विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्)/तृतीयोऽङ्कः
← द्वितीयोऽङ्कः | विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्) तृतीयोऽङ्कः कालिदासः |
चतुर्थोऽङ्कः → |
(ततः प्रविशतो भरतशिष्यौ)
प्रथमः-सखे पेलब ! अग्निशरणाद्गच्छता महेन्द्रमन्दिरमुपाध्यायेन त्वमासनं ग्राहितः । अहमग्निशरणरक्षार्थं स्थापितः । ततः पृच्छमि गुरोः प्रयोगेण देवपरिषदाराधिता न वेति ।
द्वितीय:-गालव ! ण आणे कहं आराधिता भोदि । तस्सिं उण सरस्सईकिदकव्ववन्धे लच्छीसअंबरे उव्वसी तेसु तेसु रसन्तरेषु उम्माइआ आसि । किन्तु... [गालव ! न जाने कथमाराधिता भवति । तस्मिन् पुनः सरस्वतीकृतकाव्यबन्धे
॥ तृतीयोऽङ्कः॥
सविदूषकस्य राज्ञःद्वितीयाङ्कवस्तुजाते जाते तु मध्याह्नसमये रङ्गभूमितो निष्क्रमानन्तरमिदानीं पेलवगालवनाम्नोः नाट्यशास्त्रपारदृश्वनो भरतमुनेः शिष्ययोर्मुखाभ्याम् राज्ञः पुनरुर्वशीसमागममूचनाय तृतीयाङ्कं प्रारिप्सुस्तत्रभवान् कविराजस्तयोः प्रवेशं तावदाह-
(ततः द्वितीयाङ्कसमाप्तौ भरतभुनेः शिष्यौ प्रविशतः)
प्रथमः-सखे पेलव ! महेन्द्रस्य मन्दिरं भवनं अग्निशरणात् होतव्याग्निगृहात् गच्छता उपाध्यायेन भगवता भरतेन त्वं आसनं स्वीयमृगचर्मासनम् ग्राहितः। अग्निशालातः इन्द्रभवनं गच्छता भरतेन तुभ्यं आसनं प्रदत्तमिति भावः । अहं च अग्निशरणस्याग्निशालायाः रक्षणार्थ स्थापितो नियुक्तः । ततः यतः अहमत्रैव स्थापितः न बहिर्गतः ततः नाहं जानामि किं जातमित्यतः पृच्छामि गुरोः भगवतः भरतस्य तेन कारितेन प्रयोगेण नाट्याभिनयेन देवानां परिषत् सभा आराधिता प्रीणिता सन्तोषिता न वा इति । अत्र पेलवस्य पट्टशिष्यत्वं गम्यते ।
ग्राहित इति णिजन्तप्रयोगः-गृहधातोर्णिच् ।
शरणपदस्य गृहत्वमिति वाच्यम् “शरणं गृहरक्षित्रो" रिति विश्वकोषः । गुरोः प्रयोगेणेत्यनेन गुरुप्रदिष्ठेन प्रयोगेण न तु स्ययमभिनीतेन । वा इति विकल्पे । अत्र गौणे कर्मणि कः "गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् । वुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छयेति । यथा वान्यत्र “अयाचितारं नहि देवदेवं अद्रिः सुतां ग्राहयितुं शशाक"।
द्वितीयः :-गालव ! गालवपेलवौ तयोर्भरतशिष्ययोर्नामनी । न जाने कथमाराधिता भवति । देवपरिषदाराधिता न वेति नाहं जाने। किन्तु तस्मिन् प्रयोगे पुनः सरस्वत्या देव्या कृतः काव्ये बन्धो ग्रथनं यस्य तादृशि लक्ष्मीस्वयंवरे लक्ष्मीस्वयंवरे उर्वशी तेषु तेषु रमान्तरेषु उन्मादितासीत् ।] किन्तु...…।]
प्रथमः -सदोषावकाश इव वाक्यशेषः ।
द्वितीयः- आम। ताए वअणं पमादक्खलिदं असि । [आम् । तस्या वचनं प्रमादस्खलितमासीत् ।]
प्रथमः-किमिव।
द्वितीयः-लच्छीभूमिआए वट्टमाणा उव्वसी वारुणीभूमिआए वट्टमाणए नेणआए पुन्छिदा ! नमारद कोकनिया किमिव । [लक्ष्मीभूमिकया वर्चनाना ऊर्वशी वारुणीभूमिकया वर्तमानया मेनकया पृष्टा । समागताः त्रैलोक्यपुरुषाः सकेशवा लोकपालाः ।
तादाख्ये काव्ये उर्वशी तेषु तेषु काव्ये विद्यमानेषु रमान्तरेषु विविधेषु रसेषु उन्मादिता स्खलिता आसीत् । अभिनेतव्ये प्रयोगे उर्वशी सप्रमादा बभूवेति भावः।
स्वयंवरः-पुरा हि रीतिरासीदीदृशी यत् कन्यका स्वीयं पतिं स्वयमेव वृणोतिस्म । तत्र सर्वे कामयितारः कन्यायाः पितुर्गृहे सन्मिलन्ति । तेषु कमपि पूरुषं सा कन्यका स्वीयं भाविनं पतिं वृणोति । वरणानन्तरं सर्वे विवाहविधयः क्रियन्ते । नैतेषु विवाहविधिपु प्रकृतः स्वयंवरविधिरपि अन्यतमः । स्वयं व्रियते वरो यस्मिन्निति स्वयंवरः । अत्र पुनरवधारणे ।
लक्ष्मी:-विष्णोः पत्नी देवदानवैर्मथ्यमानात् सागरात् समुद्भूता चतुर्दशरत्नान्यतमा । वारिणी अपि अनयैव सह निर्गता।
रसः-प्रतिकाव्यं भवति कश्चन रसो विलक्षणानन्दहेतुः केवलं सहृदयैरेव चर्यमाणः चमत्काराधायकः विभावानुभावसञ्चारिभावैर्व्युत्पाद्यमानो भावनाविशेषः। सविस्तरं पुस्तकान्ते वक्ष्यते । किन्तु ...। वाक्यमपूर्णम् ।
प्रथम:-ते वाक्यशेषः अपूर्णमिदं वाक्यम् दोषाय प्रमादाय अवकाशः सम्भवः तेन सहितः सदोषावकाशः इवास्ते । अपूर्णमिदं ते वचः किमपि स्खलितं सूचयतीति भावः ।
द्वितीयः-आम् निश्चये स्मरणे वा । तस्या उर्वश्या वचनं प्रमादेन असावधानतया स्खलितं सम्यगुच्चारितं नासीत् ।
"आम्-ज्ञान विनिश्चये" इति वोपालितः । प्रमादोऽनवधानता ।
प्रथम:--किमिव-कथम्भूतः स प्रमाद इति ।
द्वितीयः-लक्ष्म्याः भूमिका वेषः यस्याः सा तया लक्ष्मीभूमिकया वर्तमाना उर्वशी गृहीतवारुणीवेषया मेनकया पृष्टा । त्रैलोक्यपुरुषाः लोकत्रयगताः पुरुषाः .. कतमस्मिंस्ते हृदयाभिनिवेशः इति ।]
प्रथम: -ततस्ततः ।
द्वितीयः :-ताए पुरिसोत्तमे त्ति भणिदव्वे पुरूरवसि त्ति णिग्गदा वाणी [नस्याः पुरुषोत्तम इति भणितव्ये पुरूरवसीति निर्गता बाणी।
प्रथमः-भवितव्यतानुविधायीनि बुद्धीन्द्रियाणि । स तामभिक्रुद्धो मुनिः ?
केशवेन कृष्णेन सहिताः लोकपालाः देवाः इह समागताः । एषु कतमस्मिन् कस्मिन् ते हृदयस्य अभिनिवेशः संलग्नता।
भावार्थ:-यदा इन्द्रसभायां लक्ष्मीस्वयंवराख्यं वस्तु प्रयुक्तम् तदा उर्वश्या लक्ष्मीवेशपरिग्रहः कृतः । मेनकया च वारुण्याः । लक्ष्मीवारुण्यो लक्ष्मीस्वयंवराख्यस्य प्रयोगस्य पात्रविशेषौ । स्वयंवरसमये वारुणी तत्र प्रयोगे लक्ष्मीं पृच्छति यत् अत्र सर्व प्रहसितमाराः सुकुमाराः कुमाराः समागताः, अतः कं महानुभावं त्वं स्वीकारेणालञ्चिकीर्षतीति । तदेवाह-यत् लक्ष्मीरूपां उर्वशी वारुणीरूपा मेनकां पृष्टवती यदेषु कतमस्मिन् ते हृदयं सज्यत इति । “भूमिका रचनायां स्यात्" इति विश्वः।
प्रथम:-ततस्ततः-प्रश्नानन्तरं किं जातमिति-
द्वितीयः-पुरुषाणामुत्तमो विष्णुस्तस्मिन् पुरुषोत्तमे मे हृदयम् सक्तम् इति भणितव्ये वक्तव्ये तस्या उर्वश्याः वाणी पुरूरवसि विक्रमे मम हृदयम् लग्नमिति निर्गता । भावस्तु-गृहीतनाटकवेषया लक्ष्मीरूपया उर्वश्या तत्र विष्णौ मे हृदयं सज्यते इति वक्तव्ये पुरुरवसीति अन्यदेव प्रोक्तम् । इति प्रमादः ।
अनेन नायिकाया पुरूरवसि अगाधं प्रेम व्यज्यते ।
प्रथम:-बुद्धीन्द्रियाणि बुद्धिश्च इन्द्रियाणि च तानि बुद्धीन्द्रियाणि बाह्यान्तःकरणानि भवितव्यतायाः भाविनः फलस्य अनुविधायीनि । भाविनं फलमेवानुसरन्ति इन्द्रियाणीति भावः । स मुनिः भरतस्तमभिक्रुद्धः । तस्यै क्रुद्धः किं गुरुरिति पृच्छा।
तामभिक्रुद्ध इत्यत्र “क्रुधट्ठहेति" सूत्रानुसारं यं प्रति कोपस्तस्य चतुर्थीति न्यायेन तस्यै क्रुद्ध इति भवितव्यम् । किन्तु अभिपदस्य सन्निधानात् अभियोगे द्वितीयापि प्राप्ता । एकतः चतुर्थी प्राप्ता अन्यतो द्वितीया । उभयोर्मध्ये "कारकविभक्तेरुपपदविभक्तिबलीयसी । यथा -मुनित्रयं नमस्कृत्येति बलाबलाविचारतः उपपदविभक्केः द्वितीयाया एव प्राशस्त्यम्"। द्वितीयः :-जना उवज्जायणा । महिन्द्रेण उग अणुगिहीदः । [शप्ता उपाध्यायेन । महेन्द्रेण पुनरनुगृहीता । ]
प्रथम:-कथमिव ।
द्वितीयः-जेण मम तुए उवदेसो लङ्घिदो तेण ण दे दिव्वं ठाणं हविस्सदि त्ति उवज्झाअस्स सआसादो सावो । पुरंदरेण उण लज्जावणदमुहिं उव्वसिं पक्स्विअ एवं भणिदम्-'जस्सिं वद्धभावासि तुमं, तस्स मे रणसहाअस्स राएसिणो पिअं करणिज्जं । ता दाव तुमं पुरूग्वसं जहाकानं ग्यचि जव ने विनंतलो मोदन नम बादशो नननन न ते दिव्यं स्थानं भविष्यति इति उपाध्यायन्य सकाशात् शापः । पुरन्दरेण पुनः लज्जावनतमुखीमुर्वशीं प्रेक्ष्यैवं भणितम्-'यस्मिन्बद्धभावासि त्वं, तस्य मे रणसहायस्य राजर्षेः प्रियं करणीयम् । तत्तावत्वं पुरूरवसं यथाकाममुपतिष्ठस्व यावत्स परिदृष्टसन्तानो भवति इति ।]
प्रथमः-सदृशं पुरुषान्तरवेदिनो महेन्द्रस्य ।
द्वितीयः--उपाध्यायेन गुरुणा भरताचार्येण शप्ता तस्यै शापो दत्तः । महेन्द्रेण पुनरनुगृहीता, तस्यै दयार्द्रता प्रकाशिता । उपाध्यायेन शप्तेति पूर्ववाक्यात् विरोधप्रदर्शनार्थमुत्तरन्मिन् वाक्ये पुनरिति पदग्रहणम् “अत्र पुनरभेदे" पुनरप्रथमे पक्षे मतम्-"अधिकारे च भेदे च तथा पक्षान्तरेऽपि च" इति मेदिनी ।
प्रथमः-कथमिव-उपाध्यायेन किं शप्तम् , तथा च महेन्द्रेण कथमनुगृहीतेति प्रश्नः।
द्वितीयः-इत्थमुपाध्यायेन शप्ता-येन यस्मात् कारणात् त्वया ममोपदेशः लङ्घितस्त्यक्तः तेन तस्मात् कारणात् ते दिव्यं खर्गीयं स्थानं निवासं न भविष्यतीति उपाध्यायसकाशात् शापः । त्वमत्र स्वर्लोके स्थातुं नार्हसीति शप्तम् ।
पुरन्दरेण महेन्द्रेण च लज्जया अवनतं मुखं यस्याः सा तादृशीमुर्वशी प्रेक्ष्य एवं भणितमुक्तम्-“यस्मिन् जने त्वं बद्धभावा आसक्का असि तस्यैव मम रणे सहायकस्य राजर्षेः पुरूरवसं प्रियं करणीयम् । तत्र गत्वा तेन सहोषित्वा तस्य प्रियं सम्पादनीयम् । तत्तावत् त्वं पुरूरवसं तव कामयितारं यथाकामं यथेच्छं उपतिष्ठस्व सेवस्व यावत् सः त्वयि परिदृष्टसन्तानो भवति । यावता कालेन स त्वत्तः समुत्पन्नां सन्ततिं पुरः पश्येत् तावत् पर्यन्तं यथेच्छं त्वं तं भजस्वेति । उपाध्यायकृतनिग्रहेऽनुग्रहो महेन्द्रेणाकारि।
प्रथमः-पुरुषाणामन्तरस्य अन्तःकरणस्य वेदिनः ज्ञानिनः महेन्द्रस्य सदृ द्वितीयः-(सूर्यमवलोक्य) कधापसङ्गेण अवरद्धा अहिसेअवेला !ता इवxअस्स पास्सवत्तिणो होम । [कथाप्रसङ्गेनापरुद्धाभिषेकवेला । तदुपाध्यायस्य पार्श्ववर्तिनौ भवावः ।]
( इति निष्क्रान्तौ)
विष्कम्भकः।
(ततः प्रविशति कञ्चुकी)
कञ्चुकी-
सर्वः कल्पे वयसि यतते लब्धुमर्थान् कुटुम्बी
पश्चात्पुत्रैरपहृतभरः कल्पते विश्रमाय ।
शमेवायं निग्रहानुग्रहः । पुरुषाणां मनसि किं वर्तत इति परिज्ञानिना महेन्द्रेण अनुग्रहोऽयं स्वरूपानुरूप एव कृतः इति भावः ।
द्वितीयः-(वेलापरिज्ञानाय सूर्यमवलोक्य)
कथाप्रसङ्गेन वार्ताक्रमात् गुरोरभिषेकस्य स्नानस्य वेला अपराद्धा अतिक्रान्ता । अतः उपाध्यायस्य पार्श्ववर्तिनौ भवावः। तस्यैव समीपं गच्छावः इति भावः ।
(इति निष्क्रान्तौ)
विष्कम्भकः-एकस्य अङ्कस्य समाप्तौ अन्यस्य च प्रारम्भवेलायां रङ्गभूमौ यददृष्टं भूतं भावि वा तस्य प्रेक्षकाणां परिज्ञानायार्थोपक्षेपकाः प्रयोज्याः॥यदुक्तम्-
"द्विधा विभागः कर्तव्यः सर्वस्यापीह वस्तुनः । |
तत्र च पञ्च अर्थोपक्षेपकाः-
"अर्थोपक्षेपकैः सूच्यं पञ्चभिः प्रतिपादयेत् । |
तत्र विष्कम्भकः-
"वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
सङ्क्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः" ।
वृत्तवर्तिष्यमाणानां भूतभविष्यमाणानामिति ।
"ततः विष्कम्भानन्तरं कञ्चुकी प्रविशति । कञ्चुकी तावत् वृद्धः पुरुषः कर्तव्याकर्तव्यविवेकज्ञः राज्ञः शुद्धान्तचारी । तल्लक्षणं यथा---
"अन्तःपुरचरो राज्ञो वृद्धो विप्रो गुणान्वितः।
उक्तिप्रत्युक्तिकुशलः कञ्चुकीत्यभिधीयते ॥” इति धानञ्जये।
सर्व इति-सर्वः कुटुम्बी गृहस्थः कल्पे समर्थे वयसि अर्थान् वस्तूनि विषयान् वा लब्धुं प्राप्तुं यतते । साधारणोऽयं नियमः यत् गृहस्थी तारुण्ये
अस्माकं तु प्रतिदिनमियं सादयन्ती प्रतिष्ठां |
(परिक्रम्य ) आदिष्टोऽस्मि सनियमया काशिराजपुत्र्या-यथा---- "व्रतसम्पादनाय मया मानमुत्सृज्य निपुणिकामुखेन पूर्व याचितो
अवश्यकीयवस्तुसम्पादनाय यत्नं कुरुते । पश्चात् अतीते तु तारुण्ये, पुत्रैः अपहृतो गृहीतो भरः गार्हस्थभारः यस्य म तादृशः सन् विश्रामाय शान्त्यै कल्पते शान्तिं लभते इति भावः । प्राप्ते नु वार्धक्ये पुत्रेषु समारोपितगार्हस्थ्यव्यवस्था स्वस्था सन् शान्तिं कामयते ।
किन्तु xxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxx अभूत् । अस्माकन्तु न कदापि विश्रामो लभ्यते । सदैव कार्यव्यापृतत्वमेवास्माकम् । तेन च वन्धनगृहसदृशी जातेयं सेवा इति भावः । अतः सामान्यं वस्तूपस्थापयति
अतः स्त्रीषु स्त्रीणां विषये अधिकारः कार्यकारित्वं कष्टः कष्टदायीति भावः । यतः जरत्तरत्वेऽपि विश्रान्तिर्न लभ्यते ।
सरलार्थस्तु-सर्वे गृहस्थाः तरुणे वयसि गार्हस्थ्यभारमुद्वहन्ति । वशं गते तु वार्धक्यस्य, पुत्रेषु भारं समारोप्य विश्राममाप्नुवन्ति किन्तु अस्माकन्त्वेतादृशी सेवा यत् अस्माकं विश्रान्ति नाशयित्वा केवलं बन्धनायैवेयं सम्पन्ना । अतः स्वीयं खेदं प्रकाशयति यत् स्त्रीषु कष्टोऽधिकारः इति । सर्वः कुटुम्बी इति जातावेकवचनम् ।
कल्पे-समर्थे-शक्तिसम्पन्ने वयसि तरुणे इति भावः । “क्लृपू सामर्थ्ये-" इति धातोः।
अर्थान् द्रव्याणि विषयान् वा-"अर्थो विषयार्थनयोधीनकारणवस्तुषु । अभिधेये च शब्दानां निवृत्तौ च प्रयोजने" इति मेदिनी । सादयन्ती नाशयन्ती-"साद नाशने” इति धातोः । शतृप्रत्ययः । प्रतिष्ठा-प्रकर्षेण स्थितिरिति प्रतिष्टा विश्रान्तिः । कारापरिणतिः-कारायां बन्धने परिणतिः परिणामः यस्याः सा बन्धनरूपा सेवा । "कृ विक्षेपे” इति "कारा स्याद्वन्धनालये" इत्यमरः । स्त्रीषु इति विषयसप्तमी । कष्टः कष्टप्रदः इत्यर्थः । अनेन सेवकानां विश्रामवैमुख्यं प्रदर्शितम् । “सेवाधर्मः परमगहनो योगिनामप्यगम्यः” इत्युक्तमेव । मन्दाक्रान्तावृत्तम् तल्लक्षणं यथा भट्टकेदारः-“मन्दाक्रान्ता जलधिपडगैर्म्भोनतौ ताद्गुरू चेत्" इति ।
यदि मगणभगणौ नगणतगणौ तगणश्च गुरुद्वयं च तदा मन्दाक्रान्ता नाम वृत्तम् । अत्र चरमचरणे अर्थान्तरन्यासोऽलङ्कारः॥१॥
(परिक्रम्य) नियमेन सहितया सनियमया गृहीतवृतया काशिराजस्य दुहित्रा कन्यया राजमहिष्या आदिष्टोऽस्मि समाज्ञापितोऽस्मि-यथा-"व्रतस्य सम्पामहाराजः। तदेव मद्वचनाद्विज्ञापय” इति यावदहमवसितसन्ध्याकार्यं महाराजं पश्यामि ।
(परिक्रम्यावलोक्य च)
रमणीयः खलु दिवसावसानवृत्तान्तो राजवेश्मनि-----
उत्कीर्णा इव वासयष्टिषु निशानिद्रालसा बर्हिणो |
