद्यते युज्यते । प्रतिकूले तु भागधेये,अधिक्षेपः अवश्यं

शमवगाहिष्ये । (परिक्रम्यावलोक्य च) हन्त! दृष्टमुपलक्षणं तस्या
मार्गस्य ।

रक्तकदम्बः सोऽयं प्रियया घर्मान्तशंसि यस्येदम् ।
कुसुममसमग्रकेसरविषममपि कृतं शिखाभरणम् ॥ ६० ॥

तत्किं नु खलु शिलाभेदगतं नितान्तरक्तमिदमवलोक्यते ।

प्रभालेपी नायं हरिहतगजस्यामिषलव:
 स्फुलिङ्गः स्यादग्नेर्गहनमभिवृष्टं पुनरिदम् ।
अरे रक्ताशोकस्तबकसमरागो मणिरयं
 यमुद्धर्त्तुं पूषा व्यवसित इवालम्बितकरः ॥ ६१॥


भावीति भावः । यावदन्यमवकाशं स्थलमवगाहिष्ये गमिष्यामीत्यर्थः। (परिक्रम्य अवलोक्य च ) हन्त इति हर्षे ! तस्याः प्रियाया मार्गस्य उपलक्षणं चिह्नं दृष्टम् ।

 रक्तकदम्बेति-रक्तकदम्बस्तु तपात्यय एव कुसुमितो भवतीति प्राकृतिकम् ।

 स एवायं रक्तकदम्बस्तरुः यस्य वृक्षस्य इदम् धर्मान्तस्य ग्रीष्मात्ययस्य शंसि बोधकम् तथा च असमग्रैः असम्पूर्णैः केसरैः हेतुभिः विषमं निम्नोन्नतं अपि पुष्पं प्रियया शिखाभरणं केशभूषणं कृतम् आसीदिति शेषः ।

 अयं स एव रक्तकदम्बतरुर्यस्य वर्षासमयप्रारम्भबोधकम् किञ्चिदुन्नतकेसरत्वान्नतोन्नतं अपि कुसुमं मम प्रियया केशभूषणत्वेनोपयुक्तमासीदिति भावः । अत्र स्मरणमलङ्कारः। आर्या जातिः ॥६०॥

 (विलोक्य) तत् किं नु खलु इदं शिलाभेदान्तरगतं नितान्तरक्तमत्यन्तलालिमयुतं वस्तु अवलोक्यते दृश्यते किमिदं रक्तं रत्नं वा किमप्यन्यद् इति सन्देहः ।

 प्रभालेपीति -प्रभया दीप्त्या लिम्पति व्याप्नोति सन्निहितमिति प्रभालेपी देदीप्यमानोऽयमस्तीत्यनेनावगम्यते यदयं हरिणा सिंहेन हतस्य व्यापादितस्य गजस्य आमिषलवः मांसशकलम् नास्तीति । मांसखण्डस्य प्रभाभावात् । अयं तु विलक्षणतेजोयुतः अतः नायं मांसखण्डः । सन्देहे तु रक्तत्वं कारणम् । यदि नायं मांसखण्डस्तदा अग्नेः स्फुलिङ्गः कणः स्यात् । तदप्यसम्भवि यतः इदं गहनं वनं अभिवृष्टं जलवृष्ट्या सिक्तं अभूत् । जलवर्षणे तु अग्निकणस्यासम्भवात् । इदानीमेव भूयसी वृष्टिरभूत्, तदा अयं अग्निकणस्तु भवितुं नार्हति इति स्फुलिङ्गविषयकसन्देहवारणम् ।

 (विभाव्य) अरे अयं रक्तः यः अशोककुसुमानां स्तबको गुच्छः तेन समस्तुल्यः रागो लालिमा यस्य तादृशो मणिरस्ति यं मणिं उद्धर्तुं उद्ग्रहीतुं व्यवसित उद्युक्त इव स्वयं पूषा सूर्यः आलम्बितकरः अधःप्रसारितकिरणहस्तः प्रतिभाति ।

भवतु । आदास्ये तावत् । (ग्रहणं नाटयति )
पणइणिवद्धासाइअओ वाहाउलणिअणअणओ।
गअवइ गहणे दुहिअओ परिभमइ स्वामिअवअणओ ॥

   [प्रणयिनीबद्धास्वादः बाष्पाकुलनिजनयनः ।
   गजपतिर्गहने दुःखितः परिभ्रमति क्षामितवदनः॥ ६२ ॥]


 रक्कं किञ्चिद्वस्तु दृष्ट्वा इदं वेदमिति सन्दिहानो राजा कथयति सिंहेन मारिः तस्य गजस्य किमयं मांसखण्डः इति सन्देहः किन्तु अयं देदीप्यमानः अत स तु भवितुं नार्हति । भवतु अयं अग्निकणः स्यात् । तदपि न यत इदानीमेव भूयसी वृष्टिः जाता। (किञ्चिद्विभाव्याह) रक्तानां अशोकपुष्पाणां गुच्छ इव रक्तकान्तिरयं मणिरस्ति यं ग्रहीतुं इव भगवान् सूर्यः स्वकिरणरूपकरप्रसारणपरः उद्युक्तो दृश्यते इति भावः।

 अत्र पूर्वार्धे किमिदं तत्तु न तथेति इति कारणप्रदानपूर्वकं एकस्मिन् वस्तुनि सन्देहनिवारणं अन्यत्र स्थापनं इति हेतोः निश्चयपर्यवसायी "अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः" इतिवत् भेदोक्तौ ससन्देहालङ्कारः तल्लक्षणं यथा मम्मटभट्टैः "ससन्देहस्तु भेदोक्तौ तदनुक्तौ च संशयः" ।