दनाय समाप्त्यै व्रतस्य अनुच्छेदार्थं मया मानं चित्तोन्नतिमाग्रहं वा उत्सृज्य परित्यज्य निपुणिकामुखेन पूर्वमेव महाराजो याचितः प्रार्थितः । मदापराधिनमपि महाराजं मम व्रतपूरणाय अहं खीयमानं विहाय निपुणिकाद्वारा प्रार्थितवती इत्यर्थः । तदेवार्थं मद्वचनात् विज्ञापय निवेदय" इति महिष्या आदेशः ।
"मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतौ ग्रहे" इति हैमः । यावदिति-इति आदेशं गृहीत्वा अहं अवसितं समापितं सन्ध्याकार्यं येन तादृशं महाराजं पश्यामि । (परिक्रम्यावलोक्य च)
रमणीय इति-राजवेश्मनि राजप्रासादे दिवसस्य अवसानं समाप्तिस्तस्य वृत्तान्तो रमणीयः खलु । सायन्तनी वेला प्रासादे राजत इति सारः । कथं राजत इत्याह----
उत्कीर्णा इवेति-वासयष्टिषु पक्षिणां वासार्थं निर्मितेषु निखातेषु वा वंशदण्डेषु निशासम्बन्धिनी या निद्रा तया अलसा सतन्द्रा बर्हिणो मयूराः उत्कीर्णाः पाषाणे खचिता इव सन्ति । मयूराः निद्रावशात् निश्चलाः सन्तीति भावः। जालेभ्यो वातायनेभ्यः निःसृतैर्निर्गतैः सुगन्धिधूपैः वलभयः शिरोगृहाणि सन्दिग्धाः शङ्किताः पारावताः कपोताः यासु तादृश्यः अवभासन्ते। चन्द्रशालासु धूपसद्भावात् तत्र किं कपोताःसन्तीति अवभासते । इयं कवेः उत्प्रेक्षा।
आचारे नियमे प्रयतस्तल्लीनः पवित्रो वा शुद्धान्तस्थः अन्तःपुरस्थो वृद्धो जनः पुष्पैश्च बलिभिश्च युक्तेषु सपुष्पबलिषु स्थानेषु अर्चिष्मतीः ज्वालासहिताः सन्ध्यासमये माङ्गलिकाः दीपिकाः विभजते संस्थापयति । सकुसुमोपहारेषु स्थलेषु शुद्धान्तवृध्दो जनः दीपकान् स्थापयतीति भावः । विभजते विभक्तान् करोति तत्र तत्र स्थाने निवेशयतीत्यर्थः। “वलमी चन्द्रशालिका" इत्यमरः-तदाख्यशिरोगृहम् (Terrace)। प्रयतस्तत्परः पवित्रो वा "पवित्रःप्रयतः पूतः" इत्यमरः।
शुद्धान्तवृद्धो जनः इत्यत्र कैश्चित् पाश्चात्यैः 'जनः' इति पदस्य समस्तत्व एव समूहात्वार्थबोधकसमित्युक्त्वा पाठोऽयं दूषित इत्यङ्गीक्रियते किन्तु तत्तावदनुचितम्। (नेपथ्याभिमुखमवलोक्य ) अये ! इत एव प्रस्थितो देव:- परिजनवनिताकरार्पिताभिः परिवृत एष विभाति दीपिकाभिः। गिरिरिव गतिमानपक्षसादादनुतटपुष्पितकर्णिकारयष्टिः ॥ ३ ॥
एतादृशप्रयोगस्यापि कविसम्मानितत्वात् । “दिव्यो जनः" "वृद्धो जनो दुःखशतानि भुङ्के" इत्येतेषां दर्शनात् । अपि चात्र वृद्धाः पुरुषाः इत्यभिप्रायः ।
अत्रोत्प्रेक्षालङ्कारः। अनुत्कीर्णानामपि मयूराणां उत्कीर्णतासम्भावनात् धूमे च कपोतसम्भावनात् ।
"शार्दूलविक्रीडितं वृत्तम्" ॥ २॥
( नेपथ्यस्य तिरस्करिx अभिमुखं दृष्ट्वा )
अये इति विस्मये अन्वेष्टुनिष्टस्य वस्तुनो लाभादानन्दे वा । इत एव प्रस्थितो देवः इहैवायाति देव इति ।
परिजनेति-परिजनभूतानां परिचारिकाणां वनितानां स्त्रीणां करेषु हस्तेषु अर्पिताभिर्दत्ताभिः दीपिकाभिः परिवृतः वेष्टितः एष देवः पक्षाणां पतत्राणां सादः च्छेदस्तदभावात् पक्षच्छेदनस्य प्राक् गतिमान् जङ्गमः गिरिः पर्वत इव विचालितः दृश्यते । कीदृशः स गिरिः-अनुतटं परिपार्श्वं पुष्पिताः प्रसूनयुक्ता विद्यन्ते कर्णिकारलतानां यष्टयः यस्मिन् तादृशः इति ।
परिजनगृहीतदीपिकाभिः परिवेष्टितो राजा सपुष्पकर्णिकारयष्टिर्जङ्गमगिरिरिव दृश्यत इति भावः।
तृतीयोऽङ्कः।दीपिका-}}मशाल इति भाषा (or torch ) इति आङ्ग्लाः ।
पुरा हि गिरयः सपक्षाः आसन् ते च इतस्ततः उड्डयनञ्चाकुर्वन् । एकस्मात् स्थानात् स्थानान्तरे तेषां सहसा च समागमात् महती हानिः लोकानां बभूव । तेन क्रुद्धो महेन्द्रः तेषां पक्षान् अच्छिनत् इति पौराणिकी वार्ता । इह च पक्षसादाभावे गिरेः गतिमत्त्वं प्रोक्तम् तच्च युक्तमेव ।
अत्र चोपमालङ्कारः । राजा उपमेयः, गिरिरुपमानम् । उभयोः साधर्म्यं यथा-राजा दीपिकाभिः परिवृत आसीत् । गिरिश्च पीतेभ्यः पुष्पेभ्यः समेतः आसीत् । राज्ञा सह वनिता अप्यासन् । इह च पर्ववे कर्णिकारतरूणां यष्टित्वारोपेण वनितासदृशत्वं चापि समारोपितम् । इव चोपमावाचकपदम् । तेन पूर्णोपमेयम् ।
कर्णिकारयष्टिरित्यत्र कर्णिकारतरूणामुपरि यष्टित्वेन ताद्रूप्यप्रतिपादनात् रूपकालङ्कारः । अत्र प्रसादाख्यो गुणः ।
अनेन राज्ञः गिरिसदृशत्वं महत्त्वं च व्यक्तम् । स्त्रीणाञ्च अङ्गयष्टिसमुल्लसितत्वं ध्वन्यते । राज्ञः शोभातिरेकश्च सूच्यते ।
पुष्पिताग्रा वृत्तम् । लक्षणन्तु यथाह भगवान् पिङ्गल:-"पुष्पिताग्रा नौर्योन्जौ ज्रौग् । अर्धसममिदं वृत्तम् । यस्य प्रथमे पादे नकारौ रेफयकारौ च द्वितीये नकारजकारौ जकाररेफौ गकारश्च तद् वृत्तम् पुष्पिताग्रा नाम । यथा पूर्वार्धं तथैवोत्तरार्धमर्धसमेषु वृत्तेषु ॥ ३ ॥ यावदेनमवलोकनमार्गे स्थितः प्रतिपालयामि ।
(ततः प्रविशति यथानिर्दिष्टः सपरिवारो राजा विदूषकश्च)
राजा-(आत्मगतम्)
कार्यान्तरितोत्कण्ठं दिनं मया नीतमनतिकृच्छ्रेण ।
अविनोददीर्घयामा कथं नु रात्रिर्गमयितव्या ॥४॥
कञ्चुकी-( उपगम्य । ) जयतु जयतु देवः । देव ! देवी विज्ञापयति—'मणिहर्म्यपृष्ठे सुदर्शनश्चन्द्रः। तत्र सन्निहितेन देवेन प्रतिपालयितुमिच्छामि यावद्रोहिणीसंयोगः' इति ।
राजा-विज्ञाप्यतां देवी यस्तव च्छन्द इति ।
यावदिति । यावत् तेनाहं अवलोकनमार्गे देवस्य दर्शनपथि स्थितः सन् एनं देवस्यागमनम् प्रतिपालयामि प्रतीक्षे ।
(ततः प्रविशति यथानिर्दिष्टः परिचारिकागृहीतदीपिकापरिवृतः सपरिवारः अनुचरसहितः राजा विदूषकश्च )
राजा-(आत्मगतम्)
कार्यान्तरितेति-कार्यैः राजकर्मभिः अन्तरिता विनिता अज्ञाता उत्कण्ठा प्रियाविरहजनितखेदः यस्मिन् इति तादृग् दिनं मया अनतिकृच्छ्रण ईषत्कष्टेन सौकर्येण वा नीतमतिवाहितम् । किन्तु अविनोदेन कार्यलग्नत्वाभावेन उत्कण्ठया च दीर्घाः यामाः प्रहराः यस्याः सा रात्रिः कथं केन प्रकारेण गमयितव्या यापनीया।
दिनं तु राजकार्यव्यापृतत्वात् अनायासेन व्यतीतम् किन्तु अन्यकार्यराहित्यात् प्रियोत्कण्ठासद्भावाच्च परमदीर्घति प्रतीयमाना रात्रिः कथं नु अतिवाहितव्येति खेदः।
न च अनतिकृच्छ्रेणेत्यत्र विधेयांशस्य शङ्का कार्या । कुतः । प्रधानस्यापि नञार्थस्य समासे गुणीभावात् । कृच्छ्रपदार्थस्य कष्टस्येष्टत्वप्रदर्शनात् साधुत्वमेव । कामस्य द्वितीयेयं दशा उत्कण्ठेति । इयञ्चार्या जातिः ॥४॥
कञ्चुकी-(उपगम्य समीपमागत्य )
जयतु जयतु देवः-स्वामिनः मङ्गलकाङ्क्षिणां सर्वेषां सज्जनानां समुदाचारपद्धतिरियम् । देव स्वामिन् ! देवी काशीराजदुहिता विज्ञापयति निवेदयति यत् मणिहर्म्यम् तदाख्यः प्रासादस्तस्य पृष्ठे उपरि चन्द्रः सुदर्शनः सुभगतया लक्ष्यते । तत्र मणिहर्म्यप्रासादे सन्निहितेन उपस्थितेन देवेन सह यावच्चन्द्रस्य रोहिण्या सह संयोगो भवति तावत् प्रतिपालयितुमिच्छामि तत्रैव स्थातुमभिवाञ्छे ।
रोहिणी दक्षस्य कन्या परमप्रियतमा चन्द्रस्य पत्नी । रोहिणी तदाख्यं नक्षत्रम् ।
राजा-विज्ञाप्यतां कथयतां देवी यस्तव च्छन्दः अभिप्रायस्तत्तथैव भविष्यति । अहं नूनमागमिष्यामि मणिहर्म्यप्रासादे इति भावः । . कञ्चकी-यदाज्ञापयति देवः । (इति निष्कान्तः।)
राजा -वयस्य ! किं परमार्थत एव देव्या व्रतनिमित्तोऽयमारम्भः स्यात् ?
विदूषक:-तक्केमि संजादपच्चाद्दावा अत्तभोदी वदव्ववदेसेण तत्तभवदो पणिपादलंघणं पमज्जिदुकामा त्ति । [तर्कयामि संजातपश्चात्तापा अत्रभवती व्रतव्यपदेशेन तत्रभवतः प्रणिपातलङ्घनं प्रमार्ष्टुकामेति ।]
राजा-उपपन्नं भवानाह । तथा हि----
अवधूतप्रणिपाताः पश्चात्सन्तप्यमानमनसोऽपि ।
निभृतैर्व्यपत्रपन्ते दयितानुशयैर्मनस्विन्यः ॥ ५ ॥
"अभिप्रायवशौ छन्दौ" इत्यमरः ।
कञ्चुकी-यदाज्ञापयति भवान् तदेवाहं निवेदयिष्यामीति भावः।
(इति निष्क्रान्तः अपगतः।)
राजा-वयस्य माणवक ! किं परमार्थतः सत्यमेव देव्याः अयमारम्भः प्रयत्नः व्रतनिमित्तः व्रतसम्पादनायैव स्यात् ? मां वशयितुमयमारम्भः उत वा सत्यं व्रतायैवेति शङ्का ।
विदूषकः-अहं तावत् तर्कयामि विचारयामि अनुमिनोमि वा यत् संजातः पश्चात्तापः यस्या एतादृशी अत्रभवती मान्या देवी व्रतस्य व्यपदेशेन मिषेण तत्रभवतस्तव प्रणिपातो नमस्क्रिया चाटुकारित्वं प्रसादनं वा तस्य लङ्घनमस्वीकारः तमपराधं प्रमार्ष्टुकामा प्रोञ्छितुं वाञ्छतीति भावः ।
त्वया कृतानि प्रसादनान्यवमत्य त्वयि कृतं तिरस्कारं समाधत्तुमिच्छतीत्यर्थः । इत्यहं सम्मावयामि ।
राजा-उपपन्नं युक्तं तावत् भवानाह । तथा हि----
अवधूतेति-अवधूताः अवमानिताः प्रणिपाताः प्रियकृतप्रसादनानि याभिस्तास्तिरस्कृतप्रणिपाताः पश्चात् तिरस्करणानन्तरं सन्तप्यमानानि भृशं पीडितानि मनांसि यासां ताः मनस्विन्यः चतुराः स्त्रियः निमृतैः केनापि छलेन कृतैः अतः विनयेन प्रकटीकृतैः दयितविषयकैः अनुशयैः अनुतापैः व्यपत्रपन्ते लज्जिताः सत्यः स्वमपराधं अनुसन्धातुमिच्छन्ति ।
निमृतैर्विनीतैः-"निमृतविनीतप्रश्रिताः समाः" इत्यमरः । रङ्गनाथस्तु गुप्तैरिति लिखति ।
अनुशयः-"अनुतापोऽनुबन्धो वा” “दीर्घद्वेषानुतापानुबन्धे त्वनुशयः पुमान्" इति विश्वलोचनः।
१० विक्र० तदादेशय मणिहर्म्यपृष्ठस्य मार्गम् ।
विदूषकः-इदो इदो एदु भवम् । इमिणा गंगातरंगसिसिरेण फलिअमाणिसिलासोवाणेण आरोहदु भवं सव्वदा रमणीअं मणिहम्मपिट्ठअलम् । [इत इत एतु भवान् । अनेन गङ्गातरङ्गशिशिरेण स्फटिकमणिशिलासोपानेनारोहतु भवान्सर्वदा रमणीयं मणिहर्म्यपृष्ठतलम् ।]
(राजा आरोहति । सर्वे सोपानारोहणं नाटयन्ति ।)
विदूषकः-(निरूप्य) पच्चासण्णेण चंदोदएण होदव्वम् । जह तिमिरेण अदिरेचीअमाणं पुव्वदिसामुहं आलोहिअप्पहं दीसदि । [प्रत्यासन्नेन चन्द्रोदयेन भवितव्यम् । यथा तिमिरेणा- तिरिच्यमानं पूर्वदिशामुखमालोहितप्रभं दृश्यते।]
राजा-सम्यग्भवान् मन्यते ।
उदयगूढशशाङ्कमरीचिभिस्तमसि दूरतरं प्रतिसारिते।
मानिनीनां कामिनीनाम् स्वभावोऽयमिति स्फुटतया व्यञ्जितम् । इयं चार्याजातिः ॥५॥
तत् अत एव मणिहर्म्यपृष्ठस्य मार्गं आदेशय दर्शय ।
विदूषकः-इत इतः अनेन मार्गेण भवानेतु आगच्छतु अनेन पुरो दृश्यमानेन गङ्गायास्तरङ्गैः शिशिरेण शीतलेन स्फटिकमणिशिला तनिर्मितेन सोपानेन आरोहणेन आरोहतु भवान् सर्वदा रमणीयं मनोहारि मणिहर्म्यस्य पृष्ठतलम् उपरितना अलिन्दभूमिम् । “आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी" इत्यमरः!
(राजा आरोहति । सर्वे सोपानेन आरोहणं नाटयन्ति ।
विदूषकः-चन्द्रोदयेन प्रत्यासन्नेन अचिरम्भाविनैव भवितव्यम् शीघ्रमेवेदानी चन्द्रोदयो भविष्यतीत्यर्थः । यथा तिमिरेणान्धकारेण अतिरिच्यमानं रहितं पूर्वदिशामुखं आलोहितप्रभं ईषद् रक्तकान्तिकं दृश्यते ।
राजा-भवान् सम्यग् युक्तमेव मन्यते विचारयति ।
उदयगूढेति-उदये उदयाचले गूढः च्छन्नः अन्तर्हितो वा शशाङ्कः चन्द्रमाः तस्य मरीचिभिः किरणैः तमसि अन्धकारे दूरतरं अत्यन्तदूरं प्रतिसारिते निष्कासिते द्राविते सति, हरिः अश्वः वाहनं यस्य सः हरिवाहनः इन्द्रः तस्य तेन पालिता वा या दिग् प्राची तस्याः मुखम् अलकानां केशानां संयमनात् मुखादपसारणात् इव मे लोचनं हरति आकर्षति । अलकसंयमनादिव लोचने हरति में हरिवाहनदिङ्मुखम्॥६॥
कस्या अपि कामिन्या मुखचन्द्राद् दूरीकृते तु केशपाशे यथा वा तस्याः मुखं लोचनहारि भवति तथैव ऐन्द्रीदिमुङ्मुखम् चन्द्रमरीचिभिः दूरीकृते तमसि मम नयनयुगमपहरतीति भावः ।
अनेन नायकस्य विविधविलासिनीभुजङ्गमत्वं प्रदश्यते । हरिवाहनदिङ्मुखम् केशापसारणेन कामुकस्य चित्ताकर्षकं भवतीति व्यञ्जनात् समासोक्तिः ।
अलकसंयमनादिवेति उत्प्रेक्षालारः । उपमा च ध्वन्यते । यथा अलकसंयमनात् रमणीयरमणीमुखं चैतो हरति तथैवेदं दिङ्मुखमिति ।
कालिदासमते अलकानां मुखोपर्यागमनात् वदनारविन्दसोदर्यसौन्दर्यापगमात् केशनियमनेन मुखस्य चित्तहारित्वं नागरिकाणात् । चतुर्थपादे च अनुप्रासालङ्कारः । माधुर्याख्यो गुणः । वृत्तं चापि सुशोभनं रसानुकूलम् ।
इह च "हरिवाहनदिङ्मुखम्" इति पदप्रदानेन प्राचीदिङ्मुखमित्युपयोगतिरस्कारेण च हरिवाहनेनेन्द्रेण परिपालिताया उर्वश्या मुखं यथा मे लोचनं हरति तथैवेदं दिग्रुखमिति च ध्वन्यते । अनेन चन्द्रोदये कामिन्या वदनपद्मं अतीव मनोहारि शोभनं च भवतीति सूच्यते । शशाङ्कस्योदयगूढखप्रदानेन उदयाचलस्य प्राच्यां सद्भावात् ऐन्द्रीमुखं चन्द्रमाश्चुम्बतीति व्यक्तम् । अनेन च शशाङ्कदिशोर्नायकनायिकाभावो गम्यते । इतरत्रापि “इदमैन्द्रीमुखं पश्य रक्तचुम्बति चन्द्रमाः" इति अप्पयदीक्षिताः । तत्र च रहोभावार्थं नायिकानायकयोर्मध्ये परेषामवस्थानमसुन्दरमिति न्यायेनैव अन्तरायभूतं तमः पूर्वमेव दूरतरं प्रतिसारितम् । न केवलं दूरमेवापसारितम् किन्तु दूरतरं, कुतः गते त्वन्यस्मिन् दूरतरं, केनापि अदृश्यवादश्रव्यत्वाच्चादधिकविस्त्रब्धत्वम् ।
उदयगूढशशाङ्कमरीचिभिरित्यत्र रङ्गनाथेन "उदयगूढा उदयाचलेन च्छन्नाः" इति समासव्यासकरणेन उदयगूढत्वं मरीचिभिः साकं अन्वितमिति प्रकटमेव । तत्तावदसमीचीनम्-कुतः-गूढासु मरीचिषु तमोनिःसारणमसम्भवम् । उदयगूढपदस्य शशाइपदेनाव्यवहितसात् तेनैव सहान्वयः साधुः । ततश्च शशाङ्केन सह उदयगूढस्य विशेष्यविशेषणभावात् शशाङ्कस्य ऐन्द्रीदिङ्मुखस्य अधिकसन्निहितत्वं भवति । तेनोदयगूढः शशाङ्क इत्यन्वय एव साधुः । एवं कृतेऽपि उदयगूढस्यापि शशाङ्कस्योर्ध्वमुखीभिर्मरीचिभिस्तमसोऽपाकरणं भवितुमर्हत्येव । यथाह वान्यत्र तत्रभवान् कविः-
सप्तर्षिहस्तावचितावशेषाण्यधो विवस्वान् परिवर्तमानः । |
हरिवाहनः इन्द्रः “जम्भमेदी हरिहयः" इत्यमरः । हरिवाचकहयस्येदं लक्षणम्----
"त्वक्केशबालरोमाणि सुवर्णाभानि यस्य तु। |
राआ ओसधीणम् । [हीही भोः! एष खण्डमोदकसदृश उदितो राजा ओषधीनाम् ।]
राजा-(सस्मितम् ।) सर्वत्रौदरिकस्याभ्यवहार्यमेव विषयः । (प्राञ्जलिः प्रगम्य) भगवन् ऋक्षराज!
तादृक् हरिः हयो वाहनं यस्येति स इन्द्रः ।
सन्ध्यासमयवर्णनमिदं काव्यशोभाप्रदम् । यतः कविभिः प्रातःसन्ध्यादिस्वभाववर्णनं काव्याभरणभूतं सम्मतम् ।
आङ्ग्लेष्वप्येतन्मन्यते यत् भगवान् शीतरश्मिः पर्वतान्तरितो भवति । यथाह तत्रभवान् मिल्टन (Milton) पण्डितः-
"The sun to me is dark, |
वृत्तञ्च द्रुतविलम्बिताख्यम् । 'द्रुतविलम्बितमाह नभौभरा' विति लक्षणयोगात्॥६॥
विदूषकः-हीही इति विस्मये । भोः इति सम्बोधनम् । खण्डेन सितया निर्मिता मोदकास्तत्सदृशः स्वच्छः ओषधीनां नक्षत्राणां राजा अधिपतिश्चन्द्रः उदितः। "हीही चित्रे स्याता"मिति सागरः।
ओषधिः-ओषो दीप्तिर्धीयते यत्रेति ओषधिः नक्षत्रम् ।
अनेन खण्डमोदकसदृशेत्युपमानेन विदूषकस्य भोजनप्रियत्वं व्यज्यते।
राजा-(सस्मितम्-ईषद्विहस्य)
सर्वत्र औदरिकस्य भोजनप्रियस्य अभ्यवहार्यं भोज्यमेव विषयः । भोजनप्रियाय सर्वत्र भोज्यमेव दृश्यते नान्यदिति भावः ।
उदरे एव प्रसित इति औदरिकः "उदराठ्ठगाद्यूने” इति ठक्प्रत्ययः।
(प्राञ्जलिः अञ्जलिं बध्वा प्रणम्य) अञ्जलिस्तु यदुकम् “पताकाहस्ततलयोः संश्लेxदञ्जलिर्मतः ।" देवतागुरुविप्राणां नमस्कारेष्वयं क्रमः ।
भगवन् ऋक्षाणां नक्षत्राणां राजा इति ऋक्षराजः चन्द्रः तत्सम्बुद्धौ है ऋक्षराज ! राजाहःसखिभ्यष्टच् । “ऋषति-ऋषी गतौ" (तु. प. से.) "सुव्रश्चिकृत्वषिभ्यः कित्" : "ऋक्षस्तु स्यात् नक्षत्राच्छभल्लयो"रिति हैमः।
रविमाविशते सतां क्रियायै सुधया तर्पयते पितॄन्सुरांश्च । |
विदूषकः-भो वम्हणसंकामिदक्खरेण दे पिदामहेण अब्भणुण्णादो सि । ता आसणगदो होहि जेण अहं वि सुहासीणो होमि।[भोः ब्राह्मणसंक्रामिताक्षरेण ते पितामहेनाभ्यनुज्ञातोऽसि । तदासनगतो भव येनाहमपि सुखासीनो भवामि ।]
रविमिति-सतां सज्जनानां वेदविहितकर्मकर्तृणां क्रियायै दर्शपूर्णमासपिण्डपितृयज्ञाद्यनुष्ठानसिध्यर्थ रविं सूर्यम् आविशते प्रविशते, पितॄन् तदाख्ययोनिविशेषस्थानदेवताः सुरांश्च देवान् अनृतेन तर्पयते प्रोणयते, निशि रात्रौ मूर्छतां घनीभूतानां प्रवर्धमानानां तमसां निहन्त्रे नाशकाय, हरस्य शिवस्य चूडायां जटाजूटे निहितः स्थापितः आत्मा स्वरूपं कला वा येन तस्मै ते तुभ्यं नमः।
भगवन् सुधांशो! भवान् साधूनां कार्यसिध्यै रवितेजसि गूढो भवति । एकैककलाक्षयेण अमावास्यायां समस्तकलाहीनो भवति चन्द्रः । दर्शाख्यहोमस्य अमावास्यायां विहितत्वात् । मीमांसाप्रकरणमिदम् । “चन्द्रमा वा अमावास्यायां आदित्यमनुप्रविशति । सोऽन्तर्धीयते तं न निर्जानन्तीति" ऐतरेयब्राह्मणश्रुतत्वादिन्दोः सूर्यसङ्गमः प्रमाणीक्रियते । पुनश्च भवान् पितॄन् देवांश्च तर्पयति । यदुक्तं, “प्रथमां पिबते वह्निः "हुतमग्निषु यज्ञेषु पुनराप्याख्यते शशी, दिने दिने कलावृद्धिः पौर्णमास्यां तु पूर्णता ।" तथा च भवान् अन्धकारनिहन्ता । अपि च भवान् शिवशिरसि स्थापितैककलो भवन् हरसेवकः । एतादृशे भवते नमः इति भावः । अत्र राज्ञः सोमवंशीयत्वात् चन्द्रदेवताविषयकरतिप्रतिपादनेन प्रेयोऽलङ्कारो रत्याख्यो भावश्च व्यज्यते । अनेन राज्ञः धार्मिकत्वं च सूच्यते।
औपच्छन्दसकवृत्तम् ॥ अर्घसममिदं वृत्तम् । यत्रायुक्पादे सगणद्वयं जकारो गुरुद्वयं च तथा च युक्पादे सगण-भगण-रगण-भगणास्तवृत्तं तदाख्यम् ॥ ७ ॥
विदूषकः- भो इति । ब्राह्मणद्वारा सङ्ग्रामितानि प्रेषितान्यक्षराणि येन तादृशा तव पितामहेन चन्द्रेणाभ्यनुज्ञातोऽसि अनुमतोऽसि । तवाभिलषितेषु सहमतो भगवान् सुधांशुरिति भावः । तथा च स्वीयाभिमतत्वं मदीयब्राह्मणमुखेन प्रकाशितम् ।
अत आसनगतो भव । अत्रोपविश इत्यर्थः । येन भवतां आसीनत्वेनाहमपि सुखासीनः सुखेनोपविष्टः भवामि । उपवेष्टुमर्हति भवान् येनाहमप्युपविशामीति भावः । राज्ञः चन्द्रवंशित्वाच्चन्द्रस्य तस्य पितामहत्वम् । राजा-(विदूषकवचनं परिगृह्योपविष्टः परिजनं विलोक्य ) अभिव्यक्तायां चन्द्रिकायां किं दीपिकापौनरुक्त्येन । तद्विश्राम्यन्तु भवत्यः।
परिजन: -जं देव आणवेदि । [ यद्देव आज्ञापयति ।]
(इति निष्कान्तः ।)
राजा-(चन्द्रमवलोक्य ) वयस्य ! परं मुहूर्तादागमनं देव्याः । तद्विविक्ते कथयामि स्वामवस्थाम् ।
{{bold|विदूषकः -भो, ण दीसदि एसा । किं दु ताए तारिसं अणुराअं पेक्खिअ सकं क्खु आसाबंधेण अत्ताणअं धारिदुम् । [भोः ! न दृश्यत एषा । किं तु तस्यास्तादृशमनुरागं प्रेक्ष्य शक्यं खल्वाशाबन्धेनात्मानं धारयितुम् ।]
राजा-एवमेतत् । बलवान् पुनर्मम मनसोऽभितापः ।
राजा-(विदूषकस्य वचनं परिगृह्य खीकृत्य उपविष्टः। परिजनं विलोक्य।)
अभिव्यक्तायां स्फुटायां चन्द्रिकायां कौमुद्यां दीपिकानां पौनरुक्त्येन द्विरावृत्त्या प्रकाशस्य सत्तया किं प्रयोजनम् । सत्यां तु चन्द्रिकायां दीपिकाः निष्प्रयोजना इति भावः । तत् हेतोः भवत्यः दीपवाहिन्यः दास्यः विश्राम्यन्तु विरमन्तु । अनेन राज्ञः विरहजन्यं विविक्तप्रियत्वं गम्यते ।
परिजन:-यद्देव आज्ञापयति । (इति परिजनो निष्क्रान्तः।)
राजा-(चन्द्रमवलोक्य)वयस्य मित्र ! देव्याः आगमनं मुहूर्तात् परं किञ्चित् समयानन्तरं भविष्यति । अतः विविक्ते निर्जने एकान्ते वा स्वामवस्थां दशां कथयामि।
विदूषकः-भोः! एषा तव प्रियतमा इह तु न दृश्यते । किन्तु तस्याः उर्वश्याः तादृशं गहनमनुरागं प्रेक्ष्य आशाबन्धेन समागमस्याशाविशेषेण आत्मानं धारयितुं स्थिरयितुं शक्यम् ।
एतदेव-"गुर्वपि हि विरहदुःखं आशाबन्धः सदैव सादयति" । एवमेव कियत्सुन्दरमभिहितं शेक्सपीयरमहाकविना ।
"Hope is a lover's staff; walk hence with that and manage it against despairing thoughts."
राजा-एवमेतत् यत्त्वयोच्यते तत्सत्यम् ।
पुनः किन्तु मम मनसोऽभितापः पीडा बलवान् खलु । पुनरिति विकल्पे।
इह प्रियोर्वशीसमुपोढरागस्य विदूषकवाक्योपबृंहितमदनाभिनिवेशस्य नायकस्य प्रेयसीसमागमाशाऽवगम्यते । किञ्चिल्लक्ष्यालक्ष्यभावेन ईषदुद्भिन्नस्य बीजस्यान्वेषणाद् गर्भसन्धिरित ऊर्ध्वं दर्शनीया । क्वचित् पताकाभावेऽपि न किञ्चिदपि ह्रीयते इति ज्ञेयम् । गर्भसन्धिलक्षणं यथा----
"गर्मस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः।
द्वादशाङ्कः पताका स्यान्न वा स्वात् प्राप्तिसम्भवः" इति रूपके ।
नद्या इव प्रवाहो विषमशिलासङ्कटस्खलितवेगः । |
विदूषकः-जहा परिहीअमाणेहिं अंगेहिं सोहसि तहा अच्छरेहिं समागमं दे पेक्खामि । [याथा परिहीयमाणैरङ्गैः शोभसे तथाप्सरोभिः समागमं ते प्रेक्षे।]
अत एव प्रतिमुखसन्धौ लक्ष्यालक्ष्यरूपतया स्तोकोद्भिन्नस्योर्वशीविषयकानुरागबीजस्य अस्मिन्नङ्के सविशेषोद्भेदपूर्वकः सान्तरायो लाभः, पुनर्देव्यागमनेन विच्छेदः, पुनः प्राप्तिः पुनर्विच्छेदः पुनश्च तस्यैवान्वेषणं वारंवारं सोऽनिर्धारितैकान्तफलप्राप्त्याशात्मको गर्भसन्धिरितः प्रवर्तते ।
नद्या इवेति-विषमाः निम्नोन्नताः शिलाः प्रस्तराः तासां सङ्कटेन सङ्घर्षेण स्खलितो भग्नः वेगः गतिः यस्य सः नद्या प्रवाह इव विघ्नितं विमुखीभूतं समागमजन्यं सुखम् यस्येति सः मनसिशयः मम कामस्तु अनुगुणप्रेमानुवर्ती एवास्ति ।
भावार्थस्तु------ यथा नद्याः प्रवाहः विषमपाषाणेषु भग्नो भवति तथैव ममापि कामः समागमसुखान्तरितत्वेन भग्नोऽपि सन् अनुगुणः प्रीतिजनक एवास्ते इति भावः । यद्यपि समागमसुखाभावतो मम कामो विघ्नितस्तथापि मम प्रीतिस्तु अस्खलिता एवेति भावः । यद्यपि प्रीत्युच्छेदस्य कारणं विद्यते तथापि प्रीतिस्तु अस्खलिता एवास्ते । यथा नद्या प्रवाहः पाषाणेषु स्खलितोऽपि सन् पुनः अनुगुणः समो भवति । एतदेवाहू रवीन्द्रनाथठक्कुरकविप्रवराः-
"Trust love even if it brings sorrow. Do not close up your heart." (Tagore )
अत्रोपमालङ्कारः । नदीप्रवाहवेगयोर्विषयविषयिणोः स्खलितप्रसरत्वं साधर्म्यम् । तथा च विघ्नितसमागमस्य प्रीतिप्रातिगुण्ये कारणलम् । ततश्च विद्यमानेऽपि प्रातिगुण्यस्य कारणे कार्याभावस्वेन च विशेषोकिरलङ्कारः, तल्लक्षणं च-"कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे । हृदि स्नेहक्षयो नाभूत्स्मरद्वीपे ज्वलत्यपि ॥" तथा च आनुगुण्यस्य कारणप्रातिकूल्येपि कार्यनिष्पत्तिस्तस्साच विभावनालङ्कारः। "विभावना विनापि स्यात् कारणं कार्यजन्म चेदिति" कुवलयानन्दे । उभयोश्च सङ्करः । अनेन नायकस्य प्रेमातिशयत्वं द्योत्यते तया च प्रेम्णः लोकविरोधित्वं गम्यते यतः प्राप्तिविघ्नेऽपि पुनः पुनरनुसन्धानम् ।
मनसि शेते इति मनसिशयः कामः सप्तमी अलुक्समासः। अनुगमः अनुकूल: प्रेमानुबन्धी एव । आर्या जातिः॥८॥
विदूषकः- यथा परिहीयमाणैः क्षीणैरपि अङ्गैः शोभसे तथा अत एवं अप्सरोभिः उर्वशीप्रमुखाप्सरोभिः ते तव समागमं मेलनं प्रेक्षे। अचिरादेव भावी समागमः इति सारः। राजा-(निमित्तं सूचयन्)
वचोभिराशाजननैर्भवानिव गुरुव्यथम् । |
विदूषकः :-ण क्खु अण्णहा बम्हणस्स वअणं भोदि । [न खल्वन्यथा ब्राह्मणस्य वचनं भवति ।]
(राजा सप्रत्याशस्तिष्ठति ।)
(ततः प्रविशत्याकाशयानेन कृताभिसरणवेषा उर्वशी चित्रलेखा च ।)
उर्वशी-(आत्मानं विलोक्य ) सहि, रोअदि दे मे अअं मोत्ता-
राजा-(निमित्तं शकुनं सूचयन् )
वचोभिरिति-आशाजननैराशाकारकैर्वचोभिः उक्तिभिः यथा दक्षिणः मदीयेच्छानुसारी भवान् मामाश्वासयति तथैव अयं दक्षिणोऽपसव्यः बाहुः आस्पन्दितैः स्फुरणैः गुरुव्यथम् असह्यवेदनं मामाश्वासयति मम समाधानं विदधाति । यथा त्वं सुमधुरवचोभिः विरहव्यथाविधुरं मां संस्थापयसि तथैव प्रियासङ्गमरूपभाविशुभसूचकस्पन्दनैरयं दक्षिणो मे वाहुर्मां समाश्वासयति ।
दक्षिणदेहाङ्गस्य स्पन्दनं शुभसूचकमिति सम्मतं शकुनविद्भिः । शुभशकुनानां शुभमेव फलं, यतः "आवेदयति प्रत्यासनमानन्दं अग्रजातानि शुभानि निमित्तानि" इति । "पुंसां सदा दक्षिणदेहभागे, स्त्रीणां तु वामावयवे प्रजातः ....."स्पन्दः फलानि प्रदिशत्यवश्यम् ।"
इह च दक्षिणपदे श्लेषः । विदूषकपक्षे परच्छन्दानुवर्तित्वम् दक्षिणत्वं बाहुपक्षे च वामेतरत्वम् । अत्र चोभयोः सादृश्यं आश्वासनाख्यव्यापारसाधर्म्यात् । किन्त्वत्रास्य न विशेषचमत्काराधायकत्वम् । अत्र तत्त्वार्थकथनात् मार्गों नाम गर्भसन्ध्यङ्गमुक्तं भवति । अनुष्टुब् वृत्तम् ॥ ९ ॥
विदूषकः-ब्राह्मणस्य वचनं अन्यथा मिथ्या न भवति इति स्वीयमहिमानं शुभशकुनोपबृंहितं द्रढयति ।
(राजा सप्रत्याशः उर्वशीसमागमं प्रतिपालयन् तिष्ठति ।)
(ततः आकाश एव यानं तेन मार्गेण, कृतः अभिसरणवेषः अभिसारिकायाः वेषो यया सा तादृशी उर्वशी चित्रलेखा च प्रविशति ।)
या स्वयं स्वकामवितारमभिसरतीति अभिसारिका-"हित्वा लज्जां समाकृष्टा मदनेन मदेन वा । अभिसारयते कान्तं स्वयं वा साभिसारिका" ॥ अथवा "कान्तार्थिनी तु या याति सङ्केतं साभिसारिका " इति ।
उर्वशी (आत्मानं विलोक्य) अवसिते तु तासां नेपथ्यविधाने कान्तानां xxxx स्पृहा यदात्मनो रूपनिमालनं कुर्वते। हरणभूसिदो णीलंसुअपरिग्गहो अहिसारिआवसो।[सखि! रोचते ते मेऽयं मुक्ताभरणभूषितो नीलांशुकपरिग्रहोऽभिसारिकावेषः ।]
चित्रलेखा-णत्थि मे वाआविहवो पसंसिदुम् । इदं तु चिंतेमि । अवि णाम अहं एव पुरूरवा भवेअं त्ति। [नास्ति मे वाग्विभवः प्रशंसितुम् । इदं तु चिन्तयामि । अपि नामाहमेव पुरूरवा भवेयमिति।]
उर्वशी-सहि, असमत्था क्खु अहम् । तुमं आणेहि तं सिग्धम् । णेहि में तस्स वा सुहअस्स वसदिम् । [ सखि! असमर्था खल्वहम् । त्वमानय तं शीघ्रम् । नय मां तस्य वा सुभगस्य वसतिम् ।]
सखि ! ते रोचते ममाऽयं वेषः मुक्ताभरणभूषितः मुक्तानि परित्यक्तानि आभरणानि यस्मिन् तथापि अत एव वा भूषितः स्वाभाविकाङ्गसौष्ठवशालित्वात् सुन्दरः नीलांशुकस्य नीलवस्त्रस्य परिग्रहः स्वीकारो यस्मिन् एतादृश अभिसारिकायाः वेषः ते रोचते न वा इति प्रश्नः ।
अङ्ग उर्वशी कृष्णाभिसारिका । अतः अनया सर्वं कृष्णमेव परिधेयम् । यदि किञ्चिदपि दीप्तं वस्तु परिगृहीतं चेत् परिज्ञेया एव भविष्यति । अतो मुक्ताभरणभूषितः इत्यत्र मुक्ताफलानां आभरणैर्भूषित इति कर्तुमसाम्प्रतमेव साधारणधिया मुक्ताफलानां दीप्तिमत्त्वात्कृष्णाभिसारिकावेषविरोधित्वात् । अनेन कृष्णाभिसारिकायाः नीलांशुकधारणं निरलङ्कारत्वं च प्रकटितम् । कवीन्द्रैः श्रीमद्रवीन्द्रनाथठक्कुरमहोदयैरभिसारिकावर्णने सम्यगिदं भणितं यत्-
"When I go alone at night to my love-tryst, birds do not sing, the wind does not stir, the houses on both sides of the street stand silent....... It is the jewel at my breast that shines and gives light. I do not know how to hide it.”