 रक्ताशोकेत्यत्र आर्थी उपमा “सुन्दरं सादृश्यं वाक्यार्थो पस्कारकमुपमालङ्कृति"रितिलक्षणात् । आलम्बितकरः, करः मयूखः; कर एव करः इत्यत्र तादात्म्याद्रूपकमलङ्कारः । कर इत्यत्र एकानुपूर्व्या एकवृन्तगतफलद्वयन्यायेनार्थद्वयसद्भावात् श्लेषालङ्कारः।

 पूषा व्यवसित इव प्रतिभातीत्यत्र उत्प्रेक्षालङ्कारः । हरिहर्तेत्यत्रानुप्रासालङ्कारश्च । स्फुना फूत्कारेण लिङ्गति परिज्ञायते इति स्फुलिङ्गोऽग्निकणः "त्रिषु स्फुलिङ्गोऽग्निकणः” इति कोषः । रक्ताशोकस्तबकेत्यत्र एकस्य पुष्पस्य तादृग्लालिम्नोऽभावात् समूहार्थकस्य गुच्छपदस्य प्रदानम् ।

 अत्र कठिनवर्णघटितसंयोगपरहस्ताक्षराणां बाहुल्येन दर्शनात् श्रुतिकटुत्वे सत्यपि राज्ञः विरहविधुरत्वजन्यास्वास्थ्यवशीभूतत्वात् नायं दोषः प्रत्युत गुण एवेति विभाव्यम् ।

 अत्र सञ्जाते तु घनाभिवर्षे नवजलधराणां सन्नद्धत्वेऽपि विद्यमाने कथं तावत् सवितुः प्रखरतया विभाव्यमानत्वं मणिमादातुं आलम्बितकरत्वमुत्प्रेक्ष्यते कविनेति काव्यविश्वस्यात्मनोऽपरतन्त्रत्वेनैव प्रजापतित्वं घटितमिति चोपरिष्टात्कथं भगवान् मृगराजधारीत्यत्र स्थले वक्ष्यते ॥

 इयञ्च शिखरिणी । तल्लक्षणं प्रागुक्तमेव ॥ ६१ ॥

 भवतु । आदास्ये तावदेतद् रत्नम् । इति ग्रहणं रत्नस्य नाटयति ।

 प्रणयिनीति-प्रणयिन्यां प्रियायां बद्धः आस्वादः आसक्तिः येन सः

(द्विपदिकयोपसृत्य गृहीत्वात्मगतम्)

मन्दारपुष्पैरधिवासितायां यस्याः शिखायामयमर्पणीयः।
सैव प्रिया सम्प्रति दुर्लभा मे नैवैनमश्रूपहतं करोमि ॥ ६३ ॥

(इत्युत्सृजति)

(नेपथ्ये)

वत्स! गृह्यताम् गृह्यताम्

सङ्गमनीयो मणिरिह शैलसुताचरणरागयोनिरयम् ।
आवहति धार्यमाणः सङ्गममाशु प्रियजनेन ॥ ६४ ॥


बाष्पैरश्रुभिराकुले प्लुते अवरुद्धे नयने यस्य तादृशः दुःखित अत एव क्षामितं म्लानं वदनमाननम् यस्य एतादृशः गजपतिः गहने वने परिभ्रमति ॥ ६२॥

 (द्विपदिकया उपसृत्य तं मणिं गृहीत्वा आत्मगतम् मनस्येवाह )

 मन्दारेति-मम प्रियायाः मन्दारः कल्पतरुः तस्य पुष्पैः प्रसूनैः अधिवासितायां सुगन्धीकृतायां शिखायां केशपाशे अयं मणिरर्पणीयः निवेशनयोग्यः सा एव मे प्रिया सम्प्रति अधुना दुर्लभा कृच्छ्रेण लभ्या । यस्याः कृते अहमेनमुग्द्रहीतुं कामये सा एव मत्पार्श्वे नास्ति तदा तद्ग्रहणं निरर्थकम् तेन च एनं मणिं अश्रूपहतं अश्रुबिन्दुदूषितं नैव करोमि । प्रियाया असान्निध्यात् अस्य ग्रहणं व्यर्थं सत् केवलं बाष्पैर्दूषणायैव भवेदिति मत्वा नाहं गृह्णामीति विचार्यते। अत्र प्रियालाभरूपकार्यस्यात्ययात् “विरोधनं" नाम विमर्शसन्ध्यङ्गमुक्तं भवति ।

 इन्द्रवजा वृत्तम् । स्यादिन्द्रवज्रा यदि तौ जगौ गः इति लक्षणात् ॥ ६३ ॥

 इति विचार्य मणिमुत्सृजति ।

 नेपथ्ये-अदृष्टभाषितम्-तल्लक्षणं यथा प्रथमाङ्के प्रोकम् ।

 वत्स! गृह्यतां गृह्यतामयं मणिः ।

 सङ्गमनीयेति -इह अस्मिन् स्थले शैलसुतायाः गिरिजायाः चरणयोः रागः लालिमा एव योनिः कारणं यस्य स अयं सङ्गमनीयाख्यः मणिरस्ति । यः मणिः धार्यमाणः शरीरे धार्यते चेत् प्रियजनेन प्रणयिजनेन सङ्गमं समागममाशु शीघ्रमेवावहति विदधाति । पार्वतीचरणसरसिजसमुत्पन्नोऽयं मणिः; एनं गृहाण, धारिते ह्यस्मिन् दयितजनेन सत्वरमेव समागमो भवतीति अस्य गुणः । त्वञ्च विरही, गृहाणैनम् । इति नेपथ्यभाषितम् । अस्य मणेः संयोगेन नायको नायिकया सङ्गमिष्यते । अस्यैव योगं तावत्कविवरः सूचितवान् आदिमे पद्ये यथा "स्विस्भक्तियोगसुलभेति" अध्येतृभिः स्मर्तव्यम् । आर्या, जातिः ॥ ६४ ॥ .  राजा-(ऊर्ध्वमवलोक्य) को मामनुशास्ति । ( विलोक्य) कथं भगवान् मृगराजधारी । भगवन् !अनुगृहीतोऽहममुनोपदेशेन ।

 (मणिमादाय ) हंहो सङ्गममणे!

तया वियुक्तस्य निमग्नमध्यया
 भविष्यसि त्वं यदि सङ्गमाय मे ।
ततः करिष्यामि भवन्तमात्मनः
 शिखामणिं बालमिवेन्दुमीश्वरः ।। ६५ ।।


 राजा-(ऊर्ध्वं आकाशे अवलोक्य) को माम् अनुशास्ति मणिमादातुमाज्ञापयति । ( विलोक्य ) कथं भगवान् मृगराजधारी चन्द्रः । राज्ञश्चन्द्रवंशित्वात् तत्रभवांश्चन्द्रः एवानुशासनपरः इति ज्ञेयम् । भगवन् ! अमुना मणिग्रहणमयेनोपदेशेन अनुगृहीतः विरहात् उद्धृतोऽस्मि ।

 अत्रेदं सहृदयैरूह्यं यद्राजा उर्वशीसनाथो यदा विहारार्थं प्रक्रान्तः तदा तावद्वर्षासमयः आसीत् अत एव नवजलधरेति पये चतुर्थाङ्कस्यारम्भे एव पटुधारासारस्य वर्णनं, पुनश्च मनस्तापवृद्धिहेतोः जलधरकालस्य प्रत्यादेशोद्योगो नायकस्य, विद्युल्लेखावतामम्बुवाहानां गगने नैगमत्वेन विहारवर्णनं मेघाभिवृष्टसिकतानां वनस्थलीषु सद्भावः, शिखिनां पयोदोन्मुखत्वं, राजहंसानां मानसाय गमनप्रक्रमः परं च शिलोच्चयानुयोगे "मेघोदयोऽपि शतह्रदाशून्यः संवृत्तः" इति ‘प्रकटनं, नवमेघकालस्य दशदिक्षु व्याप्तत्वमित्यादिभिः समस्तोपकरणैः अतिघनघटासमाच्छादितं गगनं प्रावृषि तत्परिसरे तदानीमासीत् इति मनागपि न शङ्क्यते, एवं सत्यपि तत्रभवतः कवेः मणिमुद्ग्रहीतुं “पूषा व्यवसित इवालम्बितकरः" इति भगवदादित्यस्य स्फुटकिरणकरप्रपातस्य भृशं असमञ्जसत्वे दुर्वारे सत्यपि परस्मिन्नेव मुहूर्ते कुतोऽयं मणिरिति जिज्ञासयोर्ध्वालोकनव्यग्रस्य नायकस्य तादृशमेघघटाकृष्णायितव्योम्नि आदित्यदीप्तौ च "कथं भगवान् मृगराजधारीति" चन्द्रमसः स्फुटालोकस्तावद्दुर्घट एवेति पूर्वप्रोक्तस्य ख्यातविरोधात्मकस्याप्राकृतिकत्वदोषस्य वारणाय नायकस्य विरहोन्मादगह्वरं, कर्वेवा नियतितन्त्रापारतन्त्र्यदुर्गं शरणमतीव दुर्बलमिति ॥

(मणिमादाय)

 अत्र मणिग्रहणप्रसङ्गे प्रेयसीप्राप्तिरूपबीजस्योपसंह्रियमाणप्रयोजनस्य प्रोत्साहकत्वात्प्ररोचना नाम विमर्शसन्ध्यङ्गम् ॥ यल्लक्षणं दर्पणे "प्ररोचना तु विज्ञेया संहारार्थप्रदर्शिनी ॥"

 हंहो सङ्गममणे!

 तयेति-नितरां मग्नः निमग्नः कृशो मध्यप्रदेशः यस्याः सा; तनुमध्यया तया वियुक्तस्य मे यदि त्वं सङ्गमाय समागमफलाय भविष्यसि ततः भवन्त (परिक्रम्यावलोक्य च) अये! किं नु खलु कुसुमरहितामपि लतामिमां पश्यता मया रतिरुपलभ्यते । अथवा स्थाने मम मनो रमते । इयं हि----

तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः
 शून्येवाभरणैः स्वकालविरहाद्विश्रान्तपुष्पोद्गमा ।
चिन्तामौनमिवास्थिता मधुलिहां शब्दैर्विना लक्ष्यते
 चण्डी मामवधूय पादपतितं जातानुतापेव सा ॥६६॥


मात्मनः मम शिखामणिं चूडामणिं करिष्यामि त्वां मस्तके धारयिष्यामीति भावः। ईश्वरः शिवः बालमिन्दुमिव । यथा शिवेन नवेन्दुः स्वचूडामणित्वेन कल्पितस्तथैव यदि त्वं तनुमध्यया तया विरहितस्य मम प्रियया सह समागमं कारयिष्यसि तदा अहं त्वां मम शिरसि निधास्ये । शिरसि धारणं परमादरसूचकम् । सङ्गमायेति तादर्थ्ये चतुर्थी । अत्रोपमा । वंशस्थवृत्तम् ॥ ६५॥