परिग्रहस्तु स्वीकारः “परिग्रहः कलत्रे च मूलस्वीकारयोरपि । शपथे परिवारे च राहुवक्रस्थभास्करे" इत्यजयः।
तथा च सुन्दरीणां प्रायशः स्वभावोऽयं यत् विहिते तु कस्मिश्चिदपि चारुणि नेपथ्ये ताभिः सखीषु परस्परपरामर्शः क्रियते यत् तद्रुचिरं दृश्यते न वेति । इति स्वभावपरिख्यापनम् ।
चित्रलेखा-कीहक्सुन्दरोऽयं वेष इति प्रशंसितुं मे वाग्विभवः वर्णनशत्किः नास्ति । वाचां विभवः ऐश्वर्यं सामर्थ्यं वा नास्ति । इदं तु चिन्तयामि कल्पयामि यदहमेव तव प्रियः पुरूरवा विक्रमो भवेयम् ततः परिशीलयितुं प्रभविष्यामि ते वेषसौष्ठवम् । इह "अपि नामेति" सम्भावनायाम् ।
अनेन चित्रलेखायाः हास्यकारकखभाववत्वं सूचितम् ।
उर्वशी-अहं असमर्था खलु । विरहव्यथां सोढुं न प्रभवाम्यहमतः त्वं तं मम प्रियं शीघ्रं वेलातिपातं विनैवानय । अथवा मां तस्य सुभगस्य प्रियस्य क्सति निवासस्थानं नय प्रापय ।
अनेन विरहकातरत्वं सूचितम् नायिकायाः । तथा च औत्सुक्यं च व्यज्यते । चित्रलेखा-णं पडिविविअं विअ जामिणीजमुणाए केलाससिहरसस्सिरीअं दे पिअदमस्स भवणं उवगदम्ह । [ननु प्रतिविम्बितमिव यामिनीयमुनायां कैलासशिखरसश्रीकं ते प्रियतमस्य भवनमुपगते स्वः।]
उर्वशी-तेण हि प्पहावेण जाणाहि कहिं सो मम हिअअचोरो किं वा अणुचिट्ठदि त्ति । [ तेन हि प्रभावेण जानीहि कुत्र स मे हृदयचोरः किं वानुतिष्ठतीति ।]
चित्रलेखा-(आत्मगतम् । ) भोदु । कीडिस्सं दाव एदाए सह। (प्रकाशम्) हला, दिट्ठो मए उवहोगक्खमे अवआसे मणोरहलद्धं पिआसमागमसुहं अणुभवं तो चिट्ठदि त्ति । [भवतु । क्रीडिष्ये तावदेतया सह । सखि ! दृष्टो मयोपभोगक्षमेऽवकाशे मनोरथलब्धं प्रियासमागमसुखमनुभवंस्तिष्ठतीति ।]
चित्रलेखा--- यामिनीयमुनायां रात्रिस्थयमुनायां प्रतिबिम्बितमिव, कैलासपर्वतस्य शिखरेण समाना तुल्या श्रीः शोभा यस्य तत् कैलाससदृशशोभाशालिनं ते प्रियतमस्य पुरूरवसः भवनमुपगते प्राप्ते स्वः ।
प्रतिबिम्बितमिवेत्यत्रोत्प्रेक्षालङ्कारः, कैलासेत्सत्र शोभायाः समानखादुपमालकृतिश्चोभयोश्च संसृष्टिः।
उर्वशी-तेन हि अत एवं प्रभावेण अप्सरसां प्रभावविशेषेण जानीहि कुत्र कस्मिन् स्थाने स मे हृदयचोरः हृदयापहारी प्रियतमो वर्तते तथा च किंवा अनुविष्ठति करोति । कुत्र किं कुर्वन् मे प्रिय आस्ते इति जानीहि स्वप्र- भावेणेत्यर्थः।
अनेन मम हृदयं अविज्ञातमेव गृहीतमिति बोधेन नायकस्य गाढं प्रणयं व्यनकि।
चित्रलेखा-(आत्मगतम्) भवतु अस्तु । एतया मम प्रियसख्या सह क्रीडिष्ये उपहासं करिष्ये । (प्रकाशम् ) सखि ! मया उपभोगक्षमे उपभोगयोग्येऽवकाशे स्थाने मनोरथलब्धमिच्छानुसारप्राप्तं प्रियासमागमसुखं रतिसुखमनुभवन् तिष्ठति ते प्रियतमः इति दृष्टः।
अनेनान्यनायिकाकामुकत्वं दर्शयन्ती चित्रलेखा उर्वशीगतप्रीतिलाघवम् प्रकटयन्ती उपहसति तावत् प्रियसखीम् । यतः अत्र पत्नीभार्याललनाप्रमदादिपदान्यधिक्षिप्य प्रियापदाङ्गीकारेण प्रीतिपात्रत्वं तस्या व्यक्तम्, उर्वश्यां च तादृक्प्रीत्यभाव इति दर्शितम्-किन्तु उपहासोऽयम् । अत्र सव्याजवचनाश्रयात् "xxxxxx नाम" गर्भसन्ध्यङ्गम्, "तत्र व्याजाश्रयं वाक्यमभूताहरणं मतम्"। उर्वशी-अवेहि । हिअअं मे ण पत्तीअदि । हला चित्तलेहे, हिअए काउण किंवि जप्पसि । पिअसमागमस्स अग्गदो एव्व अणेण अवहरिदं मे हिअअम् । [अपेहि । हृदयं मे न प्रत्येति । सखि चित्रलेखे ! हृदये कृत्वा किमपि जल्पसि । प्रियसमागमस्याग्रत एवानेनापहृतं मे हृदयम् ।]
चित्रलेखा-एसो मणिहम्मप्पासादगदो वअस्समेत्तसहाओ राएसी । ता उक्सप्पम्ह । [एप मणिहर्म्यप्रासादगतो वयस्यमात्रसहायो राजर्षिः। तदुपसर्पावः।]
(उभे अवतरतः।)
राजा-वयस्य, रजन्या सह विजृम्भते मदनवाधा ।
उर्वशी-अपेहि-दूरमपसर-गच्छ गच्छ-भवतु वा इति भावः । मे हृदयं न प्रत्येति विश्वसिति-मदीयागमनं प्रतीक्षमाणः प्रियासमागमसुखमनुभवस्तिष्ठतीति मे हृदयं न यथार्थत्वेन मनुते । सखि चित्रलेखे ! हृदये कृत्वा हृदये किमप्यन्यन्निधाय त्वं परिहासेन जल्पसि । प्रियेण पुरूरवसा सह समागमस्य अग्रतः सम्मेलनात् पूर्वमेव तेन दिवि विद्यमानाया मम हृदयमपहृतं समाकृष्टम् । सहसैव मम चेतसि तावदीदृशो बलवस्त्नेहसमुद्बोधो जातः, अतः प्रियसमागमात्पूर्वमेव मम मनोवृत्तेः पारवश्यादिदमनुमिनोमि यत्तेनाव्यभिचरितमनसा मामेव नूनं निदिध्यायता भवितव्यम् । दर्शनादूर्ध्वं तु सामान्यतः चित्तद्रवो भवत्येव किन्तु मम मनः तत्समागमात्पूर्वमेवापहृतमतः ध्रुवं निश्चिनोमि यदयं बलवद्विक्षोभः तस्यैकान्तिकानुस्मरणस्यैव फलम् । सखि इदं तवैव कल्पनं प्रतिभाति, यतो नेदं सन्देहपदं यत् स अस्मिन् क्षणे ममैकस्मरणपरायणोऽस्ति यतः "सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः" इति न्यायात् तस्यैव प्रणयप्रभावादपहृतहृदया तं प्रति प्रस्थितास्मीति आकूतम् ॥
इयं तावद्गाढप्रणयस्य शक्तिरेव यदृढा मनोवृत्तिः मनोभावविनिमयव्यापारेण (By force of mental transformation) निजालम्बनेऽपि तादृशीमेव वृत्तिं समुद्बोधयतीति सहृदयैरेव विभावनीयम् ॥
चित्रलेखा -- एष मणिहर्म्यप्रासादगतः तदाख्यप्रासादे स्थितः वयस्यमात्रसहायः विदूषकातिरिक्तरहितः राजर्षिः विक्रमो विद्यते । अनेन एकान्तसेवित्वं मदनवशंवदत्वं च सूचितम् । तत् अनेन कारणेन उपसर्पावः तत्र उपैवः ।
(उभे चित्रलेखोर्वश्यौ अवतरतः गगनात् भूमिमवतरतः।)
राजा-वयस्य सखे माणवक ! रजन्या सह विजृम्भते वर्धते मदनबाधा । कामपीडा रजन्या सह वर्धते । यथा यथा रजनी प्रौढत्वं प्राप्नोति तथैव कामपीडाऽपि आधिक्यं व्रजति ।
रजन्या अन्यत्र व्याप्तचित्ताभावात् रजन्याश्चोद्दीपकत्वात् कामबाधाया वृद्धिः साहजिकी ।
अत्र सहोक्तिरलङ्कारः । यदाह-“सहोक्तिः सहभावश्चेद् भासते जनरञ्जनः। । उर्वशी-अणिव्भिण्णत्थेण इमिणा वअणेण आकंपिदं मे हिअअम् । अन्तरिदा सुणुम्ह आलावम् । जाव णो संसअच्छेदो होदि । [ अनिर्भिन्नार्थेनानेन वचनेनाकम्पितं मे हृदयम् । अन्तरिते शृणुव आलापम् । यावदावयोः संशयच्छेदो भवति ।]
चित्रलेखा-जं दे रोअदि । [यत्ते रोचते ।]
विदूषकः-णं इमे अमिअगब्भा सेवीअंतु चंदवादा । [नन्वतेऽमृतगर्भाः सेव्यन्तां चन्द्रपादाः।]
राजा-वयस्य ! एवमादिभिरनुपक्रम्योऽयमातङ्कः।
पश्य-
कुसुमशयनं न प्रत्यग्रं, न चन्द्रमरीचयो |
उर्वशी-अनिर्भिन्नः अस्फुटः अर्थः यस्य तादृशेन अनिर्भिन्नार्थेनाव्यत्कार्थेनानेन वचनेन मे हृदयं आकम्पितम् किञ्चित्कम्पितमिव जातम् । किमस्य गम्यं तात्पर्यमिति व्यक्तेरभावात् व्याकुलतामाप्तं मे हृदयम् । अतः अन्तरिते अदृष्टे भूत्वा अनयोरालापं पारस्परिकं संवादं शृणुवः । यावत् आवयोः संशयच्छेदो संशयनाशः भवेत्-अस्माकं संशयो विनश्येत् तावत् शृणुवः।
चित्रलेखा यथा ते रोचते तथैव कुरु ।
विदूषकः-ननु अनुज्ञाने ! एते अमृतं गर्भे येषां ते अमृतगर्भाः अमृतमया अमृतपूर्णाः चन्द्रपादाः चन्द्रकिरणाः सेव्यन्ताम् । ते हि चन्द्रस्य शीतललात् सामान्येन राज्ञः सन्तापं शमयितुं प्रभविष्यन्तीति विदूषको मत्वा वयस्यमनु- शास्तीति भावः।
राजा-वयस्य ! अयमातङ्कः सन्तापो रोगो वा एवमादिभिः एतादृशैरुपायैः अनुपक्रम्पः असाध्यः । चन्द्रादिसेवनाद्युपायैः साधयितुं अशक्योऽयं ताप इति । उपक्रान्तुं साधयितुं अशक्यः इति अनुपक्रम्यः अचिकित्स्यः इति । "उपक्रमः स्यादुपधाचिकित्सारम्भविक्रमे" इति विश्वः।
कुसुमेति-चूर्णकस्थ “पश्येति" पदस्य कर्मेदम् ।
प्रत्यप्रं नूतनं कुसुमानां शयनमास्तरणं मम मनसिजस्य रुजं पीडामपोहितुं दूरीकर्तुं अलं समर्थं न । कुसुमास्तरणयोगेन मम मदनबाधा शान्ता न स्यात् । चन्द्रस्य मरीचयः किरणा अपि मदनपीडां नाशयितुं न प्रभवन्ति । सर्वाङ्गीणं सर्वत्र शरीरे लिप्तं मलयजं चन्दनमपि कामबाधां बाधितुं न पारयति । तथा च मणीनां यष्टयो हारा अपि शका न तापं हर्तु मदीयम् किन्तु सा अपूर्वा दिव्या स्वर्गस्था दिवि भवा भव्या उर्वशी मदीयं विरहतापं परिमार्ष्टुं समर्थाऽस्ति । अथवा राहसि निर्जने आरब्धा तदाश्रयिणी उर्वशीसम्बन्धिनी कथा तं मदनतापं xxxxकुर्यात् अल्पतां वा नयेत् ।
मनसिजरुजं सा वा दिव्या ममालमपोहितुम् |
सरलार्थस्तु-अप्रतीकारामिमां मदनव्यथां व्यपोहितुं न च मृदुशीतलं नूतनकुसुमास्तरणं शक्नोति, न चापि चन्द्रसेवनम् , न चन्दनचर्चनम् नापि च मुक्ताहारसेवनं किन्तु यदि केनाप्युपायेन रुगियं परिहार्या तदा सा स्वर्गीयोर्वशी एव तद्वियोगदूनं मो समुज्जीवयितुं प्रभवति अथवा तद्गुणख्यापिनी कथा वा ममेमां बाधां कथञ्चिल्लघयितुं शक्ता भवेत् इत्यर्थः ।
प्रत्यग्रम्-प्रति नवं अग्रं यस्येति प्रत्यग्रम् । मलयाचले समुत्पन्नमिति मलयजं चन्दनम्, चन्दनस्य तत्रोत्पत्तेः । सर्वाङ्गीणम्-सर्वाङ्गं व्याप्नोतीति सर्वाङ्गीणं खश् प्रत्ययः । मणियष्टयः-मुक्ताहाराणां शीतलत्वाङ्गीकारः कविसम्प्रदायः यथा भवभूतिनापि-"अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः” । “यष्टिः शस्त्रान्तरे चैव हारे हारात्परेपि च ।" इति विश्वः । दिवि भवा दिव्या। अलं समर्था । अपोहितुं दूरीकर्तुम् । सैवाश्रयो यस्याः सा तदाश्रयिणी ।
अत्र प्रत्याविशेषणप्रदानेन कुसुमानां सद्योऽवचितत्वं शीतललाधिक्यं च सूचितम् । चन्द्रमरीचय इत्यत्र मरीचिपदग्रहणेन जाड्यनाशकत्वं विशेषेण व्यकम्-म्रियते तमोऽस्मिन्निति मरीचिरिति व्युत्पत्तेः "मृकणिभ्यामीचिः" (उ. ४७०)। चन्दनस्य सर्वत्र देहे लेपेन तापशान्तेरवश्यम्भावः । तेनापि तापस्यास्याशान्तिरेव । मणियष्टय इत्यत्र यष्टिपदग्रहणेन मौक्तिकसराणां निबिडत्वं बाहुल्यं च गमितम् । अनेन तापस्य विशेषतया आधिक्यं द्योतितम् प्रीतिबाहुल्यं च सूचितम् ।
अत्र तुल्ययोगितालङ्कारः। यदुक्तं “वर्णानामितरेषां वा धर्मेक्यं तुल्ययोगिता"।
अत्र प्रतिषेधार्थकस्य नञः पुनरावृत्तावपि नानवीकृतलम् । यतः नकारस्य प्रतिकोटितापस्य आधिक्यप्रदर्शनाय नितान्तमपेक्षा। प्रसादाख्यो गुणः । अत्र प्रथमचरणे नास्ति किंचन समुच्चयार्थकं विकल्पसूचकं वाव्ययम् , अतः न्यूनपदतादोषः; पुनश्च द्वितीयचरणे आदौ चकारं प्रयुज्योत्तरत्र विकल्पसूचकं वेतिपदम्, अतस्तत्र प्रक्रमभङ्गः । तृतीयचरणे “वा" पदम् निरर्थकं विकल्पाभावात् ; सैवेत्यस्यावधारणस्य चावश्यं प्रयोज्यत्वेपि विरोषसूचकस्य च "किन्तु" पदस्याप्यदर्शनादत्र न्यूनपदताख्यदोषः । एवं प्राप्तस्य समस्तदोषकदम्बस्य परिहारः एवं विधेयः। आदावत्र प्रथमः कल्पः तावत् यदन प्रथमार्धे सर्वत्र समुच्चयो विधेयः। एवं कर्तुं प्रथमचरणे "न चन्द्रमरीचयः" इत्यत्र "न चेन्दुमरीचयः" इति पाठो विधेयः; द्वितीयचरणे च "न मौकिकयष्टयः" इत्यनेन परिवर्तनेन दोषः समाधेयः। अथवा "न वा मणियष्टयः" इत्यत्र वापदम् “वा स्याद्विकल्पोपमयोर्वितर्के पादपूरणे । समुच्चये चेति" मेदिनीवचनमनुरुध्य समुच्चयार्थकं मत्वा कथञ्चिद्दोषोऽपनेतव्यः। द्वितीयस्तावद्वरीयान् कल्पः अयं प्रतिभाति यत् पूर्वार्धे सर्वत्रैष सहृदयसम्मतः विकल्पार्थोऽसीकर्तव्यः । अस्मिन् मते एवं पाठपरिवर्तनं समञ्जसम्----
११ विक्र० उर्वशी-हिअअ! जं दाणी सि मं उझिअ इदो संकंतं तस्स फलं तुए उवलद्धं । [ हृदय ! यदिदानीमसि मामुज्झित्वा इतः संक्रान्तं तस्य फलं त्वयोपलब्धम् ।]
विदूषकः-आम । भो ! अहं पि जदा सिहरिणीं रसालं अण लहे तदा तं एव्व चिंतयंतो आसादेमि सुहं । [आम । भो! अहमपि यदा शिखरिणी रसालं च न लभे तदा तदेव चिन्तयन् आसादयामि सुखम् ।]
प्रथमचरणे “न चन्द्रमरीचयः" इत्यत्र “न वेन्दुमरीचयः" इति विधातव्यम् द्वितीयचरणे च "मलयजमपि प्रत्यङ्गं नो, न वा मणियष्टयः" इति कृते समाधानं भवितुमर्हति । किन्तु तृतीयचरणे “वा" पदम् केवलं "उपमायां विकल्पे वा" इत्यमरवचनात् विरुद्धमतिकृदेव, स च दोषः कथमपि वेतिपदं अवधारणार्थकं मत्वा अनवेक्षणीयः “वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये” इति विश्वः ॥ तथापि अवश्यंदेयस्य विरोधगमकस्य 'किन्तु' पदस्याभावान्न्यूनपदत्वं त्वस्त्येव इति दिक् ॥
अत्र च हरिणीवृत्तम् । यदुक्तं भगवता पतञ्जलिना "हरिणी न्सौ म्रौ स्लौ गृतुसमुद्रऋषयः ।" यस्य पादे नगणसगणमगणरगणसगणाः लघुगुरू च भवेयुस्तद्वृत्तं हरिणी नाम । अत्र षड्भिः चतुर्भिः सप्तभिश्च यतिः ॥ १०॥
उर्वशी-हृदयेति-हे हृदय ! मामुज्झित्वा परित्यज्य यदिदानी इतः अस्मिन् राजनि सकाङ्न्तं लग्नमसि तस्य फलं प्रियमुखेन लयि स्वीयप्रेमप्रकाशनरूपं त्वया उपलब्धम् प्राप्तमित्यर्थः । हे हृदय ! माम् विहाय यद्राजानमाश्रितवदसि तस्य त्वदर्थप्रीतिज्ञानरूपफलं त्वयाधिगतमेवेति भावः । उज्झित्वेति---- ओहाक् त्यागे तृतीयगणधातोः त्वाप्रत्ययः । इतः-अत्र सप्तम्यर्थे तसिल् “सार्वविभक्तिकस्तसिल्"।
विदूषकः-आमेति-आमेति आनुकूल्ये समर्थने वा । अहमपि यदा शिखरिणीं भोज्यविशेषं रसालं पक्वाम्रफलं न लभे प्राप्नोमि तदा तदेव शिखरिणीरसालादिकं चिन्तयन्नेव सुखम् आसादयामि लमे ।
शिखरिणी-एलालवङ्गकर्पूरादिविविधसुगन्धिद्रव्यमिश्रितो दुग्धेन सह गालितसितासङ्गतः पक्वकदलीफलान्तःसारः शिखरिणीत्युच्यते ।
विदूषको राजानं कथयति यत् यदा शिखरिणीरसालादि मदीयं प्रेयः
वस्तु नाहं प्राप्नोमि तदा तस्य चिन्तनेनैव मे मनः विनोदयामि तथैव त्वमपि
स्वीयमनःसागरशशिलेखामुर्वशीमनधिगच्छन् तस्याः ध्यानेनैव स्वमनः प्रसादः
येति पूर्वोक्तं वस्तु समर्थयति । राजा-सम्पद्यते इदं भवतः ।
विपक:-तुमं वितं अइरेण पाविहिसि। त्वमपि तामचिरेण प्राप्स्यसि ।]
राजा-सखे ! एवं मन्ये ।
चित्रलेखा-सुणु असंतुट्ठे । [शृणु असन्तुष्टे !]