 (परिक्रम्य अवलोक्य च ) अये ! किं नु खलु किमस्य कारणं यत् कुसुमैः रहितां हीनामपि इमां पुरोवर्तिनी लतां पश्यता प्रेक्षमाणेन मया रतिः प्रीतिरुपलभ्यते । मणिं प्राप्य लतारूपे परिणतायां उर्वश्यां प्रीतिः समुत्पद्यते । किन्तु लतापरिणाममजानन् आह-नाहं जाने किमस्य कारणं यदहं लतामेनां पश्यामि मुदितश्च जात इति । अथवा स्थाने युक्तमेव तत् यन्मे मनः अत्र रमते । तस्या लताया रूपं वर्णयति-इयं हि लता कीदृशी इत्याह-

 तन्वीति-तन्वीयं लता एतादृशी लक्ष्यते यत् सा कोपना मम प्रिया एव चरणपतितमपि मामवमत्य पश्चात्तापयुतेव भवेत् । पश्चात्तापयुतायामुर्वश्यां लता चास्यां सामान्यं दर्शयति-

 चण्डी यदा सानुतापा स्यात्तदा बाष्पाणामुद्गमः स्यात्तेन च अधरोऽपि धौतः स्यात् । तथैव लतायामपि । मेघजलं वर्षाजलं तेन आर्द्राः पल्लवा यस्याः सा तस्या भावः वृष्ट्या आर्द्रपल्लववतीत्वात् अश्रुभिः बाष्पैर्धौतः क्षालितः अधरः यस्याः सा तादृशी प्रतिभाति । परश्च अनुतापचिह्नमिदं यतः प्रथमं अनुतापवती ललना भूषणानि न परिधत्ते । अत्र च लतासु कुसुमोद्गमस्य समयाभावे तदभावात् आभरणरहितत्वं कल्प्यते । स्वस्य कालः पुष्पोद्गमसमयः तस्य विरहादभावात् विश्रान्तः पुष्पाणामुद्गमः प्रादुर्भावः यस्याः सा कुसुमरहिता लता आभरणैः अलङ्कारैः शून्या इव प्रतिभाति । पुनश्च सानुतापा रमणी बद्धमौना भवति । इह च लतापक्षे कुसुमानां विरहात् मधुकरा नायान्ति तेन तेषां गुञ्जनं न, अत एव भ्रमरगुञ्जनराहित्येन इदं प्रतीयते यत्सा अनुतापवशात् बद्धमौनेव स्यात् । मधुलिहां

दिरेहाणां शब्दैः गुञ्जनैर्विना चिन्तया पश्चात्तापेन मौनं आस्थिता एव दृश्यते ।

यावदस्यां प्रियानुकारिण्यां लतायां परिष्वङ्गप्रणयी भवामि ।

लए पेक्ख विणु हिअए भमामि
 जइ विहिजोएण पुणि तहिं पाविमि ।
ता रण्णे बिणु करिमि णिब्भन्ती
 पुण णइ मेल्लइ दाहकअन्ती ॥
[लते ! प्रेक्षस्व विना हृदयं भ्रमामि
 यदि विधियोगेन पुनस्तां प्राप्स्यामि ।
तदारण्येन विना करोमि निर्भ्रान्ति
 पुनर्न प्रवेशयामि दाहकृतन्ताम् ॥ ६७ ॥]

(इति चर्चरिकयोपसृत्य लतामालिङ्गति ततस्तदीयस्थानमाक्रम्यैव प्रविष्टोर्वशी)

 राजा (निमीलिताक्षः स्पर्शं नाटयित्वा ) अये! उर्वशीगात्रस्पर्शादिव निर्वृतं मे हृदयम् । पुनरस्ति विश्वासः । कुतः-


अत एभिः कारणैः इदं लक्ष्यते यत् सा चण्डी कोपना उर्वशी पादयोः पतितं अनुनये तत्परमपि मां अवधूय तिरस्कृत्य जातानुतापा पश्चात्तापतप्ता इव भवेत् ।

 यथा सानुतापा मानिनी अश्रुपूर्णा भवति तथैवेयं लता वर्षाजलार्द्रपल्लवैः प्रतिभाति, यथा सा निरलङ्कारा तथैवेयं कुसुमाभरणैः शून्या, यथा सा मौनमालम्बमाना तथैवेयं द्विरेफगुञ्जनराहित्येन मौनं भजमाना दृश्यते । अनेनेदं प्रकल्प्यते यन्मां चरणयोः पतितमपि तिरस्कृत्य पश्चात्तापयुता सा भामिनी एवेयं लतेति भावार्थः । तन्वी तनुशरीरा, लतापक्षे विरला । अत्रोत्प्रेक्षालङ्कारः । अत्र दशरूपकमतेन कार्यान्वेषणाद् "विरोधनं" नाम सन्ध्यङ्गमुक्तं भवति । शार्दूलविक्रीडितं वृत्तम् ॥ ६६ ॥

 यावदस्यां लतायां परिष्वङ्गे आलिङ्गने प्रणयी आसक्तः भवामि । प्रियानुकारिण्यां प्रियायाः उपर्युक्तरीत्या अनुकरणशीलायाम् इति ताच्छील्ये णिनिः ।

 लत इति-अयि लते । प्रेक्षस्व विचारय । अहमिह वने हृदयेन विना भ्रमामि । हृदयशून्यः अनवस्थितचित्तः सन् भ्रमामि । किन्वहं यदि विधियोगेन दैववशात् तां प्रियां पुनः प्राप्स्यामि लभेय तदा अरण्येन विना करोमि वनाद् बहिः निष्कासयामि तथा च दाहं विरहजन्यपीडां कृन्ततीति दाहकृत् तादृशीं तां पुनररण्ये निर्भ्रान्ति निःसन्देहं न प्रवेशयामि आनेष्यामि । निर्गता भ्रान्तिः सन्देहः यस्यां क्रियायां सा यथा स्यात्तथेति क्रियाविशेषणम् ॥ ६७ ॥

(इत्युक्त्वा चर्चरिकयोपसृत्य लतामालिङ्गति)

 (ततः तदीयस्थानं लतास्थानमाक्रम्यैव स्वीकृत्यैव उर्वशी प्रविष्टा)

  राजा-(आनन्दातिरेकात् निमीलिताक्षः प्रियास्पर्शं नाटयित्वा रूपयित्वा) अये इति हर्षसूचकम् । मे हृदयम् उर्वश्याः गात्रेण संस्पर्शाद् यथा निर्वृतं

 

 १९ विक्र०

समर्थये यत् प्रथमं प्रियां प्रति क्षणेन तन्मे परिवर्ततेऽन्यथा ।
अतो विनिद्रे सहसा विलोचने करोमि न स्पर्शविभावितप्रियः॥६८॥

 ( शनैरुन्मील्य चक्षुषी) कथं सत्यमेवोर्वशी । (इति मूर्च्छितः पतति)

    उर्वशी-समस्ससहु समस्ससहु महाराओ। [समाश्वसितु समाश्वसितु महाराजः।]

    राजा-(संज्ञां लब्धा) प्रिये ! अद्य जीवितम् ।

त्वद्वियोगोद्भवे चण्डि मया तमसि मज्जता ।
दिष्ट्या प्रत्युपलब्धासि चेतनेव गतासुना ॥ ६९ ।।


सुखीभवेत् तथैव जातमिति मन्ये । अत्र भावानां सात्विकानामभिव्यक्तिः अतः पुनरस्ति विश्वासो यत्सा प्राप्स्यते । कुत इति हेतुमाह विश्वासे-

 समर्थय इति-यद्यत् तस्याः वसनगतिलोचननूपुररवादिकं अहं प्रियां प्रति समर्थये निश्चिनोमि तत् सर्वं क्षणेन अन्यथा परिवर्तते । पूर्वं अयं मे प्रियायाः नूपुररवः, इयं तदीया गतिः, इदं तस्या अंशुकमिति यद्यदहं पूर्वं सम्भावयामि तदेव परस्मिन् क्षणे अन्यथा भवति नायं नूपुररवः किन्तु हंसकूजितम् , नेदं वसनम् किन्तु शाद्वलमित्येवं क्षणादेव यन्मया प्रियाविषयकं निश्चितमासीत्तदन्यथा भवति । अतः स्पर्शविशेषेण विभाविता लब्धा प्रिया येन तादृशः अहम् मम विलोचने सहसा विनिद्रे न करोमि नोद्घाटयामि । यतः अयं प्रियास्पर्शः अपि अन्यथा भवेत् ।

 यथा पूर्वं सर्वं क्षणेनान्यथा जातम् तथैवायं प्रियासम्पर्कोऽपि क्षणेन वैपरीत्यं भजेत् अस्माद् भयान्नाहं सहसा नयने उद्घाटयामि, शनैः शनैः उद्घाटयामि येन प्रियासम्पर्कजन्यानन्दविशेषवञ्चितोऽहं न लघु भवामि ।

 वंशस्थवृत्तम् ॥ ६८॥

 ( शनैः चक्षुषी उन्मील्य । ) कथं सत्यमेव परमार्थत एव उर्वशी । (इति हर्षविशेषान्मूर्च्छितः गतसंज्ञः सन् पतति)

 उर्वशी-समाश्वसितु समाश्वसितु शान्तो भवतु महाराजः ।

 राजा-(संज्ञां चेतनां लब्धा ) प्रिये ! अद्य जीवितम् ।

 त्वदिति-तव वियोगोद्भवे विरहात् सञ्जाते तमसि शोके मज्जता मया गतासुना निर्गतप्राणेन प्राणिना चेतना संज्ञा इव त्वं दिष्ट्या सौभाग्येन प्रत्युपलब्धासि पुनः प्राप्तासि ।

 त्वद्विरहजन्यशोकसागरे मग्नेन मया त्वं मत्सुदैववशात् यथा निर्गतजीवेन प्राणिना संज्ञा प्राप्यते तथा प्राप्तासि । यथा चेतनाया लाभेन मानवः विवेकं कार्यकारिणीं शक्तिं लभते तथैव त्वदाप्त्या अहमधुना सचेतनः सन् स्वस्थतामाप्तः इति तात्पर्यम् । अनुष्टुब् वृत्तम् ॥ ६९ ॥  उर्वशी-मरिसदु मरिसदु महाराओ । जं मए कोववसं गदाए अवत्थंतरं पाविदो महाराओ।[मर्षयतु मर्षयतु महाराज: यन्मया कोपवशं गतयावस्थान्तरं प्रापितो महाराजः।]

 राजा-नाहं प्रसादयितव्यस्त्वया । त्वद्दर्शनेन प्रसन्नो मे सबाह्यान्तरात्मा । तत्कथय कथमियन्तं कालं मया विरहिता स्थितासि ।

(अनन्तरे चर्चरी)

मोरा परहुअ हंस रहंग
 अलि गअ पव्वअ सरिअ कुरंगम् ।
तुज्झह कारणे रण्ण भमन्ते
 को ण हु पुच्छिअ मइ रोअन्ते ।।
[मयूरः परभृद्धंसो रथाङ्गोऽ-
 लिर्गजः पर्वतः सरित्कुरङ्गः।
तव कारणेनारण्ये भ्रमता
को न खलु पृष्टो मया रुदता ॥ ७० ॥]