राजा-
इदं तस्याः रथक्षोभादसेनासं निपीडितम् । |
राजा-भवतः एतत्सर्वं खाद्यं सम्पद्यते प्राप्यते । भवत्प्रेयः वस्तु सर्वं सुलभमिति भावः । मद्धृदयाभिलाषस्तु कृच्छ्रसम्पाद्य इति तारतम्यं दर्शयति ।
विदूषकः-त्वमपि तामुर्वशीमचिरेण शीघ्रमेव प्राप्स्यसि । अत्र विच्छिन्नस्य
बीजस्य पुनः समुद्भेदसम्भावनं विहितमिति स्मरणीयम् ।
राजा-सखे वयस्य ! एवं मन्ये-इदं तर्कयामि यत्-इति आगामिना श्लोकेन सम्बध्यते।
चित्रलेखा-"एवं मन्ये इति" राज्ञः पूर्वोकिं "शीघ्रमेव ता लप्स्ये" इति तर्कयामीत्यर्थावबोधिकां मत्वा "शृणु असन्तुष्टे” इति वाचमुदाजहार । किमतः परमुच्यते इति कुतूहलम् ।
राजा-इदमिति-रथक्षोभात् उच्चावचप्रदेशेषु रथचक्रोद्घातात् इदं
मदीयमंसं तस्याः उर्वश्याः अंसेन स्कन्धदेशेन निपीडितम् सङ्घर्षितम् । अतः
अस्मिन् समग्रे शरीरे एकमङ्गं कृति कृतार्थम् , तथा च तव्द्यतिरिकं शेषमङ्गं भुवः
पृथिव्याः भरः भारभूतं निरुपयोगि एवास्ते ।
केशिना गृहीतां उर्वशीं परित्रातुं गतस्य राज्ञः तं विद्राव्य प्रत्यागच्छतः एकस्मिन्नेव रथे समारूढस्य स्कन्धदेशः रथक्षोभात् तस्याः स्कन्धात् परस्परं सङ्घर्षमाप्तवान् । तदुपरि राजा मनुते यथा तदेवाङ्गं धन्यं इतरत्तु भुवि भारभूतमेव ।
अनेन राज्ञः मनसि तद्विषयको बहुमानो व्यक्तः । यतः नायकनायिकयोः पारस्परिकाङ्गसंस्पर्शजन्यं सुखं विलक्षणमेव भवतीति अनुभवमात्रगम्यम् । यथा च-"असावस्याः स्पर्शो वपुषि बहलश्चन्दनरसः, अयं कण्ठे बाहुः शिशिरमसृणे मौक्तिकसरः" इति भवभूतिः ।
कृतमनेनेति कृति कृतार्थम् , यथा वा शाकुन्तले----
"वयं तत्त्वान्वेषान्मधुकर ! हतास्त्वं खलु कृती" अत्रांसस्य कृतार्थत्वस्य तर्क्यमाणत्वात् इह "रूपं" नाम गर्भसन्ध्यङ्गमुक्तं भवति । यदाह दर्पणकार:-"रूपं वितर्कवद्वाक्यम्"। वितर्कवत् तर्क्यमाणमिति दाधीचपन्डितः। अनुष्टुप् वृत्तम् ॥११॥ उर्वशी-किं दाणीं अवरं विलंबिस्सं । (सहसोपगम्य) हला चित्तलेहे ! अग्गदो वि मए ट्ठिदाए उदासीणो महाराओ । [ किमिदानीमपरं विलम्बिष्ये । (सहसोपगम्य) सखि चित्रलेखे! अग्रतोऽपि मम स्थिताया उदासीनो महाराजः।]
चित्रलेखा-(सस्मितम् ) अदितुवरिदे ! असंक्खित्ततिरक्करिणी असि । [अतित्वरिते! असंक्षिप्ततिरस्करिण्यसि ।]
(नेपथ्ये)
इदो इदो भट्टिणी । [इत इतो भट्टिनी।]
(सर्वे कर्णं ददति । उर्वशी सख्या सह विषण्णा)
विदूषक:-अयि भो! उवट्ठिदा देवी । वा सुमुद्दिदमुहो होहि । [अयि भो! उपस्थिता देवी । तत्सुमुद्रितमुखो भव ।]
राजा-भवानपि संवृताकारमास्ताम् ।
उर्वशी-इदानीं तत्समीपमुपगन्तुं किमर्थमहं विलम्बं करोमि । (सहसा उपगम्य-तस्य पुरः गला) सखि चित्रलेखे! अग्रतोऽपि स्थितायाः पुर एव विद्यमानायाः मम महाराजः उदासीनो मयि अनवहितचेताः आस्ते । मां न लक्षयतीति भावः।
स्थितायाः इति “षष्ठी चानादरे" इत्यनेन लघूकरणे षष्ठी।
चित्रलेखा-(सस्मितमुपहस्य) अयि अतित्वरिते अधीरे! असंक्षिप्त- तिरस्करिणी असंहृतालक्ष्यप्रयोगा असि । अन्यैरलक्ष्या भवेयमित्युद्दिश्य प्रयुक्ता तिरस्करिणी तदाख्यः प्रयोगविशेषः यया सा एतादृश्शी त्वमसि-अत महाराजस्त्वां द्रष्टुं अक्षमः खलु, तेन च त्वामवधारयितुं न शक्त इति भावः । नेपथ्ये---
इत इतः भट्टिणी-राज्ञी चन्द्रपूजनार्थं कृतपरिग्रहा तत्रैवायाति ।
(सर्वे कर्णं ददति शृण्वन्ति । उर्वशी सह सख्या चित्रलेखया विषण्णा खिन्ना-इदानीमहं राजानं मिलितुं न शक्नोमि निर्जनत्वाभावात् इति हेतुः।)
विदूषकः-अयि भो ! ( राजानं प्रति) उपस्थिता आयाता देवी । तत् इति हेतोः सुमुद्रितमुखो भव संवृतमुखः भव, मौनं भजस्वेति भावः । अतः परं मा वादीः इत्यर्थः । राज्ञी श्रोष्यति कुपिष्यति चेति हेतुः । अत्र पुनर्बी- जस्य हासः।
".. राजा-भवान् अपि संवृतो मुद्रितः आकारो मुखं यस्य तादृशो भव । xxxxxxस्स्वेति भावः । उर्वशी-हला ! किं एत्थ करणिज्जं । [सखि! किमत्र करणीयम् ।]
चित्रलेखा-अलं आवेएण | अंतरिता दाणी सि तुमं । विहिणिअमवेसा राअमहिसी दीसदि । ता एसा चिरं ण चिट्ठिस्सदि त्ति । [अलमावेगेन । अन्तरितेदानीमसि त्वम् । विहितनियमवेषा राजमहिषी दृश्यते । तदेषा चिरं न स्थास्यति इति ।]
(ततः प्रविशति धृतोपहारपरिजना देवी।)
देवी-(चन्द्रमालोक्य ) एसो रोहिणीजोएण अहिअं सोहदि भअवं मिअलंछणो। [एप रोहिणीयोगेनाधिकं शोभते भगवान् मृगलाञ्छनः।]
{{bold|चेटी-णं संपज्जिसदि भट्टिणीसहिदस्स भट्टिणो विसेसरमणीअदा।[नूनं सम्पत्स्यते भट्टिनीसहितस्य भतुर्विशेषरमणीयता।]
उर्वशी-सखि ! किमत्र करणीयम्-अस्माभिरधुना किं कर्तव्यमिति विचिकित्सति । अत्र क्षणेनैव देवी आगमिष्यति इत्यतः जनितमीतेर्गम्यमानत्वात् विद्रवाख्यं गर्भसन्ध्यङ्गम् । यदुक्तं दर्पणे "शङ्काभयत्रासकृतः सम्भ्रमो विद्रवो मतः" । अत्र भीतिजनितसम्भ्रमरूपो विद्रवः ।
चित्रलेखा-अलमावेगेन सम्भ्रमेण । त्वमिदानीमन्तरिता अलक्ष्या असि । विहितः कृतः नियमव्रतोपवासादिसमुचितो वेषः यया सा एतादृशी महिषी राज्ञी दृश्यते । देव्या नियमोचितो वेषः कृतः अतः सा चिरं न स्थास्यति शीघ्रमेवेतो गमिष्यति देवी । पश्चात् आवां द्रक्ष्यावो राजानम् ।
(ततः प्रविशति धृतो गृहीतः उपहारः पूजावस्तु परिजनेन यस्याः सा देवी)
देवी-(चन्द्रमालोक्य) एषः नभसि वर्तमानो भगवान् मृगलान्छनः चन्द्रः रोहिणीयोगेन तदाख्यनक्षत्रसम्बन्धेन अधिक विशेषेण शोभते । रोहिणी नक्षत्रविशेषः । रोहिणी चन्द्रप्रियेत्युच्यते । भगवत्पदेन पूज्यत्वं व्यज्यते । मृगः लाञ्छनं चिन्हं यस्येति भृगलाञ्छनः । चन्द्रे दृश्यमानो यः कालिमा स कविभिः चन्द्रे मृगोऽयमिति कथ्यते।
अत्र मृगलाञ्छनपदेन द्योत्सः कश्चन नायकः स्वनायिकया सह वर्तमानो विशेषेण शोभते, जनानां सुतरामाल्हादकश्च भवतीति वस्तु समासोकिभङ्गया ज्ञाप्यते।
चेटी-नूनं निश्चये । भट्टिनी राजमहिषी तया सहितस्य भर्तुः राज्ञः
विशेषरमणीयता विलक्षणमनोहारिता नूनं सम्पत्स्यते भविष्यति । यथा रोहिणीसम्बन्धेन चन्द्रमाः सुतरां शोभमानो दृश्यते तथैव त्वया पार्श्वगतया समलङ्कृतो राजाऽपि नूनं अधिकमेव शोभिष्यते इति चेटी देवीमाह ।( इति परिक्रामतः।)
विदूषकः-भो, णं जाणामि सोत्थिवाअणं वि देदि । आदु भवंतं अंतरेण चंदवदव्ववदेसेण मुक्करोसा अज्ज मे अक्खीणं सुहदंसणा देवी । [भो! ननु जानामि स्वस्तिवाचनमपि ददाति । उत भवन्तमन्तरेण चन्द्रव्रतव्यपदेशेन मुक्तरोषा अद्य मेऽक्ष्णोः सुखदर्शना देवी।]
राजा-( सन्मितम् ) उभयमपि घटते । तथापि भवता यत्पश्वादभिहितं तन्मां प्रतिभाति ।
यदत्रभवती-
सितांशुका मङ्गलमात्रभूषणा पवित्रदूर्वाङ्कुरलाब्छितालका । |
"अभिषिक्ता तु राज्ञासौ देवीत्यन्या तु भोगिनी । भट्ठिनीत्यपरैरन्या नीचैगौस्वामिनीति सा" इति शब्दार्णवे । अनेन राज्ञः अभिषिक्तासु राज्ञीषु भट्टिनीति- पदं चेटीभिः प्रयोज्यम् ।
(इति परिक्रामतः-देवीचेट्यौ राजानमुपसर्पतः।)
विदूषकः-राज्ञीं प्रसन्नां दृष्ट्वा किमस्येति कारणं विचारयन्नाह----
ननु इति वितर्के । जानामि यत् सा किमपि स्वस्तिवाचनं उपहारः भक्ष्यं दास्यतीति उत अथवा भवन्तमन्तरेण भवन्तं उद्दिश्य चन्द्रव्रतस्य व्यपदेशेन मिषेण मुक्तो रोषः क्रोधो यया तादृशी सती अद्य मे अक्ष्णोः नयनयोः सुखं सुखकारकं दर्शनं यस्याः तादृशी देवी प्रतिभाति । भावस्तु-सा किञ्चित् भक्ष्यं दित्सुरिति हेतोः मम नयनयोः सा प्रीतिकरा अथवा भवद्विषयको यस्तस्याः क्रोधस्तं व्रतव्याजेन परित्यजन्ती अत एव सुखदर्शना प्रतिभातीति न जाने इति वितर्कः किन्तु अद्य सा प्रियदर्शनेति निश्चितम् ।
खस्तिवाचनम् ब्राह्मणेभ्यो दीयमानं मोदकादि [-उपहारः स्वस्ति+वच्+ ल्युट् (अन)]
राजा-(सस्मितम् ) तथा उभयमपि घटते । उभावपि ते वितर्कौ सङ्गच्छेते । तयोरन्यतर एव सम्भवेत् । किन्तु मह्यं तु इत्थं प्रतिभाति यत् भवता पश्चादनन्तरमभिहितं उकं तदेव कारणम् । तया व्रतव्याजेन मुक्करोषया भवितव्यमिति ते तर्कः मह्यं प्रसन्नतरः प्रतिभाति ।
यतः अत्रभवती मान्या सा एतादृशी लक्ष्यते----
सितांशुकेति-सितं धवलं अंशुकं उत्तरीयं यस्याः सा मङ्गलमेव मङ्गलमात्र हरिद्राकुङ्कुमादि, एव भूषणं अथवा मङ्गलसूत्राख्यं भूषणं यस्याः सा तथा च पवित्रं देवी-(उपगम्य ।) जेदु जेदु महाराओ । [जयतु जयतु महाराजः ।]
परिजन:-जेदि जेदि देवो। [जयति जयति देवः।]
विदूषक-सोत्थि भोदीए । [ स्वस्ति भवत्यै । ]
राजा-स्वागतं देव्यै । (तां हस्तेन गृहीत्वोपवेशयति ।)
उर्वशी-ट्ठाणे इअं वि देवीसद्देण उच्चारीअदि । ण हि किंवि परिहीअदि सचीदो ओजस्सिदाए । [स्थाने इयमपि देवीशब्देनोच्चार्यते । न हि किमपि परिहीयते शचीतः ओजस्वितया।]
यद्दूर्वीयाः अङ्कुरं तेन लाञ्छितं भूषितमलकं यस्याः सा देवी व्रतस्यापदेशेन मिषेण उज्झिता परित्यक्ता गर्ववृत्तिः मानिता यस्य तेन वपुषा शरीरेणैव सा मयि प्रसन्ना मुक्तकोपा लक्ष्यते प्रतिभाति ।
यतः तया धवलमुत्तरीयं परिधत्तम् , केवलं मङ्गलमयान्येव भूषणानि धृतानि, केशेषु दूर्वाङ्कुरमेव न्यस्तमिति कारणैः प्रतीयमानेन परित्यकमानेन देहेनैव सा मयि प्रसन्नेति दृश्यते।
अत्र पूर्वार्धस्य उत्तरार्धे हेतुत्वात् काव्यलिङ्गमलङ्करणम् “हेतोः वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्" । वपुषैव लक्ष्यते अर्थात् सा मनसा तु प्रसन्नैवेति दण्डापूपिकान्यायेन अर्थस्य प्रतीयमानत्वात् अर्थापत्तिः । अत्र माधुर्याख्यो गुणः ।
सितांशुकेत्यनेन निर्मलवस्त्रत्वात् व्रतौचित्यं सौभाग्यं च सूचितम् । मङ्गलमात्रभूषणेत्यनेन सामान्यत्वं व्यक्तम् । पवित्रदूर्वाङ्कुरेत्यनेन स्वल्पमण्डना वर्तते तेन चाधिकसौन्दर्यं दृष्टिपथमवतरतीति व्यङ्ग्यम् । अनेनैव सौन्दर्येण कोपस्य परित्यागात् तस्याः राज्ञि दाक्षिण्यम् द्योत्यते । अत्र सित्तांशुकादिषु केवलमेकस्यैव प्रदानात् व्रतचारित्वं सूचितं भवेत् किन्तु तदर्थमेव विशेषणत्रयप्रदानात् समुच्चयालङ्कारोऽपि । यदुक्तम्-“समुच्चयोयमेकस्मिन् सति कार्यस्य साधके । खलेकपोतिकान्यायात्तत्करः स्यात्परोऽपि चेत् ।” वंशस्थं वृत्तम्-जगणतगणजगणरगणसत्त्वे वंशस्थाख्यं वृत्तम् ॥ १२ ॥
देवी-(उपगम्योपसृत्य) जयतु जयतु महाराजः । मङ्गलवचनमिदम् ।
परिजन:-जयति जयति देवः । अयमपि पूर्ववत् ।
विदूषकः-भवत्यै स्वस्ति । अत्र स्वस्तियोगे चतुर्थी ।
उर्वशी-स्थाने युक्तमेवैतत् यदियं देवीतिपदेनोच्चार्यते राज्ञा कथ्यते । कुत इत्याह-इयं राज्ञी शचीतः इन्द्राण्याः किमपि ईषदपि ओजखितया सौन्दर्येण तेजसापि वा न परिहीयते न्यूना अस्ति । रूपवेजोमाहात्म्येन न कथमपि इन्द्राण्या सा हीना विद्यते अत एव देवीविपदेन बोध्यः; राज्ञः अस्यां बहुमानो युक्तः एव । स्थाने "युक्त द्वे साम्प्रतं स्थाने" इत्यमरः । चित्रलेखा-साहु असूहापरंमुहं मंतिदं । [साधु असू- यापराङ्मुखं मन्त्रितम् ।]
देवी-अज्जउत्तं पुरोकदुअ को वि वदविसेसो मए संपादणीओ । ता मुहुत्तं उवरोधो सहीअदु । [आर्यपुत्रं पुरस्कृत्य कोऽपि व्रतविशेषो मया सम्पादनीयः । तन्मुहूर्तं उपरोधः सह्यताम् ।]
राजा-मा मैवम् । अनुग्रहः खलु नोपरोधः।
विदूषकः-ईरिसो णं सोस्थिवाअणएहिं दे बहुसो उवरोधो होदु ।[ ईदृशो ननु स्वस्तिवाचनकैस्ते बहुशः उपरोधो भवतु ।]
राजा-किंनामधेयमेतद्देव्या व्रतम् ? (देवी निपुणिकामवलोकयति ।)
निपु०-भट्टा! पिअप्पसादणं णाम । [भर्तः ! प्रियप्रसादनं नाम ।]
चित्रलेखा-त्वया साधु एवोचितमेव असूया स्पर्धा तस्याः पराङ्मुखं विपरीतं स्पर्धारहितं मन्त्रितं विचारितम् । असूया हि नाम गुणेषु दोषाविष्करणमिति सिद्धान्तकोमुदी । उर्वशी राशि अनुरक्ता । देवी च तस्य पत्नी । तेन सपत्नीभावेन साहजिकी एवासूया खलु, किन्तु तथापि असूयाविरहितं तयोक्तम् यत् सा रूपेणाहीना कथमपि शचीत इति । अनेन नायिकायाः दाक्षिण्यमुदारता च सूच्यते ।
देवी-आर्यपुत्रं पुरस्कृय अग्रे निवेश्य मया कोऽपि कश्चन व्रतविशेषः सम्पादनीयः करणीयः । अतः मुहूर्त कश्चित्कालं उपरोधः तदर्थं मया कृतः प्रतिबन्धः रुथ्यताम् ।
राजा-मा मा एवम् । उपरोधोऽयमिति मा मा उच्यताम् । अयं तावदनुग्रहः न तु उपरोधः प्रतिबन्धः इति । अनेन राज्ञः विनयित्वं दाक्षिण्यं च व्यक्तम् ।
विदूषकः-विदूषकस्तु राज्ञी मह्यमपि किमपि उपहाररूपेण दास्यतीति मन्यमानः तां सादरं सानुनयं भणति "ईदृशः खलु उपरोधः यदि स्वस्तिवाचनकैः मोदकाद्युपहारैः सहितो भवेत् तदा तु बहुशोऽस्तु । विदूषकस्य मोदकप्रियत्वात् स सर्वः स्वार्थपरत्वमेवावलम्बते ।
राजा-देव्या एतद्व्रतम् किंनामधेयमस्तीति पृच्छा । किं नु खलु एतद्व्रतस्य नाम?