 उर्षषि-मर्षयतु मर्षयतु महाराजः, क्षन्तव्यो हि ममापराधः कोपवशं गतया मया अवस्थान्तरं प्रापितः । कोपोपहतमानसया मया महाराजः अन्यामेव अवस्थां प्रापित इति मदीयोऽपराधः क्षन्तव्यः ।

 राजा-अहन्त्वया प्रसादयितव्यः आराधनीयो नास्मि । मां प्रसन्नं कर्तुं त्वया यत्नो न कार्यः। यतः त्वद्दर्शनेन मे सबाह्यन्तरात्मा बहिःकरणानि अन्तःकरणञ्च प्रसन्नानि । बहिरन्तश्चाहं मुदितोऽस्मि त्वदीयदर्शनसौभाग्येन अतः मां प्रीणयितुं मा यतेथाः। तत्कथय त्वं कथं इयन्तं कालं मया विरहिता वियुक्ता स्थितासि । इयन्तमित्यनिर्वचनीयमिति भावः । समयस्यानेन दीर्घत्वम् प्रकाशितम् । इह नाहं प्रसादयितव्य इति स्थले प्रियाप्राप्तिरूपबीजकार्योपगमनाद् आदानं नाम विमर्शसन्ध्यङ्गमुक्तं भवति “कार्यसङ्ग्रह आदान"मिति लक्षणात् ॥

(अनन्तरे चर्चरी)

 मयूरेति -तव कारणेन त्वामन्वेष्टुं कानने वने भ्रमता त्वल्लाभाभावाद् रुदता मया मयूरः, परभृत् कोकिल:, हंसः, रथाङ्गश्चक्रवाकः, अलिर्भ्रमरः, गजः, पर्वतः, कुरङ्गः सारङ्गः इत्यादयः तथा च को वान्यो न पृष्टः । अपि तु सर्वेऽपि पृष्टाः प्रत्युत्तरस्यालाभादपमानोऽपि सोढः इति सारः । त्वदर्थं रुदता अरण्ये भ्रमता च मया ये केचन मध्ये मिलिताः ते सर्वेऽपि पृष्टा इत्यर्थः ।  उर्वशी-

 अन्तक्करणपच्चक्खीकिदवुत्तन्तो महाराओ।
 [अन्तःकरणप्रत्यक्षीकृतवृत्तान्तो महाराजः।]

 राजा-प्रिये ! अन्तःकरणमिति न खल्ववगच्छामि ।

 उर्वशी-सुणादु महाराओ । पुरा भअवदा महासेणेण सासदं कुमारव्वदं गेण्हिअ अकलुसो णाम गन्धमादणकच्छो अज्झासिदो। किदा अ स्थिदी । [शृणोतु महाराजः । पुरा भगवता महासेनेन शाश्वतं कुमारव्रतं गृहीत्वा अकलुषो नाम गन्धमादनकच्छोऽध्यासितः। कृता च स्थितिः।]

 राजा-कीदृशी।

 उर्वशी-जा किल इथिआ इमं देसं आगमिस्सदि सा लदाभाएण परिणदा भविस्सदि । किदो अ सावान्तो गोरीचरणराअसंभवं मणिं वज्जिअ लदाभावं ण मुंचिस्सदि त्ति । तदो अहं गुरुसावसंमूढहिअआ विसुमरिदेवदाणिअमा अम्हका-


अत्र छादनं नाम विमर्शसन्ध्यङ्गं लभ्यते, यल्लक्षणं दर्पणे "कार्यार्थमपमानादेः सहनं खलु यद्भवेत्..."तदाहुश्छादनं पुनः" ॥ ७० ॥

 उर्वशी-अन्तःकरणेन मनसा प्रत्यक्षीकृतो दृष्टः वृत्तान्तः यस्य सः एतादृशो महाराजः अस्ति । यद्यद् भवद्भिः मम कृते प्रलपितं तत्सर्वं मया मनसा परिज्ञातम् । भवतो हृदयं जानत्या मया सर्वं विश्वस्यतेऽलं प्रतिपादनेनेति भावः । अत्र “अनुनयो" नाम नाट्यलक्षणम् ।

 राजा-प्रिये! अन्तःकरणमिति पदेन तवार्थं न खलु अवगच्छामि । किन्ते तात्पर्यमिति नावगतं मया।

 उर्वशी-शृणोतु महाराजः । इदानीं सर्वं शापकारणादिकं प्रकटीकरोति । पुरा प्राचीनसमये भगवता महासेनेन शाश्वतं निरन्तरं कुमारव्रतं ब्रह्मचर्यव्रतं गृहीत्वा अकुलषो नाम, गन्धेन सौरभेण मादयति मत्तं करोति इति तच्छीलः कच्छो जलप्रायप्रदेशः अध्यासितः वासाय स्वीकृतः । पुरा महासेनः नैष्ठिकं व्रतं गृहीत्वा अकलुषाख्ये जलाशये न्यवसत् । तेन एषा स्थितिर्मर्यादा कृता ।

 राजा-कीदृशी च सा मर्यादा इति शेषः ।

 उर्वशी -या किल स्त्री इमं देशं अकलुषाख्यं कच्छं आगमिष्यति सा लताभावेन लतारूपेण परिणता भविष्यति । लतात्वं प्राप्स्यतीति भावः । तथा च महासेनेन शापान्तः शापादस्मान्मुक्त्युपायः कृतः यत् गौर्याश्चरणरागात् सम्भूतं जणपरिहरणीअं कुमारवणं पविट्ठा । पवेसाणन्तरं अ काणणोवन्तवत्तिलदाभाएण परिणदं मे रूवम् । [या किल स्त्री इमं देशं आगमिष्यति सा लताभावेन परिणता भविष्यति । कृतश्च शापान्तः गौरीचरणरागसम्भवं मणिं वर्जयित्वा लताभावं न मोक्ष्यतीति । ततोऽहं गुरुशापसम्मूढहृदया विस्मृतदेवतानियमा खीजनपरिहरणीयं कुमारवनं प्रविष्टा । प्रवेशानन्तरञ्च काननोपान्तवर्तिलताभावेन परिणतं मे रूपम् ।]

  राजा-प्रिये! सर्वमुपपन्नम् ।

  रतिखेदसुप्तमपि मां शयने या मन्यसे प्रवासगतम् ।
  सा त्वमिहैतदवस्थं कथं सहेथाश्चिरवियोगम् ॥ ७१ ॥

 इदं चैतद्यथाकथितं सङ्गमनिमित्तं पुनरुपलब्धप्रभावमस्माभिः ।

(इति मणिं दर्शयति)

 उर्वशी-कधं संगमणीओ अ मणी । अदो एव्व महाराएण आलिङ्गिदा ज्जेव एदंवत्थम्हि संवुत्ता । [कथं सङ्गमनीयोऽयं मणिः अत एव महाराजेनालिङ्गितैवेतदवस्थास्मि संवृत्ता।]


मणिं सगमनीयं वर्जयित्वा अपहाय सा स्त्री लताभावं न मोक्ष्यति त्यक्ष्यति । मणिं विना शापमोचनमसम्भवीति भावः । ततश्च गुरोः भरताचार्यस्य द्वितीयाङ्के वर्णितात् शापात् संमूढं हृदयं यस्याः सा एतादृशी अहं विस्मृतदेवतानियमाविज्ञातदेवमर्यादा सती स्त्रीजनैः परिहरणीयं त्याज्यम् कुमारवनं प्रविष्टा । प्रवेशानन्तरश्च काननस्य वनस्य उपान्ते समीपे लताभावेन मे रूपम् परिणतं जातम् । अहं लतात्वं प्राप्ता।

 राजा-प्रिये ! सर्वमिदं यत्त्वयोक्तम् तदुपपन्नम् युक्तम् ।

 रतीति या त्वं पुरा रतिः सम्भोगः तज्जन्येन खेदेन श्रमेण शयने सुप्तमपि माम् प्रवासगतम् विप्रकृष्टमिव मन्यसे सा त्वं इह एतदवस्थं एवं प्रकारकम् अनिर्वचनीयमीदृशं वा चिरकालीनं वियोगम् कथं सहेथाः ।

 या त्वं पुरा एकस्मिन्नेव शयने त्वया सह सुप्तमपि मां विप्रकृष्टमिव मत्वा पीडिताऽभवः सा एव त्वं कथमिदं विलक्षणं विरहं सोढवती इत्यर्थः । अत्रापि "अनुनयो" नाम नाट्यलक्षणम् । आर्या जातिः ॥ ७१॥

 इदञ्च मत्पाणौ यथा कथितं यथा त्वया प्रतिपादितं तादृशमेव सङ्गमनिमित्तं समागमहेतुं उपलब्धप्रभावं सङ्गमशक्तियुक्तं रत्नं मयासादितमस्तीति शेषः । (इति मणिं दर्शयति)-

 । उर्वशी-कथं सङ्गमनीयोऽयं मणिः । अत एव महाराजेन आलिङ्गिता.   राजा-(ललाटे मणिं सन्निवेश्य )

   स्फुरता विच्छुरितमिदं रागेण मणेर्ललाटनिहितस्य ।
   श्रियमुद्वहति मुखं ते बालातपरक्तकमलस्य ॥ ७२ ॥

  उर्वशी-पिअंवद! महन्तो क्खु कालो अम्हाणं पइट्ठाणदो निग्गदाणं । कदाइ असूइस्सन्ति    पकिदिओ अम्हाणं । ता एहि । गच्छम्ह ।

   [प्रियंवद ! महान् खलु कालः आवयोः प्रतिष्ठानान्निर्गतयोः
   कदाचिदसूयिष्यन्ति प्रकृतय आवाभ्याम् । तदेहि गच्छावः ।]

(इत्युत्तिष्ठतः)

  राजा-यदाह भवती।

  उर्वशी-अध कंघं महाराओ गन्तुं इच्छदि ?

  [अथ कथं महाराजो गन्तुमिच्छति ?]


एवाहं एतदवस्था पुनरपि रमणीयरमणीरूपं दधाना संवृत्तास्मि जाताऽस्मि । अस्य मणेरेवायं प्रभावो यदहं शापमुक्ता भूत्वा लतारूपं परित्यज्य ललनारूपं पुनरपि प्राप्तेत्यर्थः।

 राजा-(ललाटे मणि सन्निवेश्य धृत्वा)।

 स्फुरतेति-तव ललाटे कपाले निहितस्य सन्निवेशितस्य मणेः स्फुरता समन्ततः प्रसरता रागेण लालिम्ना विच्छुरितं कर्बुरितमतः सुशोभितं तव मुखं बालेन कोमलेन आतपेन रक्तस्स्य कमलस्य श्रियं शोभामुद्वहति धारयति । भाले धृतस्यास्य सङ्गममणेरितस्ततः प्रसृमरया रक्तभासा लसितं ते ललितं मुखं रक्तकमलस्य शोभामुदहति इति भावः ।

 अत्र बालातपरक्तस्य कमलस्य शोभायाः मुखे समारोपान्निदर्शनालङ्कारः । तल्लक्षणं यथा काव्यप्रकाशे "निदर्शना-अभवन्वस्तुसम्बन्धः उपमापरिकल्पकः" इति । आर्या जातिः ॥ ७२ ॥