(देवी उत्तरप्रदानाय निपुणिकामवलोकयति ।)
निपु०-भर्तः ! प्रियप्रसादनं नाम । प्रियः प्रसाद्यते अनुनीयते अनेनेति प्रियप्रसादनम् । प्रपूर्वक-सद् धातोः ल्युट । यस्य व्रतस्य आचरणेन प्रियः सदैवानुकूलो भवेत् तादृशमिदं व्रतम् । राजा-(देवीं विलोक्य ) यद्येवम्-
अनेन कल्याणि ! मृणालकोमलं |
राजा-(देवीं विलोक्य) यदि व्रतमिदमेवमेतादृशं प्रियस्य प्रसादनार्थमाचरितं चेत्-
अनेनेति-हे कल्याणि मङ्गलानुभावे शोभने वा । अनेन उपर्युक्तेन व्रतेन व्रताचरणेन मृणालं कमलनालं तद्वत् कोमलं सुकुमारं तवेदं गात्रं अकारणम् कारणेन विनैव ग्लपयसि क्षीणं करोषि । कुतः- यः दासजनः उत्सुकः उत्कण्ठितो भूत्वा तव प्रसादमनुग्रहमाकाङ्क्षति वाञ्छति स एव त्वया किं किमर्थं प्रसाद्यते । यस्तवैवानुग्रहपरिशीलनेन जीवति सः पुरुषः त्वया किमर्थं प्रसाद्यते ? तवानुग्रहमाकाङ्क्ष्यमाणोऽयं दासजनस्वया प्रसादनार्हो नास्तीति भावः ।
सरलार्थस्तु-अयि मङ्गलमुखि! यो जनस्तव प्रसादमनिशं कामयते तस्य प्रसादने यत्नस्य कैमर्थ्यमेव । तेन च वृथैवायं तव परिश्रमः प्राप्तस्यैव लाभायानुष्ठितत्वात् । ततश्च व्रताचरणेन व्यर्थमेव सुकुमारां तवाङ्गयष्टिं खेदयसीति । यतः- "लभेत वा प्रार्थयिता न वा श्रियम् , श्रिया दुरापः कथमीप्सितो भवेत् ।" (शाकु. ३-१६) । यदि ते प्रसादमहमिच्छामि तदा सम्भवमिदं यदहं तन्न लभेयम् किन्तु त्वयेप्सितो दुरापः कथं भविष्यतीति भावः । अथवा यदुक्तं कुमारे-“न रत्नमन्विष्यति मृग्यते हि तत्" न ते प्रसादं कस्यापि लब्धुं यत्नः साम्प्रतम्, किन्तु जनास्ते प्रसादाय लालायन्ते इति ।
अनेन राज्ञस्तस्यां बहुमानः आनुकूल्यं च व्यज्यते । कल्याणि-अत्र बह्वादिभ्यश्च ङीप्-कल्याणमस्यै भवतीति । ग्लपयसि क्षयार्थस्य ग्लैधातोः णिजन्तस्य लटि प्रयोगः । न विद्यते कारणं यस्येति अकारणं नञ्बहुव्रीहिः क्रियाविशेषणं च । गात्रपदमत्र समग्रशरीरे न तु अवयवे यतः "गात्रं गजाग्रजxदिxयेप्यङ्गे कलेवरे" इति विश्वलोचनः।
अत्र च मृणालवत्कोमलमित्यत्र उपमालकारः । तेन च तस्याः अङ्गसौष्ठवं मार्दवं तेन व्रताचरणानौचित्यं व्यज्यते। तथा च पूर्वार्धं प्रति उत्तरार्धस्य हेतुत्वात् काव्यलिङ्गमलङ्कारः । व्रतचर्यायाः गात्रत्रासहेतुत्वात् अकारणत्वं च तस्याः उत्तरार्धगतवस्तुतश्च कार्यकारणभावः । अनयोश्च संसृष्टिः । तथा च अन्यासु संक्रान्तप्रेम्णां नायकानां कीदृशी व्यवहारपदवी स्वीयभार्यासु भवतीति कथनात् अन्यसंक्रान्तचेतसां स्वभाववर्णनात्, स्वभावोक्तिश्च ।
अत्र माधुर्याख्यः शब्दगुणः ॥ यदुक्तं “संयोगपरह्रस्वातिरिक्तवर्णघटितत्वे उर्वशी-(सवैलक्ष्यस्मितम्) महंतो खु एदस्स इमिस्सिं बहुमाणो। [ महान् खल्वेतस्यैतस्यां बहुमानः।]
चित्रलेखा-अइ मुद्धे ! अण्णसंकंतप्पेमाणो णाअरा भारिआए अहिअं दक्खिणा होंति । [अयि मुग्धे! अन्यसंकान्तप्रेमाणो नागरा भार्यायामधिकं दक्षिणाः भवन्ति । ]
देवी-एदस्स वदस्स अअं पहावो जं एत्तिकं वददि अज्जउत्तो।[ एतस्य व्रतस्यायं प्रभावो यदेतावद् वदत्यार्यपुत्रः।]
विदूषकः-विरमदु भवं । ण जुत्तं दे सुहासिदं प्पच्चक्खिदुं। [विरमतु भवान् । न युक्तं ते सुभाषितं प्रत्याख्यातुम् । ]
देवी-दारिआओ! आणेध ओवहारिअं जाव हम्मगदे
सति पृथक्पदत्वं माधुर्यम्" तथा चापरुषवर्णघटितत्वात् सुकुमारता नाम शब्दगुणः । तथा चात्र प्रसादाख्यः अर्थगुणः यदाह पण्डितेन्द्रः “यावदर्थकपदत्वरूपमर्थवैमल्यं प्रसादः" । तथा च परमभावगाम्भीर्यपरिपूर्णवात् भावगौरवं च ।
वंशस्थवृत्तम् । जगणतगणजगणरगणानामस्तित्वात् ॥ १३ ॥
उर्वशी-(सवैलक्ष्यस्मितम्-राज्ञस्तया सहैतादृशव्यवहारमवलोक्य विस्मिता सती सस्मिता आह) एतस्यामस्य राज्ञो महान् खलु बहुमानः आदरः।
चित्रलेखा-अयि मुग्धे अनभिज्ञे! अन्यासु संक्रान्तं लग्नं प्रेम येषां तादृशाः अन्यनायिकामुग्धहृदया नागराश्चतुरा नायकाः भार्यायामधिकं सुतरां दक्षिणाः अनुकूलाश्चाटुवादिनो भवन्ति । येषां चेतः अन्यललनासु लग्नं ते स्वीयगृहिण्याः सुतरां छन्दानुवर्तिनो भवन्तीति भावः । अनेन तादृशां स्वभावोद्घाटितः । तथा च तस्या बहुमानेऽपि स्वप्रियसख्यां उर्वश्यां तस्य तादृश एव प्रणय इति बोधनेन उर्वश्याः मनसि शान्तिसम्पादनायालमिदं वाक्यम् ।
देवी-सासूयेयं किञ्चित् खव्रतप्रभावं प्रख्यापयति-एतस्यैव व्रतस्य अयं प्रभावः सामर्थ्य यदेतावत् मधुर आर्यपुत्रो वदतीति । अत्र नायिका संरब्धवचसः प्रयुज्यमानवात्तोटकं नाम गर्भसन्ध्यङ्गमुक्तं भवति ।
विदूषकः-नृपं प्रति-विरमतु भवान् व्रतनिषेधात् इति शेषः। देवी प्रति न युक्तं तवेदं सुभाषितं “आर्यपुत्रं पुरस्कृत्य कोऽपि व्रतविशेषो मया सम्पादनीयः" इति मधुरभाषितं प्रत्याख्यातुं विरुद्धं वक्तुम् । सः इत्यं मधुरं वक्ति त्वं च तत्प्रत्याचरसि तत् तवेदं युक्तं न, यतः तस्य उत्साहभङ्गो कदाचिद्भवेत् ।
देवी-दारिकाश्चेट्यः ! यूयमानयत उपनयत औपहारिकं देन्नोद्देशेन चंदवादे अच्चेमि । [दारिकाः ! आनयतौपहारिकं यावद् हर्म्यगतांश्चन्द्रपादानर्चयामि ।]
परिजन:-जं देवी आणवेदि । एसो उवहारो । [यद्देवी आज्ञापयति । एष उपहारः ।]
देवी-उवणेध (नाट्येन कुसुमादिभिश्चन्द्रपादानभ्यर्च्य)हञ्जे! इमेहिं उवहारेहिं मोदएहिं अ अज्जमाणअवं कंचुईं अच्चेद । [उपनयत हञ्जे ! एतैरुपहारैर्मोदकैश्च आर्यमाणवकं कञ्चुकिनं चार्चयत ।]
परिजन:-जं देवी आणवेदि । अज्ज मागवअ ! एवं उववादिदं सोत्थिवाअणअं। [यद्देवी आज्ञापयति । आर्य माणवक ! एतदुपपादितं स्वस्तिवाचनकम् । ]
विदूषकः-(मोदकशरावं गृहीत्वा) सोत्थि भोदीए । बहुफलं एदं वदं होदु। [स्वस्ति भवत्यै । बहुफलं एतद्व्रतम् भवतु ।]
चेटी-अज्ज कंचुइ! इदं तुह । [आर्य कञ्चुकिन् ! इदं तव
यत्किमपि उपहाररूपेण दातव्यं, यावदहं हर्म्यगतान् प्रासादगतान् भगवतश्चन्द्रमसः पादान् किरणानि चरणांश्च अर्चयामि पूजयिष्यामि । अत्र पादपदं श्लिष्टम् ।
तथा च "अर्चयामि" अस्य पूजां करिष्यामि इति भविष्यदर्थः । यतः "यावत् पुरानिपातयोर्लट्" (३।३।४) इति यावच्छब्दयोगे भविष्यति काले लट् ।
परिजन:-यद्देवी आज्ञापयति-(आनीयोपहारम् ) एष उपहारः ।
देवी-उपनयत आनयत! (नाट्येनाभिनीय कुसुमादिभिरुपहारैश्चन्द्रपादान् चन्द्रमरीचीन अभ्यर्च्य पूजयित्वा ।)
हञ्जे इति चेटीनां सम्बोधनम् । एतैरुपहारैर्मोदकैः मिष्टान्नेन आर्यमाणवकं तथा च कञ्चुकिनं अर्चयत सम्भावयत ।
परिजनः यद्देवी आज्ञापयति । आर्यमाणवक ! एतत्ते उपपादितं समर्पितमानीतवान् खस्तिवाचनकं मोदकोपहारः । मया तव कृतं उपहारः उपनीतः।
विदूषकः-(मोदकशरावं मोदकेन पूर्णं शरावं गृहीत्वा-अत्र मध्यमपदलोपी समासः) खस्ति भवत्यै । अत्र खस्तियोगे चतुर्थी । बहु प्रचुरं फलं यस्य तादृग् व्रतमिदं ते भवतु इति मङ्गलमाशास्ते ।
चेटी-आर्य कञ्चुकिन् । इदं तव, त्वदर्थमयमुपहारः इति भावः । . कञ्चुकी-(गृहीत्वा) स्वस्ति देव्यै ।
देवी-अज्जउत्त ! इदो दाव । [ आर्यपुत्र ! इतस्तावत् । ]
राजा-अयमस्मि ।
देवी-( राज्ञः पूजामभिनीय प्राञ्जलिः प्रणम्य च) एसा देवदामिहुणं रोहिणीमिअलंछणं सक्खीकरिअ अजउत्तं अणुप्पसादेमि । अज्जप्पहुदि अज्जउत्तो जं इत्थिअं कामेदि, जा अज्जउत्तसमागमप्पणइणी, ताए सह अप्पदिवंधेण वत्तिदव्वं । [एषा देवतामिथुनं रोहिणीमृगलाञ्छनं साक्षीकृत्यार्यपुत्रमनुप्रसादयामि । अद्यप्रभृति आर्यपुत्रो यां स्त्रियं कामयते, या आर्यपुत्रसमागमप्रणयिनी तया सहाप्रतिवन्धेन वर्तितव्यम् । ]
कञ्चुकी-(गृहीत्वा) स्वस्ति देव्यै । अत्र सेव्यसेवकभावात् कञ्चुकिना देवीपदग्रहणम् । विदूषकेण तु भवतीति पदं उचितमुपयुक्तं, यदुक्तम्-"परपत्नी तु या स्त्री स्यात् असम्बन्धात्तु योनितः । तां ब्रूयात् भवतीत्येवं सुभगे भगिनीति च" इति मनूक्तः भवतीतिपदप्रयोगः साधुः । तथा च राज्ञो मित्रं विदूषकः ।
देवी-आर्यपुत्र ! इतस्तावत् --आगत्य मां सम्भावयेत्यर्थः ।
राजा-अयमस्सि-आगतोऽस्मि-
देवी-(राज्ञः पूजां अभिनीय विधाय प्राञ्जलिः सती राजानं प्रणम्य) एषा अहं देवतास्वरूपं मिथुनं युगलं रोहिणी चन्द्रकान्ता च मृगलाञ्छनश्च चन्द्रस्तन्मयं मिथुनं साक्षीकृत्य साक्षिस्थाने कृत्वा आर्यपुत्रमनुप्रसादयामि मयि प्रसन्नं करोमि । अद्यप्रमृति आर्यपुत्रः यां स्त्रियं कामयते अभिलषति, या च आर्यपुत्रेण सह समागमसम्बन्धस्तस्मिन् प्रणयः प्रीतिरस्याः अस्तीति तया सह अप्रतिबन्धेन अविरुद्धतया मया वर्तितव्यमिति । सरलार्थस्तु-रोहिणीचन्द्रमिथुनं समक्षीकृत्य अहमिदं शपे यदद्यप्रभृति यस्यामार्यपुत्रः प्रेमानुबन्धी या चार्यपुत्रेण समागन्तुकामा (तया सह) असूयां परित्यज्याविरुद्धतया साम्येन वर्तिष्य इति । अत्र नायकस्य रहस्योद्भेदात् क्षिप्तिर्नाम गर्भसन्ध्यङ्गमुक्तं भवति विश्वनाथमतेन । परं च "गर्भबीजसमुद्भेदादाक्षेपः परिकीर्तितः” इति वचनात् धनञ्जयमतेनाक्षेपो नाम सन्ध्यङ्गं प्रोक्तम् । अस्याङ्गस्य विशेषतः प्राधान्यमस्ति वस्तुपरिपोषायेत्यवधेयम् ।
साक्षीकृति "साक्षाद्द्रष्टरि संज्ञायामिति मतुबर्थे इनिः"।
अनेनातः परं नाहमार्यपुत्रस्य पराललनाभिलाषे परिपन्थिनी भविष्यामि इति संसूच्य औदार्यं नाम नारीभूषणं ख्यापितम् । उर्वशी-अम्महे ! ण आणामि किपरं से वअणम् । मम उण विस्सासविसदं हिअअं संवुत्तम् । [अम्महे ! न जानामि किंपरमस्या वचनम् । मम पुनर्विश्वासविशदं हृदयं संवृत्तम् । ]
चित्रलेखा-सहि ! महाणुभावाए पदिव्वदाए अब्भणुण्णादो अणंतराओ दे पिअसमागमो भविस्सदि । [ सखि ! महानुभावया पतिव्रतयाभ्यनुज्ञातोऽनन्तरायस्ते प्रियसमागमो भविष्यति ।]
विदूषकः-(अपवार्य-) छिन्नहत्थो पुरदो वज्झे पलाइदे भणादि "गच्छ धम्मो भविस्सदि” त्ति । (प्रकाशम् ) भोदि ! किं
उर्वशी-अम्महे इति आश्चर्ये । न जानामि किंपरं कस्यार्थस्य बोधकं अस्याः वचनमिदम् । कमर्थं गमयतीदं वचनमिति ज्ञातुमसमर्थास्मि किं यथार्थमिदं वचनमुत वक्रोक्तिपरमिति सन्देहः । किन्तु विश्वासात् चित्ते विश्रम्भात् विशदम् प्रसन्नम् मे हृदयं संवृत्तं संजातम् । अत्र शङ्काजनितसम्भ्रमस्य गम्यमानत्वात् शङ्कारूपो विद्रवः।
चित्रलेखा-सखि ! महान् अनुभावः प्रभावो यस्याः सा तया प्रभविण्या पतिव्रतया पतिपरायणया स्वामिहितकामया महिष्या ते प्रियेण सह समागमः सम्मेलनं न विद्यते अन्तरायो विघ्नो यस्मिन् तादृशः निष्प्रत्यूहः भविष्यतीति अभ्यनुज्ञातः सम्मतः । यां काञ्चनापि स्त्रियं राजाभिलषति तां सा अनुमन्यते इति भावः, न सा तया सपत्नीत्वेन विरुद्धा भविष्यतीति किन्तु पतिमनुसरन्ती तया सह दाक्षिण्येन भविष्यति इति प्रतिजानीते।
विदूषकः-( अपवार्य-'रहस्यं तु यदन्यस्य परावृत्य प्रकाशितम्' अन्यैर्यथा न श्रूयते तथा) छिन्नः निष्फलः हस्तः कौशलं यस्य तादृशः मोघीभूतकलाकौशलो धीवरः पुरतस्तस्मिन् सावधानेऽपि वध्ये मत्स्ये पलायिते जालात् परिभ्रश्य जले मग्ने सति "मया परित्यक्तोऽसि, यथासुखं गच्छ, मया धर्मोऽनुष्ठितः" इति विचार्य यथाकथञ्चिद् स्वहानिविषये आत्मानं सन्तोषयति तथैव देवी सुरललनालालित्यलुब्धमानसं राजानं तस्या निवारयितुं असमर्था सती अहमार्यपुत्रस्याभीप्सितप्रमदापरिपन्थिनी न भविष्यामीति पातिव्रत्येन धर्मानुचरणमिषेण यथाकथमपि आत्मानं तोषयति इति भावः । विदूषकस्यायं सोल्लुण्ठोपहासः।
अनेन राज्ञस्तस्यां सुराङ्गनायां गाढः प्रणयो व्यज्यते । तथा च राज्ञश्चपलत्वं सूचितम् । वध्यपदप्रदानेन राज्ञः देव्यायत्तत्वं द्योत्यते । अत्र च धीवरस्य मत्स्यापगमाप्रकान्तवस्तुव्याजेन प्रस्तुतवस्तुज्ञापनेनाप्रस्तुतप्रशंसालङ्कारः । यदुक्तम्- "अप्रस्तुतप्रशंसा स्यादप्रक्रान्तेषु या स्तुतिः" ।
(प्रकाशम् ) भवति ! किं तत्रभवान् राजा तव तादृशः प्रियोऽभिमतः
१२ विक्र० तारिसो पिओ तत्तभवं? [छिन्नहस्तः पुरतो वध्ये पलायिते भणति 'गच्छ धर्मों भविष्यतीति । भवति ! किं तादृशः प्रियः तत्रभवान् ?]
देवी-मूढ ! अहं खु अत्तणो सुहावसाणेण अजउत्तस्स सुह इच्छामि । एत्तिएण चिन्तेहि दाव पिओ ण वेत्ति । [ मूर्ख ! अहं खलु आत्मनः सुखावसानेनार्यपुत्रस्य सुखं इच्छामि । एतावता चिन्तय तावत्प्रियो न वेति ।]
राजा----दातुमसहने प्रभवस्यन्यस्यै, कर्तुमेव वा दासम् ।
नाहं पुनस्तथा त्वयि, यथा हि मां शङ्कसे भीरु ॥१४॥
देवी-भोदु मा वा । जधाणिद्दिट्ठं संपादिदं पिअप्पसादणं व्वदम् । आअच्छध परिजणा, गच्छम्ह । [भवतु मा वा ।
यतोऽन्यसङ्क्रान्तचित्तेऽपि तस्मिन् मानं विहाय तस्य तादृशाभीप्सितार्थसम्पादने महती ते उत्कण्ठा ? अथवा तादृशः अन्यनायिकासंसक्तमानसः स किं ते प्रिय इति सर्वं उभयथापि सोल्लुण्ठनोक्तिः ।
देवी-मूढ ! अहं खलु आत्मनः खस्य सुखावसानेन सुखाभावेनापि आर्यपुत्रस्य सुखं व्यपगतमनसिजसन्तापं सम्पादयितुं इच्छामि । अनेन मदीयव्यवहारेण त्वमेव चिन्तयावगच्छ यत् स मे प्रियो न वेति कीदृशं च तस्मिन् मे प्रेमेति । अत्र राजाविदूषकयोरभिसन्धानात् अधिबलं नाम गर्भसन्ध्यङ्गम् । अत्र सुराङ्गनायै असूयन्ती सत्यपि देवी खार्थत्यागमिषेणात्मनः संरम्भं गोपायितुं विदूषकं राज्ञः सम्मुखे अभिसन्दधातीत्यतः मुख्यमधिबलाख्यं गर्भसन्ध्यङ्घं सिद्धम् । “अधिबलमभिसन्धिः" इति दशरूपके ।
अनेन तस्याः धीरस्वभाववत्वं, क्षमाशीलत्त्वं, मानराहित्यं जितेन्द्रियत्वं परं पतिपरायणत्वं च वस्तु गम्यते।
राजा -दातुमिति-अयि असहने अक्षमे ! त्वं मामन्यस्यै अन्यस्त्रियै दातुं प्रभवसि अथवा स्वस्य वा दासं कर्तुं प्रभवसि पुनः ( किन्तु) तथापि अयि भीरू भयशीले ! नाहं त्वयि तथा विरक्तचेताः यथा मां त्वं शङ्कसे । अहं त्वत्सेवनपर एव नान्यसंलग्नमानसः । त्वं तु सर्वं कर्तुं प्रभवसि । इयमुक्तिर्नायकस्य शठत्वं गमयति ।
अनेन राज्ञा वापराधगोपनं कृतम् । अन्यनायिकापहृतचेतसामीदृशः स्वभावोऽपीति वर्णनात् स्वभावोक्तिः गम्यते । अत्र पुनरिति पदं किन्त्वर्थे ।
इयमार्याजातिः ॥ १४ ॥
देवी-भवान् परासक्तमना भवतु न वा । निष्प्रयोजनमिदम् । यथानिर्दिष्टं यथाप्रदर्शितं प्रियप्रसादनं तदाख्यं व्रतम् सम्पादितम् सम्यक्तया अनुष्ठितम् । यथानिर्दिष्टं सम्पादितं प्रियप्रसादनं व्रतम् । आगच्छत परिजनाः, गच्छामः ।]
राजा-प्रिये ! न खलु प्रसादितोऽस्मि यदि सम्प्रति विहाय गम्यते ।
देवी-अजउत्त! ण लंघिदपुव्वो संपदं णिअमो। ( इति सपरि- जना निष्क्रान्ता) [आर्यपुत्र! न लङ्घितपूर्वः साम्प्रतं नियमः।]
उर्वशी-हला ! पिअकलत्तो राएसी । न उण हिअअंणिव- तेढुं सक्कणोमि । [ सखि ! प्रियकलत्रो राजर्षिः । न पुनर्हृदयं निवर्तयितुं शक्नोमि ।]
चित्रलेखा-कधं त्थिरासो णिवत्तीअदि ! [कथं स्थिराशो निवर्त्यते !]