 उर्वशी-प्रियंवद मधुरालापिन् ! प्रतिष्ठानादावासात् राज्याद्वा निर्गतयोः प्रस्थितयोरावयोः महान् खलु कालः सञ्जातः । कदाचित् प्रकृतयः प्रजाः आवाभ्यां असूयिष्यन्ति दोषं दास्यन्तीत्यर्थः । प्रतिष्ठानं हि प्रयागस्य पूर्वतीरे वर्तमाना विक्रमराजधानी । तत् अत एव एहि ! गच्छावः ।

(इति उत्तिष्ठतः)

 राजा यदाह भवती तदेव सम्यगिति शेषः ।

 उर्वशी -अथ कथं कीदृशेन यानेन गन्तुमिच्छति महाराजः । उर्वश्याः अप्सरस्त्वात् देवतायोनित्वात्तस्मिन्नेव क्षणे यत्किमपि सम्पादयितुं सामर्थ्यं विद्यते ।      राजा-

अचिरप्रभाविलसितैः पताकिना
 सुरकार्मुकाभिनवचित्रशोभिना ।
गमितेन खेलगमने विमानतां
 नय मां नवेन वसतिं पयोमुचा ॥७३॥

(चर्चरी)

पाविअसहअरीसंगमओ पुलअपसाहिअअंगअओ।
सेच्छापत्तविमाणओ विहरइ हंसजुआणओ ॥ ७४ ॥
[प्राप्तसहचरीसङ्गमः पुलकप्रसाधिताङ्गः।
खेच्छाप्राप्तविमानो विहरति हंसयुवा ॥ ७४ ॥]


 राजा-अचिरेति-अयि खेदसलीलं गमनं गतिर्यस्याः सा तादृशि ललितगमने प्रिये ! अचिरप्रभायाः सौदामिन्याः विलसितैः प्रकाशैः पताकिना ध्वजयुतेन केतुमता वा, सुरकार्मुकम् इन्द्रधनुस्तद्रूपेण अभिनवेन नूतनेन विविधरङ्गयुतेन चित्रेणालेख्येन शोभिना भूषितेन तथा चास्माकं कृते विमानतां गगनयानत्वं गमितेन प्राप्तेन नवेन पयोमुचा मेघेन मां वसति आवासं नय।

 विमाने ध्वजः, विविधानि मनोरमाणि चित्राणि भवन्ति, वर्षासमयत्वात् जलधरमेव राजा विमानत्वेन कल्पयते तत्र तादृक् कल्पने ध्वजः तु विद्युद् भविष्यति । इन्द्रधनुश्च नानारङ्गसन्दानितम् अत एव चित्रत्वं प्राप्स्यति । एतादृशेन विमानत्वमाप्तेन जलदरूपेण यानेन मां गृहं नयेति प्रार्थनम् । अत्र मेघस्य विमानत्वेन निरूपणात्, विद्युतः ध्वजत्वेन इन्द्रधनुषश्च चित्रत्वेन कल्पनात् रूपकमलङ्कारः।

 अत्र प्रसादमाधुर्ये गुणौ । अनुप्रासालङ्कारश्च । मञ्जुभाषिणी वृत्तम् । लक्षणं यथापूर्वमेव ॥ ७३ ॥

 (चर्चरी) हंसयूनः अन्योक्त्या आह-प्राप्तः सहचर्या सङ्गमः समागमो येन सः, पुलकेन आनन्दातिरेकजन्यरोमोद्गमेन प्रसाधितम् शोभितम् अङ्गं देहः यस्य सः, स्वेच्छानुसारं प्राप्तः विमानः येन च एतादृशो हंसयुवा विहरति । राज्ञः पक्षे सविशेषो मान उत्कर्ष इति विमानः, हंसपक्षे तु व्योमयानम् विमानम् । अङ्कस्यारम्भः अपि हंसस्यान्योक्त्या कृतः, तेनैव च समापितोऽङ्कः अनेनात्र समाधिर्नाम गुणः ॥ ७४ ॥

(इति खण्डधारया निष्कान्तौ)

॥ इति चतुर्थोऽङ्कः॥


 "इत्यनन्तरं खण्डधारया पूर्वोक्तलक्षणया गीत्या निष्क्रान्तौ नायिकानायकौ"

इति चतुर्थोऽङ्कः।

 इति श्रीमत्प्रमोदमोदमानमानसरसाविभक्तभगवल्लीलाललितकीर्तनस्वानस्वा नन्दसक्तभक्तगोष्ठीगरिष्ठाणां रामानुजार्यकैङ्कर्यधुरीणानां प्रखरकिरणकरप्रतिभतेजःप्रकरप्रभाकराणां कविपण्डितेन्द्रमण्डलालङ्कारहीराणां अजनप्रणामारुणितवन्दारुराजन्यवृन्दमुकुटमौक्तिकपूज्यपदद्वन्द्वारविन्दानां रसिकतारसनिधीनां तोताद्रिविज्ञानविभवपीठाधीशानां आचार्यवर्याणां वेदवेदान्तन्यायमीमांसाद्यखिलनिगमागममन्थानशेमुषीकाणां विज्ञानविभूषणपदधारिणां स्वामिनां इन्दूरपुराभरणानां श्रीकृष्णाचार्यवर्याणां तनूभवैः सहृदयताजलनिधिकौस्तुभैः एम्. ए. काव्यपुराणतीर्थसाहित्यविशारदाद्यनेकोपाधिसमुलसितैः सुरेन्द्रनाथशास्त्रिभिः विरचितायां विक्रमोर्वशीयसञ्जीविकायां विद्वन्मनःसागरशशिलेखायाम् कल्पलतासमाख्यायां व्याख्यायां चतुर्थाङ्कोद्योतः॥