राजा-(आसनमुपसृत्य) वयस्य ! न खलु दूरं गता देवी ।
परिजनाः ! आगच्छत-किमस्माकं तेन, वयं तु गच्छामः । अनेन राश्या केवलं दाक्षिण्येनैव व्रतवर्या कृता, न तु परमार्थत इति सूच्यते ।
राजा-प्रिये ! यदि वं सम्प्रति मामिहैवेदानी विहाय गच्छसि तर्हि अहं न प्रसादितोऽसि । अनेन राज्ञीकृतकोपायावसरो मा भूत् इति वाञ्छया केवलं राज्ञः चाटुकारिता, याथार्थे तु यदीयं शीघ्रमेवेतः अपसरेत्तदा साधु स्यादिति मनो- वृत्तिस्तु स्फुटा एव ।
देवी-साम्प्रतमिदानी नियमो मे लड़ितपूर्वः पूर्वस्मिन् समये कदापि उच्छिन्नो नास्ति । अत्र चावस्थानेन मे व्रतभङ्गो भविष्यति प्रातिकूल्यात् । अतो नाहं शकात्र स्थातुमतः परमित्यर्थः । अत्र महिष्या वचनस्य संरब्धवात्तोटकं- नाम सन्ध्यङ्गम् यदुक्तं नाट्यशास्त्रे-"संरम्भवचनप्रायं तोटकम्"।
(इति परिजनैः सह निष्कान्ता प्रस्थिता।)
उर्वशी-प्रियसखि ! राजर्षिरयं प्रियं कलत्रं यस्य सः प्रियदारः अस्ति । तथापि अहं तस्मात् मे हृदयं निवर्तयितुं परावर्तयितुं न शक्नोमि ।
चित्रलेखा-स्थिराशः स्थिरप्रेमानुबन्धः कथं निवर्यते ? अशक्यो हि स्थिरप्रेमप्रसरस्य हृदयस्य इष्टाद्वस्तुनो निरोधः ।
सामान्यवाक्यमिदम् । अत्र स्थिराश इति पदं तथाविधव्यक्तिसामान्यपरं, न तु पूर्ववाक्यस्थहृदयविशेषणम् इति पुंलिङ्गत्वेऽपि न च्युतसंस्कारत्वदोषापत्तिः।
राजा-(आसनमुपसृत्य आगत्य) वयस्य माणवक ! नाहं चिन्तयामि यद्देवी दूरं गता । अनेन तयाश्राव्यं वस्तु विविदिषुरयं प्रतिभाति । नञर्थेनात्र प्रश्नः । विदूषकः-भण वीसद्धो जं सि वत्तुकामो । असाज्झो त्ति परिच्छिदिअ आदुरो विअ वेज्जेण अइरेण मुक्को तत्तभवं भोदीए। [भण विश्रब्धो यदसि वक्तुकामः । असाध्य इति परिच्छिद्य आतुर इव वैद्येनाचिरेण मुक्तस्तत्रभवान् भवत्या ।]
राजा--अपि नाम सा उर्वशी-
उर्वशी-(आत्मगतम्) किदत्था भवे । [कृतार्था भवेत् । ]
राजा-----गूढं नूपुरशब्दमात्रमपि मे कान्तं श्रुतौ पातयेत्
पश्चादेत्य शनैः करोत्पलवृते कुर्वीत वा लोचने ।
विदूषकः-राज्ञोऽभिप्रायं ज्ञात्वा कथयति यत्किमपि वक्तुकामः असि तत् विश्रब्धः विश्वस्तः सन् भण कथय । असाध्योऽयमस्य रोग इति परिच्छिद्य निश्चित्य आतुरो रोगी यथा वैद्यनाचिरेण शीघ्रमेव परित्यज्यते तथैव त्वमपि भवत्या देव्या मुक्तः परित्यक्तः । वक्तुकाम इत्यत्र “तुङ्काममनसोः" इत्यनेन मकारलोपः।
अनेन कामुकानां कामावस्था असाध्या भवति, राजा च तादृशी अवस्था प्रतिपन्न इति बुध्यते । अत्रोपमालङ्कारः।
राजा-उर्वशी दिदृक्षुः सन् तद्विरहसन्तप्तः तामेव ध्यायन् स्मरति । अपि नाम प्रश्ने।
उर्वशी-राज्ञः कियान् प्रणयस्तस्यामिति जिज्ञासुः सा आत्मगतं विचचार । यदि उर्वशी तव विचारसरणीमारोहति चेत् कृतार्था धन्या भवेत् । अनेन तस्या औत्सुक्यं ध्वन्यते।
राजा-गूढमिति-अपि नाम सा उर्वशीति चूर्णकेनान्वितं पद्यमिदम् । गूढं गुप्ततया अविज्ञातमेव वा मे श्रुतौ कर्णपुटे कान्तं मनोहारि नूपुराणां - शब्दमात्रमेव पातयेत् । किमुर्वशी स्वनूपुरकलशिजितेन मे कर्णपुटम् अनुग्राहयेत् ? । अथवा भविष्यति (किं सा इयती कृपया संविष्टचेताः ) यत्सा पश्चात् मम पृष्ठभागे एत्य शनैः शनैः तस्या करौ एवोत्पले तेन वृते समाच्छादिते मम लोचने कुर्वीत । अथवा अस्मिन् हर्म्ये प्रासादे अवतीर्य आकाशादधो गत्वा साध्वसवशात् भीता अत एव मन्दायमाना मन्दगतिः पदात्पदं प्रतिपदं बलात्कारेण तस्या चतुरया सख्या चित्रलेखया मम उपान्तिकं समीपमानीयेत वा।
कथमपि तया सह समागमः अत्र सम्भवः किमु इति विचारयति ।
अत्र गूढपदप्रदानेन गुप्तागमनस्य बोधकत्वात् सहसैव तस्या लाभादानन्दातिशयो भावी इति ध्वन्यते । तथा च गूढमनेन देव्यां इहैव कुत्रापि समाच्छन्ना
हर्म्येऽस्मिन्नवतीर्य साध्वसवशान्मन्दायमाना बलात् |
चित्रलेखा-हला उव्वसि ! इमं दाव से मणोरहं संपादेहि । [ सखि उर्वशि! इमं तावदस्य मनोरथं सम्पादय ।]
उर्वशी-(ससाध्वसम् ) कीडिस्सं दाव । [क्रीडिष्ये तावत् ।]
यामपि अविज्ञातैव मा भविष्यतीति सुरक्षितत्वमपि ज्ञायते । तथा च कामिनीनां परिहासशीलत्वात् नायकं सहसैव चकितं विधातुं प्रयत्नो भवतीति स्वभावस्यापि बोधो भवति । तथा च यदि समक्षतया संलापादिना मेलनमसंभवत् गूढेनापि चेतः समाश्वासयितुं शक्यम् । तथा च नूपुराणां शब्दमात्रमपि श्रुतिपथमवतरेदित्यनेन औत्सुक्यातिरेकः ध्वन्यते । कान्तं तु तावन्मात्रस्याप्यसुप्राप्यत्वात् विशेषतया चित्तप्रसादकं भवेदिति हेतुनोक्तम् । श्रुतौ पातयेदित्यनेन उर्वशीरूपो विषयो येन केनापि इन्द्रियेण गोचरो भवेत्तत्रापि मनसः सावधानता भविष्यतीति व्यङ्ग्यम् । अनेन राज्ञो नितान्तं तत्परत्वं व्यज्यते । पश्चात्पदेनापि गूढपदेन व्यङ्ग्यं व्यज्यते । शनैःपदेन मृदुत्वबोधनपूर्वकं तज्जन्यः आल्हादातिशयो बोध्यते । साध्वसवशात् इत्यनेन तस्या अत्यन्तसौकुमार्यं सूच्यते । यतः सा परवशा सती गतिं मन्दां चकार न तु स्वमनोवृत्त्या, ततश्च मनस्युद्विग्नताया अभावो नास्तीति द्योत्यते । मन्दायमानेतिपदेन हंसगतित्वज्ञापनपुरःसरं नायिकाभूषणं प्रदर्शितम् । बलादिति अनेन कोऽपि लज्जातिशयो गम्यते । पदात्पदं तमेवार्थं पोषयति । चतुरया इत्यनेन चित्रलेखायाः कार्याकार्यज्ञत्वं प्रदर्श्य सद्दूतीत्वं प्रकाश्यते । ममोपान्तिकमित्यनेन अतीव सान्निध्यं लिप्सुः सः स्वबलहीनत्वं व्यञ्जयन् सरस्य परां कोटिमधिरूढत्वं व्यनक्ति ।
अत्र करोत्पलवृते लोचने इत्यत्र करस्य उत्पलबकल्पनया पुनश्चावरणसामर्थ्याभावाचोत्पले, उत्पलस्य पुनः करत्वकल्पनया दृक्कमलेन पश्यतीतिवत् परिणामालङ्कारः । यदुक्तं "विषयात्मतयाऽरोप्ये प्रकृतार्थोपयोगिनि । परिणामो भवेत् । अत्र च एकस्यैव वस्तुनः उर्वशीसमागमसौख्यस्य लाभात् वस्तुत्रयप्रदानात् समुच्चयश्च ।
अत्र पूर्वार्धे कर्तरिप्रयोगस्य सद्भावात् उत्तरार्धे च कर्मणिप्रयोगप्रदानेन न मनागपि भग्नप्रक्रमतादोषापत्तिः यतः औत्सुक्येन विस्मृतस्वत्यस्य नायकस्य मुखे भावात् न दोषस्तथा सख्या बलादानीयेत अत्र या काचनापि सहृदयगम्या कमनीयता समायाता तत्र रसिका एव प्रमाणम् ।
अत्र शार्दूलविक्रीडितम् वृत्तम् ॥ १५॥
चित्रलेखा-सखि उर्वशि! इमं पूर्वश्लोकानुवर्णितं अस्य मनोरथं सम्पादय । तत्समीपं गत्वा तं सम्भावयेत्यर्थः।
उर्वशी-(ससाध्वसम्-सभयम् ।) क्रीडिष्ये तावत्-तस्य प्रत्यक्षा
अभूत्वैव तिरोहितैव लोचनावृतिकरणेन तस्योपहासं करिष्यामि ।(इति पृष्ठेनागत्य राज्ञो लोचने संवृणोति।)
(चित्रलेखा विदूषकं संज्ञां लम्भयति।)
राजा-(स्पर्शं रूपयित्वा) सखे ! न खलु नारायणोरुसम्भवा वरोरूः।
विदूषकः-कथं भवं अवगच्छदि ? [कथं भवानवगच्छति ?]
राजा-किमत्र ज्ञेयम्-
राजा-
अन्यत्कथमिव पुलकैः कलितं मम गात्रकं करस्पर्शात् । |
अत्र ललितं नाम नायिकालङ्कारो विद्यते । “सुकुमारतयाङ्गानां विन्यासो ललितं भवेत् ।"
(इति विचार्य पृष्ठत आगत्य राज्ञो लोचने संवृणोति निमीलयति ।)
चित्रलेखा -स विदूषकं तूष्णीं स्थातुं संज्ञां इङ्गितेन वस्तु लम्भयति प्रापयति ।
राजा-(स्पर्श रूपयित्वा-उर्वशीहस्तस्पर्शजन्यसौख्यमनुभाव्य) सखे ! नेयं किं नारायणस्य ऊरुः सम्भवो यस्याः सा नारायणोरुदेशसमुत्पन्ना वरोरू: अपि तु सैव नान्या तादृशसुखस्पर्शवती भवितुमर्हतीति भावः ।
विदूषकः-कथं भवान् अवगच्छति जानाति ।
राजा-किमत्र ज्ञेयम्-स्पष्टमेवैतत् ।
राजा-अन्यदिति-अन्यत् यदीदमन्यथा चेत् यदि नास्ति सा वरोरुः तदा मम गात्रकं शरीरं करस्य स्पर्शात् कथमिव केन प्रकारेण पुलकैः कलितं जातम् । सा यदि न स्यात् कथं नाम मे शरीरे रोमहर्षः सम्पन्नः। अथवा- यदि सा न स्यात् कथं किमुद्दिश्य मम गात्रकं करस्पर्शमात्रेणैव पुलकैः कलितं युक्तं सत् अन्यदिव जातम् अनिर्वाच्यावस्थां प्राप्तम् । तमेवार्थ दृष्टान्तेन विशिनष्टि-चन्द्रस्य अंशुभिः किरणैरिव तपनकिरणः सूर्यस्य उष्णैः रश्मिभिः कुमुदं नोच्छ्वसिति विकासं नाप्नोति । यथा शीतलैः सुधांशोः मरीचिभिः कुमुदं विकसति न तथा रविगभस्तिभिर्भवतीति भावः ।
अनेन तदन्यस्त्रीकरस्पर्शस्तपनकिरणसदृशः अस्तीति व्यञ्जयन् नायिकां बहुमानः प्रदर्शितः । यतः तस्याः करस्पर्शः चन्द्रस्येवांशुसदृशः । अत्र चदि आल्हादने तस्मात् चन्द्रस्य व्युत्पत्तेः नितान्ताल्हादकत्वं ध्वनयति । स्वस्य कुमुदत्वप्रख्यापनेन चन्द्रपारतन्त्त्र्यं प्रकाशमानः नायिकायत्तजीवितत्वं ध्वन्यते । तथा च रोमहर्षादीनां वर्णनात् सात्विकानां भावानाम् प्रख्यापनं कृतम् । उर्वशी-अम्महे ! वज्जलेवघडिदं विअ मे हत्थजुअलं ग समत्थाम्हि अवणेदुम् । [अम्महे ! वज्रलेपघटितमिव मे हस्तयुगलं न समर्थास्म्यपनेतुम् । ] (इति मुकुलिताक्षी चक्षुषो हस्तावपनीय ससाध्वसा तिष्ठति ।)
(राजा हस्ताभ्यां गृहीत्वा परिवर्तयति।)
उर्वशी-(कथञ्चिदुपसृत्य ) जेदु जेदु महाराओ।[जयतु जयतु महाराजः।]
अत्र पूर्वार्धस्य द्वितीयार्थग्रहणे अतिशयोक्तिरलङ्कारः । यतः प्रस्तुतस्य शरीरस्य अन्यत्वकल्पना कृता यदुक्तम् -"प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् । कार्यकारणयोश्चैव पौर्वापर्यविपर्ययः" तत्राप्यतिशयोक्तिः । अथवा अभेदेभेदप्रख्यापनेनातिशयोक्तिः । तथा चात्रानुमानालङ्कारः। रोमहर्षस्य सत्त्वात् सैवेति अनुमीयते । तथा च उत्तरार्धे दृष्टान्तालकारः । यतः पूर्वार्धोत्तरार्धप्रतिपाद्ययोः वस्तुनोः बिम्बप्रतिबिम्बभावः । यदाहुः “दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनम् ।" स च चन्द्रस्येवांशुभिरिति प्रदानात् उपमागर्भितः, नञर्थेन च प्रतिपादनात् वैधर्म्येण अत एवात्र वैधर्म्येणोपमागर्भितदृष्टान्तालङ्कारः । एतेषां च स्वतन्त्रतया चमत्काराधायकत्वेन संसृष्टिरलङ्कारः।
ततश्चात्र संचिन्त्यमानस्यार्थस्य लाभेन क्रमो नाम सन्ध्यङ्गमुक्तं भवति । लक्षणं तु यथा दर्पणे "भावतत्त्वोपलब्धिस्तु क्रमः स्यात् ॥" अनुमा नाम सन्ध्यामप्यत्र क्रमेण संसृज्यते ।
अत्र सुकुमारता नाम गुणः यदुक्तं रसगङ्गाधरे "अपरुषवर्णघटितत्वं सुकुमारता" । अनुप्रासश्च ।
इयं चार्याजातिः ॥ १६ ॥
उर्वशी-अम्महे इति आश्चर्ये । वज्रस्य लेपस्तेन घटितं कल्पितमिव मे हस्तयुगलं नयनयोरपनेतुं समर्था नास्मि । नायकस्यास्पर्शात् अस्यै अपि कोऽपि महान्प्रमोदः समजनि । वज्रलेपघटितमेवेत्यस्य सम्भावनातः उत्प्रेक्षालङ्कतिः ।
इति उक्त्वा मुकुलिताक्षी निमीलितनयना राज्ञः चक्षुषः हस्तौ अपनीय दूरीकृत्य ससाध्वसा तिष्ठति । अनेन व्रीडा नाम सहजो नायिकालङ्कारो दर्शितः । भीरुत्वं च प्रोक्तम् । यदुक्तं-'वैवर्ण्याधोमुखत्वादिकारणीभूतश्चित्तवृत्तिविशेषो व्रीडा'।
(राजा पृष्ठे स्थितां उर्वशीं स्वहस्ताभ्यां परिवर्तयति पुरतः आनयति।)
उर्वशी-(कथञ्चित् लज्जावशात् उपसृत्य , पुरः आगत्य ) जयतु जयतु महाराजः इति नायकस्योत्कर्षं भणति । चित्रलेखा-सुहं दे वअस्स![सुखं ते वयस्य !] |
राजा-नन्वेतदुपपन्नम् ।
उर्वशी-हला ! देवीए दिण्णो महाराओ । अदो से प्पणय- चदी विअ सरीरसंगदाम्हि । मा खु मं पुरोभाइणी त्ति समत्थेहि । [सखि ! देव्या दत्तो महाराजः । अतोऽस्य प्रणयवतीव शरीरं सङ्गताऽस्मि । मा खलु मां पुरोभागिनीति समर्थय ।]
विदूषकः-कधं इह जेव तुम्हाणं अत्थमिदो सूरो! [कथमत्रैव युवयोरस्तमितः सूरः!]
राजा-(उर्वशीं विलोक्य)
चित्रलेखा-वयस्य ! ते सुखं भवतु इति शेषः ।
राजा-एतत् सुखं हि नाम उपपन्नम् प्राप्तम् । इदानीं तव प्रियसखीसमागमसौभाग्येन सुखमहमधुना अनुभवामि ।
उर्वशी-महाराजस्तु तत्रभवत्या देव्या मह्यं दत्तः । या कामिनी महाराजं कामयते तां सा अनुमन्यते इति कथनात् । अतः अस्मात् कारणात् अस्य महाराजस्य प्रणयवती सखी प्रीतिपात्रमिव शरीरसङ्गताऽस्मि । यदहं महाराजस्य पार्श्ववर्तिन्यस्मि तदन्याय्यं न, यतः स मह्यं देव्या दत्त अहं च तस्याः अनुमता। तेन च मां खलु पुरोभागिनी अनधिकारेण बलात् आक्रमणकर्त्री मावमंस्थाः । यत्स्थानं देव्याः अस्ति तन्मया बलात् गृहीतं स्वचापल्येन स्वातन्त्र्येन वेति मा समर्थय विचारयत अहं तस्याः प्रियसखी इदानीं संवृत्ता सपत्नीत्वात् । यत्तु “कुरु प्रियसखीवृत्तिं सपत्नीजने" इत्यैतादृशादर्शवत्यां नायिकायामौदार्यं नाम अलङ्कारः इह प्रदर्शितः यदुक्तं-"औदार्यं विनयः सदा"।
यद्यपि कोषे “दोषैकदृक् पुरोभागी" इति हैमवचनात् पुरोभागिनीपदस्य दोषैकदर्शिनी इति अर्थोऽवगम्यते तथापि तत्तु अत्र न सङ्गच्छते । अतः पुरोभागिनीपदेन बलाद् अनधिकृतस्य वस्तुनः स्वातन्त्र्येण स्वेच्छानुसारं ग्रहणम् इति अर्थः क्रियते, यतःस्वयमेवं महाकविः शाकुन्तले पञ्चमाङ्के तदर्थ भङ्ग्या स्फुटं कृतवान् शार्ङ्गरवमुखेन-"आः पुरोभागिनि ! किमिदं खातन्त्र्यमवलम्बसे" इति । तत्रैव च तत्रभवन्तः टीकाकृतः जीवानन्दमहानुभावाः पुरोभागिनीति पदस्य अविमृश्यकारिणीति अर्थं प्रकाशयन्ते ।
विदूषकः-माणवकस्तु कस्मात्कालात् ससखी इयमत्रास्त्रे इत्यजानन् चकितः सन् पृच्छति किम् युवयोरुर्वशीचित्रलेखयोः सूरः सूर्य अत्रैव अस्तं इतः गतः । किम् युवाम् सन्ध्यासमयादिहैव स्थः?
राजा-(उर्वशीं पश्यन् )
देव्या दत्त इति यदि व्यापारं व्रजसि मे शरीरेऽस्मिन् । |
चित्रलेखा-वअस्स ! णिरुत्तरा एसा । मम संपदं विष्ण- विअं सुणीअदु । [वयस्य ! निरुत्तरा एषा। मम साम्प्रतं विज्ञापितं श्रूयताम् ।]
राजा-अवहितोऽस्मि ।’
चित्रलेखा-वसन्ताणं तरं उण्णसमए भअवं सुज्जो मए उवअरिदव्वो। ता जधा इअं मे पिअसही सग्गस्स ण उक्कंटेदि तहा वअस्सेण कादव्वम् । [वसन्तानन्तरमुष्णसमये भगवान् सूर्यो मया उपचरितव्यः । तद्यथा इयं मे प्रियसखी स्वर्गस्य
देव्या इति-अयि प्रिये ! देव्या दत्तः अस्मीति ज्ञात्वा यदि त्वं अस्मिन् मदीये शरीरे व्यापारं चुम्बनालिङ्गनादिकं व्रजति करोषि चेत् प्रथमं परस्परावेक्षणसमय एव कस्यानुमते कस्य अनुमत्या त्वयेदं मे हृदयं चोरितम् स्ववशतां नीतम् । यदि त्वमित्थं वदसि यदिदं ते आलिङ्गनाद्यारम्भोऽनुमतः क्रियेत तदा वद केनानुमता त्वं मे हृदयं स्वायत्तं कृतवती? अनेन राज्ञः भावोऽभिव्यज्यते।
तथा च राज्ञा देव्या दत्त इति उर्वशी कृतहासस्य प्रत्यभियोगः (Retort) कृतः। राज्ञश्च वाक्पाटुत्वं सूच्यते ।
अत्र देवीप्रसङ्गेन अन्तरायितस्य बीजस्य पुनरनुसन्धानात् आक्षेपाख्यं सन्ध्यङ्गम् इति काटयवेमः । व्यापार व्रजसीत्यनेन हावो नाम नायिकालङ्कारः स्फुटः । यदुक्तं "भ्रूलतादिविकारस्तु सम्भोगेच्छाप्रकाशकः । भाव एवाल्पमंत्रस्य विकारो हाव उच्यते।" इयं चार्याजातिः ।
चित्रलेखा -वयस्य ! निरुत्तरा एव । प्रत्युत्तरं दातुमसमर्था इत्यर्थः । अत्र पारस्परिकप्रीतिः सङ्गमोत्कण्ठा च बलवतीति वस्तु व्यज्यते तथा चात्र विकृतं नाम नायिकाऽलङ्कारः प्रोक्तः, यदुक्कं दर्पणे-“वक्तव्यकालेत्यवचो व्रीडया विकृतं मतम्"।
साम्प्रतं मम विज्ञापितं वचनं श्रूयताम् ।
राजा-अवहितोऽस्मि । भवद्वचनं श्रोतुं दत्तचित्तोऽस्मि ।
चित्रलेखा-वसन्तानन्तरं समाप्ते तु वसन्तसमये उष्णसमये च प्राप्ते भगवान् सूर्यः मया उपचरितव्यः सेव्यः । अप्सरसः खलु भगवन्तं अंशुमालिनं नृत्यादिना पर्यायेण सेवन्त इति अत्र पौराणिकी कथा अनुसन्धेया । सविस्तरमुपरिष्टाद्वक्ष्यते । अतः भवद्भिरनुमता अहं गन्तुमना अस्मि । नोत्कण्ठते तथा वयस्येन कर्तव्यम् ।]
विदूषकः-भोदि ! किं वा सग्गे सुमिरिदव्वम् । ण तत्थ खाईअदि ण पीअदि । केवलं अणिमिसेहिं अच्छीहिं मीणदा अवलम्बीअदि । [भवति ! किं वा स्वर्गे स्मर्तव्यम् । न तत्र खाद्यते न पीयते । केवलमनिमेषैरक्षिभिर्मीनतावलम्ब्यते ।]
राजा--- वयस्य !
अनिर्देश्यसुखं स्वर्ग कथं विस्मारयिष्यते ।
अतः इयं वर्गस्य नोत्कण्ठते वर्ग गन्तुं यथा न कामयते तथा वयस्येन कर्तव्यम् । तया सह भवतेत्थं व्यवहर्तव्यं यथा वर्गस्य स्मरणं न कुर्यात् ।
अनेन भाविविरहं व्यञ्जयता कविना आगामिनः अङ्कस्य अर्थोपक्षेपात् अङ्कावतारोऽयम् उपन्यस्तः । यल्लक्षणं तु यदाह भरतः-"बीजार्थयुक्तियुक्तो ज्ञेयो ह्यङ्कावतारोऽसौ" इति ।
स्वर्गस्य नोत्कण्ठते इत्यत्र "अधिगर्थदयेशां कर्मणि" (२॥३॥५२) इत्यनेन पाणिनीयेन सूत्रेण कर्मणि षष्ठी । स्वर्ग न स्मरेदित्यर्थः । एवमेव भवभूतिरपि उत्तरचरिते "उत्कण्ठते च युष्मत्सन्निकर्षस्य" इति ।
इयं हि चित्रलेखायाः प्रार्थना शाकुन्तले अनुसूयाया इवास्ति । अनुसूया- "तद्यथा इयं नौ प्रियसखी बन्धुजनशोचनीया न भवति तथा करिष्यति"। (Shak.-Act. III P. 176)
विदूषकः-भवति चित्रलेखे ! किं वा खर्गे स्मर्तव्यम् । स्वर्गे को नामैतादृशः पदार्थो विद्यते यत्कृते खर्गस्तु स्मरणीयः स्यात् । न तत्र खाद्यते न वा पीयते । इदं तु प्रसिद्धम् एव यद्देवा न तु खादन्ति न वा पिबन्ति । यतः "देवा हि यज्ञेषु दत्तैर्ह विर्भागैरेव तुष्यन्ति न किमप्यन्यददन्ति पिबन्ति वा"। तैः स्वर्गस्थैस्तु केवलं अनिमेषैः निर्निमेषैः अक्षिभिः लोचनैर्मीनता मीनसदृशत्वं अवलम्ब्यते स्वक्रियते । यथा मत्स्याः निमेषहीननेत्राः भवन्ति तथैव स्वर्गिण इति प्रसिद्धिः । “सुरमत्स्यावनिमिषौ” इति अमरसिंहः ।
किं वा स्वर्गे स्मर्तव्यमित्यनेन इदमपि ध्वन्यते यत् राज्ञः अत्र सत्त्वे तस्या अत्रैव सर्वखस्य सद्भावात् किं नु खलु तदतिरिक्तं भवेत् यत्तु स्वर्गे स्मर्तव्यम् स्थात् इति।
राजा-वयस्य चित्रलेखे!
अनिर्देश्यमिति-अनिर्देश्यं अनिर्वाच्यं वाचामगोचरं वा सुखं विद्यते यस्मिन् तादृशः अलौकिकसुखसम्पत्तिकः स्वर्गः कथं विस्मारयिष्यते केनापि पुरूषेण तदधिकसौख्यप्रदानेन विस्मृतिविषयतां नेतुं शक्यते । न कदापीति
भावः । किन्तु इदन्त्वहं कथयितुं प्रभवामि यत्---अनन्यनारीसामान्यः दासस्त्वस्याः पुरूरवाः ॥ १८ ॥
चित्रलेखा-अणुग्गहीदम्हि । हला उव्वसि! अकादरा भविअ विसज्जेहि मं । [अनुगृहीतास्मि । सखि उर्वशि! अकातरा भूत्वा विसर्जय माम् । ]
उर्वशी-(चित्रलेखां परिष्वज्य सकरुणम् ) सहि ! मा खु मं विसुमरेसि । [ सखि ! मा खलु मां विस्मरिष्यसि ।]
चित्रलेखा-(सस्मितम् ) वअस्सेण संगदा तुमं मए एव्वं जाचिदव्वा । [वयस्येन संगता त्वं मयैव याचितव्या ।]
(इति राजानं प्रगम्य निक्रान्ता।)
अनन्यनारीसामान्यः अनन्यनारीसाधारणः पुरूरवाः अस्या दासः। अन्या नारी अन्यनारी तस्यै सामान्यः लब्धं योग्यः अन्यनारीसामान्यः तन्न भवतीति अनन्यनारीसामान्यः केवलं तस्यामेव प्रणयी नान्यां स्त्रियं कामयमान इत्यर्थः ।
दासः-दासृ दाने (भ्वा. उ. से.) यः यत्सेवायै आत्मानं ददातीति दासः घञ् । (३।३।१८) अनेन स्वनिरपेक्षतापूर्वकं तदाल्हादने आत्मनः सुतरां समर्पणं ध्वनयति ।
पुरूरवाः इति अन्यपुरुषप्रदानेन पुरूरवसः माहात्म्यं प्रध्यापयता कविना तस्य च तस्या दासवाङ्गीकारेण सुखसम्पत्तिरनुरूपैवेति गमयति । अत्र च पुरुरवा इति प्रदानेन ईषदवलेपो व्यज्यते । किन्तु तस्या दासत्वस्वीकरणेन दक्षिणत्वं च व्यक्तं भवति।
अहमस्या दासोऽस्मीति कथनापेक्षया पुरूरवाः इत्यन्यपुरुषद्वारा तदेवार्थस्य ज्ञापनात् अप्रस्तुतप्रशंसालङ्कारः । अनुष्टुब् वृत्तम् ।
चित्रलेखा-अनुगृहीतास्सि-इदमेवाहं कामये-तस्यार्थस्य च लाभेन अनुकम्पितास्मि भृशं भवता इत्यर्थः । हला उर्वशी! अकातरा भूत्वा मां विसर्जय गन्तुमनुज्ञापय । अकातरा इत्यत्र सत्पुरुषहस्तक्षिप्तत्वात् । यदाह कण्वः शाकुन्तले- "सुशिष्यपरिदत्तव विद्या अशोचनीयाति संवृत्ता (Act. IV P. १८७) अकातरा अधीरा इति ।
{{bold|उर्वशी-(चित्रलेखां परिष्वज्य आलिङ्गय सकरुणम् सखी विरहकातरा सती) मा खलु मां विस्मरिष्यसि । यद्यप्यहं इहामि तथापि मां विस्मृतिपथं भावतारयेति प्रार्थयते । अनेन अस्याः चित्रलेखायां विशेषा प्रीतिः सूच्यते ।
{{bold|चित्रलेखा-(सस्मितं सोपहासम् ) वयस्येन महाराजेन सङ्गता सम्मिलिता त्वंं मया एवं याचितव्या प्रार्थयितव्या । महाराजप्रीतेस्त्वमधुना मां मा विस्मरिष्यसीति प्रार्थनीयाऽसि संवृत्ता।
(इति अम्बा राजानं प्रणम्य निष्क्रान्ता प्रस्थिता।)
मनोरथसिद्ध्या वर्धते भवान् । ]
राजा-इमां तावन्मनोरथसिद्धिं पश्य ।
सामन्तमौलिमणिरक्षितपादपीठ- |
उर्वशी-णस्थि मे वाआविहवो अदो अवरं मंतिदुम् । [नास्ति मे वाग्विभवो अतः अपरं मन्त्रयितुम् । ]
विदूषकः-(राजानं प्रति ) दिष्ट्या सुभाग्यमिदं यत् मनोरथस्य सिध्या भवान् वर्धते ।स्वा भीप्सितवस्तुलाभेन भवतः सौभाग्यमिदं समुपपन्नमिति भावः ।
राजा-इमां तावत् मम मनोरथसिद्धिं पश्य कीदृशी मनोरथसिद्धिरिति उच्यते सामन्तेति-
हे सखे ! सामन्तानां वशंवदानां प्रत्यन्तर्वर्तिभूपतीनां मौलयः मुकुटाः तेषु जटिताः मणयस्तै रञ्जितं शोभितं पादपीठं यस्मिन् तत् , तथा च एकातपत्रं निःसपत्नं अवनेः पृथिव्या प्रभुत्वं राज्यं अधिगम्य प्राप्य, तथा कृतार्थः कृतकृत्यः सुखी वा नाहं जातो, यथा अस्याः सुन्दरीललामभूतायाः उर्वश्याः चरणयोः कान्तं मनोरञ्जकं आज्ञाकरत्वं दास्यं अधिगम्य लब्ध्वा अहं कृतार्थः संवृत्तः।
यथा अस्याः दास्येन सौख्यमहमद्य लब्धवान् तथाऽहं निस्सपन्नस्यापि राज्यस्य प्रभुत्वेन नाप्तवानस्मि । राज्यादपि अस्या लाभः अधिकं सुखकरः इति व्यज्यते। अनेन तद्विषयिका विलक्षणा रतिर्बोध्यते ।
अत्र च राज्यसौख्यात् उर्वशीलाभजनितसुखस्याधिक्यवर्णनात् व्यतिरेकालङ्ग्कारः । यदाह- "उपमानाद् यदन्यस्य व्यतिरेकः स एव सः" ( काव्यप्रकाशे)। अत्र राज्ञः वर्णनस्य प्रकृतत्वात् अस्या लाभस्य प्रभुत्वस्य चोभययोरपि प्रस्तुतत्वम् तयोश्च अधिगम्येति एकक्रियाभिसम्बन्धात् तुल्ययोगितालङ्कारः । यदुक्तं "वर्ण्यानामितरेषां वा धर्मैक्यं तुल्ययोगिता" । अत्र चार्थव्यक्तिर्नाम गुणः “झगिति प्रतीयमानार्थान्वयकत्वमर्थव्यक्तिः" । उत्तरार्धे तु माधुर्यमपि । अत्र उदाहरणं नाम गर्भसन्ध्यङ्गम्-"उदाहरणमुत्कर्षयुक्तं वचनमुच्यते” इति विश्वनाथः ।
अत्र वसन्ततिलका वृत्तम् । उक्ता वसन्ततिलका तभजा जगौ गः ॥ १९ ॥
उर्वशी-राज्ञो वचनमाधुर्येण विजिता वक्ति वाचां विभवः सामर्थ्यं 'वाग्विभवः । अतः परं सविनयं माधुर्येण च मत्रयितुं वक्तुं मे वाग्विभवः वाग्शक्तिर्नास्ति। यन्महाराजेनोक्तं तत् सुमधुरभाषणस्य परां काष्ठामधिरूढमेव । राजा-(उर्वशी हस्तेनावल्म्ब्य) अहो ! अविरुद्धसंवर्धनमेतदिदानीमीप्सितलम्भानाम् । यतः-
पादास्त एव शशिनः मुखयन्ति गात्रं |
उर्वशी-अवराद्धाम्हि चिरआरिआ महाराअस्य । [अपराद्धाऽस्मि चिरकारि(लि)का महाराजस्य ।]
राजा-सुन्दरि : मा मैवम् ।
राजा-(उर्वशी हस्तेन अवलम्व्य धृत्वा) इदानीं कालोऽयं ईप्सितलम्भानां वाञ्छितार्थलाभस्य अविरुद्धतया आनुकूल्येन संवर्धनमेव । कालो ह्ययं त्वत्समागमसौभाग्येन ममानुकूल इव संवृत्तः । यतः-
पादा इति-अयि सुन्दरि ! ते एव शशिनश्चन्द्रमसः पादाः अंशवः ये त्वत्समागमपूर्वं मां सुतरामबाधयन् इदानी में गात्रं सुखयन्ति आनन्दयन्ति । ये चन्द्रमरीचयः त्वत्प्राप्तिपूर्वं दुःखकारिण आसन् त एव त्वदधिगमेन सुखदाः सम्पन्नाः। मदनस्य कामस्य बाणाः ये पुरा मामत्रासयन् त एवेदानीं मनसः अनुकूलाः प्रियकारिणोऽभवन् । यद्यद् वस्तु संरम्भेण त्वद्विरहजन्य चित्तवैक्लव्येन रूक्षमिवासीत् तत्सर्व इदानीं त्वत्सङ्गमेन लाभेन मम अनुनीतम् अनुकूलनिदानीं सम्पन्नम् ॥ "कुसुमशयनं न प्रत्यग्रं" इत्यत्र नायिका विरहजन्यखेदेनोपहितस्य हृदयस्य सद्भावात्सर्वं प्रतीपमिवासीत्, तचैव सर्व इह प्रेयसीसमागममहिम्ना हृदयस्योल्लसितवादनुकूलमिव जातमिति वर्णनात् महाकविना नायकस्य स्वमनोभावमनुरुध्यैव निसर्गस्यापि प्रतीपाप्रतीपत्वकल्पनात् सविशेषतया सहृदयत्वं गमितमिति विपश्चिद्भिरुद्भावनीयम् ।
अत्र विरहिणः पुरुषस्य याथार्थ्येनावस्थावर्णनात् स्वभावोक्तिरलङ्कारः । यद्यत्तदानीं दुःखं तदेवेदानीं सुखमिति बोधनाय पूर्वार्धे नैकवस्तुप्रदानात् समुच्चयालङ्कारश्च । अत्र माधुर्यम् ।
इदं च वसन्ततिलका वृत्तम् ॥ २० ॥
उर्वशी-(स्वार्जवं प्रकाशयति) चिरकारिका वेलातिलङ्घनकारिणी बहुकालयापिनी वा अस्मि अहं महाराजस्य अपराधा विरुद्धकारिणीत्यर्थः । चिरकालेनायान्त्या मया विरहदुःखजननीत्वात् महाराजस्यापराधो विहितः इत्यर्थः ।
राजा-अयि सुन्दरि हृदयद्राविरूपे! मा मा एवं विचारय ।
१३ विक्र०
यदेवोपनतं दुःखात्सुखं तद्रसवत्तरम् । |
विदूषकः- -भोदि ! सेविदा पदोसरमणीआ चन्दवादा । ता समओ खु दे गेहप्पवेसस्स । [ भवति ! सेविताः प्रदोषरमणीयाश्चन्द्रपादाः । तत्समयः खलु ते गृहप्रवेशस्य ।]
राजा-तेन हि सख्या मार्गमादेशय ।
विदूपकः-इदो इदो भोदी । [इत इतो भवती।]
(इति परिक्रामन्ति ।)
राजा-मुन्दरि ! इयमिदानी मे प्रार्थना ।
उर्वशी-कीरिसी सा? [ कीदृशी सा?]
यदेवेति-यत्सुखं दुःखात् उपनतं उपस्थितं तत् रसवत्तरम् अधिकानन्ददायकं भवति । कठिनदुःखभोगानन्तरं प्राप्यमानं सुखं सविशेषसुखं भवति । यथा तप्तस्य सूर्यातपेन भृशं आयासितस्य पुरुषस्य तरोः च्छाया विशेषतः अधिकतरं निर्वाणाय सुखाय कल्पते। दुःखोत्तरं सुखमधिकं स्वादुतरं सम्पद्यते यथा वृक्षच्छाया तप्तस्य कृते अतिसुखाय भवतीत्येवम् ।
अत्र पूर्वार्धस्योत्तरार्धस्य च बिम्बप्रतिबिम्बभावः यथा दुःखी पूर्वार्धे, परार्द्धे च तप्तः, प्रथमे सुखं, परे तरुच्छाया इत्युपमानोपमेययोर्बिम्बप्रतिबिम्वभावत्वात् दृष्टान्तालङ्कारः । निर्वाणाय विशेषतः, रसवत्तरम् इत्यनयोरेकार्थप्रतिपादकत्वात् वस्तुप्रतिवस्तुभावः एतदंशे च प्रतिवस्तूपमा । खभावोक्तिरलङ्कारश्च । अनेनोर्वशीलामे आनन्दातिशयः इति गुणीभूतमत्र व्यङ्ग्यम् ।
अनुष्टुब् वृत्तम् ॥ २१ ॥
विदूषकः-भवति ! प्रदोषसमये सन्ध्यासमये रमणीयाः मनोहराः भगवतश्चन्द्रमसः पादाः मरीचयः अस्माभिः सेविताः, तदिदानीं ते गेहप्रवेशस्य समयः सम्प्राप्तः । अधुना गृहं प्रति गन्तव्यम् , अतिवर्तते च वेलेति भावः।
इति परिक्रामन्ति गन्तुमुद्यताः भवन्ति ।
राजा-तेन हि गमनवेलायाः समागतत्वात् , तव सखी मार्गमादेशय प्रदर्शय।
विदूषकः :-इत इतः भवती आगच्छतु इति शेषः।
राजा-सुन्दरि प्रिये ! इदानीं अमीप्सितायास्ते लाभे मे इयं प्रार्थना अभ्यर्थना।
उर्वशी-कीदृशी सा इति आज्ञाप्यताम् । राजा-
अनधिगतमनोरथस्य पूर्वं |
(इति निष्क्रान्ताः सर्वे ।)
तृतीयोऽङ्कः।
राजा-अनधिगतेति-अयि सुभ्रु सुष्टु भ्रुवौ यस्य: सा तादृशी अनधिगतोऽलब्धो मनोरथः त्वदवाप्तिरूपाभिलाषो यस्य सः तस्य मम त्रियामा रात्रिः शतगुणितेव गता । एका रात्रिः दुःखितत्वात् मया शतरात्रिसमा यापिता ।सैव रात्रिः यदि तवाधुना समागमे तथैव शतरात्रिपर्यन्तं प्रसरति विस्तृता भवेत्तदा अहं कृती कृतार्थः भवेयं स्याम् । या रात्रिः पूर्वं अनेकरात्रिविस्तृता मयि प्रतिभाति स्म सैवेदानीं सुखसमयेऽपि तादृशी एव विस्तृता स्यात्तदा कृती सुखी च भवेयम् । अत्र सुभ्रुपदप्रदानेन भ्रुकुटौ कामचापलकल्पनायाः सद्भावात् त्वद्विरहे समधिकत्रासत्वापत्तिप्रदर्शनम् तेन च शतरात्रिसमा एका रात्रिरिति बोधने सौकर्यमेव । अत्र प्रार्थनयानया राज्ञो मनसि उत्कण्ठादर्शनात् सूचनोत्तराङ्ककथोपयोगित्वाच्च बिन्दुरित्यवगन्तव्यम्-यदुक्तं “अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम्"। अत्र प्रार्थना नाम गर्भसन्ध्यङ्गमुक्तं भवति-यदुच्यते-“रतिहोत्सवानां तु प्रार्थनं प्रार्थना भवेदिति"।
अत्र पुष्पिताग्रा वृत्तम् "पुष्पिताग्रा नौर्यौ नञौ ज्रौग् " यस्य प्रथमे पादे नकारौ रेफयकारौ, द्वितीये च नकारञकारौ जकाररेफौ गकारश्च तद्वृत्तं पुष्पिताग्रा नाम । अर्धसममिदं वृत्तम् ॥ २२ ॥
(इति निष्कान्ताः सर्वे ।)
॥ इति तृतीयोऽङ्कः ॥
इति श्रीमत्प्रमोदमोदमानमानसरसाविभक्तभगवल्लीलाललितकीर्तनकुतूहलस्वानन्दसक्तभक्तगोष्ठीगरिष्ठाणां रामानुजार्यकैङ्कर्यधुरीणानां प्रखरकिरणकरप्रतिभतेजः प्रकरप्रभाकराणां कविपण्डितेन्द्रमण्डलालङ्कारहीराणां अजस्रप्रणामारुणितवन्दारुराजन्यवृन्दमुकुटमौक्तिकपूज्यपदारविन्दद्वन्द्वानां रसिकतारसनिधीनां तोताद्रिविज्ञानविभवपीठाधीशानामाचार्यवर्याणां न्यायवेदवेदान्तमीमांसाद्यखिलनिगमागममन्थानशेमुषीकाणां विज्ञानविभूषणपदधारिणां स्वामिनां इन्दूरपुराभरणानां श्रीकृष्णाचार्याणाम् तनूभवेन सहृदयताजलधिकौस्तुभेन एम्. ए. काव्यतीर्थ साहित्यविशारदाद्यनेकोपाधिसमल्लसितेन सुरेन्द्रनाथशास्त्रिणा विरचितायां विक्रमोवंशीसञ्जीविकायाम् कल्पलतासमाख्यायाम् व्याख्यायाम् तृतीयाङ्कविकासः॥